सामग्री पर जाएँ

निरुत्तरतन्त्रम्/त्रयोदशः पटलः

त्रयोदशः पटलः

श्रीदेव्युवाच -

तासां च सिद्धि-विद्यानां यस्या या याः प्रपूजिताः ।

तास्ताः शक्ति-विशेषेण कथयस्व मयि प्रभो ॥

श्रीशिव उवाच -

कुलं च सर्व-जातीनां कुलीनानां कुलार्चने ।

सिद्ध-विद्या-विशेषेण सिद्धिदा कुल-पूजने ॥

श्यामा-विद्या न सिद्धयन्ति नापिताङ्गनया विना ।

तारा-विद्या न सिद्धयन्ति चाण्डाली-गमनं विना ।

श्रीविद्या च न सिद्धयन्ति ब्राह्मणी-गमनं विना ।

छिन्नमस्ता न सिद्धयन्ति कापाली-गमनं विना ॥

सिद्ध-विद्या न सिद्धचन्ति भूमीन्द्र-तनयां विना।

जल-कान्त-गृहे देवि ! भैरवी च सुसिद्ध्यति।

मध्यमा रहिता प्रोक्ता विहिता द्रुत-सिद्धिदा ।

साधयेद् रजनीं सर्वां ब्राह्मणीं यवनीं विनां ।

सर्वावस्थां परित्यज्य साधयेद् द्विजजां द्विजः ।

राज-राजेश्वरी साक्षात् द्विजजा-रूप-धारिणी ॥

द्विजजा-तोषणादेव द्रुतं सिद्धयति सुन्दरि !

श्रेष्ठ-वर्णोद्भवां रम्भां साधने नैव साधयेत् ॥

साधयेत् सिद्धि-हानिः स्याद् रौरवं नरकं व्रजेत् ॥

अथान्यत् सम्प्रवक्ष्यामि रजनीं साधनान्तरां ।

यस्मिन् कृते भवेत् सिद्धिर्देवानामपि दुर्लभा ॥

रजनी-द्वि-गुणं वीक्ष्य सहस्रं यदि साधकः ।

पञ्चाशद्-दिवसं यावत् तावच्च प्रत्यहं जपेत् ॥

सम्पूज्य रजनीं भूमिं सङ्गम्य प्रजपेन्मनुं ।

तदा वादी सुसिद्धः स्याज्जपेत् क्षिति-तनुं विशेत् ॥

पर्वते हस्तमारोप्य शतशः शुद्ध-भावतः ।

कवितां लभते धीमान् देवी-लोकं मृते व्रजेत् ।।

पद्म-मध्यं तथा बिम्बं खञ्जनं शिखरं तथा ।

चामरं वारि-बिम्बं च तिल-पुष्पं सरोरुहं ॥

त्रि-सूत्रं वीक्ष्य सञ्जप्य शतशः शुद्ध-भावतः ।

स सर्व-रजनी-नाथः कलौ कल्प-लता भुवि ॥

सम्पूज्य रजनी-गेहं मनुं तत्रैव संलिखेत् ।

कलां वा कण-मात्रेण देवीं ध्यात्वा पुनर्यजेत् ।।

तदुद्भवेन पुष्पेण पूजयेद् भक्ति-भावतः ।

स याति शिवतां भूमौ कुल-द्रुम-गतः शुचिः ॥

ब्रह्म-तरौ महा-पद्ये ध्यात्वा देवीं प्रपूजयेत् ।

तत्सुधा-सार-सारेण तर्पयेन्मातृका-मुखे ।।

कला-पूजा-क्रमेणैव रजनी वेष्टिते यदि ।

महा-निशि जपेन्मन्त्रं ध्रुवं मोक्षं स चार्हति ॥

तिथि-क्रमेण कामेन रजनी-वेष्टिता जपेत् ।

तदा मासेन सिद्धिः स्यात् सहस्र-जप-मानतः ॥

अष्टम्यां च चतुर्दश्यां द्वि-गुणं- यदि दृश्यते ।

मन्त्रं कलान्तरे देवि ! लिखित्वा कुकुमेन च ॥

तत्पार्श्वे साध्यमालिख्य ताडयेत् सृष्टि-वृष्टिभिः ।

साध्य-सूक्त जपेत् तत्र कामार्ता तत्त्र लभ्यते ।।

तन पूजां चरेद् धोमान् महा-चोन-क्रमेण च ।

ग्रामे पातालके रम्ये श्मशाने प्रान्तरेऽपि वा ।।

विलिख्य यन्त्र-मन्त्रं च कामाख्यायां प्रपूजयेत् ।

तदा राज्यमवाप्नोति इहैव कुल-सुन्दरि ॥

मृते च मोक्षमाप्नोति सत्यं सत्यं न संशयः ।

रजो-मूले रजन्यां तु यो याति बिल्व-पत्रकैः ।।

देवीमभ्यर्च्य सहस्रं तु प्रजपेत् पितृ-कानने ।

तदा राज्यमवाप्नोति यदि वा न पलायते ।।

चितायां रजनी-गेहे सङ्गम्य च जपेन्मनुं ।

यं यं कामयते कामं तं तमेव ध्रुवं लभेत् ॥

पुनश्च तत्र सम्पूज्य स्वयम्भू-कुसुमेन च।

इहैव जायते सौख्यमन्ते च मोक्षमाप्नुयात् ॥

महा-भूतादिने नक्तं श्मशाने रजनी-युतः ।

सहस्त्रैक-प्रमाणेन किं न सिद्धयति भू-तले ॥

रजनी-रजसा देवि ! पिण्डं च परि-कल्पयेत् ।

यन्नाम्ना दीयते पिण्डं न गच्छेत् स यमालयं ॥

रजनी-वेष्टनादेव यत्फलं लभते प्रिये !

तस्यापि षोडशांशं च चरेन्मार्गेण लभ्यते ।।

शवासनाधिक-फलं लता-गेहे प्रवेशनं ।

तस्यापि षोडशांशं च कलां नार्हन्ति ते शवाः ॥

।॥ इति श्रीनिरुत्तर-तन्त्र पार्वती-शिव-सम्वादे त्रयोदशः पटलः ।।