सामग्री पर जाएँ

निरुत्तरतन्त्रम्/चतुर्दशः पटलः

चतुर्दशः पटलः

श्रीदेव्युवाच -

वेश्या च कीदृशी देव ! प्रशस्ता कुल-पूजने ?

कस्याः संसर्ग-मात्रेण श्रेष्ठो भवति साधकः ॥

नाना-कुल-गता वेश्या कथं शस्ता कुलार्चने ?

श्रीशिव उवाच -

गुप्त-वेश्या महा-वेश्या कुल-वेश्या महोदया ।

राज-वेश्या देव-वेश्या ब्रह्म-वेश्या च सप्तधा ॥

कुलजा गुप्त-वेश्या स्यान्निर्लज्जा मदनातुरा ।

पशु-भर्ताश्रिता लोके गुप्त-वेश्या प्रकीर्तिता ।

कुलजा कुल-वेश्या च महा-वेश्या प्रकीर्तिता ।

महा-वेश्या कुलेशानि ! स्वेच्छ्या च दिगम्बरी ॥

कुल-वेश्या कुलीना च वीर-पत्नी कुलेश्वरि !

महोदया समाख्याता स्वेच्छ्या विपरीतगा ॥

राज-वद् या च वेश्या स्याद् राज-वेश्या प्रकीर्तिता ।

देवं संयोज्य चक्रे च जप्त्वा तु विन्दु-पातनं ॥

भग-लिङ्ग-कपाले च चुम्बयेच्च पुनः पुनः ।

एवं-विधा कुलोना चेद् ब्रह्म-वेश्या प्रकीर्तिता ॥

दिव्य-शक्तिर्वीर-शक्तिस्तासां संज्ञा प्रकीर्तिता ।

चतुर्वर्णोद्भवानां च संज्ञिताः परिभाषिताः ।।

वेश्या-वद् भ्रमते यस्मात् तस्माद् वेश्या प्रकीर्तिता ।

वर्ण-सङ्करतो जाता सर्व-वेश्याः प्रकीर्तिताः ।।

कुल-मार्गे प्रवृत्ता या सा वेश्या मोक्ष-दायिनी ।

चुम्बनालिङ्गनाधातं रति-विग्रह-दर्शनं ।।

आमन्त्रणं त्रि-सन्ध्यं च भग-लिङ्गस्य कीर्तनं ।

वेश्यानां च जपाङ्गेदं शङ्करेण पुरोदितं ॥

जपाङ्गेन विना वेश्या न कुर्यात् स्थिर-सङ्गमं ।

जपाङ्ग प्रत्यहं कुर्यात् सा शिवः सह मोदिता ॥

निशायां प्रजपेन्मन्त्रं स्वयम्भू-शिव-योगातः ।

वेश्यानां जप-मात्रं तु पुरश्चरणमुच्यते ॥

विपरीता जपेन्मन्त्रं सा काली नात्र संशयः ।

योषितां मन्त्र-सिद्धिः स्याद् विपरीत रतौ प्रिये ॥

विपरीत-रतौ जप्त्वा 4 सर्व-सम्पत्तिमालभेत् ।

विपरोत-रतौ जप्त्वा निर्वाण-पदवीं व्रजेत् ॥

विपरीत-रतौ जप्त्वा काली-वद् विहरेत् भुवि ।

विपरीत-रता काली विपरीता च तारिणी ॥

विपरीता च या वेश्या सा काली नात्र संशयः ।

योषिद-विद्या न सिद्धचन्ति विपरीतरतिं विना ।।

विपरीत-रता वेश्या त्रिषु लोकेषु पूजिता ।

गाढमालिङ्गनं दत्त्वा चुम्बयित्वा पुनः पुनः ॥

एवं-विधा पुरश्चर्या वेश्यायाश्च कुलेश्वरि ॥

कटाक्षैर्दर्शयेद् यन्त्रं दक्षिणा कौलिकीरिता ।

एवं-विधा भवेद् वेश्या न वेश्या कुलटा प्रिये !

