सामग्री पर जाएँ

निरुत्तरतन्त्रम्/प्रथमः पटलः

विकिस्रोतः तः

श्रीदेव्युवाच -

प्रथमः पटलः

सिद्ध-विद्या पुरा प्रोक्ता मन्त्र-तन्त्रादिकानि च ।

नाना-भाव-प्रभेदेन संशयो जायते प्रभो ॥

भाव-भेदेन कथय लोक-निस्तार-कारक !

सर्वेषां शरणं तन्त्र-सिद्धान्तं विष्णु-सम्मतम् ॥

आसामाराधना केन भावेन परिजायते ?

आसां वा प्रकृतिः कापि तस्या वा कीदृशी क्रिया ?

तत्प्रकाशय सम्यङ् मे येन यामि निरुत्तरं ॥

श्रीशिव उवाच --

सर्वासां सिद्ध-विद्यानां प्रकृतिर्दक्षिणा प्रिये !

दिव्यैर्वा वीर-भावैर्वा चिन्तयेद् दक्षिणां शुभां ॥

दिव्य-भावैश्व वीरैश्व काली-कुलं विचिन्तयेत् ।

श्री-कुलं च त्रिभिः सर्वैश्चिन्तयेत् कुल-सुन्दरि ॥

काली तारा रक्त-काली भुवना महिष-दिनी ।

त्रिपुटा त्वरिता दुर्गा विद्या प्रत्यङ्गिरा तथा ॥

काली-कुलं समाख्यातं श्री-कुलं च ततः परं ।

सुन्दरी भैरवी बाला बगला कमलापि च ॥

धूमावती च मातङ्गी विद्या स्वप्नावती प्रिये !

मधुमतो महा-विद्या श्रो-कुलं परिभाषितं ।।

लतायां पूजयेत् कालों नीले नील सरस्वतीं ।

कालिकेव लता-मूला नील-मूला च तारिणी ॥

उभयोरुभयोः पूजा सा पूजा मोक्ष-दायिनो ।

चेन्महा-सिद्धिर्दवानामपि दुर्लभा ।। विशिष्टा

लता-नीलं विना देवि ! कालों तारां च पूजयेत् ।

कुल-नाथं समाश्रित्य चोपदेशं प्रकल्पयेत् ॥

कुल-नाथं विना देवि ! मन्त्रं तन्त्रं न सिद्धचति ।

भावस्तु त्रिविधो देवि ! तथैव भन्त्र-देवता ॥

कुल-शास्त्र-स्ता ज्ञेया गुरवो बहवः स्मृताः ।

कुल-शास्त्र-विशेषज्ञो गुरुरेको हिदुर्लभः ॥

पशु-गुरोर्मुखाल्लब्ध्वा पशुरेव न संशयः ।

वीर-गुरोर्मुखाल्लब्ध्वा वीर एव न संशयः ।।

दिव्य-गुरोर्मुखाल्लब्ध्वा दिव्य एव न संशयः ।

दिव्ये वोरे च यो भेदः स भेदः परिभाव्यते ।।

दिव्यश्च देवता-प्रायो वीरश्वोद्धत-मानसः ।

पूर्वान्नायोदितं कर्म प्राशवं परिकीर्तितम् ।।

यदुक्तं दक्षिणाम्नाये तदेव पाशवं स्मृतम् ।

पश्चिमाम्नायजं कर्मवीर-पशु-समन्वितम् ॥

उदङ्-मुखोदितं कर्म दिव्य-भावान्वितं प्रिये !

दिव्योऽपि वोर-भावेन साधयेत् पितृ-कानने ।।

ऊर्ध्वाम्तायोदितं कर्म दिव्य-भावाश्रितं प्रिये !

श्मशान-गामिनो बोराः कलां पूजन्ति सर्वदा ॥

श्मशान-गामिनो वीरा गुप्ता योनीव पार्वति !

