धम्मपदपठनम्

विकिस्रोतः तः
धम्मपदपठनम्
[[लेखकः :|]]


सिद्धं नमः सर्व्वबुद्धधम्मार्य्यसंघेभ्यः

१ १
मनोपूर्व्वंगमा धम्मा मनोश्रेष्ठा मनोजवा ।
मनसा च प्रदुष्टेन भाषते वा करोति वा ।
ततो नं दुखमन्नेति चक्रं वा वहतो पदं ॥
३१:२३
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः ।
मनसा हि प्रदुष्टेन भाषते वा करोति वा ।
ततस्तं दुःखमन्वेति चक्रं वा वहतो पदम् ॥

२ २
म[नोपूर्व्वं]गमा धम्मा मनोश्रेष्ठा मनोजवा ।
मनसा च प्रसन्नेन भाषते वा करोति वा ।
ततो नं सुखमन्नेति च्छाया वा अनपायिनी ॥
३१:२४
मनःपूर्वङ्गमा ध्र्मा मनःश्रेष्ठा मनोजवा ।
मनसा च प्रसन्नेन भाषते वा करोति वा ।
ततस्तं सुखमन्वेति च्छाया वा अनुगमिनी ॥

३ १५
इह शोचति प्रेच्च शोचति पापकम्[मो उभय]त्थ शोचति ।
सो शोचति सो विहंन्यति दृष्टा कम्मकिलेशमात्तनो ॥
२८:३४
इह शोचति प्रेत्य शोचति पापकम्मा हि उभयत्र शोचति ।
स हि शोचति स प्रशोचति दृष्ट्वा कर्म हि क्लिष्टमात्मनः ॥

४ १६
इह नन्दति प्रेच्च नन्दति कतपुंञो उभयत्थ नन्दति ।
सो नन्दति [ ]दति दृष्टा कम्मविशुद्धिमात्तनो ॥
२८:३५
इह नन्दति प्रेत्य नन्दति कृतपुण्यो ह्युभयत्र नन्दति ।
स हि नन्दति स प्रमोदते दृष्ट्वा कर्म विशुद्धमात्मनः ॥

५ ३
आक्रोशि ममवधि मं अजिनि ममहासि मे ।
ये तानि उपनह्यन्ति वेरं तेसं न शाम्यति ॥
१४:९
आक्रोशन्मामवोचन्माम् अजयन्मामजापयेत् ।
अत्र ये ह्युपनह्यन्ति वैरं तेषां न शाम्यति ॥

६ ४
आक्रो[षि मं] अवधि मं अजिनि ममहासि मे ।
ये तानि नोपनह्यन्ति वेरं तेसमुपशम्यति ॥
१४:१०
आक्रोशन्मामवोचन्माम् अजयन्मामजापयेत् ।
अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति ॥

७ ७
शुभाऽनुपश्शिं विहरन्तं इन्द्रियेसु असंवृतं ।
[भोजन]म्हि अमात्तंञू कुशीदं हीनवीरियं ॥
तं वे प्रसहते मारो वातो रुक्खं व दुब्बलं ।
२९:१५
शुभानुदर्शिनं नित्यम् इद्रियैश्चाप्यसंवृतं ।
भोजने चाप्यमात्रज्ञं हीनं जागरिकासु च ।
तं वै प्रसहते रागो वातो वृक्षमिवाबलं ।

८ ८
अशुभानुपश्शिं विहरन्तं इन्द्रियेषु सुसंवृतं ॥
भोजनम्हि च मा[ ]द्धमारद्धवीरियं ।
तं वे न प्रसहते मारो वातो शेलं व पर्व्वतं ॥
२९:१६
अशुभानुदर्शिनं नित्यम् इन्द्रियैश्च सुसंवृतं ।
भोजने चापि मात्रज्ञं युक्तं जागरिकासु च ।
तं न प्रसहते रागो वातः शैलमिव स्थिरं ॥

९ ३२८
सचे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं ।
अधिभूय सब्बाणि परिश्रव्[ ] चरेया तेनात्तमनो सतीमा ॥
१४:१३
स चेल्लभेद्वै निपकं सहायं लोके चरं साधु हि नित्यमेव ।
अधिभूय सर्वाणि परिस्रवाणि चरेत तेनाप्तमना स्मृतात्मा ॥

१० ३२९
न चे लभेया निपकं सप्रंञं साद्धिंचरं साधुविहारधीरं ।
राजा व राष्टं विजितं प्रहाय एको च्चरे मातंगारन्ने व नागो ॥
१४:१४
न चेल्लभेत्वै निपकं सहायं लोके च रं साधु हि नित्यमेव ।
राजेव राष्ट्रं विपुलं प्रहाय एकश्चरेन्न च पापानि कुर्यात् ॥

११ ३३०
एकस्स चरितं श्रेयो नास्ति बाले बितीयता ।
एको च्चरे न च पापानि कयिरा अप्पुस्सुको मातंगारन्ने व नागो ॥
१४:१६
एकस्य चरितं श्रेयो न तु बालः सहायता ।
एकश्चरेन्न च पापानि कुर्याद् अल्पोत्सुकोऽरण्यगतै व नागः ॥

१२
छन्ददोषभया मोहा यो धम्ममतिवत्तति ।
नीहीरते तस्स यशो कालपक्खे व चन्द्रमा ॥

१३
छन्ददोषभया मोहा यो धम्मं नातिवत्तति ।
आपूरते तस्स यशो शुक्लपक्खे व चन्दरमा ॥

१४ २१
अप्रमादो अमतपदं प्रमादो मच्चुनो पदं ।
अप्रमत्ता न म्रीयन्ति ये प्रमत्ता यथा मता ॥
४:१
अप्रमादो ह्यमृतपदं प्रमादो मत्युनः पदम् ।
अप्रमत्ता न म्रियन्ते ये प्रमत्ताः सदा मृताः ॥

१५ २२
एतं विशेषतं न्यात्ता अप्रमादम्हि पण्डिता ।
अप्रमादे प्रमोदन्ति अयिराणां गोचरे रता ॥
४:२
एतं विशेषतां ज्ञात्वा ह्यप्रमादस्य पण्डितः ।
अप्रमादं प्रमुद्येत नित्यमार्यः स्वगोचरम् ॥

१६ २३
ते झायिनो साततिका निच्चं दृढपराक्रमा ।
फुसन्ति धीरा निब्बाणं योगच्छेममनुत्तरं ॥
४:३
अप्रमत्ताः साततिका निच्चं दृढपराक्रमाः ।
स्पृशन्ति धीरा निर्वाणं योगक्षेममनुत्तरम् ॥

१७ २६
प्रमादमनुयुञ्जन्ति बाला दुम्मेधिनो जना ।
अप्रमादन् तु मेधावी धनं श्रेष्ठं व रक्खति ॥
४:१०
प्रमादमनुवर्तन्ते बाला दुर्मेधसो जनाः ।
अप्रमादं तु मेधावी धनं श्रेष्ठीव रक्षति ॥

१८ २९
अप्रमत्तो प्रमत्तेसु सुत्तेसु बहुजागरो ।
अबलाष्षं व शीघ्राश्शो हेत्ता याति सुमेधसो ॥
१९:४
अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः ।
अबलाश्व इव भद्राश्वं हित्वा याति सुमेधसम् ॥

१९ २८
प्रमादमप्रमादेन यदा नुदति पण्डितो ।
प्रंञाप्रासादमारुह्य अशोको शोकिनिं प्रजां ।
पर्व्वतट्ठो व भोमऽट्ठे धीरो बाले अवेच्छति ॥
४:४
प्रमादमप्रमादेन यदा नुदति पण्डितः ।
प्रज्ञाप्रासादमारुह्य त्वशोकः शोकिनीं प्रजाम् ।
पर्वतस्थैव भूमिस्थां धीरो बालानवेक्षते ॥

२० १७२
पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति ।
सो इमं लोकं प्रभासेति अभ्रमुत्तो व चन्द्रमा ॥
१६:५
यस्तु पूर्वं प्रमाद्येह पश्चाद्वै न प्रमाद्यते ।
स इमं भासते लोकम् अभ्रमुक्तैव चन्द्रमाः ॥

२१
पूर्व्वे चापि प्रमज्जित्ता यो पच्छा न प्रमज्जति ।
सो इमां विसत्तिकां लोके सतो समतिवत्तति ॥
१६:६
यस्तु पूर्वं प्रमाद्येह पश्चाद्वै न प्रमाद्यते ।
स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥

२२ ३२
अप्रमादगरु भिक्खू प्रमादे भयदंशिनो ।
अभव्वो परिहाणाय निब्बाणस्सेव सन्तिके ॥
४:३२
अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः ।
अभव्यः परिहाणाय निर्वाणस्यैव सोऽन्तिके ॥

२३ ३१
अप्रमादगरु भिक्खू प्रमादे भयदंशिनो
संयोजनमणुत्थूलं दहमग्गीव गच्छति ।
४:२९
अप्रमादरतो भिक्षुः प्रमादे भयदर्शकः ।
संयोजनमणुस्थूलं दहन्नग्निरिव गच्छति ।

२४ ३२७
अप्रमादरता होथ सं चित्तमनुरक्खथ ॥
दुग्गा उद्धरथात्तानं पके सन्नो व कुञ्जरो ।
४:३६।४:२७
अप्रमादरता भवत स्वचित्तमनुरक्षत ॥
दुर्गादुद्धरते त्मानं पङ्कसन्नैव कुञ्जरः ।

२५
प्रमादे प्रमुदिनो निपका शीलसंवृता ॥
ते वे काले प्राच्छन्ति यत्थ प्रात्तो न शोचति ।

२६
प्रमादे प्रमोदेथ न कामरतिसन्धवे ॥
एवं विहरनातापी शान्तचित्तोऽनुद्धतो ।
चेतोशमथमनुयुत्तो दुक्खस्सन्तकरो सिया ॥

२७ २४
उट्ठेया न प्रमज्जेया धम्मं सुचरितं चरे ।
धम्मचारी [ ] शेति अश्शिं लोके परम्हि च ॥
४:३५
उत्तिष्ठेन्न प्रमाद्येत धर्मं सुचरितं चरेत् ।
धर्मचारी सुखं शेते ह्यस्मिं लोके परत्र च ॥

२८ २४
उट्ठाणवतो सतीमतो शुचिकम्मस्स निशाम्मकाणो ।
संय्यतस्स च धम्मजीविनो अप्रमत्तस्स यशोऽस्स वद्धति ॥
४:६
उत्थानवतः स्मृतात्मनः शुभचित्तस्य निशाम्यचारिणः ।
संयतस्य हि धर्मजीविनो ह्यप्रमत्तस्य यशोऽभिवर्धते ॥

२९ २५
उट्ठाणेनाऽप्रमादेन संय्यमेन दमेन च ।
दीपं कयिराथ मेधावी यमोघो नाधिपूरति ॥
४:५
उत्थानेनाप्रमादेन संयमेन दमेन च ।
द्वीपं करोति मेधावी तमोघो नाभिमर्दति ॥

३० २८०
उट्ठाणकालम्हि अनुट्ठिहानो युवा बली आलसिको उपको ।
संसन्नसंकप्पमनो कुसीदो प्रंञाय माग्गमलसो न येति ॥
३१:३२
उत्थानकालेषु निहीनवीर्यो वाचा बली त्वालसिको निराशः ।
सदैव संकल्पहतः कुसीदो ज्ञानस्य मार्गं सततं न वेत्ति ॥

