निरुत्तरतन्त्रम्/चतुर्थः पटलः
चतुर्थः पटलः
श्रीदेव्युवाच -
पूजा च कथिता देव ! पुरश्चर्या च कीदृशी ।
कथयस्व सुर-श्रेष्ठ ! यदि स्नेहोऽस्ति मां प्रति ।।
श्रीशिव उवाच
उत्तमा मानसी पूजा बाह्या पूजा कनीयसी ।
पूजया लभते पूजां जपात् सिद्धिनं संशयः ।
होमेन सर्व-सिद्धिः स्यात्तस्मात् त्रितयमाचरेत् ।
वीराणां मानसी पूजा दिव्यानां च कुलेश्वरि !
आसनानि च नाडीनां सङ्कतं शृणु साम्प्रतं ।
एतज्ज्ञानं विना देवि ! पुरश्चर्या न जायते ।
आसनं प्राण-संरोधः प्रत्याहारश्च धारणं ।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ।
आसनानि कुलेशानि ! यावन्तो जीव-जन्तवः ।
चतुरशीति-लक्षाणां जन्तवः समुदाहृताः ।॥
आसनेभ्यः समस्तेभ्यः साम्प्रत द्वयमुच्यते ।
एकं सिद्धासनं नाम द्वितीयं कमलासनं ।।
नाडीनां समूहो देवि ! व्यक्तश्चास्ति खगाण्ड-वत् ।
तत्र नाड्यः समुद्भूतः सहस्राणां द्वि-सप्ततिः ॥
प्रधानं प्राण-वाहिन्यः स्वयं तत्त्र दश स्मृताः ।
इडा च पिङ्गला चैव सुषुम्ना चैव कोतिता ॥
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहुश्चैव शङ्खिनी च दश स्मृताः ।।
एवं नाडी-मयं चक्रं विज्ञेयं शक्ति-चक्रके ।
इडायाः पिङ्गलायाश्च मध्यं यत्तत् सुषुन्ना ॥
इयं च त्रिगुणा ज्ञेया ब्रह्म-विष्णु-शिवात्मिका ।
रजोगुणा ध्वजाख्या च चित्रिणी सत्व-सम्पदा ।।
तमोगुणा ब्रह्म-नाडी कार्य-भेद-क्रमेण च ।
इडायाः पिङ्गलायाश्च एताः सर्वाः प्रकीर्तिताः ॥
एताश्च प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ।
इडा नाडी स्थिता वामे दक्षिणे चैव पिङ्गला ॥
सुषुम्ना च तयोर्मध्ये चन्द्र-सूर्य-प्रभेदतः।
वायवश्चैव विज्ञेया मनश्चन्द्रात्मकं हृदि ॥
प्राणोऽपानः समानश्वोदान-व्यानो च वायवः ।
हृदि प्राणो गुदेऽपानः समानो नाभि-देशतः ॥
उदानः कण्ठ-देशे स्याद् व्यानः सर्व-शरीरगः ।
नागः कूर्मोऽथ कुकरो देवदत्तो धनञ्जयः ॥
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ।
एते नाडी समस्तेषु वर्तन्ते चान्य-संज्ञकाः ॥
गुण-बद्धो यथा जीवः प्राणापानेन कर्षति ।
अपानः कर्षति प्राणं प्राणापानं च कर्षति ॥
अध-ऊर्ध्व-स्थितावेतौ यो जानाति स योग-वित् ।
