सामग्री पर जाएँ

निरुत्तरतन्त्रम्/तृतीयः पटलः

तृतीयः पटलः

श्रीदेव्युवाच -

भगवन् ! सर्व-देवेश ! सर्व-भूत-नमस्कृत ।

सर्व से कथितं देव! कवचं न प्रकाशितं ॥

कथयस्व सुर-श्रेष्ठ ! यदि स्नेहोऽस्ति मां प्रति ॥

श्रीशिव उवाच-

सिद्ध-काली शिरः पातु ललाटं पातु दक्षिणा ।

काली मुखं सदा पातु कपाली पातु चक्षुषी ॥

कुल्ला गण्डौ सदा पातु वदनं कुरु-कुल्लिका ।

विरोधिन्यधरं पातु चिबुकं विप्र-चित्तिका ॥

उग्रा करणों सदा पातु नासामुग्र-प्रभा तथा ।

कण्ठं दीप्ता सदा पातु ग्रीवां नीला प्रभावतु ॥

वक्षः-स्थलं पातु घना पृष्ठं मात्रा सदावतु ॥

मुद्रा नाभि सदा पातु मिता लिङ्ग सदावतु ।

रति-प्रिया लिङ्ग-मूलं गुह्यं शिव-प्रियावतु ।

अरुणा तालु-मूलं हि रसनां तरुणा तथा ।।

महा-काल-प्रिया जानु विकटा पातु जङ्घयोः ।

श्मशान-वासिनी भार्यां पुत्त्रं पातु दिगम्बरी ॥

भवनं मत्त-हासा च मातरं मे सुरेश्वरी ।

राज-स्थानं घोर-रावा सततं पातु कालिका ।।

धर्म पातु घोर-रूपा श्रधर्म मुण्ड-मालिनी ।

कर-काञ्ची पातु नित्यं कालिका सर्वदावतु ।।

काम-वीज-त्रयं पातु नाभितः पादमेव च ।

कूर्च-बीज-युगं पातु सदा से नाभि-देशतः ।।

शक्ति-वीज-द्वयं पातु ब्रह्मरन्ध्राननं पुनः ।

काम-बीज-द्वयं पातु पूर्वस्यां दिशि सर्वदा ॥

कूर्च-वीज-युगं पातु दक्षिणस्यां सदावतु ।

शक्ति-बीज-युगं पातु प्रतीच्यां सर्वदा शुभा ॥

वह्नि-जाया चोत्तरस्यां दिशि पातु च मां सदा ।

विद्या-राज्ञो च सर्वासामनिरुद्ध-सरस्वती ।।

कालिका-कवचं दिव्यं यः पठेद् यत्नतः सुधीः ।

भूत-प्रेत-पिशाचाद्याः कूष्माण्डा राक्षसा ग्रहाः ।

तस्य दूरात् पलायन्ते सत्यं सत्यं न संशयः ॥

श्रीदेव्युवाच -

शङ्करो यां स्तुति कृत्वा सर्व-सिद्धोश्वरोऽभवत् ।

तां मे कथय देवेशि ! यदि स्नेहोऽस्ति मां प्रति ॥

श्रीशिव उवाच-

हुँ हुँ कारे शवारूढे नील-नीरज-लोचने !

त्रैलोक्यक-मुखे दिव्ये कालिकायै नमोऽस्तु ते ॥

प्रत्यालीढ-पदे घोरे मुण्ड-माला-प्रलम्बिते !

खर्वे लम्बोदरे भोमे कालिकायै नमोऽस्तु ते ॥

नव-यौवन-सम्पन्ने गज-कुम्भापम-स्तनि !

वानीश्वरि शिवे शान्ते कालिकायै नमोऽस्तु ते ।।

ललज्जिह्व हरालोके नेत्र-त्रितय-भूषिते !

घोर-हास्योत्करे देवि कालिकायै नमोऽस्तु ते ॥

व्याघ्र-चर्माम्बर-धरे खङ्ग-कर्ची-करे धरे !

कपालेन्दोवरे वामे कालिकायै नमोस्तु ते ॥

नीलोत्पल-जटा-भारे सिन्दूरेन्दु-मुखोद्वये !

स्फुरद्-चक्त्रोष्ठ-दशने कालिकायै नमोऽस्तु ते ॥

प्रलयानला-धूत्राभे चन्द्र-सूर्याग्नि-लोचने !

शैल-वासे शुभे मातः कालिकायै नमोस्तु ते ।।

ब्रह्म-शम्भु-जलौघे च शव-मध्य-प्रसंस्थिते !

प्रेत-कोटि-समायुक्ते कालिकाये नमोऽस्तु ते ।।

कृपा-मयि हरे मातः सर्वाशा-परिपूरिते !

वरदे भोगदे मोक्षे कालिकायै नमोऽस्तु ते ।।

इत्येतत् कालिका-स्तोत्रं यः पठेद् भक्ति-संयुतः ।

कृत-कृत्यो भवेन्मन्त्री नात्र कार्या विचारणा ।।

।। इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे तृतीय पटलः ।।