सामग्री पर जाएँ

निरुत्तरतन्त्रम्/अष्टमः पटलः

विकिस्रोतः तः

अष्टमः पटलः

श्रीशिव उवाच -

शिव-शक्तिं च सम्पूज्य स्थापयेद् घटमुत्तमम् ।

नाति-ह्रस्वं नाति-दोर्घं स्वर्णरौप्यविनिमितम् ॥

विशेषार्घ्यस्य यन्त्रे वा त्रिकोणे वापि विन्यसेत् ।

काम-बीजेन सम्प्रोक्ष्य वाग्भवेनैव ताडयेत् ॥

शक्त्याधारे समारोप्य मायया पूरणं जलैः ।

मन्त्रेणानेन तीर्थानि देशिकस्तु प्रविन्यसेत् ॥

ॐ गङ्गाद्याः सरितः सर्वाः समुद्राश्व सरांसि च ।

सर्वे समुद्राः सरितः सरांसि च जलाह्रदाः ॥

ह्रदाः प्रस्रवणाः पुण्याः स्वर्ग-पाताल-भूषिताः ।

सर्व-तीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् ।।

श्री-बीजेन प्रजप्तेन पल्लवं प्रतिपादयेत् ।

कूर्चेन फल-दानं स्यात् स्त्री-बीजेन स्थिराचरेत् ।।

सिन्दूरः वह्नि-बीजेन पुष्पं प्रेतेन विन्यसेत् ।

मूलेन प्रणवेनापि दूर्वां दद्याद् विचक्षणः ॥

हूँ फट् स्वाहेति मन्त्रेण कुर्याद् दर्भेण ताडनम् ।

विचिन्त्य देवीं पीठं च तत्रावाह्य प्रपूजयेत् ॥

अनेनैव विधानेन सर्व-कर्मसु सुन्दरि !