३१ १६७
हीनं धम्मं न सेवेया प्रमादेन न सम्वसे ।
मिच्छदृष्टिं न सेवेया न सिया लोकवद्धनो ॥
४:८
हीनां धर्मं न सेवेत प्रमादेन न संवसेत् ।
मित्यादृष्टिं न रोचेत न भवेल्लोकवर्धनः ॥

३२ २५९
न तावता धम्मधरो यावता बहु भाषति ।
यो तु अप्पं पि सोत्तान धम्मं कायेन फस्सये ।
स वे धम्मधरो होति यो धम्मे न प्रमज्जति ॥
४:२१
न तावता धर्मधरो यावता बहु भाषते ।
यस्त्विहाल्पमपि श्रुत्वा धर्मं कायेन वै स्पृशेत् ।
स वै धर्मधरो भवति यो धर्मे न प्रमाद्यते ॥

३३ ३७१
धम्मं विचिनाथ अप्रमत्ता मा वो कामगुणा भ्रमेंसु चित्तं ।
मा लोहगुडे गिलं प्रमत्तो क्रण्डे दुक्खमिदन् ति दह्यमानो ॥
३१:३१
आतापि विहर त्वमप्रमत्तो मा ते कामगुणो मथेत चित्तम् ।
मा लोहगुडां गिलेः प्रमत्तः क्रन्दं वै नरकेषु पच्यमानः ॥

अप्रमादवग्गः

          • ब्राह्मण *****



३४ ३८३
छिन्न सूत्रं पराक्राम्म भवं प्रणुद ब्राह्मण ।
संखाराणां खयं ञात्ता अकथसो सि ब्राह्मण ॥
३३:६०
छिन्धि स्रोतः पराक्रम्य कामां प्रणुद ब्राह्मण ।
संकाराणां क्षयं ज्ञात्वा ह्यकृतज्ञो भविष्यसि ॥

३५
यम्हि धम्मं विजानेया वृद्धम्हि दहरम्हि ।
सक्कच्च नं नमस्सेया अग्गिहोत्रं व ब्राह्मणो ॥
३३:६४
यस्य धर्मं विजानीयाद् वृद्धस्य दहरस्य वा ।
सतृअत्यनं नमस्येत ह्यग्निहोत्रमिव द्विजः ॥

३६ ३९२
यम्हि धम्मं विजानेया सम्मसंबुद्धदेशितं ।
तमेव अपचायेया अग्गिहोत्रं व ब्राह्मणो ॥
३३:६६
यस्य धर्मं विजानीयात् सम्यक्संबुद्धदेशितम् ।
सत्कृत्यैनं नमस्येत ह्यग्निहोत्रमिव द्विजः ॥

३७
न जटाहि न गोत्रेण न जाच्चा होति ब्राह्मणो ।
यो तु बाहति पापानि अणुत्थूलानि सब्बशो ॥
बाहना एव पापानां ब्राह्मणो ति प्रवुच्चति ।
३३:८
न जटाभिर्न गोत्रेण न जात्या ब्राह्मणः स्मृतः ।
यस्तु वाहयते पापान्य् अणुस्थूलानि सर्वशः ।
वाहितत्वात्तु पापानां ब्राह्मणो वै निरुच्यते ॥

३८ ४०१
वारी पुक्खरपत्ते वा आराग्रे-र्-इव सासवो ॥
यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ।
३३:३०
वारी पुष्करपत्रेणेव् आराग्रेणेव सर्षपः ।
न लिप्यते यो हि कामैर् ब्रवीमि ब्राह्मणं हि तम् ॥

३९ ३८७
उदयं तपति आदिच्चो रात्रिमाभाति चन्द्रमा ॥
सन्नद्धो खत्तियो तपति झायिं तपति ब्राह्मणो ॥
अथ सब्बे अहोरात्ते बुद्धो तपति तेजसा ॥
३३:७४
दिवा तपति हादित्यो रात्रावाभाति चन्द्रमाः ।
संनद्धः क्षत्रियस्तपति ध्यायी तपति ब्राह्मणः ।
अथ नित्यमहोरात्रं बुद्धस्तपति तेजसा ॥

४० ३८५
यस्स पारमपारं वा पारापारं न विज्जति ।
वीतज्जरं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ॥

४१ ३८४
यदा दयेसु धम्मेसु पारगू होति ब्राह्मणो ।
अथस्स सब्बे संयोगा अत्थं गच्छन्ति जानतो ॥
३३:७२
यदा हि स्वेषु धर्मेषु ब्राह्मणः पारगो भवेत् ।
अथास्य सर्वसंयोगा अस्तं गच्छन्ति पश्यतः ॥

४२
स खु सो खिणसंयोगो खीणमानपुनब्भवो ।
संघावसेवी धम्मट्ठो संघं न उपेति वेदगू ॥
६:१०
स तु विक्षीण संयोगः क्षीणमानो निरौपधिः ।
कायस्य भेदात्सप्रज्ञः संख्यान्नोपैति निर्वृतः ॥

४३ ४०८
अकक्कशिं विन्नपणिं गिरां सच्चमुदीरये ।
ताय नाभिषपे कंचि तमहं ब्रूमि ब्राह्मणं ॥
३३:१७
योऽकर्कशां विज्ञपनीं गिरं नित्यं प्रभाषते ।
यया नाभिषजेत्कश्चिद् ब्रवीमि ब्राह्मणं हि तम् ॥

४४ ४०४
असंसट्ठं गृहट्ठेहि अनगारेहि चूभयं ।
अनोकसारिमप्पिच्छं तमहं ब्रूमि ब्राह्मणं ॥
३३:२०
असंसृष्टं गृहस्थेभिर् अनगारैस्तथोभयं ।
अनोकसारिणं तुष्टं ब्रवीमि ब्राह्मणं हि तं ॥

४५ ३९१
यस्स कायेन वाचाय मनसा नास्ति दुक्कतं ।
संवृतं त्रिसु ट्ठाएसु तमहं ब्रूमि ब्राह्मणं ॥
३३:१६
यस्य कायेन वाचा च मनसा च न दुष्कृतम् ।
सुसंवृतं तृभिः स्थानैर् ब्रवीमि ब्राह्मणं हि तम् ॥

४६ ३८९
मा ब्राह्मणस्स प्रहरे नास्स मुच्चेय ब्राह्मणो ।
धि ब्राह्मणस्स हन्तारं य स्स वा सु न मुच्चति ॥
३३:६३
न ब्राह्मणस्य प्रहरेन् न च मुञ्चेत ब्राह्मणः ।
धिग्ब्राह्मणस्य हन्तारं धिक्तं यष्च प्रमुञ्चति ॥

४७ २९४,२९५
मातरं पठनं हन्ता राजानं दो च खत्तिये ।
राष्टं सानुचरं हन्ता अनिघो चरति ब्राह्मणो ॥
३३:६१,६२
मातरं पितरं हत्वा राजानं द्वौ च श्रोत्रियौ ।
राष्ट्रं सानुचरं हत्वा अनिघो याति ब्राह्मणः ॥

४८ ४०३
गम्भीरप्रंञं मेधाविं माग्गाऽमाग्गस्स कोविदं ।
उत्तमात्थमनुप्रात्तं तमहं ब्रूमि ब्राह्मणं ॥
३३:३३
गम्भीरबुद्धिं मेधाढ्यं मार्गामार्गेषु कोविदम् ।
उत्तमार्थमनुप्राप्तं ब्रवीमि ब्राह्मणं हि तम् ॥

४९ ३८६
झायिं विरजमासीनं कतकिच्चमनासवं ।
उत्तमात्थमनुप्रात्तं तमहं ब्रूमि ब्राह्मणं ॥
३३:३२
ध्यायिनं वीतरजसं कृतकृत्यमनासवम् ।
क्षीणास्रवं विसंयुक्तं ब्रवीमि ब्राह्मणं हि तम् ॥

ब्राह्मणवर्ग्गः

          • भिक्षु *****



५०
सब्बत्थ संवरो साधु साधु सब्बत्थ संवरो ।
सब्बत्थ संवृतो भिक्खू सब्बदुक्खा प्रमुच्चति ॥

५१ ३६१
कायेन सम्वरो साधु साधु वाचाय संवरो ।
मनसा पि संवरो साधु साधु सब्बत्थ संवरो ।
सब्बत्थ संवृतो भिक्षू सब्बदुक्खा प्रमुच्चति ॥
७:११
कायेन संवरः साधु साधु वाचा च संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः ।
सर्वत्र संवृतो भिक्षुः सर्वदुःखात्प्रमुच्यते ॥

५२ ३६२
हस्तसंय्यतो पादसंय्यतो वाचासंय्यतो संवृतेन्द्रियो ॥
अज्झत्तरतो समाहितो एको संतुषितो तमाहु भिक्खुं ।
३२:७
हस्तसंयतः पादसंयतो वाचासंयतः सर्वसंयतः ।
आध्यात्मरतः समाहितो ह्येकः संतुषितो हि यः स भिक्षुः ॥

५३ ३७८
शान्तकायो शान्तचित्तो शान्तवा सुसमाहितो ॥
वान्तलोकामिषो भिक्खू उपशान्तो ति वुच्चति ।
३२:२४
शान्तकायः (शान्तचित्तः) शान्तवाक्सुसमाहितः ।
वान्तलोकामिषो भिक्षुर् उपशान्तो निरुच्यते ॥

५४ ३६३
यो मुखे संय्यतो भिक्खू मन्ताभाषी अनुद्धतो ॥
अत्थं धम्मञ्च देशेति मधुरं तस्स भाषितं ।
८:१०
मुखेन संयतो भिक्षुर् मन्दाभाषी ह्यनुद्धतः ।
अर्थं धर्मं च देशयति मधुरं तस्य भाषितम् ॥

५५ ३६५
सं लाभं नातिमंञेया नाऽंञेसं प्रिहयं चरे ॥
अंञेसं प्रिहयं भिक्खू समाधिन्नाधिगच्छति ।
१३:८
स्वलाभं नावमन्येत नान्येषां स्पृहको भवेत् ।
अन्येषां स्पृहको भिक्षुः समाधिं नाधिगच्छति ॥

५६ ३६६
अप्पलाभो पि चे भिक्खू सं लाभं नातिमंञति ॥
तं वे देवा प्रशंसन्ति शुद्धाजीविमतन्द्रितं ॥
१३:१२
अल्पज्ञातोऽपि चेद्भवति शीलेषु सुसमाहितः ।
विद्वांसस्तं प्रशंसन्ति शुद्धाजीविमतन्द्रितम् ॥

५७ ३६९
सिञ्च भिक्खु इमं नावां सित्ता ते लघु हेहिति ।
हेत्ता रागञ्च दोषं च ततो निब्बाणमेहिसि ॥
२६:१२
सिञ्च भिक्षोरिमां नावं सिक्ता लघ्वी भविष्यति ।
हित्वा रागं च दोषं च ततो निर्वाणमेष्यसि ॥

५८
उदाग्ग्रचित्तो सुमनो अधिभूय प्रियाऽप्रियं ॥
ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे ।
३२:२३
उदग्रचित्तः सुमना ह्यधिभूय प्रियाप्रियम् ॥
प्रामोद्यबहुलो भिक्षुर् दुःखक्षयमवाप्नुयात् ।

५९ ३६८
मेत्ताविहारी भिक्खू प्रसन्नो बुद्धशासने ॥
पटिविज्झि पदं शान्तं संखारोपशमं सुखं ।
दृष्टे व धम्मे निब्बाणं योगच्छेममनुत्तरं ॥
३२:२१
मैत्राविहारी यो भिक्षुः प्रसन्नो बुद्धशासने ।
अधिगच्छेत्पदं शान्तं संस्कारोपशमं सुखम् ॥
(दृष्टे व धम्मे निब्बाणं योगच्छेममनुत्तरं ॥)