हंस-गतिः प्रकृतिज्ञेया ॐकारः प्रकृते गुणः ॥
हकारेण बहिर्याति सकारेण विशेत् पुनः ।
हंस इति परं मन्त्रं जीवो जपति सर्वदा ॥
षट्-शतानि विवा-रात्रौ सहस्राण्येक-विंशतिम्।
एतत् संख्यायतं मन्त्रं जीवो जपति सर्वदा ॥
अजपा नाम गायत्री योगिनां मोक्ष-दायिनी ।
अजपा च द्विधा प्रोक्ता व्यक्ता गुप्ता क्रमेण तु ।।
व्यक्ता च द्विविधा प्रोक्ता हृदि स्थाने व्यवस्थिता ।
ठकाराकार-गुप्ता च शिव-शक्तिः प्रकीर्तिता ॥
चन्द्र-बीजं ठकारं च तं वीजं शृणु उच्यते ।
अजपार्थ-मयी गुप्ता वह्नि-जाया प्रकीतिता ॥
अस्याः सङ्कल्प-मात्रेण पुरश्चरणमुच्यते ।
प्राणायाम-द्वि-षट्केन प्रत्याहारः स उच्यते ।।
प्रत्याहार-सहस्त्रेण जानीयाद् धारणां शुभां ।
धारणाद् द्वादश प्रोक्ता ध्यानं ध्यान-विशारदैः ॥
ध्यान-द्वादशकैरेव समाधिरवधीयताम्।
यत् समाधेः परं ज्योतिरनन्तं विश्वतोमुखम् ॥
अस्मिन् दृष्टे क्रिया काचिद् यातायातं न विद्यते ।
यथा सिहे गज-व्याघ्रं वादत्वं च शनैः शनैः ।।
तथैव चलितो वायुरन्यथा हन्ति साधकं ।
चरतां चक्षुरादीनां विषयेषु यथा-क्रमं ॥
प्रत्याहारे तथा चैवं प्रत्याहाराविरुच्यते ।
करणं कुम्भकाद् देवि ! समाधिश्च प्रजायते ॥
पुष्पान्तर-गतं ज्योतिध्रुवोर्मध्ये प्रतिष्ठितं ।
तच्चिन्तनं कुलेशानि ! योगिनां पूजनं महत् ॥
ज्योतिषां चिन्तनं चैव ध्यानं विषय-संकृतिः ।
निर्गुणादिक-भावेन वीराणां शृणु मूलकं ॥
सगुणा ज्योतिषां मूतिहृ दिस्थां कालिकां स्मरेत् ।
आपादं शीर्ष-पर्यन्तं पूज्या यत्नादिभिः प्रिये ॥
ब्रह्माण्डोद्भव-द्रव्याणि चर्व्य-चोष्यादिकानि च ।
फलं पुष्पं यथा गन्धं वस्त्रालङ्कार-भूषितं ॥
तत्सर्वं मनसा देयं कालिकायै पुनः पुनः ।
गिरि-मानतः ।। पेयं जल-निधेर्मानं द्रव्यं च
यत्नेनेव प्रदद्यात्तु कालिकायै पुनः पुनः ।
इयं च मानसो पूजा कथिता वर-वर्णिनि ।।
निर्वाणं दिव्य-भावैस्तु वीर-भावैः समानतां ।
इदं तत्त्वं जपानायं ज्ञात्वा पुरश्चरणमाचरेत् ।।
निजाम्नायं विना देवि ! न कुर्याच्च पुरस्क्रियात् ।
तस्मात् सर्व प्रयत्नेन निजान्नायं विचिन्तयेत् ।।
उत्तराम्नायोदितं सर्वं काली-कुलं कुलेश्वरि !
