सामग्री पर जाएँ

निरुत्तरतन्त्रम्/दशमः पटलः

दशमः पटलः

श्रीदेव्युवाच -

शक्तिर्नाना विद्या प्राक्ता संशयो जायते सदा ।

कुलीनां कीदृशीं देवीं ब्राह्मणः पूजयेत् सदा ॥

श्रीशिव उवाच --

सर्व-जात्युद्भवा शक्तिर्योगिभिः पूज्यते सदा ।

यां यां पश्यति योगोन्द्रस्तां तामेव प्रपूजयेत् ॥

वीर-शक्तिविशेषेण शृणुष्व वर-र्वाणनि !

पुरश्चर्या कृता वोराः प्रशस्ता वीर-साधने ॥

पुरश्वर्या-विहीनाश्चेन्न योज्याः कुल-साधने ।

योज्यश्चेत् सिद्धि-हानिः स्याद् रौरवं नरकं व्रजेत् ॥

वीर-र्शाक्त विना देवि ! न कुर्यात् कुल-साधनं ।

तदभावे होन-जातौ प्रशस्ता वीर-साधने ॥

पञ्च-चक्रे प्रशस्ता यास्ताः शृणुष्व वरानने !

चक्रं पञ्च-विधं प्रोक्तं तत्र र्शाक्त प्रपूजयेत् ॥

राज-चक्रं महा-चक्र देव-चक्रं तृतीयकं ।

वोर-चक्रं चतुर्थ च पशु-चक्रं च पञ्चमं ॥

ब्रह्मचारो गृहस्थश्च पञ्च-चक्रे प्रपूजयेत् ।।

वलीयसी च देवेशि ! वोर-चक्रे प्रपूजयेत् ।

ब्रह्मचारी गृहस्थश्च वीर-चक्रेण पूजयेत् ॥

योगिभिः पूज्यते देवि ! सर्व-चक्रेषु कामिनी ।

माता च भगिनी चैव दुहिता च स्नुषा तथा ।।

गुरु-पत्नी च पञ्चैता राज-चक्रे प्रपूजयेत् ।

गौरी वाप्यथवा साध्वी सुरा शस्ता कुलेश्वरी ॥

शुद्धिश्छागोद्भवा शस्ता तृतीया बेद-सम्भवा ।

मुद्रा गोधूमजा शस्ता स्वयम्भू-कुसुमस्तथा ।।

कुण्ड-गोलोद्भवं द्रव्यं अनुकल्पं नियोजयेत् ।

रक्त-चन्दनं तथा श्वेतमनुकल्पं च चन्दनं ॥

वस्त्रालङ्कार-भूषाद्यैर्गन्ध-माल्यानुलेपनं।

पूजयेत् परया भक्त्या देवताभ्यो निवेदयेत् ॥

भक्ष्यं नाना-विधं द्रव्यं नाना-वस्त्र-समन्वितं ।

आसवं शुद्धि-संयुक्तं ताभ्यो दद्यात् पुनः पुनः ।॥

प्रणम्य प्रजपेन्मन्त्रं दृष्ट्वा ताश्च सहस्रकं ।

अङ्ग नैव स्पृशेत् तासां स्पृशेच्च नरकं व्रजेत् ॥

मधु-मत्ता यदा तास्तु न स्वपन्ति सुसम्पदः ।

तत्तदैवं भवेत् सर्वं सत्यं सत्यं न संशयः ।॥

महीयते । षष्टि-वर्ष-सहस्राणि ब्रह्म-लोके

माता भग्नी स्नुषा कन्या वोर-पत्नी कुलेश्वरि ।।

महा-चक्रे यजेदेताः पञ्च-शक्तीः पुनः पुनः ।

द्रव्या-दाने तु सम्पूज्या न शक्तौ शिव-योजनं ।॥

योजयेत सिद्धि-हानिः स्याद् रौरवं नरकं व्रजेत् ।

महा-व्याधिर्भवेद् देवि ! धन-हानिः प्रजायते ।।

सदैव दुःखमाप्नोति सर्वं तस्य विनश्यति ।

आद्यं च गौड़िकं प्रोक्तं द्वितीयं कुक्कुटोद्भवं ।