कुलटा-सङ्ग‌मादेव रौरवं नरकं व्रजेत् ॥

वीर-शक्तिर्भवेद् वेश्या सा शस्ता स्व-स्व-साधने ।

पुरश्चर्याश्च ता वेश्या योजयेत् कुल-साधने ॥

शिव-लिङ्ग-गता साध्वी शिव-लिङ्ग-गता सती ।

शिव-लिङ्ग-गता वेश्या कीर्तिता सा पतिव्रता ॥

योनिश्च जनिका माता निङ्गश्व जनकः पिता ।

विभाव्य पितरौ भावं उभयोः परि-चिन्तनं ॥

लिङ्ग-रूपो महा कालो योनि-रूपा च कालिका ।

तयोर्योग-परा धन्या तयोर्योग-परो महान् ॥

स्व-भैरवं विना वेश्या शिव-पूजां करोति या ।

रौरवे नरके घोरे वसेदाहूत-सम्प्लवं ॥

स्व-भैरवीं विना वीरो मनसा नैव संस्मरेत् ।

स्मरेच्च नरकं याति महा-व्याधि-परो भवेत् ॥

नाना-वीराश्रिता वेश्या पशु-वेश्या कुलेश्वरि !

सा वेश्या नरकं याति सत्यं सत्यं न संशयः ॥

कामाद्वा लोभतो वापि धनाद्वा वर-र्वाणनि !

नाना-वीराश्रिता वेश्या वेश्या च नरकं व्रजेत् ॥

धनाद्वा कामतो वापि लोभाद्वा कुल-सुन्दरि !

पशु-सङ्ग-गता वेश्या सा वेश्या नरकं व्रजेत् ॥

नाना-वीराश्रिता वेश्या पशु-सङ्ग-गता च या ।

वर्जनीया प्रयत्नेन कुल-साधन-कर्मणि ॥

योज्या चेत् सिद्धि-हानिः स्याद् भ्रष्ट-वेश्या कुलार्चने ।

रोगः शोको भवेत् तस्य धन-हानिः क्षणे क्षणे ॥

तस्मात् सर्व-प्रयत्नेन स्व-शिवं च समाश्रयेत् ।

जप-पूजादिकं वेश्या स्व-शिवे परि-कल्पयेत् ॥

पुष्पिता काममापन्ना सदा रमणमिच्छुका ।

सर्व-सिद्धि-प्रदा वेश्या कालिका-रूप-धारिणी ॥

पितृ-भूमिः समाख्याता सदाशिव-निवासिनो ।

शिव एव नरो ज्ञेयो लिङ्ग-रूप-धरो यतः ॥

शिव-स्थानं श्मशानं स्यात् श्मशानं कुलजं गृहं ।

अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ।।

श्मशाने नागते नार्चेत् अवश्यं पशु-वद्भवेत् ।

तन्मन्त्रं पूजितं येन सर्व-मन्त्रं प्रपूजितम् ॥

तत्र सञ्जप्य देवेशि ! निर्वाण-पदवीं व्रजेत् ।

मातृ-मुखे पितृ-मुखं दत्वा जपेत् कालीं सनातनीं ॥

सर्व-पाप-विनिर्मुक्तो निर्वाण-पदवीं व्रजेत् ।

परस्मिन् गुप्त-वेश्या वाप्यथवा कुलीना भवेत् ॥

शुक्रोत्सारण-कालं तु निर्वाणं विद्धि पार्वति !

