नारायणीयम्/दशकम् ४९

विकिस्रोतः तः
← दशकम् ४८ नारायणीयम्
दशकम् ४९
[[लेखकः :|]]
दशकम् ५० →

भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ ४९१॥

तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ ४९२ ॥

बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ ४९३॥

अनोमनोज्ञध्वनिधेनुपाळीखुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ४९४ ॥

निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ४९५ ॥

नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ ४९६ ॥

अराळमार्गागतनिर्मलापां मराळकुजाकृतनर्मलापाम् ।
निरन्तरस्मेरसरोजवक्त्रां कळिन्दकन्यां समलोकयस्त्वम् ॥ ४९७॥

मयूरकेकाशतलोभनीयं म्यूखमीलशबळं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ४९८ ॥

समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कृटिलामपश्यः कळिन्दजां रागवतीमिवैकाम् ॥ ४९९ ॥

तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ ४९१० ॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४९&oldid=32287" इत्यस्माद् प्रतिप्राप्तम्