सामग्री पर जाएँ

निरुत्तरतन्त्रम्/चतुर्थः पटलः

चतुर्थः पटलः

श्रीदेव्युवाच -

पूजा च कथिता देव ! पुरश्चर्या च कीदृशी ।

कथयस्व सुर-श्रेष्ठ ! यदि स्नेहोऽस्ति मां प्रति ।।

श्रीशिव उवाच

उत्तमा मानसी पूजा बाह्या पूजा कनीयसी ।

पूजया लभते पूजां जपात् सिद्धिनं संशयः ।

होमेन सर्व-सिद्धिः स्यात्तस्मात् त्रितयमाचरेत् ।

वीराणां मानसी पूजा दिव्यानां च कुलेश्वरि !

आसनानि च नाडीनां सङ्कतं शृणु साम्प्रतं ।

एतज्ज्ञानं विना देवि ! पुरश्चर्या न जायते ।

आसनं प्राण-संरोधः प्रत्याहारश्च धारणं ।

ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ।

आसनानि कुलेशानि ! यावन्तो जीव-जन्तवः ।

चतुरशीति-लक्षाणां जन्तवः समुदाहृताः ।॥

आसनेभ्यः समस्तेभ्यः साम्प्रत द्वयमुच्यते ।

एकं सिद्धासनं नाम द्वितीयं कमलासनं ।।

नाडीनां समूहो देवि ! व्यक्तश्चास्ति खगाण्ड-वत् ।

तत्र नाड्यः समुद्भूतः सहस्राणां द्वि-सप्ततिः ॥

प्रधानं प्राण-वाहिन्यः स्वयं तत्त्र दश स्मृताः ।

इडा च पिङ्गला चैव सुषुम्ना चैव कोतिता ॥

गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ।

अलम्बुषा कुहुश्चैव शङ्खिनी च दश स्मृताः ।।

एवं नाडी-मयं चक्रं विज्ञेयं शक्ति-चक्रके ।

इडायाः पिङ्ग‌लायाश्च मध्यं यत्तत् सुषुन्ना ॥

इयं च त्रिगुणा ज्ञेया ब्रह्म-विष्णु-शिवात्मिका ।

रजोगुणा ध्वजाख्या च चित्रिणी सत्व-सम्पदा ।।

तमोगुणा ब्रह्म-नाडी कार्य-भेद-क्रमेण च ।

इडायाः पिङ्गलायाश्च एताः सर्वाः प्रकीर्तिताः ॥

एताश्च प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ।

इडा नाडी स्थिता वामे दक्षिणे चैव पिङ्गला ॥

सुषुम्ना च तयोर्मध्ये चन्द्र-सूर्य-प्रभेदतः।

वायवश्चैव विज्ञेया मनश्चन्द्रात्मकं हृदि ॥

प्राणोऽपानः समानश्वोदान-व्यानो च वायवः ।

हृदि प्राणो गुदेऽपानः समानो नाभि-देशतः ॥

उदानः कण्ठ-देशे स्याद् व्यानः सर्व-शरीरगः ।

नागः कूर्मोऽथ कुकरो देवदत्तो धनञ्जयः ॥

प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ।

एते नाडी समस्तेषु वर्तन्ते चान्य-संज्ञकाः ॥

गुण-बद्धो यथा जीवः प्राणापानेन कर्षति ।

अपानः कर्षति प्राणं प्राणापानं च कर्षति ॥