६० ३७३
शुंञऽगारं प्रविष्टस्स शान्तचित्तस्स भिक्खुणो ।
अमानुषा रती होति सम्मं धम्मं विपश्शतो ॥
३२:९
शुन्यागारं प्रविष्टस्य प्रहितात्मस्य भिक्षुणः ।
अमानुषा रतिर्भवति सम्यग्धर्मां विपश्यतः ॥

६१ ३७४
यथा यथा सम्मस्सति खन्धानामुदयव्ययं ।
लभते चित्तस्स प्रामोज्जं अमता हेतं विजानतो ॥
३२:१०
यथो यथः संपृशति स्कन्धानामुदयव्ययम् ।
प्रामोद्यं लभते तत्र प्रीया सुखमनल्पकम् ।
ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥

६२ ३७२
नास्ति झानमप्रंञस्स प्रंञा नास्ति अझायतो ।
यम्हि झानं च प्रंञा च स वे निब्बाणसन्तिके ॥
३२:२५
नास्त्यप्रज्ञस्य वै ध्यानम् प्रज्ञा नाध्यायतोऽस्ति च ।
यस्य ध्यानं तथा प्रज्ञा स वै निर्वाणसान्तिके ॥

६३ ३७५
तत्थायमादी भवति इह प्रंञस्स भिक्खुणो ।
इन्द्रियगोत्ती सान्तोष्टी प्रातिमोक्खे च संवरो ॥
३२:२६ द्,२७ ब्
तस्यायमादिर्भवति तथा प्रज्ञस्य भिक्षुणः ।
संतुष्टिरिन्द्रियैर्गुप्तिः प्रातिमोक्षे च संवरः ॥

६४ ३७५ f,३७६
मित्ते भजेथ कल्लाणे शुद्धाजीवी अतन्द्रितो ।
पटिसन्धरवट्टि स्स आचरकुशलो सिया ।
ततो प्रामोज्जबहुलो सतो भिक्खू परिव्रजे ॥
३२:६
मात्रं भजेत प्रतिरूपं शुद्धाजीवो भवेत्सदा ।
प्रतिसंस्तारवृत्तिः स्याद् आचारकुशलो भवेत् ।
ततः प्रामोद्यबहुलः स्मृतो भिक्षुः परिव्रजेत् ॥

६५ ३३१
अत्थेसु जातेसु सुखा सखाया पुंञं सुखं जीवितसंखयम्हि ।
तोष्टी सुखा या इतरी[ ] सब्बस्स पापस्स सुखं प्रहाणं ॥
३०:३४
अर्थेषु जातेषु सुखं सहायाः पुण्यं सुखं जीवितसंक्षयेषु ।
तुष्टिः सुखा या त्वितरेतरेण सर्वस्य दुःखस्य सुखो निरोधः ॥

६६ ३३२
सुखा मात्रेता लोके ततो पेत्तेता सुखा ।
शामन्नता सुखा लोके ततो ब्राह्मन्नता सुखा ॥
३०:२१
सुखं मातृव्यता लोके सुखं चैव पित्तृव्यता ।
सुखं श्रामण्यता लोके तथा ब्राह्मण्यता सुखम् ॥

६७ ३३३
सुखं यावज्जरा शीलं सुखा श्रद्धा प्रतिष्ठिता ।
सुखा अत्थरसा वाचा अस्सिं मानक्खयो सुखो ॥
३०:२०
सुखं यावज्जरा शीलं सुखं श्रद्धा प्रतिष्ठिता ।
सुखं चार्थरता वाचा पापस्याकरणं सुखं ॥

६८ १९४
सुखो बुद्धान उप्पादो सुखा धम्मस्स देशना ।
सुखा संघस्स सामग्ग्री समग्ग्राणां तपो सुखो ॥
३०:२२
सुखं बुद्धस्य चोत्पादः सुखं धर्मस्य देशना ।
सुखं संघस्य सामग्री समग्राणां तपः सुखं ॥

६९ २०६
सुखं दंशनमयिराणां संवासो पि सतां सुखो ।
अद्दंशनेन बालानां निच्चमेव सुखी सिया ॥
३०:२५
सुखं दर्शनमार्याणां संवासोऽपि सदा सुखं ।
अदर्शनेन बालानां नित्यमेव सुखी भवेत् ॥

७० २०७
बालासङ्गतचारी हि द्रीघमद्धान शोचति ।
दुक्खो बालेहि संवासो अमित्तेहि-र्-इव सब्बदा ।
धीरा तु सुखसंवासा ञातीनं वा समागमो ॥
३०:२६
बालासंसर्गचारी हि दीर्घाध्वानं प्रशोचति ।
दुःखो बालैर्हि संवासो ह्यमित्रैरिव सर्वशाः ।
धीरैस्तु सुखसंवासो ज्ञातीनामिवा संगमः ॥

७१ २०८
तस्सा हि धीरं च बहुश्शुतञ्च धोरेयशीलव्रतमन्तमयिरं ।
तं तारिसं सप्पुरुषं सुमेधं सेवेथ नक्खत्तपथे व चन्द्रमा ॥
२५:२५
धीरं प्राज्ञं निषेवेत शीलवन्तं बहुश्रुतम् ।
धौरेयं जवसंपन्नं चन्द्रं तारागणा इव ॥

७२ २१२
प्रियातो जायते दुक्खं प्रिया शोका प्रिया भयं ।
प्रियातो विप्रमुत्तस्स नास्ति शोका कतो भयं ॥
५:१
प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम् ।
प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् ॥
७३ २१०
मा प्रियेहि समागंम अप्रियेहि कदाचनं ।
प्रियस्स अद्दंशनं दुक्खं अप्रियस्स च दंशनं ॥
५:५
मा प्रियैः संगमो जातु मा च स्यादप्रियैः सदा ।
प्रियाणामदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥

७४ २११
तस्सा प्रियं न कयिराथ प्रियावादो हि पापको ।
ग्ग्रंथा तेसं न विज्जन्ति येसं नास्ति प्रियाप्रियं ॥
५:८
तस्मात्प्रियं न कर्वीत प्रियभावो हि पापकः ।
ग्रन्थास्तेषां न विद्यन्ते येषां नास्ति प्रियाप्रियम् ॥

७५ २१३
छुधा परम रोगाणं संखारपरमं दुखं ।
एतं ञात्ता यथाभूतं निब्बाणपरमं सुखं ॥
२६:७
क्षुधा परम रोगाणां संस्कारा दुःखमेव तु ।
एतज्ज्ञात्वा यथाभूतं निर्वाणपरमो भवेत् ॥

७६ २०४
आरोग्गपरमा लाभा सांतोष्टीपरमं धनं ।
विश्शासपरमा ञाती निब्बाणपरमं सुखं ॥
२६:६
आरोग्यपरमा लाभा सांतुष्टिपरमं धनम् ।
विश्वासपरमं मित्रं निर्वाणपरमं सुखम् ॥

७७ २९०
मात्तासुखपरिच्चागा पश्शे चे विपुलं सुखं ।
चजे मात्तासुखं धीरो संपश्शं विपुलं सुखम् ॥
३०:३०
मात्रासुखपरित्यागाद् यः पश्येद्विपुलं सुखम् ।
त्यजेन्मात्रासुखं धीरः संपश्यं विपुलं सुखम् ॥

७८
मनुजस्स सदा सतीमतो मात्तं जानिय लद्धिभोजने ।
तनुकाऽस्स भवन्ति वेदना शनिकं जीरति आयु पालयं ॥
२९:१४
मनुजस्य सदा स्मृतीमतो लब्ध्वा भोजनमात्रजानतः ।
तनुकास्य भवन्ति वेदनाः शनकैर्जीर्यति आयुः पालयम् ॥

७९ १९३
दुल्लभो पुरुषाजंञो न सो सब्बत्थ जायति ।
यत्थ सो जायते वीरो तं कुलं सुखमेधति ॥
३०:२७
दुर्लभः पुरुषो जात्यो नासौ सर्वत्र जायति ।
यत्रासौ जायते वीरस् तत्कुलं सुखमेधते ॥

८० ८३
सब्बत्थ वे सप्पुरुषा भवन्ति न कामकामा लपयन्ति सन्तो ।
सुखेन पुट्ठा उत्तवा दुखेन नोच्चावचं सप्पुरुषा करोन्ति ॥
३०:५२
सापत्रपाः सत्पुरुषा भवन्ति न कामहेतोर्लपयन्ति सन्तः ।
स्पृष्टा हि दुखेन तथा सुखेन नोच्चावचाः सत्पुरुषा भवन्ति ॥

८१ २०१
जयं वेरं प्रसवति दुखं शेति पराजितो ।
उपशान्तो सुखं शेति हेत्ता जयपराजयं ॥
३०:१
जयाद्वैरं प्रसवते दुःखं शेते पराजितः ।
उपशान्तः सुखं शेते हित्वा जयपराजयौ ॥

८२ ३३३ द्
सुखा नज्जो सूपतित्था सुखो धम्मजितो जनो ।
सुखो श्रद्धपटीलाभो पापस्स अकरणं सुखं ॥
३०:२४ -च्,३०:२०
सुखा नदी सूपतीर्था सुखं धर्मजिनो जिनः ।
प्रज्ञालाभः सुखो नित्यम् पापस्याकरणं सुखम् ॥

८३
सुखं द्रष्टुं शीलवन्तो सुखं द्रष्टुं बहुश्शुता ।
अरहन्तो पि सुखं द्रष्टुं विप्रमुत्ता निरोपधी ॥
३०:२३
शीलवन्तः सुखं दृष्टुं सुखं दृष्टुं बहुश्रुताः ।
अरहन्तश्च सुखं दृष्टुं विप्रमुक्तपुनर्भवाः ॥

८४
ये केचि शोका परिदेवितं वा दुक्खं व लोकम्हि अनेकरूपं ।
प्रियं पटिच्च प्रभवति एते प्रिये असन्ते न भवन्ति एते ॥
५:३
शोका हि वै परिदेवितं च दुःखं च लोकस्य हि नैकरूपम् ।
प्रियं प्रतीत्येह तदस्ति सर्वं प्रियेऽसति स्यान्न कथं चिदेतत् ॥

८५
तस्सा हि ते सुखि<खि>नो वीतशोका येसं प्रियं नास्ति लिके ।
तस्सा अशोकं विरजं प्रात्थयाना प्रियं न कयिराथ कहिंचि लोके ॥
५:४
तस्माद्धि ते सुखिता वीतशोका येषां प्रियं नास्ति कथं चिदेव ।
तस्मादशोकं पदमेषमाणः प्रियं न कुर्वीत हि जीवलोके ॥

८६ ९०
गतद्धुनो विशोकस्स विप्रमुत्तस्स सब्बहिं ।
सब्बग्ग्रन्तप्रहीणस्स परिदाहा न विज्जति ॥
२९:३५
गताध्वनो विशोकस्य विप्रमुक्तस्य तायिनः ।
सर्वग्रन्थप्रहीणस्य परिदाघो न विद्यते ॥

८७ ९०
येसां सन्निचयो नास्ति ये परिञातभोजना ।
आकाशे व शकुन्तानां पदं तेसां दुरन्नयं ॥
२९:२५ बेf
येषां संनिचयो नास्ति ये परिज्ञातभोजनाः ।
आकाशैव शकुन्तानां पदं तेषां दुरन्वयम् ॥