घटं स्थाप्य यजेद् देवि ! षट्-कर्मसु विशेषतः ।।

महा-पूजां चरेद् धीमान् षोडशैरुपचारकैः ।

गुरूणां च महा-पूजा शक्तीनां च ततः परम् ॥

तत्पश्चात् साधकानां च कुर्याच्च परि-पूजनम् ।

कुमारीभ्यो बलिं दत्वा कुलजाभ्यो विशेषतः ।।

अभिषेकं ततो देवि ! कुर्याच्च गुरु-मार्गतः ।

स्वतन्त्रोक्त-विधानेन मन्त्रमुच्चारणैः सह ।।

चालयेत् तु घटं मन्त्री मन्त्रेणानेन देशिकः ।

उत्तिष्ठ ब्रह्म-कलश ! सेवितोऽशेष-सिद्धिदः ॥

सर्व-तोर्थाम्बु-पूर्णन पूरयामि मनोरथम् ।

ईशानेन्दु-स्मर-क्षौणी तदन्ते भुवनेश्वरी ॥

मन्त्रेणानेन वाद्यानां निर्घोषैश्चानयेद् घटं ।

अभिषिञ्चेद् गुरुः शिष्यं यजमानं पुरोहितः ॥

सिञ्चेद् दुष्ट-ग्रहेऽश्वत्थैः पल्लवैर्भूत-सङ्गमे ।

सिञ्चेदौडुम्बरैर्मन्त्र-दोषे च करवीरजैः ।।

यशो-धनाय तेजस्वी फल-कामे च भूतकैः ।

तुलसी-मञ्जरीभिश्व सर्व-पाप-क्षयाथिभिः ॥

सर्व-तीर्थ-फलावाप्तेः शाक्तानां विल्व-सम्भवैः ।

अभिचारे नासिंहैरभिषेकं प्रचक्ष्यते ।।

कुर्यात् दंर्भेषु गर्भेषु दोषेषु स्वीकृतेषु च ।

असौभाग्येन नारीणां दूर्वाभिः सेचनं चरेत् ॥

(अथवा) सर्व-कार्येषु सिद्धार्थैर्दूर्वया चूत-पल्लवैः ।

अस्याभिषेकस्य दक्षिणामूर्तिम् ऋषिरनुष्टुप्छन्दः,

शक्तिर्देवता सर्व-सङ्कल्प-सिद्ध्यर्थे विनियोगः ।

ॐ राज-राजेश्वरी शक्ति-भैरवी काल-भैरवी ॥

श्मशान-भैरवी देवी त्रिपुरानन्द-भैरवी ।

त्रिपुटा त्रिपुरा-देवी तथा त्रिपुर-सुन्दरी ॥

त्रिपुरेशी महादेवी तथा त्रिपुर-मालिका ।

त्रिपुरा-नन्दिनी देवी तत्रैव त्रिपुरातनी ॥

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

छिन्नमस्ता महादेवी तथा चैकजटेश्वरी ॥

तारा च जयदुर्गा च शूलिनी भुवनेश्वरी ।

हरिताख्या महादेवी तथा च रति-घण्टिका ॥

नित्या च नित्य-रूपा च वज्त्र-प्रस्तारिणी तथा ।

एतास्त्वामभिषिञ्चन्त मन्त्र-पूतेन वारिणा ।।

अश्वारूढा महा-देवी तथा महिष-मर्दिनी ।

दुर्गा च नव-दुर्गा च श्रीदुर्गा भग-मालिनी ॥

तथा भग-देवी देवी भग-क्लिन्नां तथा परा ।

सर्व-चक्रेश्वरी देवी तथा दक्षिण-कालिका ।।

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

क्षेमङ्करी महा-काली चानिरुद्धा सरस्वती ।।

मातङ्गी चान्नपूर्णा च राज-राजेश्वरी तथा ।

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

उग्र-चण्डा प्रचण्डा च चण्डोग्रा चण्ड-नायिका ।

चण्डा चण्ड-वती चैव चण्ड-रूपाति-चण्डिका ॥

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

उग्र-दंष्ट्रा महा-दंष्ट्रा सु-दंष्ट्रा तु कपालिनी ।।

भीम-नेत्रा विशालाक्षी मङ्गला विजया जया ।

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।।

मङ्गला नन्दिनो भद्रा लक्ष्मीः कीतिर्यशस्विनी ।

पुष्टिर्मेधा शिवा साध्वी यशः शोभा जया धृतिः ॥

आनन्दा च सुनन्दा च नन्दिन्यानन्द-पूजिता ।

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ॥

विजया मङ्गला भद्रा स्मृतिः शान्तिः क्षमा धृतिः ।

सिद्धिस्तुष्टी रमा पुष्टिः श्रीः सिद्धिश्व रतिस्तथा ॥

दीप्ता कान्तिर्यशो-लक्ष्मीरीश्वरी बुद्धिरेव च ।

शक्री माया रतिर्बाह्मी जयन्ती चापराजिता ।।

अजिता मानवी श्वेता प्रीतिस्त्वदितिरेव च ।

माया चैव महा-माया मोहिनी क्षोभिणी तथा ॥

कमला विमला गौरी लावण्याम्बुधि-सुन्दरी ।

दुर्गा क्रियारुन्धती च तथैव विग्रहात्मिका ।।

चर्चाचका चापरा ज्ञेया तथैव सुर-पूजिता ।

वैवस्वती च कौमारी तथा माहेश्वरी परा ॥

वैष्णवी च महालक्ष्मीः कातिकी कौशिकी तथा ।