अध-ऊर्ध्व-स्थितावेतौ यो जानाति स योग-वित् ।

हंस-गतिः प्रकृतिज्ञेया ॐकारः प्रकृते गुणः ॥

हकारेण बहिर्याति सकारेण विशेत् पुनः ।

हंस इति परं मन्त्रं जीवो जपति सर्वदा ॥

षट्-शतानि विवा-रात्रौ सहस्राण्येक-विंशतिम्।

एतत् संख्यायतं मन्त्रं जीवो जपति सर्वदा ॥

अजपा नाम गायत्री योगिनां मोक्ष-दायिनी ।

अजपा च द्विधा प्रोक्ता व्यक्ता गुप्ता क्रमेण तु ।।

व्यक्ता च द्विविधा प्रोक्ता हृदि स्थाने व्यवस्थिता ।

ठकाराकार-गुप्ता च शिव-शक्तिः प्रकीर्तिता ॥

चन्द्र-बीजं ठकारं च तं वीजं शृणु उच्यते ।

अजपार्थ-मयी गुप्ता वह्नि-जाया प्रकीतिता ॥

अस्याः सङ्कल्प-मात्रेण पुरश्चरणमुच्यते ।

प्राणायाम-द्वि-षट्केन प्रत्याहारः स उच्यते ।।

प्रत्याहार-सहस्त्रेण जानीयाद् धारणां शुभां ।

धारणाद् द्वादश प्रोक्ता ध्यानं ध्यान-विशारदैः ॥

ध्यान-द्वादशकैरेव समाधिरवधीयताम्।

यत् समाधेः परं ज्योतिरनन्तं विश्वतोमुखम् ॥

अस्मिन् दृष्टे क्रिया काचिद् यातायातं न विद्यते ।

यथा सिहे गज-व्याघ्रं वादत्वं च शनैः शनैः ।।

तथैव चलितो वायुरन्यथा हन्ति साधकं ।

चरतां चक्षुरादीनां विषयेषु यथा-क्रमं ॥

प्रत्याहारे तथा चैवं प्रत्याहाराविरुच्यते ।

करणं कुम्भकाद् देवि ! समाधिश्च प्रजायते ॥

पुष्पान्तर-गतं ज्योतिध्रुवोर्मध्ये प्रतिष्ठितं ।

तच्चिन्तनं कुलेशानि ! योगिनां पूजनं महत् ॥

ज्योतिषां चिन्तनं चैव ध्यानं विषय-संकृतिः ।

निर्गुणादिक-भावेन वीराणां शृणु मूलकं ॥

सगुणा ज्योतिषां मूतिहृ दिस्थां कालिकां स्मरेत् ।

आपादं शीर्ष-पर्यन्तं पूज्या यत्नादिभिः प्रिये ॥

ब्रह्माण्डोद्भव-द्रव्याणि चर्व्य-चोष्यादिकानि च ।

फलं पुष्पं यथा गन्धं वस्त्रालङ्कार-भूषितं ॥

तत्सर्वं मनसा देयं कालिकायै पुनः पुनः ।

गिरि-मानतः ।। पेयं जल-निधेर्मानं द्रव्यं च

यत्नेनेव प्रदद्यात्तु कालिकायै पुनः पुनः ।

इयं च मानसो पूजा कथिता वर-वर्णिनि ।।

निर्वाणं दिव्य-भावैस्तु वीर-भावैः समानतां ।

इदं तत्त्वं जपानायं ज्ञात्वा पुरश्चरणमाचरेत् ।।

निजाम्नायं विना देवि ! न कुर्याच्च पुरस्क्रियात् ।

तस्मात् सर्व प्रयत्नेन निजान्नायं विचिन्तयेत् ।।

उत्तराम्नायोदितं सर्वं काली-कुलं कुलेश्वरि !