८८ ९६
शान्तो तस्स मनो होति शान्ता वाचा च कंमु च ।
संमदंञाविमुत्तस्स उपशान्तस्स तायिनो ॥
३१:४५
शान्तमस्य मनो भवति शान्ता वाक्कायकर्म च ।
सम्यगाज्ञाविमुक्तस्य ह्युपशान्तस्य भिक्षुणः ॥

८९ ९४
यस्सेन्द्रियाणि समतं गतानि अश्शा यथा सारथिना सुदान्ता ।
प्रहीणमानस्स अनासवस्स देवा पि तस्स प्रिहयन्ति तायिनो ॥
१९:३
यस्येन्द्रियाणि समतां गतानि अश्वो यथा सारथिना सुदान्तः ।
प्रहीणदोषाय निरास्रवाय देवापि तस्मै स्पृहयन्ति नित्यम् ॥

९० ३२१
दान्तं नयन्ति समितिं दान्तं राजाभिरूहति ।
दान्तो श्रेष्ठो मनुष्येसु योऽतिवादे तितिक्खति ॥
१९:६
दान्तो वै समितिं याति दान्तं राजाधिरोहति ।
दान्तः श्रेष्ठो मनुष्याणां योऽतिवाक्यं तितीक्षति ॥

९१ ३२२
वरमस्सतरा दान्ता आजानेया व सेन्धवा ।
कुञ्जरा व महानागा आत्ता दान्तो ततो वरं ॥
१९:७
यो ह्यश्वं दमयेज्जान्यम् आजानेयं च सैन्धवम् ।
कुञ्जरं वा महानागम् आत्मा दान्तस्ततो वरम् ॥

९२ ३२३
न हि तेहि जानजातेहि तां भूमिमभिसंभवे ।
यथाऽत्तना सुदान्तेन दान्तो दान्तेन गच्छति ॥
१९:८
न हि तेन स यानेन तां भूमिमभिसंभवेत् ।
यामात्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥

९३ ८१
शेलो यथा एकघनो वातेन न समीरति ।
एवं निन्दाप्रशंसासु न समीरन्ति पण्डिता ॥
२९:४९
शैलो यथाप्येकघनो वायुना न प्रकम्प्यते ।
एवं निन्दाप्रशंसाभिर् न कम्प्यन्ते पण्डिताः ॥

९४ ९
अनिक्कषायो काषायं यो वस्तं परिधेहिति ।
अपेतो दमसच्चेन न सो काषायमरिहति ॥
२९:७
अनिष्कषायः काषायं यो वस्तं परिधास्यति ।
अपेतदमसौरत्यो नासौ काषायमर्हति ॥

९५ १०
यो तु वान्तकषायस्स शीलेहि सुसमाहितो ।
उपेतो दमसच्चेन स वे काषायमरिहति ॥
२९:८
यस्तु वान्तकषायः स्याच् छीलेषु सुसमाहितः ।
उपेतदमसौरत्यः स वै काषायमर्हति ॥

शोकवर्ग्गः

          • कल्याणी *****



९६ ११६
अभित्तरेथ कल्लाणे पापा चित्तं निवारये ।
धंधं हि करतो पुंञं पापम्हि रमते मनो ॥
२८:२३
अभित्वरेत कल्याणे पापाच्चित्तं निवारयेत् ।
धन्धं हि कुर्वतः पुण्यं पापेषु रमते मनः ॥

९७ ११७
कयिर चे पुरुषो पापं न नं कयिरा पुनप्पुनो ।
न तम्हि छन्द[ं] कयिराथ दुक्खो पापस्स स[ं]चयो ॥
२८:२१
कर्याच्चेत्पुरुषः पापं नैनं कुर्यात्पुनः पुनः ।
न तत्र च्छन्दं कुर्वीत दुःखं पापस्य संचयः ॥

९८ ११८
कयिर चे पुरुषो पु[ं]ञ[ं] कय्[इ]र चेन[ं] पुनप्पुनो ।
तम्ह्[इ] एव छन्द[ं] कयिराथ सुखो पुंञस्स संचयो ॥
२८:२२
कुर्यात्तु पुरुषः पुण्यं कुर्याच्चैनं पुनः पुनः ।
तत्र च्छन्दं च कुर्वीत सुखं पुण्यस्य संचयः ॥

९९
शुद्धस्सेव सदा फग्गू शुद्दस्सोऽपोषधो सदा ।
शुद्धस्स शुचिकम्मस्स सदा संपज्जते व्रतं ॥
१६:१५
शुद्धस्य हि सदा फल्गुः शुद्दस्य पोषथः सदा ।
शुद्धस्य शुचिकर्मणः सदा संपद्यते व्रतम् ॥

१०० ३१४ ब्
अकतं दुक्कतं श्रेयो पच्छा तपति दुक्कतं ।
दुक्कतं मे कतं ति शोचति भूयो शोचति दोग्गतिं गतो ॥
२९:४१
अकृतं कुकृताच्छ्रेयः पश्चात्तपति दुष्कृतं ।
शोचते दुष्कृतं कृत्वा शोचते दुर्गतिं गतः ॥

१०१ ३१४ द्
कतञ्च सुकतं साधु यं कत्ता नानुतप्पति ।
सुकतं मे कतं ति नन्दति भूयो नन्दति सोग्गतिङ्गतो ॥
२९:४२
कृतं तु सुकृतं श्रेयो यत्कृत्वा नानुतप्यते ।
नन्दते सुकृतं कृत्वा नन्दते सोगतिं गतः ॥

१०२ ११९
पापो पि पश्शते भद्रं याव पापं न पच्चति ।
यदा तु पच्चते पापं अथ पापो पापानि पश्शति ॥
२८:१९
पापोऽपि पश्यते भद्रं यावत्पापं न पच्यते ।
यदा तु पच्यते पापम् अथ पापानि पश्यति ॥

१०३ १२०
भद्रो पि पश्शते पापं याव भद्रं न पच्चति ।
यदा तु पच्चते भद्रं अथ भद्रो भद्राणि पश्शति ॥
२८:२०
भद्रोऽपि पश्यते पापं यावद्भद्रं न पच्यते ।
यदा तु पच्यते भद्रम् अथ भद्राणि पश्यति ॥

१०४
पापं पि करतो भद्रं याव पापं न पच्चति ।
अथ पयिरागते काले पापो पापानि पश्शति ॥

१०५
भद्रं पि करतो पापं याव भद्रं न पच्चति ।
अथ पयिरागते काले भद्रो भद्राणि पश्शति ॥

१०६ १२४
पाणिम्हि चे व्रणो नाऽस्स धारेया पाणिना विषं ।
नाव्रणे विषमन्नेति नास्ति पापमकुर्व्वतो ॥
२८:१५
पाणौ चास्य व्रणो न स्याद् धारयेत्पाणिना विषम् ।
नाव्रणे क्रामति विषम् नास्ति पापमकुर्वतः ॥

१०७ ७१
न हि पापकं कतं कम्मं सज्जं छीरं व मुच्छति ।
दहन्तं बालमन्नेति भस्सछन्नो व पापको ॥
९:१७
न हि पापकृतं कर्म सद्यः क्षीरमिव मूर्छति ।
दहन्तद्बालमन्वेति भस्माछन्न इवानलः ॥

१०८
न हि पापकं कतं कम्मं सज्जं शस्तं व कन्तति ।
मरणोऽपेतो हि जानाति या गती पापकंमुनो ॥
९:१८
न हि पापकृतं कर्म सद्यं शस्त्रमिव कृन्तति ।
साम्पराये तु जानाति या गतिः पापकर्मणाम् ॥

१०९
अनागतं पटिकयिराथ किच्चं मा वो किच्चं किच्चकाले व्यधेया ।
तं तारिसं पटिकतकिच्चकारिं न नं किच्चं किच्चकाले व्यधेहि ॥
१६:१
पूर्वं हि कृत्यं प्रतिजागरेत मा मे कृत्यं कृत्यकाले विहन्यात् ।
तं नित्यकाले प्रतियत्यकारिणं नैव कृत्यं कृत्यकाले विहन्ति ॥

११०
पटिकच्चेव तं कयिरा यं ञाय्या हितमात्तनो ।
न शाकटिकमन्ति स्स मन्तं धीरो पराक्रमे ॥
४:१६
प्रतियत्येव तत्कुर्याद् यज्जान्र्द्धितमात्मनः ।
न शाकटिकचिन्ताभिर् मन्दं धीरः पराक्रमेत् ॥

१११
यथा शाकटिको माग्गं समं हेत्ता महापथं ।
विषमं माग्गमासाज्ज अक्खछिन्नो थ झायति ॥
४:१७
यथा शाकटिको मार्गं समं हित्वा महापथम् ।
विषमं मार्गमागम्य च्छिन्नाक्षः शोचते भृशम् ॥

११२
एवं धम्मा अपक्रांम अधंममनुवत्तिय ।
बालो मच्चुमुखं प्रात्तो अक्खछिन्नो व झायति ॥
४:१८
एवं धर्मादपक्रम्य ह्यधर्ममनुवर्त्य च ।
बालो मृत्युवशं प्रातच् छिन्नाक्ष इव शोचते ॥

११३ ३०७
काषायकंठा बहवो पापधंमा असंय्यता ।
पापा पापेहि कंमेहि निरयं ते उपपज्जथ ॥
११:९
काषायकण्ठा बहवः पापधर्मा ह्यसंयताः ।
पापा हि कर्मभिः पापैर् इतो गच्छन्ति दुर्गतिम् ॥

११४ ३०६
अभूतवादी निरयमुपेति यो चापि कत्ता न करोमी ति आह ।
उभो पि ते प्रेच्च समा भवन्ति निहीनकंमा मनुजा परत्र ॥
८:१
अभूतवादी नरकानुपैति यश्चान्यदप्याचरतीह कर्म ।
उभौ हि तौ प्रेत्य समौ निरुक्तौ निहीनधर्मौ मनुजौ परत्र ॥

११५ १२५
यो अप्रदुष्टस्स नरो प्रदुष्यति शुद्धस्स पोषस्स अनंगनस्स ।
तमेव बालं प्रच्चेति पापं सुखुमो रजो पटिवातं व खितो ॥
२८:९
यो ह्यप्रदुष्टस्य नरस्य दुष्यते शुद्धस्य नित्यं विगताङ्गणस्य ।
तमेव बालं प्रत्याति पापं क्षिप्तं रजः प्रतिवातं यथैव ॥

११६ १२३
वाणिजो व भयं व माग्गं अप्पसात्थो महद्धनो ।
विषं जीवितुकामो व पापानि परिवज्जये ॥
२८:१४
वणिग्वा सभयं मार्गं अल्पशास्त्रो महाधनो ।
विषं जीवितकामो वा पापानि परिवर्जयेत् ॥

११७ २९१
परदुक्खोपधानेन यो इच्छे सुखमात्तनो ।
वेरसंसग्गसंसट्ठो दुक्खा न परिमुच्चति ॥
३०:२
परदुःखोपधानेन य इच्छेत्सुखमात्मनः ।
वैरसंसर्गसंसक्तो दुःखान्न परिमुच्यते ॥

११८
कुणपस्स पि गंधुच्छिज्जति उऽद्धुकितस्स (-छितस्स) पि राति अच्चया ।
पुरुषस्स अधम्मचारिणो अन्नाहं गन्धो न छिज्जति ॥

११९
यथ ग्ग्रहपतयो प्रभूतरतना आडित्ते नगरम्हि दह्यमाने ।
मुत्तामणिफटिकरजतहेतो व्यायमन्ति अपि नीहरेम किंचि ॥

१२०
तथ-र्-इव शमणा प्रभूतप्रंञा अयिरा अयिरपथेसु सिच्छमाना ।
जातिजरामरणभयाद्दित्ता दुक्खाट्टा व्यायमन्ति अपि प्रापुणेम शान्तिं ॥
कल्याणिवग्गः