सर्वान्नायोदितं तत्त्वं श्री-कुलं च क्रमेण तु ॥
उत्तरान्नायोदिता विद्या भैरवी त्रिपुर-सुन्दरी ।
मातङ्गी पश्चिमान्नाये दक्षिणान्नाये च तावुभौ ॥
धूमा च त्वरिता चैव पूर्वान्नाये प्रतिष्ठिता ।
त्रिपुरा बगला चैव महा-विद्या विशेषतः ।।
दक्षिणाम्नायोदिताः सर्वाः पशुभिः पूजिता सदा ।
काली-कूर्च वधूर्जाया प्रणवं वाग्भवं प्रिये ॥
शूल-हस्ता च या विद्योत्तरान्नायोदिता शुभा ।
द्वाविंशत्यक्षरी विद्या दक्षिणास्त्राये प्रतिष्ठिता ।।
लक्ष-द्वयं जपेद् विद्यां दिवा-रात्रि-प्रभेदतः ।
दिवा लक्षः जपेद् विद्यां हविष्याशी सदा शुचिः ॥
दशांशं जुहुयाद् वह्नौ तद्दशांशं च तर्पयेत् ।
तद्दशांशाभिषेकं च तीर्थ-तोयेन पार्वति ।।
तद्दशांशं हविष्यान्नैर्भोजयेद् भक्तितो द्विजान् ।
पाशवं कथितं कल्पं शृणु वीरं ततः परं ॥
नक्तं याम-गते देवि ! स्व-कुलं परिचिन्तयेत् ।
आनीय कान्तां सुशीलां कुल-भक्तां कुलार्चने ।।
शक्ति-चक्रं द्विधा कृत्वा शक्ति-भाले लिखेत् ततः ।
तत्र काम-कलां देवीं शिव कोणे विलेखयेत् ।।
तन्मध्ये देव-मन्त्रं तु लाञ्छितं कमलान्वितं ।
तत्र देवीं समावाह्य ध्यात्वा तत्र प्रपूज येत् ।।
ततस्तच्छक्ति-कर्णे च ऋषिच्छन्दः समन्वितं ।
मूल-मन्त्रं त्रिधा कृत्वा कथयेद् वाम-कर्णके ॥
अद्य प्रभृति देवि ! त्वं कुल देवार्चनं कुरु ।
गुरोराज्ञां मूध्नि कृत्वा प्रवर्त्ताऽहं कुलार्चने ।।
ततः पश्चात् कुलागारे कुल-चक्रं लिखेत् प्रिये !
तत्र पूजा कुल द्रव्यैः क्रियते भक्ति-भावतः ॥
तत्र चावाहनं नास्ति यतो देवो स्वरूपिणी ।
पूजयित्वा यथा-न्यायं तत्त्व-चिन्ता-परो भवेत् ॥
तत्त्व-चिन्ता-परो मन्त्री जपेल्लक्षं कुलाकुलं ।
दशांशं जुहुयाद् वह्नौ श्रासवैः पललान्वितैः ॥
तद्दशांशं तर्पणं च अभिषेकं सुधा-पलल-संयुतैः ।
अभिषेकं तद्दशांशं तीर्थ-तोयेन पार्वति ॥
कुल-द्रव्यैस्तद्दशांशं भक्तितो भोजयेद् द्विजात्।
आदावन्ते च मध्ये च शक्ति मां भोजयेत् कुलं ॥
तदभावे कुलेशानि ! शक्ति चात्रः प्रपूजयेत् ।
तासां च कुल-चक्रान्ते मनसा च प्रपूजयेत् ॥
पुरश्चरण-काले च यदि शक्ति न पूजयेत् ।
तस्य पूजा जपो होमोऽभिचाराय च कल्प्यते ॥
तस्मात् सर्व-प्रयत्नेन शक्तीनां पूजनं चरेत् ।
पुरश्चरण-काले च संख्या न स्मरिता यदि ॥
शक्तीनां हि कुमारीणां द्विजातीनां कुल-पालिनां ।
तोषणं कुल-द्रव्येण भोजयेच्च पुनः पुनः ।।
सम्प्रदाय-विदे विद्वान् दद्यात्तु गुरु-दक्षिणाम् ।
वस्त्रालङ्कार-भूषाद्यैर्भूषयेत् कुल-गुरून् प्रिये ॥
तत्सुतं तत्सुतां वापि तत्पत्नों वा कुलेश्वरि !
पूजयेत् परया भक्त्या मन्त्र-सिद्धि लभेद् यतः ॥
।॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे चतुर्थः पटलः ।।