सर्वान्नायोदितं तत्त्वं श्री-कुलं च क्रमेण तु ॥

उत्तरान्नायोदिता विद्या भैरवी त्रिपुर-सुन्दरी ।

मातङ्गी पश्चिमान्नाये दक्षिणान्नाये च तावुभौ ॥

धूमा च त्वरिता चैव पूर्वान्नाये प्रतिष्ठिता ।

त्रिपुरा बगला चैव महा-विद्या विशेषतः ।।

दक्षिणाम्नायोदिताः सर्वाः पशुभिः पूजिता सदा ।

काली-कूर्च वधूर्जाया प्रणवं वाग्भवं प्रिये ॥

शूल-हस्ता च या विद्योत्तरान्नायोदिता शुभा ।

द्वाविंशत्यक्षरी विद्या दक्षिणास्त्राये प्रतिष्ठिता ।।

लक्ष-द्वयं जपेद् विद्यां दिवा-रात्रि-प्रभेदतः ।

दिवा लक्षः जपेद् विद्यां हविष्याशी सदा शुचिः ॥

दशांशं जुहुयाद् वह्नौ तद्दशांशं च तर्पयेत् ।

तद्दशांशाभिषेकं च तीर्थ-तोयेन पार्वति ।।

तद्दशांशं हविष्यान्नैर्भोजयेद् भक्तितो द्विजान् ।

पाशवं कथितं कल्पं शृणु वीरं ततः परं ॥

नक्तं याम-गते देवि ! स्व-कुलं परिचिन्तयेत् ।

आनीय कान्तां सुशीलां कुल-भक्तां कुलार्चने ।।

शक्ति-चक्रं द्विधा कृत्वा शक्ति-भाले लिखेत् ततः ।

तत्र काम-कलां देवीं शिव कोणे विलेखयेत् ।।

तन्मध्ये देव-मन्त्रं तु लाञ्छितं कमलान्वितं ।

तत्र देवीं समावाह्य ध्यात्वा तत्र प्रपूज येत् ।।

ततस्तच्छक्ति-कर्णे च ऋषिच्छन्दः समन्वितं ।

मूल-मन्त्रं त्रिधा कृत्वा कथयेद् वाम-कर्णके ॥

अद्य प्रभृति देवि ! त्वं कुल देवार्चनं कुरु ।

गुरोराज्ञां मूध्नि कृत्वा प्रवर्त्ताऽहं कुलार्चने ।।

ततः पश्चात् कुलागारे कुल-चक्रं लिखेत् प्रिये !

तत्र पूजा कुल द्रव्यैः क्रियते भक्ति-भावतः ॥

तत्र चावाहनं नास्ति यतो देवो स्वरूपिणी ।

पूजयित्वा यथा-न्यायं तत्त्व-चिन्ता-परो भवेत् ॥

तत्त्व-चिन्ता-परो मन्त्री जपेल्लक्षं कुलाकुलं ।

दशांशं जुहुयाद् वह्नौ श्रासवैः पललान्वितैः ॥

तद्दशांशं तर्पणं च अभिषेकं सुधा-पलल-संयुतैः ।

अभिषेकं तद्दशांशं तीर्थ-तोयेन पार्वति ॥

कुल-द्रव्यैस्तद्दशांशं भक्तितो भोजयेद् द्विजात्।

आदावन्ते च मध्ये च शक्ति मां भोजयेत् कुलं ॥

तदभावे कुलेशानि ! शक्ति चात्रः प्रपूजयेत् ।

तासां च कुल-चक्रान्ते मनसा च प्रपूजयेत् ॥

पुरश्चरण-काले च यदि शक्ति न पूजयेत् ।

तस्य पूजा जपो होमोऽभिचाराय च कल्प्यते ॥

तस्मात् सर्व-प्रयत्नेन शक्तीनां पूजनं चरेत् ।

पुरश्चरण-काले च संख्या न स्मरिता यदि ॥

शक्तीनां हि कुमारीणां द्विजातीनां कुल-पालिनां ।

तोषणं कुल-द्रव्येण भोजयेच्च पुनः पुनः ।।

सम्प्रदाय-विदे विद्वान् दद्यात्तु गुरु-दक्षिणाम् ।

वस्त्रालङ्कार-भूषाद्यैर्भूषयेत् कुल-गुरून् प्रिये ॥

तत्सुतं तत्सुतां वापि तत्पत्नों वा कुलेश्वरि !

पूजयेत् परया भक्त्या मन्त्र-सिद्धि लभेद् यतः ॥

।॥ इति श्रीनिरुत्तर-तन्त्रे शिव-पार्वती-सम्वादे चतुर्थः पटलः ।।