          • पुष्प *****



१२१ ५४
न पुष्पगन्धो पटिवातमेति न चन्दनं तगरं वाह्लिकं वा ।
सतान् तु गन्धो पटिवातमेति सब्बा दिशा सप्पुरुषो प्रवाति ॥
६:१६
न पुष्पगन्धः प्रतिवातमेति न वाह्निजात्तगराच्चन्दनाद्वा ।
सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति ॥

१२२ ५५
चन्दनं तगरं चापि उप्पलमथ वाश्शिकिं ।
एतेसां गन्धजातानां शीलगन्दधो अनुत्तरो ॥
६:१७
तगराच्चन्दनाच्चापि वार्शिकायास्तथोत्पलात् ।
एतेभ्यो गन्धजातेभ्यः शीलगन्दस्त्वनुत्तरः ॥

१२३ ५६
अप्पामात्रो अयं गंधो योयं तगरचन्दने ।
यो तु शीलवतां गन्धो वाति देवेसु उत्तमो ॥
६:१८
अल्पमात्रो ह्ययं गंधो योऽयं तगरचन्दनात् ।
यस्तु शीलवतां गन्धो वाति देवेष्वपीह सः ॥

१२४ ५७
तेसां सम्पन्नशीलानां अप्रमादविहारिणां ।
सम्मदंञाविमुत्तानां मारो माग्गं न विण्डति ॥
६:१९
तेषां विशुद्धशीलानाम् अप्रमादविहारिणाम् ।
सम्यगाज्ञाविमुक्तानां मारो मार्गं न विन्दति ॥

१२५ ५७
यथा पि रुचिरं पुष्पं वन्नवन्तमगन्धकं ।
एवं सुभाषिता वाचा अफला होति अकुर्व्वतो ॥
१८:६
यथापि रुचिरं पुष्पं वर्णवत्स्यादगन्धवत् ।
एवं सुभाषिता वाचा निष्फला सावकुर्वतः ॥

१२६ ५२
यथा पि रुचिरं पुष्पं वन्नवन्तं सगंधकं ।
एवं सुभाषिता वाचा सफला होति कुर्व्वतो ॥
१८:७
यथापि रुचिरं पुष्पं वर्णवत्स्यात्सुगंधवत् ।
एवं सुभाषिता वाचा सफला भवति कुर्वतः ॥

१२७ ४९
यथा पि भ्रमरो पुष्पा वन्नगन्धमहेडयं ।
प्रडेति रसमादाय एवं ग्ग्रामे मुनी चरे ॥
१८:८
यथापि भ्रमरः पुष्पाद् वर्णगन्धावहेटयन् ।
परैति रसमादाय तथा ग्रामं मुनिश्चरेत् ॥

१२८ ४७
पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं ।
सुत्तं ग्ग्रामं महोघो वा मच्चु-र्-आदाय गच्छति ॥
१८:१४
पुष्पाण्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् ।
सुप्तं ग्रामं महौघैव मृत्युरादाय गच्छति ॥

१२९ ४८
पुष्पाणि हेव प्रचिनन्तं व्यासत्तमनसं नरं ।
असंपु®न्नेसु कामेसु अन्तको कुरुते वशे ॥
१८:१५
पुष्पाण्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् ।
अतृप्तमेव कामेषु त्वन्तकः कुरुते वशम् ॥

१३० ५३
यथा पि पुष्पराशिम्हा कयिरा मालागुणे बहू ।
एवं जातेन माच्चेन कातव्वं कुशलं बहुं ।
१८:१०
यथापि पुष्पराशिभ्यः कुर्यान्मालागुणां बहून् ।
एवं जातेन मर्त्येन कर्तव्यं कुशलं बहु ।

१३१ ४४
को इमं पठविं विजेहिति यमलोकं व इमं सदेवकं ।
को धम्मपदे सुदेशिते कुशलो पुष्पमिव प्रजेहिति ॥
१८:१
को इमां पृथिवीं विजेष्य्ते यमलोकं च तथा सदेवकम् ।
को धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यते ॥

१३२ ४५
शे®खो पठविं विजेहिति यमलोकं व इमं सदेवकं ।
सो धम्मपदे सुदेशिते कुशलो पुष्पमिव प्रजेहिति ॥
१८:२
शैक्षः पृथिवीं विजेष्यते यमलोकं व तथा सदेवकम् ।
स हि धर्मपदं सुदेशितं कुशलो पुष्पमिव प्रजेहिति ॥

१३३ ३७७
वाश्शिकी-र्-इव पुष्पाणि मञ्चकानि प्रमुञ्चति ।
एवं रागञ्च दोषञ्च विप्रमुञ्चथ भिक्खवो ॥
१८:११
वर्षासु हि यथा पुष्पं वगुरो विप्रमुञ्चति ।
एवं रागं च दोषं च विप्रमुञ्चत भिक्षवः ॥

१३४ ४६
फेनोपमं लोकमिमं विदित्ता मरीचिधम्ममभिसंबुधानां ।
छेत्तान मारस्स प्रपुष्पकानि अद्दंशनं मच्चुराजस्स गच्छे ॥
१८:१८
फेनोपमं कायमिमं विदित्वा मरीचिधर्मं परिबुध्य चैव ।
छित्वेह मारस्य तु पुष्पकानि त्वदर्शनं मृत्युराजस्य गच्छेत् ॥

१३५ ५८
यथा संकारकूटम्हि उज्झितम्हि महापथे ।
पदुममुब्भिदमस्स शुचिगन्धं मनोरमं ॥
१८:१२
यथा संकारकूटे व्युज्झिते हि महापथे ।
पद्मं तत्र तु जायेत शुचिगन्धि मनोरमम् ॥

१३६ ५९
एवं संकारभूतेसु अन्धभूते पृथुज्जने ।
अतिरोचन्ति प्रंञाय संमसबुद्धसावका ॥
१८:१३
एवं संकारभूतेऽस्मिन्न् अन्धभूते पृथग्जने ।
प्रज्ञया व्यतिरोचन्ते सम्यक्संबुद्धश्रावकाः ॥

पुष्पवर्ग्गः

          • तह्न *****



१३७ ३३४
मनुजस्स प्रमत्तचारिणो तह्ना वद्धति मालुता इव ।
सा प्राप्लवते हुराहुरं फलमेषी व वनम्हि वान्नरो ॥
३:४
मनुजस्य प्रमत्तचारिणस् तृष्णा वर्धति मालुतेव हि ।
स हि संसरते पुनः पुनः फलमिच्छन्निव वानरो वने ॥

१३८ ३३५
यं चेसा सहते जंमी तह्ना लोके दुरच्चया ।
शोका तस्स प्रवद्धंति ओवट्ठा बेरुणा इव ॥
३:९
य एतां सहते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् ।
शोकास्तस्य प्रवर्धन्ते ह्यववृष्टा बीरणा यथा ॥

१३९ ३३६
यो चेतां सहते जंमिं तह्नां लोके दुरच्चयां ।
शोका तस्स विवट्टन्ति उदबिन्दू व पुक्खरे ॥
३:१०
यस्त्वेतां त्यजते ग्राम्यां तृष्णां लोके सुदुस्त्यजाम् ।
शोकास्तस्य निवर्तन्ते उदबिन्दुरिव पुष्करात् ॥

१४० ३३७
तं वो वदेमि भद्रं वो यावंत्-इत्थ समागता ।
तह्नां समूलां खणथ उषीरात्थी व बेरुणिं ।
तह्नाय खतमूलाय नास्ति षोका कतो भयं ॥
३:११
तद्वै वदामि भद्रं वो यावन्तः स्थ समागताः ।
तृष्णां समूलां खनथ उशीरार्थीव बीरणाम् ।
तृष्णायाः खातमूलाय नास्ति षोकः कुतो भयम् ॥

१४१
तह्नबितियो पुरुषो द्रीघमद्धान संसरि ।
एत्थभावंञथाभावं तत्थ तत्थ पुनप्पुनो ॥
३:१२
तृष्णाद्वितीयः पुरुषो दीर्घमध्वानमाशया ।
इत्थंभावान्यथीभावः संसारे त्वागतिं गतिम् ॥

१४२
एतमादीनवं न्यात्ता तह्ना दुक्खस्स संभवं ।
वीततह्नो अनादानो सतो भिक्खू परिव्रजे ॥
३:१८
एतदादीनवं ज्ञात्वा तृष्णा दुःखस्य संभवं ।
वीततृष्णो ह्यनादानः स्मृतो भिक्षुः परिव्रजेत् ॥

१४३ ३४५
न तं दृढं बन्धनमाहु धीरा यदायसं दारुजं बब्बजं वा ।
सार्त्तरत्ता मणिकुण्डलेसु पुत्रेसु दारेसु च या अपेखा ॥
२:५
न तद्दृढं बन्धनमाहुरार्या यदायसं दारवं बल्बजं वा ।
संरक्तचित्तस्य हि मन्दबुद्धेः पुत्रेषु दारेषु च या अपेक्षा ॥

१४४ ३४६
एतं दृढं बन्धनमाहु धीरा ओहारिनं सुखुमं दुप्रमुञ्चं ।
एतप्पि छेत्तान व्रजन्ति सन्तो अनपेखिनो सब्बदुखं प्रहाय ॥
२:६
एतद्दृढं बन्धनमाहुरार्याः समन्ततः सुस्थिरं दुष्प्रमोक्षम् ।
एतदपि च्छित्वा तु परिव्रजन्ति ह्यनपेक्षिनः कामसुखं प्रहाय ॥

१४५ १८६
न काहापणवासेन त्त्रेत्ती कामेसु विज्जति ।
२:१७
न कर्षापणवर्षेण तृप्तिः कामैर्हि विद्यते ।

१४६ १८७
अपि दिव्वेसु कामेसु रतिं सो नाधिगच्छति ॥
तह्नक्खयरतो होति संमसंबुद्ध्सावको ॥
२:१८
अपि दिव्येषु कामेषु स रतिं नाधिगच्छति ॥
तृष्णाक्षयरतो भवति बुद्धानां श्रावकः सदा ॥

१४७ ३५२
वीततह्नो अनादानो निरुत्तीपदकोविदो ।
अक्खराणां सन्निपातेन (ञ्)ञाय्या पूर्व्वापराणि सो ।
स वे अन्तिमशारीरो महप्रंञो ति वुच्चति ॥

१४८ ३४१
सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो ।
ये सातसिता सुखेषिणो ते वे जातिजरोपगा ॥
३:५
सरितानि वै स्नेहितानि वै सौमनस्यानि भवन्ति जन्तुनः ।
ये सातसिताः सुखैषिणस् ते वै जातिजरोपगा नराः ॥

१४९ ३४२
तह्नाय पुरेक्खटा प्रजा परिसप्पन्ति शशो व बाधितो ।
ते संजोतनसङ्गसङ्गसत्ता गब्भमुपेन्ति पुनप्पुनो चिरं पि ॥
३:६
तृष्णाभिरुपस्कृताः प्रजाः परिधावन्ति शशा व वागुराम् ।
संयोजनैः सङ्गसक्ता दुःखं यान्ति पुनः पुनश्चिररात्रम् ॥

१५० ३४८
मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स पारगू ।
सब्बत्थ विमुत्तमानसो न पुनो जातिजरामुपेहिसि ॥
२९:५७
मुञ्च पुरतो मुञ्च पश्चतो मध्ये मुञ्च भवस्य पारगः ।
सर्वत्र विमुक्तमानसो न पुनर्जातिजरामुपेष्यसि ॥

