निरुत्तरतन्त्रम्/प्रथमः पटलः
श्रीदेव्युवाच -
प्रथमः पटलः
सिद्ध-विद्या पुरा प्रोक्ता मन्त्र-तन्त्रादिकानि च ।
नाना-भाव-प्रभेदेन संशयो जायते प्रभो ॥
भाव-भेदेन कथय लोक-निस्तार-कारक !
सर्वेषां शरणं तन्त्र-सिद्धान्तं विष्णु-सम्मतम् ॥
आसामाराधना केन भावेन परिजायते ?
आसां वा प्रकृतिः कापि तस्या वा कीदृशी क्रिया ?
तत्प्रकाशय सम्यङ् मे येन यामि निरुत्तरं ॥
श्रीशिव उवाच --
सर्वासां सिद्ध-विद्यानां प्रकृतिर्दक्षिणा प्रिये !
दिव्यैर्वा वीर-भावैर्वा चिन्तयेद् दक्षिणां शुभां ॥
दिव्य-भावैश्व वीरैश्व काली-कुलं विचिन्तयेत् ।
श्री-कुलं च त्रिभिः सर्वैश्चिन्तयेत् कुल-सुन्दरि ॥
काली तारा रक्त-काली भुवना महिष-दिनी ।
त्रिपुटा त्वरिता दुर्गा विद्या प्रत्यङ्गिरा तथा ॥
काली-कुलं समाख्यातं श्री-कुलं च ततः परं ।
सुन्दरी भैरवी बाला बगला कमलापि च ॥
धूमावती च मातङ्गी विद्या स्वप्नावती प्रिये !
मधुमतो महा-विद्या श्रो-कुलं परिभाषितं ।।
लतायां पूजयेत् कालों नीले नील सरस्वतीं ।
कालिकेव लता-मूला नील-मूला च तारिणी ॥
उभयोरुभयोः पूजा सा पूजा मोक्ष-दायिनो ।
चेन्महा-सिद्धिर्दवानामपि दुर्लभा ।। विशिष्टा
लता-नीलं विना देवि ! कालों तारां च पूजयेत् ।
कुल-नाथं समाश्रित्य चोपदेशं प्रकल्पयेत् ॥
कुल-नाथं विना देवि ! मन्त्रं तन्त्रं न सिद्धचति ।
भावस्तु त्रिविधो देवि ! तथैव भन्त्र-देवता ॥
कुल-शास्त्र-स्ता ज्ञेया गुरवो बहवः स्मृताः ।
कुल-शास्त्र-विशेषज्ञो गुरुरेको हिदुर्लभः ॥
पशु-गुरोर्मुखाल्लब्ध्वा पशुरेव न संशयः ।
वीर-गुरोर्मुखाल्लब्ध्वा वीर एव न संशयः ।।
दिव्य-गुरोर्मुखाल्लब्ध्वा दिव्य एव न संशयः ।
दिव्ये वोरे च यो भेदः स भेदः परिभाव्यते ।।
दिव्यश्च देवता-प्रायो वीरश्वोद्धत-मानसः ।
पूर्वान्नायोदितं कर्म प्राशवं परिकीर्तितम् ।।
यदुक्तं दक्षिणाम्नाये तदेव पाशवं स्मृतम् ।
पश्चिमाम्नायजं कर्मवीर-पशु-समन्वितम् ॥
उदङ्-मुखोदितं कर्म दिव्य-भावान्वितं प्रिये !
दिव्योऽपि वोर-भावेन साधयेत् पितृ-कानने ।।
ऊर्ध्वाम्तायोदितं कर्म दिव्य-भावाश्रितं प्रिये !
श्मशान-गामिनो बोराः कलां पूजन्ति सर्वदा ॥
श्मशान-गामिनो वीरा गुप्ता योनीव पार्वति !
गोपनात् सिद्धिमाप्नोति व्यक्ताच्च कुल-नाशनं ॥
दिव्य-वोरान्वितं कर्म फलदं गोपनान्वितं ।
देवता-गुरु-मन्त्राणां प्रभावं दर्शयेत् ततः ॥
योगिनां । दिव्यौषधीनां वीराणां यद्यत् कर्म च
तत्सर्व गोपनं कार्य प्रकाशान्निष्फलं भवेत् ॥
रात्रौ कुल-क्रियां कुर्याद्दिवा कुर्याच्च वैदिकों ।
दिवा-रात्रौ यजेद् देवीं योगी योग-प्रभेदतः।।
न दिवा पूजयेद वीरो न पशुरात्रि-पूजनं ।
विवर्जयेन्महेशानि ! अभिचाराय कल्पते ॥
कला-पूजां विधायाथ मनसा वा कुलेश्वरीम् ।
पूजयेद् दक्षिणां कालों श्मशाने कुल-साधकः ॥
श्मशानं दक्षिणा-स्थानं श्मशानं च सदाशिवः ।
योनि-रूपा महा-काली शव-शय्या प्रकीर्तिता ॥
श्मशानं द्विविधं देवि ! चिता योनिः प्रकीर्तिता ।
शिव-लिङ्गं कुलेशानि ! महाकालेन भाषितम् ॥
द्वयोर्योगं विना नैव दक्षिणा सा फल-प्रदा ।
त्रिपान्तरे कला-पूजा कर्तव्या साधकोत्तमैः ॥
कला-पूजां विना देवि ! दक्षिणा न फल-प्रदा ।
कला-पूजा कृता येन तेन काली प्रपूजिता ॥
कला-पूजा-कृतो दिव्यो वीरो वा कुल-सुन्दरि !
इहैव सुखमाप्नोति परे निर्वाणतां व्रजेत् ॥
न चार्चयेत् कलां यस्तु न जपेद् दक्षिणां शुभां ।
निष्फलं जीवनं तस्य क्रुद्धा भवति कालिका ॥
कला-पूजां विना देवि ! सर्वं निष्फलतां व्रजेत् ।
जन्मान्तर-सहस्त्रेषु कालो नैव प्रसीदति ॥
कला-पूजां विना देवि ! या काचित् क्रियते क्रिया ।
सा क्रिया अभिचाराय सत्यं सत्यं न संशयः ॥
तस्मात् सर्व-प्रयत्नेन कला-पूजां समाचरेत् ।
योनि-रूपा कला देवि ! दक्षिणैव न संशयः ।
दिव्यो वीरो वरारोहे ! कला-पूजां प्रकल्पयेत् ॥
पशु-भावाश्रितो मन्त्रों कलां नैव प्रपूजयेत् ।
कलाया द्विविधा पूजा गुप्ता व्यक्ता कुलेश्वरि !
गुप्ता च साधकैः कार्या निर्जने च महा-निशि ।॥
व्यक्ता दिवा प्रकर्तव्या लोकाचार-क्रमेण तु ।
लोकाचारं विना देवि ! गोपनं नैव जायते ।।
गोपनं सिद्धि-मूलं च सत्यं सत्यं न संशयः ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुल-सुन्दरि ॥
कलावासव-योगेन कला-पूजां प्रकल्पयेत् ।
द्रव्याभावे द्विजो दद्याच्चानुकल्पं युगे युगे ॥
कलायाश्चानुकल्पश्च कलायाश्चैव चिन्तनम् ।
द्विजातीनां च सर्वेषां द्विधा विधिरिहोच्यते ।।
दिवा च पाशवं कर्म रात्रि-कर्म च कौलिकं ।
पुरश्वर्यादिकं कर्म द्विविधं भाव-भेदतः ॥
।। इति श्रीनिरुत्तर-तन्त्रे पार्वतीश्वर-संवादे प्रथमः पटलः ॥