तत्कालस्तु महा-कालः फल-मार्ग-प्रवेशिनां ।॥

शुक्रोत्सारण-कालं तु कायेन मनसापि वा ।

अङ्ग-भङ्ग-क्रमेणैव कुलीनाय प्रकाशयेत् ॥

शुक्रोत्सारण-कालस्य ज्ञापनात् कालिका स्वयं ।

जपाङ्गे कालिका देवी महा-कालं विमोहयेत् ॥

कुलीना ब्रह्म-वेश्या चेन्नाल्पस्य तपसः फलं ।

बहुना जन्मनामन्ते ब्रह्म-वेश्या प्रजायते ॥

त्वत्समा प्रकृतिः काचिद् यदस्ति भूमि-मण्डले ।

न तथा त्वत्समो शक्तिस्त्रिषु लोकेषु गीयते ॥

सा चैव दक्षिणा काली मदनातुर-विह्वला ।

वेदेभ्यो जायते कर्म कर्मणा बन्धनं भवेत् ।

वैदिकं कर्म सन्त्यज्य सुरतेषु सदा जपेत् ।

आगमोक्त-पतिः शम्भुरागमोक्तः विवाहितः ।

स्व-पतिः कुलजायाश्च न पतिश्च विवाहितः ॥

विवाहित-पति-त्यागे दूषणं न कुलार्चने ॥

विवाहितं पतिं नैव त्यजेद् वेदोक्त-कर्मणि ।

आगमोक्त-पतिस्त्राता आगमोक्त-पतिः शिवः ॥

सिद्ध-विद्या न सिद्धयन्ति आगमोक्त-ति विना ।

आगमोक्त-पतिर्देवि ! योषितां मोक्ष-दायकः ॥

कालीं नैव यजेद् योषिदागमोक्त-पति विना ।

कुलजा गुरवे देवि ! पतित्वे वरणं चरेत् ॥

तदा सा गुप्त-वेश्या स्यात् कुलजा च पति विना ।

गुप्त-वेश्या भवेत् सैव कुल-मार्ग-प्रतिता ।।

कुल-मार्ग-प्रसक्ताया सा मुक्ता नात्र संशयः ।

कुलजा गुस्वे देवि ! यदि न स्यात् पतीच्छुका ॥

तस्याः शिवो महा-कालः सत्यं सत्यं न संशयः ।

षोडशाब्दा सदा सा स्यात् काली विक्रम-तत्परा ।।

तारा पञ्च-दशाब्दा चेत् चतुर्दशाब्दा च सुन्दरी ।

त्रयोदशो चोन्मुखी सा द्वादशाब्दा च भैरवी ॥

एकादश-गुणोपेता ब्रह्म-वेश्या कुलेश्वरि !

महा-साध्वी समाख्याता त्रिषु लोकेषु दुर्लभा ॥

स्वर्गे मत्यें च पाताले या यास्तिष्ठन्ति चाङ्गनाः ।

सर्वासामपि भर्ता च दिव्यो वीरश्च साधकः ॥

योगी दिव्यो यदा वीरः सर्व-नारी-पतिर्भवेत् ।

दिव्योऽपि वीर-भावेन सर्व-जात्युद्भवां यजेत् ॥

गुप्त-वेश्या महा-वेश्या अयोध्या मथुरा प्रिये !