१५१ ३४४
यो निव्वनधो वना तु मुत्तो वनमुत्तो वनमेव धावति ।
तं पुग्गलमेथ पश्शथ मुत्तो बन्धनमेव धावति ॥
२७:२९
यो निर्वनगैर्विमोक्षितः संवनमुक्तो वनमेव धावति ।
तं पश्यथ पुद्गलं त्विमं मुक्तो बन्धनमेव धावति ॥

१५२ ३५६
त्त्रिणदोषाणि खेत्त्राणि रागदोषा अयं प्रजा ।
तस्सा हि वीतरागेसु दिन्नं होति महप्फलं ॥
१६:१६
क्षेत्राणि तृणदोषाणि रागदोषा त्वियं प्रजा ।
तस्माद्विगतरागेभ्यो दत्तं भवति महाफलम् ॥

१५३ ३५७
त्त्रिणदोषाणि खेत्त्राणि दोषदोषा अयं प्रजा ।
तस्सा हि वीतदोषेसु दिन्नं होति महप्फलं ॥
१६:१७
क्षेत्राणि तृणदोषाणि द्वेषदोषा त्वियं प्रजा ।
तस्माधि विगतद्वेषेभ्यो दत्तं भवति महाफलम् ॥

१५४ ३५८
त्त्रिणदोषाणि खेत्त्राणि मोहदोषा अयं प्रजा ।
तस्सा हि वीतमोहेसु दिन्नं होति महप्फलं ॥
१६:१८
क्षेत्राणि तृणदोषाणि मोहदोषा त्वियं प्रजा ।
तस्माद्विगतमोहेभ्यो दत्तं भवति महाफलम् ॥

१५५ ९९
रमणीयं वताऽरण्णं यम्हिं न रमते जनो ।
वीतरागात्थ रंसन्ति नांञे कामागवेषिणो ॥
२९:१७
रमणीयान्यरण्यानि न चात्र रमते जनः ।
वीतरागात्र रंस्यन्ते न तु कामागवेषिणः ॥

१५६ ९९
यथा पि मूले अनुपद्रुते दृढे छिन्नो पि रुक्खो पुन-र्-ईव जायति ।
एमेव तह्नानुशये अनूहते निव्वत्तते दुक्खमिदं पुनप्पुनो ॥
३:१६
यथापि मूलैरनुपद्रुतैः सदा छिन्नोऽपि वृक्षः पुनरेव जायते ।
एवं हि तृष्णानुशयैरनुद्धृतैर् निर्वर्तते दुःखमिदं पुनः पुनः ॥

तह्नवर्ग्गः

          • मल *****



१५७ २४१
असज्जिहायमला वेदा अनुट्ठाणमला घरा ।
मलो वण्णस्स कोसज्जं प्रमादो रक्खतां मलो ॥

१५८ २४२
मलो इस्तिये दुच्चरितं मच्छेरं ददतां मलो ।
मलो पापानि कंमाणि अस्सिं लोके परम्हि च ॥

१५९ २४३
ततो मलतरं ब्रूमि अविज्जा मरणं मलं ।
एते मले प्रहत्तान निंमला भिक्खवो ॥

१६० २४०
अयसा तु मलो समुट्ठितो ततो उट्ठाय तमेव खादति ।
एमेव विधूनचारियं सकानि कंमाणि नयन्ति दोग्गतिं ॥
९:१९
अयसो हि मलः समुत्थितः स तदुत्थाय तमेव खादति ।
एवं ह्यनिशाम्यचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥

१६१ २३५
पाण्डुपलाशो च दानि सि यमपुरुषा पि च ते उपट्ठिता ।
उय्योगमुखे च तिष्ठसि पाथेयं पि च ते न विज्जति ॥

१६२ च्f. २३६
उय्यमस्स घटस्स आत्तना कंमारो रजतं व निद्धमे ॥
निद्धान्तमलो अनङ्गनो बितियं (वितियं) अयिरभूमिमेसि ॥

१६३ २३९
अनुपूर्व्वेण मेधावी थोकथोकं खणे खणे ।
कम्मारो रजतस्सेव निद्धमे मलमात्तनो ॥
२:१०
अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे ।
कर्मारो रजतस्यैव निर्धमेन्मलमात्मनः ॥

१६४ २४४
सुजीवमहिरीकेन संकिलिष्टन् तु जीवति ।
प्रक्खण्डिणा प्रगब्भेण काकशूरेण धन्सिना ॥
२७:३
अह्रीकेन सुजीवं स्यात् काकशूरेण ध्वाङ्क्षिणा ।
प्रस्कन्दिणा प्रगल्भेन संक्लिष्टं त्विह जीवते ॥

१६५ २४५
हिरीमता तु दुज्जीवं निच्चं शुचिगवेषिणा ।
अलीनेनाप्रगब्भेण शुद्धाजीवेन पश्शता ॥
२७:४
ह्रीमता त्विह दुर्जीवं नित्यं शुचिगवेषिणा ।
सुलीनेनाप्रगल्भेन शुद्धाजीवेन पश्यता ॥

१६६ २५२
सुपश्शं वज्जमंञेसं आत्तनो पुन दुद्दशं ।
परेसामिह वज्जानि उप्पुनाति यथा बुसं ।
आत्तनो पुन छादेति कलिं व कृतवां शठो ॥
२७:१
सुपश्यं परवद्यं स्याद् आत्मवद्यं तु दुर्दृशम् ।
परः परस्य वद्यानि तूत्पुनाति बुसं यथा ।
आत्मनश्छादयत्येष कृत्वा यद्वत्कलिं शठः ॥

१६७ १६३
सुकराणि असाधूनि आत्तनो अहितानि च ।
यं वे हितं च साधूनि च तं वे परमदुक्खरं ॥
२८:१६
सुकराणि ह्यसाधूनि स्वात्मनो ह्यहितानि च ।
यद्वै हितं च पथ्यं च तद्वै परमदुष्करम् ॥

१६८
सुकराणि असाधूनि आत्तनो अहितानि च ।
यानि हितानि साधूनि तानि कुर्व्वन्ति पण्डिता ॥

१६९ ३१६,३१७
अलज्जितव्वे लज्जन्ति लज्जितव्वे न लज्जथ ।
अभये भयदंशावी भये चाभयदंशिनो ।
मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥
१६:४
अलज्जितव्ये लज्जन्ते लज्जितव्ये त्वलज्जनः ।
अभये भयदर्शीनो भये चाभयदर्शिनः ।
मिथ्यादृष्टिसमादानात् सत्वा गच्छन्ति दुर्गतिम् ॥

१७० ३१८
अवज्जे वज्जमतिनो वज्जे चावज्जसंञिनो ।
मिच्छदृष्टिसमादाना सत्ता गच्छन्ति दोग्गतिं ॥

१७१ ११
असारे सारमतिनो सारे चाऽसारसंञिनो ।
ते सारन्नाधिगच्छन्ति मिच्छसंकप्पगोचरा ॥
२९:३
असारे सारमतयः सारे चासारसंज्ञिनः ।
ते सारं नाधिगच्छन्ति मिथ्यासंकल्पगोचराः ॥

१७२ १२
सारञ्च सारतो ञ्ञात्ता असारञ्च असारतो ।
ते सारमधिगच्छन्ति संमसंकप्पगोचरा ॥
२९:४
सारं तु सारतो ज्ञात्वा ह्यसारं चापि असारतः ।
ते सारमधिगच्छन्ति सम्यक्संकल्पगोचराः ॥

१७३ २०९
अवोगे युञ्जियात्तानं योगम्हि च अयुंजिय ।
अत्थं हेत्ता प्रियग्ग्राही पृहयन्तत्थानुयोगिनां ॥
५:९
अवोगे युज्य चात्मानं योगे चायुज्य सर्वदा ।
अर्थं हित्वा प्रियग्राही स्पृहयत्यर्थयोगिने ॥

मलवग्गः

          • बाल *****



१७४ ६६
चरन्ति बाला दुम्मेधा अमित्तेण-र्-इव आत्तना ।
करोन्ता पापकं कम्मं यं होति कटुकप्फलं ॥
९:१३
चरन्ति बाला दुष्प्रज्ञा ह्यमित्रैरिव चात्मभिः ।
कुर्वन्तः पापकं कर्म यद्भवति कटुकं फलम् ॥

१७५ ६७
कथञ्च तं करे कंमं यं कत्ता अनुतप्पति ।
यस्स अंशुमुखो रोदं विपाकं पटिसेवति ॥
९:१४
न तत्कर्र्म कृतं साधु यत्कृत्वा ह्यनुतप्यते ।
रुदन्नश्रुमुखो यस्य विपाकं प्रतिषेवते ॥

१७६ ६८
तं च कंमं कतं साधु यं कत्ता नानुतप्पति ।
यस्स प्रतीतो सुमनो विपाकं पटिसेवति ॥
९:१५
तत्तु कर्म कृतं साधु यत्कृत्वा नानुतप्यते ।
यस्य प्रतीतः सुमना विपाकं प्रतिषेवते ॥

१७७ ७२
यावदेव अनत्थाय ञात्तं बालस्स जायति ।
हन्ति बालस्स शुक्राङ्ग्गं (?) मुद्धमस्स निपातये ॥
१३:२
यावदेव ह्यनर्थाय ज्ञातो भवति बालिशः ।
हन्ति बालस्य शुक्लांशं मूर्धां चास्य पातयेत् ॥

१७८ ७३
असतां भावनमिच्छन्ति पुरेक्खाञ्च भिक्खुसु ।
आवासेसु च एस्सरियं पूजं परकुलेसु च ॥
१३:३
असन्तो लाभमिच्छन्ति सत्कारं चैव भिक्षुषु ।
आवासेषु च मात्सर्यं पूजां परकुलेषु च ॥

१७९ ७४
ममेव कतमन्नेन्तु गृही प्रव्रजिता च ये ।
न मे प्रतिबला अस्स किच्चाऽकिच्चेसु केसुचि ॥
१३:४
मामेव नित्यं जानीयुर् गृही प्रव्रजितस्तथा ।
मम प्रतिवशाश्च स्युः कृत्याकृत्येषु केषु चित् ॥

१८० ७४ f,७५ ब्
इति बालस्स संकप्पो इच्छामानो च वद्धति ।
अंञा हि लाभोपनिशा अंञा निब्बाणगामिनी ॥
१३:५
इति बालस्य संकल्पा इच्छामानाभिवर्धकाः ।
अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनी ॥

१८१ ७५ -f
एवमेतं यथाभूतं पश्शं बुद्धस्स सावको ।
सक्कारं नाभिनन्देया विवेकमनुब्रूहये ॥
१३:६
एतज्ज्ञात्वा यथाभूतं बुद्धानां श्रावकः सदा ।
सत्कारं नाभिनन्देत विवेकमनुबृंहयेत् ॥

१८२
जयं वे मन्यते बालो वाचाय परुषं भणं ।
सतां हेस जयो होति या तितिक्खा विजानतो ॥
२०:१३
जयं हि मन्यते बालो वचोभिः परुषैर्वदन् ।
नित्यमिव जयस्तस्य योऽतिवाखं तितीक्षति ॥

१८३
अबलं तस्स बलं होति यस्स बालबलं बलं ।
बलस्स धम्मगुत्तस्स पटिवत्ता न विज्जति ॥
२०:६
अबलं हि बलं तस्य यस्य क्रोधे बलं बलम् ।
क्रुद्धस्य धर्महीनस्य प्रतिपत्तिर्न विद्यते ॥