तृतीयं रोहितं प्रोक्तं चतुर्थं माष-सम्भवं ।

करवोरोद्भवं पुष्पं चन्दनं रक्त-चन्दनं ।।

पूजयेत् परया भक्त्या शिव-लोके महीयते ।

षष्टि-वर्ष-सहस्राणि तत्र देवीं प्रपूजयेत् ।।

अष्टम्यां च चतुर्दश्यां अमायां च कुजेऽहनि ।

राज-चक्रे महा-चक्रे भक्त्या शक्तीः प्रपूजयेत् ॥

शुक्ल-पक्षे गुरोर्वारे चतुर्थी-सप्तमी तिथौ ।

महा-चक्रे यजेद् भक्त्या सर्व-कामार्थ-सिद्धये ।।

देव-चक्रं प्रवक्ष्यामि शृणुष्व वर-र्वाणनि !

विदग्धा सर्व-जातीनां पञ्च-कन्याः प्रकीर्तिताः ॥

गौडिकं फलजं रम्यं द्वितीयं पक्षि-सम्भवं ।

तृतीयं शाल-मत्स्यं तु चतुर्थ धान्य-सम्भवं ॥

सुगन्धि-गन्ध-पुष्पं च देव-चक्रे नियोजयेत् ।

देव-चक्रे यजेच्छुक्त देव-लोके महीयते ॥

षष्टि-वर्ष-सहस्राणि देव-कन्याः प्रपूजयेत् ।

कदाचन ।। पञ्च-कन्या यजेच्चक्रे नातिरिक्तां

लोभाद्वा कामतो वापि छलाद्वा वर-र्वाणनि !

यदि स्यात् सङ्गमं तासां रौरवं नरकं व्रजेत् ॥

अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ।

पितृ-भूमि समागम्य वीर-चक्रे प्रपूजयेत् ।।

दिव्य-वीरान्वितो मन्त्रो यजेच्छक्ति बलीयसीं ।

श्रीदेव्युवाच -

मात्रादयः पञ्च-कन्या यतीनां च कथं प्रभो ?

श्रीशिव उवाच-

मात्रादयः पञ्च-कन्या होन-जातायते प्रिये !

चतुर्वर्णोद्भवां वेश्यां विशेषेण बलीयसीं ।।

भूमीन्द्र-कन्यका माता दुहिता रजकी-सुता ।

श्वपची च स्वसा ज्ञेया कापाली च स्नुषा स्मृता ॥

योगिनी निज-र्शाक्तः स्यात् पञ्च-कन्याः प्रकीर्तिताः ।

गुरोः समीपे कतव्यमथवा भ्रातृभिः सह ॥

सिद्ध-मन्त्री भवेद् वोरो न वीरो मद्य-पानतः ।

अभिषिक्तो भवेद् वीरो अभिषिक्ता च कौलिको ॥

एवं च वीर-शक्ति च बोर-चक्रे नियोजयेत् ।

क्रम-सङ्केतकं चैव पूजा-सङ्घ तमेव च ॥

मन्त्र-सङ्केतकं चैव यन्त्र-सद्धू तकं तथा ।

लिखनं मन्त्र-यन्त्राणां सङ्कतं गुरु-मार्गतः ॥

सङ्केतज्ञं विना वीरं यदि चक्रे नियोजयेत् ।

निष्फलं पूजनं देवि ! दुःखं तस्य पदे पदे ॥

सङ्केतहोनो यो वोरो नाभिषेकी गुरुः क्रमात् ।

कुल-भ्रष्टः स पापिष्ठस्तं त्यजेद् वीर-चक्रके ॥

नाभिषिक्तो वसेच्चक्रे नाभिषिक्ता च कौलिकी ।

वसेच्च रौरवं याति सत्यं सत्यं न संशयः ॥

एवं क्रमं विना देवि ! वीर-चक्रे वसेद् यदि ।

सिद्धि-हानिं सिद्धि-हानि रौरवं नरकं व्रजेत् ॥

सर्व-मद्यं सर्व-शुद्धिं सर्व-मीनं कुलेश्वरि !

