नारायणीयम्/दशकम् ६९

विकिस्रोतः तः
← दशकम् ६८ नारायणीयम्
दशकम् ६९
[[लेखकः :|]]
दशकम् ७० →

केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं
हारजालवनमालिकाललितमङ्गरागघनसौरभम् ।
पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं
रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ ६९१॥

तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले
गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।
अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्
मञ्जुळां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥ ६९२॥

वासुदेव तव भासमानमिह रासकेळिरससौरभं
दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुलाः ।
वेषभूषणविलासपेशलविलासिनीशतसमावृता
नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ ६९३॥

वेणुनादकृततानदानकलगानरागगतियोजना
लोभनीयमृदुपादपातकृततालमेलनमनोहरम् ।
पाणिसंक्वणितकङ्कणं च मुहुरं सलम्बितकराम्बुजं
श्रोणिबिम्बचलदम्बरं भजत रासकेळिरसडम्बरम् ॥ ६९४॥

श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे
नर्तनेऽथ ललिताङ्गहारलुळिताङ्गहारमणिभूषणे ।
सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं
चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ ६९५॥

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना
कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ।
काचिदाचलितकुन्तळा नवपटीरसारनवसौरभं
वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुळकाङ्कुरम् ॥ ६९६॥

कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं
पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् ।
इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे
त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ६९७॥

गानमीश विरतं क्रमेण किल वाद्यमेळनमुपारतं
ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः ।
नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ ६९८॥

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो
केलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् ।
मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित
स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ ६९९॥

केळिभेदपरिलोलिताभिरतिलालिताभिरबलाळिभिः
स्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे
सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ ६९१०॥

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान्
पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् ।
ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन्
भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥ ६९११॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_६९&oldid=32312" इत्यस्माद् प्रतिप्राप्तम्