१८४ ६३
यो बालो बालमानी पण्डितो चापि तत्थ सो ।
बालो तु पण्डितमानी स वे बालो ति वुच्चति ॥
२५:२२
यो जानीयादहं बाल इति बालः स पण्डितः ।
बालः पण्डितमानी तु बाल एव निरुच्यते ॥

१८५ ६०
द्रीघा अस्सुपतो रात्री द्रीघं शान्तस्स योजनं ।
द्रीघो बालान संसारो सद्धंममविजानतां ॥
१:१९
दीर्घा जागरतो रात्रिर् दीर्घं श्रान्तस्य योजनम् ।
दीर्घो बालस्य संसारः सद्धर्ममविजानतः ॥

१८६
पूतिमच्छे कुशाग्ग्रेण यो नरो उपनहति ।
कुशा पि पूतिं वायन्ति एवं बालोपसेवना ॥
२५:७
पूतिमत्स्यां कुशाग्रेण यो नरो ह्युपनह्यते ।
कुशापि पूतिका वान्ति ह्येवं पापोपसेवनाः ॥

१८७
तगरञ्च पलाशम्हि यो नरो उपनह्यति ।
पत्तं पि सुरभिं वाति एवं धीरोपसेवना ॥
२५:८
तगरं पलाशपत्रेण यो नरो ह्युपनह्यति ।
पत्राण्यपि सुगन्धीनि सदेवं संगमात्सताम् ॥

१८८
अकरोन्तो पि चे पापं करोन्ते उपसेवति ।
शङ्कियो होति पापम्हि अवण्णो चास्स रूहति ॥
२५:९
अकुर्वन्नपि पापानि कुर्वांमुपसेवते ।
शङ्कितो भवति पापस्य अवर्णश्चास्य वर्धते ॥

१८९
सेवमानो सेवमाने संपुट्ठो संफुसं परे ।
शरो लित्तो कलापे वा अलित्ते उपलिंपति ।
उपलेपभया धीरो नेव पापसखा सिया ॥
२५:१०
संसेवमानः पापो हि संस्पृष्टः संस्फृशेत्परान् ।
शरो लिप्तः कलापस्थान् अलिप्तानुपलिंपति ।
उपलेपभयाद्धीरो नैव पापसखा भवेत् ॥

१९०
तस्सा फलपुटस्सेव ञाय्या संपाकमात्तनो ।
असन्तो नोपसेवेया सन्तो सेवेय पण्डीतो ॥
२५:१२
तस्मात्फलपुटस्यैव दृष्ट्वा संपाकमात्मनः ।
असन्तो नोपसेवेत सन्तः सेवेत पण्डीतः ॥

१९१ ६४
यावज्जीवं पि चे बालो पण्डिते पयिरुपासति ।
नेव धम्मं विजानाति द्रव्वी सूपरसानिव ॥
२५:१३
यावज्जीवं पि चेद्बालः पण्डितां पर्युपासते ।
न स धर्मं विजानाति दर्वी सूपरसानिव ॥

१९२ ६५
मुहुत्तमपि चे प्रंञो पण्डिते पयिरुपासति ।
खिप्रं धम्मं विजानाति जिह्वा सूपरसानिव ॥
२५:१४
मुहूर्तमपि सप्रज्ञः पण्डितां पर्युपासते ।
स वै धर्मं विजानाति जिह्वा सूपरसानिव ॥

१९३ १२१
नाप्पं पापस्स मंञेया न मे तमागमिष्यति ।
उदबिन्दुनिपातेन उदकुंभो पि पूरति ॥
पूरते बालो पापस्स थोकथोकं पि आचिनं ।
१७:५
नाल्पं मन्येत पापस्य नैतं मामागमिष्यति ।
उदबिन्दुनिपातेन महाकुम्भोऽपि पूर्यते ।
पूर्यन्ति बालः पापैर्हि स्तोकस्तोकं कृतैरपि ॥

१९४ १२१
नाप्पं पापस्स मंञेया न मे तमागमिष्यति ॥
उदबिन्दुनिपातेन उदकुम्भो पि पूरति ।
पूरते प्रंञो पुंञस्स थोकथोकं पि आचिनं ॥
१७:५
नाल्पं मन्येत पापस्य नैतं मामागमिष्यति ॥
उदबिन्दुनिपातेन महाकुम्भोऽपि पूर्यते ।
पूर्यन्ति बालाः पापैर्हि स्तोकस्तोकं कृतैरपि ॥

बालवर्ग्गः

          • दण्ड *****



१९५ १४१
न नग्गचरिया न जटा न पंको नानाशनं त्थण्डीलशायिका वा ।
रजोचेलमुक्कुटुकप्रधानं शोधेन्ति माच्चमवितिण्णकंछं ॥
३३:१
न नगचर्या न जटा न पङ्का नोऽनाशनं स्थण्डीलशायिका वा ।
न रजोमलं नोत्कुटुकप्रहाणं शोधेत मर्त्यं ह्यवितीर्णकाङ्क्षं ॥

१९६ १४२
अलंकतो चापि समं चरेया दान्तो शान्तो नियतो धम्मचारी ।
सब्बेसु प्राणेसु निधाय दण्डं सो ब्राह्मणो सो शमणो स भिक्खू ॥
३३:२
अलंकृतश्चापि चरेत द्गर्मं क्षान्तो दान्तो नियतो ब्रह्मचारी ।
सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥

१९७ १३३
मा वदे परुषं कंचि वुत्ता पटिवदेयु तं ।
दुक्खा हि सारम्भकथा पटिदण्डा फुसेयु तं ॥
२६:३
मा कं चित्परुषं ब्रूथः प्रोक्ताः प्रतिवदन्ति तम् ।
दुःखा हि संरम्भकथाः प्रतिदण्डं स्पृशन्ति हि ॥

१९८
सचे इरेसि आत्तानं कंसो उपहतो-र्-इव ।
जातीमरणसंसारं चिरं प्रच्चनुभोहिसि ॥
२६:४
यदीरयसि हात्मानं कंसीवोपहता सदा ।
जातीमरणसंसारं चिरं ह्यनुभविष्यसि ॥

१९९ १३४
न चे इरेसि आत्तानं कंसो अनुपहतो-र्-इव ।
एस प्रात्तो सि निब्बाणं सारम्भा ते न विज्जति ॥
२६:५
न त्वीरयसि हात्मानं कंसिर्नोपहता यथा ।
एष प्राप्तोऽसि निर्वाणं संरम्भस्ते न विद्यते ॥

२०० १३५
यथा दण्डेन गोपालो गावो प्(र्)आजेति गोचरं ।
एवं जरा च मच्चू च प्राणिनामधिवत्तति ॥
१:१७
यथा दण्डेन गोपालो गाः प्रापयति गोचरम् ।
एवं रोगैर्जरामृत्युः आयुः प्रापयते नृणाम् ॥

२०१ ३१५ -f
यथा दण्डेन गोपालो गावो रक्षति सामिनां ।
एवं रक्खथ आत्तानं खणो वो मा उपच्चगू ।
खणातीता हि शोचन्ति निरयम्हि समप्पिता ॥
५:१७ -f
(यथा दण्डेन गोपालो गावो रक्षति सामिनां ।)
एवं गोपयतात्मानं क्षणो वो मा उपत्यगात् ।
क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥

२०२ १३०
सब्बे त्रसन्ति दण्डानां सब्बेसं जीवितं प्रियं ।
आत्तानमुपमं कत्ता नेव हंय्या न घातये ॥
५:१९
सर्वे दण्डस्य बिभ्यन्ति सर्वेषां जीवितं प्रियम् ।
आत्मानमुपमां कृत्वा नैव हन्यान्न घातयेत् ॥

२०३ १३१
सुखकामानि भूतानि यो दण्डेन विहिंसति ।
आत्तनो सुखमेषाणो प्रेच्च सो न लभते सुखं ॥
३०:३
सुखकामानि भूतानि यो दण्डेन विहिंसति ।
आत्मनः सुखमेषाणः स वै न लभते सुखम् ॥

२०४ १३२
सुखकामानि भूतानि यो दण्डेन न विहिंसति ।
आत्तनो सुखमेषाणो प्रेच्च सो लभते सुखं ॥
३०:४
सुखकामानि भूतानि यो दण्डेन न विहिंसति ।
आत्मनः सुखमेषाणः स प्रेत्य लभते सुखम् ॥

२०५ ७८ -द्,७६ f
न भजेथ पापके मित्रे न भजेथ पुरुषाऽधमे ।
भजेथ प्रंञे (प्रांञ-) मेधावी भजेथ पुरुषोत्तमे ।
तारिसे भजेमानस्स श्रेयो होति न पापियो ॥
२५:३ -द्,२८:७ f
न भजेत्पापकं मित्रं न भजेत्पुरुषाधमम् ।
भजेत मित्रं कल्याणं भजेदुत्तमपूरुषम् ।
तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥

२०६ ७६
निधिनो व प्रवत्तारं यं पश्शे वज्जदंशिनं ।
निगृह्यवादिं मेधावीं तारिसं पुरुषं भजे ।
तारिषं भजमानस्स श्रेयो होति न पापियो ॥
२८:७
निषेद्धारं प्रवक्तारं यज्जानेद्वद्यदर्शिनम् ।
निगृह्यवादिनं धीरं तादृशं सततं भजेन्त् ।
तादृशं भजमानस्य श्रेयो भवति न पापकम् ॥

२०७ ७७
ओवदेया अनुशासेया असब्भातो निवारये ।
सतां हेतं प्रियं होति असतां होति अप्रियं ॥
५:२६
अववदेतानुशासीत चासभ्याच्च निवारयेत् ।
असतां न प्रियो भवति सतां भवति प्रियं ॥

२०८
तस्सा सताञ्च असन्ताञ्च नाना होति गती ।
असन्तो निरयं यान्ति सन्तो सग्गपरायणा ॥
५:२७
असन्तश्चैव सन्तश्च नाना यान्ति त्वितश्च्युताः ।
असन्तो नरकं यान्ति सन्तः स्वर्गपरायणाः ॥

२०९ १५२
अप्पश्शुतो अयं पुरुषो बलिवद्दो व (ज्)जीरति ।
मांसानि तस्स वद्धन्ति प्रंञा तस्स न वद्धन्ति ॥

२१० ३०९
चत्तारि ट्ठाणानि नरो प्रमत्तो आपज्जते परदारोपसेवी ।
अपुंञलाभमनिकामशेयं निन्दं त्रितीयं निरयं चतुत्थं ॥
४:१४
स्थानानि चत्वारि नरः प्रमत्त आपद्यते यः परदारसेवी ।
अपुन्यलाभं ह्यनिकामशय्यं निन्दां तृतीयं नरकं चतुर्थम् ॥

२११ ३१०
अपुंञलाभो च गती च पापिको भीतस्स भीताय रती पि अप्पिका ।
राजा पि दण्डं गरुकं प्रणेति कायस्स भेदा निरयमुपेति ॥
४:।१५।
अपुण्यलाभं च गतिं च पापिकां भीतस्य भीताभिरथाल्पिकां रतिम् ।
राजा च दण्डं गरुकं ददाति कायस्य भेदाद्नरकेषु पच्यते ॥

२१२
संय्यता सुगतिं यान्ति दोग्गतिं यान्ति असंय्याता ।
मा स्सु विश्शासमापादि इति विन्दु समं चरे ॥

२१३
माकुञ्जर नागमासिद दुक्खो कुञ्जर नागमंसदो ।
न हि नागहतस्स कुञ्जर सुगती इतो परअं यतो ॥

२१४
गिरिदुग्गविचारिणं यथा सीहं पर्व्वतपट्ठिगोचरं ।
नरवीरमपेतभेरवं मा हिंसित्थ अनोमनिक्रमं ॥