सर्व-मुद्रां सर्व-पुष्प स्वयम्भू-कुसुमं तथा ।।

कुण्ड-गोलोद्भवं द्रव्यं नाना-रस-समन्वितं ॥

प्रदद्यात् साधक-श्रेष्ठो वोर-चक्रे पुनः पुनः ।।

स्व-शक्ति पूजयेत् तत्र तदुच्छिष्टं पिबेत् प्रिये !

चव्यं च ज्येष्ठतो ग्राह्य कनिष्ठाय निवेदयेत् ॥

एकासने न भुञ्जीत भोजनं नैक-भाजने ।

परस्परमुप-स्पर्श न कर्तव्यं कदाचन ।।

एवं क्रमेण देवेशि ! वीर-चक्रं समाचरेत् ।

आनीय हीनजां देवीं शक्ति-मन्त्रेण शोधयेत् ॥

संशोध्य हीनजां पूजां वीर-शक्तिं निवेदयेत् ।

मधु-सक्ताय वीराय यो दद्याद् हीनजां सुतां ॥

वक्त्र-कोटि-सहस्रेण तस्य पुण्यं न गद्यते ।

वीराय शक्ति-दानं तु वीर-चक्रे विधीयते ॥

चक्र-भिन्ने चरेद् दानं रौरवं नरकं व्रजेत् ।

घातयेद् गोपयेद्वापि न निन्देन्न निरीक्षयेत् ॥

कामं क्रोधं च मात्सर्य विकारं लोभमेव च ।

कुत्सा निन्दा दुरालापं गोपयेदष्टकं प्रिये ॥

मन्त्रं मुद्रामक्ष-मालां योनि च वीर-सङ्गमं ।

मण्डलं च घटं पीठं सिद्धि-द्रव्याणि गोपयेत् ॥

पण्डितं वोर-सन्तानं क्षेत्रं देवीं च योगिनीं ।

कुलाचारं गुरु-दूतीं मनसापि न निन्दयेत् ॥

मातृ-योनि पशु-क्रीडां नग्नां स्त्रीमुन्नत स्तनीं ।

कान्तेन क्षोभितां कान्तां कामतो नावलोकयेत् ॥

देवीं गुरुं, सुधां विद्यां श्रेष्ठां शक्तिं क्रियात्मजां ।

योगिनों भैरवी-तत्त्वं अष्ट तत्त्वं प्रपूजयेत् ॥

विमाता दुहिता भग्नी स्नुषा पत्नी च पञ्चमी ।

पशु-चक्रे यजेद् धीमान् पशुवत् तोषणं चरेत् ॥

गन्ध-पुष्पं च माल्यं च वस्त्राद्याभरणानि च ।

सिन्दूरागुरु-कस्तूरी नाना पुष्पाणि सुन्दरि ॥

भक्ष्यं नाना-विधं द्रव्यं फलं नाना-विधं प्रिये !

एतद्-द्रव्य-गणं यस्तु भक्त्या ताभ्यो निवेदयेत् ।।

षष्टि-वर्ष-सहस्राणि क्षितौ राजा भवेद् ध्रुवं ।

बीर-चक्रे मन्त्र-सिद्धिर्भवत्येव न संशयः ।

अमावास्यां चतुर्दश्यां पक्षयोरुभयोरपि ।

श्मशानेन गतेनार्चेत् सूचितं न प्रकाशितं ॥

।। इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे दशमः पटलः ॥