माया च कुल-वेश्या स्यात् महोत्रया च कालिका ॥

राज-वेश्या देव-वेश्या द्वारका परि-कीर्तिता ।

काञ्ची च राज-वेश्या स्याद् देव-वेश्या अवन्तिका ।।

द्वारावती ब्रह्म-वेश्या सप्तैता मोक्ष-दायिका ।

कुलीना भगवती साक्षात् काली तारा सरस्वती ॥

कुलीना भैरवी राधा कुलीना छिन्नमस्तका ।

कुलीना सुन्दरी देवि ! कुलीना महिष-दिनी ॥

कुलीना भुवना बाला कुलीना बगलामुखी ।

धूमावती कुलीना च मातङ्गी कुलीना प्रिये ॥

कुलीना चान्नपूर्णा च त्रिपुटा त्वरिता तथा ।

पतिव्रता कुलीना च सती साध्वी महोदया ॥

कुलीना मन्त्र-तन्त्राणां सिद्धिदा नात्र संशयः ।

कुलजा देव-कन्या च कुलीना योगिनी-गणाः ॥

रम्भोर्वशी रती-रामा तिलोत्तमा कुल-सुन्दरी ।

एताः सर्वाः पृथग् विहरन्ति कुलात्मजाः ।।

कुलजाः कुल-वेश्या याः कुल-धर्म-परायणाः ।

पशु-भर्त्राश्रिता लोका काम-कौतुक-लालसाः ॥

कुल-वर्त्म-क्रमेणैव सदैव रमणोत्सुका ।

विदग्धा वीर-भावेन वोर-गोपन-तत्परा ॥

विहितान्यां हीन-जातां पूजयेदथवा यतः ।

ब्रह्मचारी गृहस्थोऽपि विहितान्यां न चार्चयेत् ।।

अर्चयेत् सिद्धि-हानिः स्याद् दुःखं तस्य पदे पदे ।

हीनजां विहितां वेश्यां मनसा च प्रपूजयेत् ।।

तद्-योगं चिन्तयेद् धीमान् शतमष्टोत्तरं जपेत् ।

जप्त्वा प्रणम्य देवेशि ! भक्ष्य-द्रव्यं निवेदयेत् ॥

कामाद्वा मोहतो वापि हीनजां यदि चेच्छति ।

रौरवं नरकं याति हीनजा-सङ्गमेन च ॥

हीनजा-सङ्गमं देवि ! मनसा न स्मरेत् कलौ ।

कुल-कर्म-प्रवृत्ता या सा मुक्ता नात्र संशयः ।।

कुलजा कुल-वेश्या च वीजमेकं समाश्रयेत् ।

सन्त्यज्य पशु-भर्तारं कुल-मार्गे प्रवेशयेत् ॥

कुल-मार्ग समाश्रित्य वीरमेकं समाश्रयेत् ।

कुल-मार्ग-प्रवृत्ता चेत् पति-हीना भवेद् यदि ॥

कुलजा वा कुलीना वा पर-जन्मनि जायते ।

कुल-धर्म-रता शस्ता कुल-धर्मोत्सुका तथा ॥

पूजार्हा सा महेशानि ! पति-हीना प्रपूजयेत् ।

लोकाचार-क्रमेणैव पूजार्हा लंघिता यदि ।।

तां विहाय कुलेशानि ! कुलजां च प्रपूजयेत् ।

गङ्गा-स्मरण-मात्रेण तथा पाप-क्षयो भवेत् ॥

कुलजा च कुलीनाय मन्त्र-तन्त्र-फल-प्रदा ।

महा-वेश्या भवेत् सैव सर्व-वेश्या फल-प्रदा ॥

यासां च सर्व-विद्यानां प्रशस्ता या कुलार्चने ।

सैव शक्तिविशेषेण सर्व-वेश्याः प्रकीतिताः ॥

कुलीना-दर्शनेनैव सर्व-पाप-क्षयो भवेत् ।

कुलजानां पुरश्रर्या कुलीना-वत् कुलेश्वरि ॥

सर्व-वेश्या होनजा च सर्व-सिद्धि-प्रदायिनो ।

अनेक जन्मनामान्ते कुल-धर्मः प्रवर्तते ॥

फुल-धर्म विना देवि ! न च मोक्षः प्रजायते ।

कुल-पूजां विना देवि ! सुन्दरी नैव सिद्धयति ।।