शिव-दूती च चामुण्डा मुण्ड-माला-विभूषिता ॥

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

इन्द्रो-वह्निर्यमश्चैव नैऋतो वरुणस्तथा ।।

पवनो धनदेशानो ब्रह्मानन्दो दिगीश्वराः ।

सम्वत्सराश्चायने च मास-पक्ष-दिनानि च ॥

तिथयश्चाभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

रविः सोमः कुजः सोम्यो गुरुः शुक्रः शनैश्चरः ।।

राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः ।

नक्षत्रं करणं योगोऽमृत-सिद्धिस्ततः परम् ॥

दग्धं पापं तथा भद्रा योगो वाराः क्षणास्तथा ।

वारं-वेला काल-वेला दण्डा राश्यादयस्तथा ॥

अभिषिञ्चन्तु सततं मन्त्र-पूतेन वारिणा ।

असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त-संज्ञकः ॥

कपाली भीषणाख्यश्च संहारोऽष्टौ च भैरवाः ।

एते त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।।

डाकिनो-पुत्रिका चैव राकिणो पुत्रिका तथा ।

ततश्च रङ्किणी-पुत्त्रो देवी-पुत्री ततः परं ॥

मातॄणां च तथा पुत्रो चोर्ध्व-मुख्याः सुताच याः ।

अधोमुख्याः सुताश्चैव व्याल-मुख्याः सुताः पराः ॥

एतास्त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥

एते त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश ।।

आत्मा परात्मा जीवात्मा ज्ञानात्मा परमात्मनः ।

आत्मानश्चात्मनश्चैव स्थल-सूक्ष्माश्च येऽपरे ।।

एते त्वामभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

तन्निकेतनं ।। वेदादि-वीजं हूं वोजं स्त्री-वीजं

शक्ति-वीजं रमा-वीजं सुधा-वीजं च केवलं ।

चिन्ता-रत्नं महा-वीजं नारसिंहं च तारकं ॥

मार्तण्ड-भैरवं दौर्ग-वीजं श्रीपुरुषोत्तमं ।

गाणपत्यं च वाराहं काली-वीजं भयापहं ॥

त्त्वामेवमभिषिञ्चन्तु मन्त्र-पूतेन वारिणा ।

वह्निश्र वह्निजाया च वषट् कूर्चमतः परं ॥

वौषट्-कारं तु फट्-कारमभिषिञ्चन्तु सर्वदा ।

नश्यन्तु प्रेत-कूष्माण्डा राक्षसा दानवाश्च ये ।।

पिशाच-गुह्यका भूता अभिषेकेन र्तापताः ।

अलक्ष्मीः काल-कर्णी च पापानि सुमहान्ति च ॥

नश्यन्तु चाभिषेकेन तारा-वीजेन ताडिताः ।

रोगाः शोकाश्च दारिद्र्यं दौर्बल्यं चित्त-विभ्रमं ॥

नश्यन्तु चाभिषेकेन मन्मथेन च ताडिताः ।

तेजो ह्रासो बुद्धि-हासः शक्ति ह्रासस्तथैव च ॥

नश्यन्तु चाभिषेकेन शक्ति-वीजेन ताडिताः ।

निरामिषा महा-रोगा डाकिन्यो मातरस्तथा ।।

घोराभिचाराः क्रूराश्व ग्रह-नागास्तथैव च ।

नश्यन्तु चाभिषेकेन काली-बीजेन ताडिताः ॥

नश्यन्तु विपदः सर्वे सम्पदः सन्तु सुस्थिराः ।

पूर्णाभिषेके शाक्तानां पूर्णाः सन्तु मनोरथाः ॥

एवमासिञ्च्य शिष्यं तु पुनः पूजां समारभेत् ।

शिष्योऽपि तत्र सम्पूज्य गुरवे दक्षिणां ददेत् ।।

गो भूमिः स्वर्ण-रूप्यं च नाना-रत्नानि पार्वति !

सर्वस्वं वा तदर्द्ध वापि दक्षिणा ।।

श्रीविद्यां सिद्ध-कालीं च तारां वा महिष-दिनीं ।

शिष्याय भक्ति-युक्ताय प्रदद्यात् देशिकः स्वयं ।॥

श्रीविद्यां कालिकां तारां यो जपेत् परमेश्वरों ।

तस्मै नैव प्रदातव्यं आसां मन्त्रं विना प्रिये ॥

प्रणम्य दण्ड-वद् भूमौ ततश्च परि-कल्पयेत् ।

त्रैलोक्ये योषितां नाथ ! कि करोमि वदस्व मे ॥

श्रीगुरुरुवाच -

कुलाचारं च नो वत्न ! सुगोप्यं कुरु सर्वतः ।

स्व-शक्तिं कौलिकीं कृत्वा तत्त्र पूजां प्रकल्पयेत् ॥

सिद्ध-मन्त्रो यजेच्छक्तिं कायेन मनसापि वा ।

पर-योषां विशेषेण सिद्ध-मन्त्री प्रपूजयेत् ॥

एतानि कुल-कर्माणि गुरुभिरुदितानि च ।

यावन्नैव सिद्ध-मन्त्री तावच्च स्व-कुलं व्रजेत् ॥

।। इति श्रीनिरुत्तर-तन्त्रे शिवपार्वती-सम्वादे अष्टमः पटलः ।।