गोपनात् सिद्धिमाप्नोति व्यक्ताच्च कुल-नाशनं ॥

दिव्य-वोरान्वितं कर्म फलदं गोपनान्वितं ।

देवता-गुरु-मन्त्राणां प्रभावं दर्शयेत् ततः ॥

योगिनां । दिव्यौषधीनां वीराणां यद्यत् कर्म च

तत्सर्व गोपनं कार्य प्रकाशान्निष्फलं भवेत् ॥

रात्रौ कुल-क्रियां कुर्याद्दिवा कुर्याच्च वैदिकों ।

दिवा-रात्रौ यजेद् देवीं योगी योग-प्रभेदतः।।

न दिवा पूजयेद वीरो न पशुरात्रि-पूजनं ।

विवर्जयेन्महेशानि ! अभिचाराय कल्पते ॥

कला-पूजां विधायाथ मनसा वा कुलेश्वरीम् ।

पूजयेद् दक्षिणां कालों श्मशाने कुल-साधकः ॥

श्मशानं दक्षिणा-स्थानं श्मशानं च सदाशिवः ।

योनि-रूपा महा-काली शव-शय्या प्रकीर्तिता ॥

श्मशानं द्विविधं देवि ! चिता योनिः प्रकीर्तिता ।

शिव-लिङ्गं कुलेशानि ! महाकालेन भाषितम् ॥

द्वयोर्योगं विना नैव दक्षिणा सा फल-प्रदा ।

त्रिपान्तरे कला-पूजा कर्तव्या साधकोत्तमैः ॥

कला-पूजां विना देवि ! दक्षिणा न फल-प्रदा ।

कला-पूजा कृता येन तेन काली प्रपूजिता ॥

कला-पूजा-कृतो दिव्यो वीरो वा कुल-सुन्दरि !

इहैव सुखमाप्नोति परे निर्वाणतां व्रजेत् ॥

न चार्चयेत् कलां यस्तु न जपेद् दक्षिणां शुभां ।

निष्फलं जीवनं तस्य क्रुद्धा भवति कालिका ॥

कला-पूजां विना देवि ! सर्वं निष्फलतां व्रजेत् ।

जन्मान्तर-सहस्त्रेषु कालो नैव प्रसीदति ॥

कला-पूजां विना देवि ! या काचित् क्रियते क्रिया ।

सा क्रिया अभिचाराय सत्यं सत्यं न संशयः ॥

तस्मात् सर्व-प्रयत्नेन कला-पूजां समाचरेत् ।

योनि-रूपा कला देवि ! दक्षिणैव न संशयः ।

दिव्यो वीरो वरारोहे ! कला-पूजां प्रकल्पयेत् ॥

पशु-भावाश्रितो मन्त्रों कलां नैव प्रपूजयेत् ।

कलाया द्विविधा पूजा गुप्ता व्यक्ता कुलेश्वरि !

गुप्ता च साधकैः कार्या निर्जने च महा-निशि ।॥

व्यक्ता दिवा प्रकर्तव्या लोकाचार-क्रमेण तु ।

लोकाचारं विना देवि ! गोपनं नैव जायते ।।

गोपनं सिद्धि-मूलं च सत्यं सत्यं न संशयः ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च कुल-सुन्दरि ॥

कलावासव-योगेन कला-पूजां प्रकल्पयेत् ।

द्रव्याभावे द्विजो दद्याच्चानुकल्पं युगे युगे ॥

कलायाश्चानुकल्पश्च कलायाश्चैव चिन्तनम् ।

द्विजातीनां च सर्वेषां द्विधा विधिरिहोच्यते ।।

दिवा च पाशवं कर्म रात्रि-कर्म च कौलिकं ।

पुरश्वर्यादिकं कर्म द्विविधं भाव-भेदतः ॥

।। इति श्रीनिरुत्तर-तन्त्रे पार्वतीश्वर-संवादे प्रथमः पटलः ॥