कुल-पूजां विना देवि ! पञ्चमी नहि सिद्धयति ।

कुल-पूजां विना नैव भैरवी न च सिद्धचति ॥

कुल-पूजां विना देवि ! छिन्नमस्ता न सिद्धयति ।

कुल-पूजां विना देवि ! काली-कुलं न सिद्धयति ॥

कुल-पूजां विना देवि ! तत्त्व-ज्ञानं न जायते ।

तत्व-ज्ञानं विना देवि ! निर्वाणं नैव जायते ॥

निर्वाणं श्रेयसं प्राप्य मम योगं प्रजायते ।

निर्वाणं श्रेयसं चापि मूलं च कुल-मन्दिरं ॥

पञ्चमैः पूजयेत् कालों कुलीनं च कुल-मन्दिरे ।

ब्रह्मा विष्णुश्च रुद्रश्व ईश्वरश्च सदाशिवः ।।

इन्द्रादि दश-दिक्पाला आदित्यादि-नव-ग्रहाः।

असिताङ्गादयो ये ये भैरवाश्र्व सुरादयः ॥

कुल-पूजा-कृताः सर्वे कृतार्थाः कुलीना-गृहे

शक्ति विना महेशानि ! शक्ति-मन्त्रो न सिद्धयति ।

सर्वेषां शक्ति-मन्त्राणां शक्तिः सिद्धि-प्रदायिनी ।

नटी कापालिका वेश्या रजकी नापिताङ्ग‌ना ।

योगिनी श्वपची शौण्डी भूमीन्द्र-तनया तथा ।

गोपिनी मालिका रम्या आसां कार्य-विभेदतः ।॥

चतुर्वर्णोद्भवा रम्या कापालो सा प्रकीर्तिता ।

पूजा-द्रव्यं समालोक्य नृत्य-गीत-परायणा ।।

चतुर्वर्णोद्भवा रम्या सा नटी परि-कीर्तिता ।

पूजा-द्रव्यं समालोक्य वेश्या रमणमिच्छता ।।

चतुर्वर्णोद्भवा रम्या सा वेश्या परि-कीर्तिता ।

पूजा-द्रव्यं समालोक्य रजोऽवस्थां प्रकाशयेत् ।।

सर्व-वर्णोद्भवा रम्या रजकी सा प्रकीर्तिता ।

पूजा-द्रर्व्य समालोक्य कुलजा वीरमाश्रयेत् ॥

सन्त्यज्य पशु-भर्तारं कर्म-चाण्डालिनी स्मृता ।

शिव-शक्ति-समायोगा योगिनी सा व्यवस्थिता ।।

विपरीत-रता पत्यौ पात्रं या परि-पृच्छति ।

सर्व-वर्णोद्भवा रम्या सा शौण्डी परि-कीर्तिता ।

सर्वदा यन्त्र-संस्कारो यस्याश्च परि-जायते ।

सैव भूमीन्द्रजा रम्या सर्व-वर्णोद्भवा प्रिये ॥

अथान्यं गोपयेद् यस्तु सर्वदा पशु-सङ्कटे ।

सर्व-वर्णोद्भवा रम्या गोपिनी सा प्रकीर्तिता ॥

पूजा-द्रव्यं समालोक्य या मनौ परिकीर्तिता ।

सर्व-वर्णोद्भवा रम्या मालिनी सा प्रकीर्तिता ॥

शक्त्यभावे महेशानि ! यासां च काञ्चिदाहरेत् ।

संशोध्य पञ्चमं तत्त्वं तर्पयेत् कुल-सुन्दरि ॥

अंगुष्ठानामिका-योगाद् वाम-हस्तस्य पार्वति!

तर्पयेत् कालिकां वीरः सायुधां परि-वाहनां ॥

अंगुष्ठो भैरवो देवः अनामा शक्तिरुच्यते ।

शिव-शक्ति-समायोगात् तर्पयेद् देवि ! दक्षिणां ॥

तर्पणं त्रिविधं देवि ! श्रेष्ठं मध्यं कनीयसं ।

श्रेष्ठं च दिव्य-भावस्य वीर-भावस्य मध्यमं ॥

कनीयांसं पशूनां च हृदि यन्त्रे जले क्रमात् ॥

।। इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे चतुर्दशः पटलः ।।