२१५ ३२०
अहं नागो व संग्ग्रामे चापातिपतिते शरे ।
अतीवादे तितिक्खामि दुश्शीलो हि बहुजनो ॥
२९:२१
अहं नाग इव संग्रामे चापादुत्पतितां शरान् ।
अतीवाक्यं तितीक्षामि दुःशीलो हि महाजनः ॥

दण्डवर्ग्गः

          • शरण *****



२१६ १८८
बहू वे शरणं यान्ति पर्व्वते च वनानि च ।
वस्तूनि रुक्खचित्ताणि मनुष्या भयतज्जिता ॥
२७:३१
बहवः शरणं यान्ति पर्वतांश्च वनानि च ।
आरामां वृक्षचैत्यांश्च मनुष्या भयतर्जिताः ॥

२१७ १८९
न एतं शरणं खेम्मं न एतं शरणमुत्तमं ।
एतं शरणमागंम सब्बदुक्खा प्रमुच्चति ॥
२७:३२
नैतद्धि शरणं क्षेमं नैतच्छरणमुत्तमम् ।
नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥

२१८ १९०
यो तु बुद्धञ्च धम्मञ्च सघं च शरणं गतो ।
चत्तारि च अयिरसच्चानि यथाभूतानि पश्शति ॥
२७:३३
यस्तु बुद्धं च धर्मं च संघं च शरणं गतः ।
चत्वारि चार्यसत्यानि प्रज्ञया पश्यति यदा ॥

२१९ १९२
एतं वे शरणं खेम्मं एतं शरणमुत्तमं ।
एतं शरणमागम्म सब्बदुक्खा प्रमुच्चति ॥
२७:३५
एतद्धि शरणं क्षेमम् एतच्छरणमुत्तमम् ।
एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥

२२०
गवां चे तरमाणानां जिह्मं गच्छति पुङ्गवो ।
सब्बा ता जिह्मं गच्छंति नेत्ते जिह्मगते सति ॥

२२१
एवामेव मनुष्येसु यो होति श्रेष्ठसंमतो ।
स चे अधंमं चरति प्रागेव इतरा प्रजा ॥

२२२
गवां चे तरमाणानां उज्जुं गच्छति पुङ्गवो ।
सब्बा ता उज्जुं गच्छंति नेत्ते उज्जुगते सति ॥

२२३
एवामेव मनुष्येसु यो होति श्रेष्ठसंमतो ।
स चे धंमं चरति प्रागेव इतरा प्रजा ॥

२२४ १६९
धंमं चरे सुचरितं न नं दुच्चरितं चरे ।
धम्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥
३०:५
धर्मं चरेत्सुचरितं नैनं दुश्चरितं चरेत् ।
धर्मचारी सुखं शेते ह्यस्मिं लोके परत्र च ॥

२२५
धंमं चरे सुचरितं न नं दुच्चरितं चरे ।
ब्रह्मचारी सुखं शेति अस्सिं लोके परम्हि च ॥

२२६ ३६४
धंमारामो धंमरतो धंममनुविचिन्तयं ।
धम्ममनुस्सरं भिक्खू धम्मा न परिहायति ॥
३२:८
धर्मारामो धर्मरतो धर्ममेवानुचिन्तयम् ।
धर्मं चानुस्मरं भिक्षुर् धर्मान्न परिहीयते ॥

२२७
धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति ।
एसानुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छति धम्मचारी ॥
३०:७
धर्मः सदा रक्षति धर्मचारिनं धर्मो सुचीर्णः सुखमादधाति ।
एषानुशंसो धर्मे सुचीर्ने न दुर्गतिं गच्छति धर्मचारी ॥

२२८
धम्मो हवे रक्खति धम्मचारी धम्मो सुचिन्नो सुखाय दहाति ।
एसाऽनुशंसो धम्मे सुचिन्ने न दोग्गतिं गच्छ<च्छ>ति ब्रह्मचारी ॥

२२९ १५५
अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं ।
जिन्नक्रोंचा व झायंति झीनमच्छे व पल्लरे ॥
१७:३
अचरित्वा ब्रह्मचेर्यम् अलब्ध्वा यौवने धनम् ।
जीर्णक्रौञ्चैव ध्यायन्ते ऽल्पमत्स्य इव पल्वले ॥

२३० १५६
अचरित्ता ब्रह्मचेरं अलद्धा योव्वने धनं ।
शेन्ति चापाधिकिन्नो वा पोराणानि अऽनुत्थनं ॥
१७:४
अचरित्वा ब्रह्मचर्यम् अलब्ध्वा यौवने धनम् ।
शेन्ति चापातिकीर्णा वा पौराणान्यनुचिन्तिताः ॥

२३१ ९१
उज्जुज्जन्ति सतीमन्तो न निकेते रमंति ते ।
हंसा व पल्लरं हेत्ता ओकमोकं जहंति ते ॥
१७:१
स्मृतिमन्तः प्रयुज्यन्ते न निकेते रमन्ति ते ।
हंस्वत्पल्वलं हित्वा ह्योकमोघं जहन्ति ते ॥

२३२ १७५
हंसा व आदिच्चपथे वेहायसं यान्ति इद्धिया ।
निय्यांति धीरा लोकम्हि मारसेनं प्रमद्दिय ॥
१७:२
हंसादित्यपथे यान्ति आकाशे जीवितेन्द्रियाः ।
निर्यान्ति धीरा लोकान् मारसैन्यं प्रमथ्य ते ॥

२३३ १४६
किन्नु हाशो किमानन्दो निच्चं प्रज्जलिते सति ।
अन्धकारम्हि प्रक्खित्ता प्रदीपं न गवेषथ ॥
१:४
को नु हर्षः क आनन्द एवं प्रज्वलिते सति ।
अन्धकारं प्रविष्टाः स्थ प्रदीपं न गवेषथ ॥

२३४ ३१५
प्रच्चंतिमं वा नगरं गुत्तं सान्तबाहिरं ।
एवं रक्खथ आत्तानं खणो वो मा उपच्चगू ।
खणातीता हि शोचंति निरयम्हि समप्पिता ॥
५:१६,१७
यथा प्रत्यन्तनगरं गुप्तमन्तर्बहिस्थिरम् ।
एवं गोपयतात्मानं क्षणो वो मा ह्युपत्यगात् ।
क्षणातीता हि शोचन्ते नरकेषु समर्पिताः ॥

२३५ २६४
न मुण्डभावा शमणो अव्रतो अलिकं भणं ।
इच्छालोभसमापन्नो शमणो किं भविष्यति ॥
११:१३
न मुण्डभावाच्छ्रमणो ह्यवृतस्त्वनृतं वदन् ।
इच्छालोभसमापन्नः श्रमणः किं भविष्यति ॥

२३६ २६५
यो तु शमेति पापानि अणुत्थूलानि सब्बशो ।
शमणा एव पापानां शमणो ति प्रवुच्चति ॥
११:१४
शमितं येन पापं स्याद् अणुस्थूलं हि सर्वशः ।
शमितत्वात्तु पापानां श्रमणो हि निरुच्यते ॥

२३७ ३३९
यस्स छत्त्रीशतिं सोता मानाफस्समया भ्रिशा ।
वाहा वहन्ति दुद्रिष्टिं संकप्पा ग्ग्रेधनिश्शिता ॥
३१:२९
स्रोतांसि यस्य षट्त्रिंशन् मनःप्रस्रवण्नानि हि ।
वहन्ति नित्यं दुर्दृष्टेः संकल्पैर्ग्रेधनिःश्रितैः ॥

२३८ २२१
क्रोधं जहे विप्रजहेय मानं संयोजनं सब्बमतिक्रमेया ।
तं नामरूपम्हि असज्जमानं अकिंचनं नानुपतन्ति दुक्खा ॥
२०:१
क्रोधं जहेत्विप्रजहेच्च मानं संयोजनं सर्वमतिक्रमेत ।
तं नाम्ने रूपे च असज्यमानम् अकिञ्चनं नानुपतन्ति सङ्गाः ॥

शरणवर्ग्गः

          • खान्ति *****



२३९ १८४
खान्ती परमं तपो तितिक्खा निब्बाणं परमं वदन्ति बुद्धा ।
न हि प्रव्रजितो परोपघाती श्मणो होति परे विहेसयानो ॥
२६:२
क्षान्तिः परमं तपस्तितीक्षा निर्वाणं परमं वदन्ति बुद्धाः ।
न हि प्रव्रजितः परोपतापी श्रमणो भवति परं विहेठयं वै ॥

२४० २२५
अहिंसका ये मुनयो निच्चं कायेन संवृता ।
ते यान्ति अच्चुतं ट्ठाणं यत्थ गन्ता न शोचति ॥
७:७
अहिंसका वै मुनयो नित्यं कायेन संवृताः ।
ते यान्ति ह्यच्युतं स्थाणं यत्र गन्ता न शोचति ॥

२४१ ३००
सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका ।
येसां दिवा च रात्तो च अहिंसाय रतो मनो ॥
१५:१७
सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः ।
येषां दिवा च रात्रौ चैव् आहिंसायां रतं मनः ॥

२४२ ३०१
सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका ।
येसां दिवा च रात्तो च भावनाय रतो मनो ॥
१५:२५
सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः ।
येषां दिवा च रात्रौ च निर्वाणेऽभिरतं मनः ॥

२४३ २९९
सुप्रबुद्धं प्रबुज्झन्ति सदा गोतमसावका ।
येसां दिवा च रात्तो च निच्चं कायगता सती ॥
१५:१५
सुप्रबुद्धं प्रबुध्यन्ते इमे गौतमस्श्रावकाः ।
येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥

२४४ १८१
ये झानप्रसुता धीरा नेक्खंमोऽपशमे रता ।
देवा पि तेसं प्रिहयन्ति संबुद्धानां सतीमतां ॥
२१:९
ये ध्यानप्रसृता धीरा नैष्क्रम्योपशमे रताः ।
देवापि स्पृहयन्त्येषां बुद्धानां श्रीमतां सदा ॥

२४५ ९८
अरन्ने यदि वा ग्ग्रामे निन्ने वा यदि वा थले ।
यत्थ अरहन्तो विहरंति तं भोमं रामणीयकं ॥
२९:१८
ग्रामे वा यदि वारण्य निम्ने वा यदि वा स्थले ।
यत्रार्हन्तो विहरन्ति ते देशा रमणीयकं ॥

२४६
एकं पि चे प्राणमदुष्टचित्तो मेत्तायते कुशली तेन होति ।
सब्बे च प्राणे मनसाऽनुकंपी प्रभूतमयिरो प्रकरोति पुंञं ॥
३१:४३
एकमपि चेत्प्राणमदुष्टचित्तो मैत्रायते कुशलं तेन हि स्यात् ।
सर्वांस्तु सत्वां मनसानुकम्पं प्रभूतमर्यः प्रकरोति पुण्यम् ॥

२४७
ये सत्तशण्डां पठविं विजेत्ता राजरिषयो यजमानाऽनुपरियगु ।
अश्शमेधं पुरुषमेधं संमप्रास वायुपेयं निराग्गदं ।
मेत्तस्स चित्तस्स सुभावितस्स कलां पि ते नानुभवन्ति षोडशिं ।
चन्दप्रभां तारगणा व सब्बे ॥

२४८
योऽथ मेत्तेण चित्तेन सब्बे प्राणे नुकंपति ।
मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥
३१:४२
अव्यापन्नेन चित्तेन यो भूतान्यनुकम्पते ।
मैत्रः स सर्वसत्वेषु वैरं तस्य न केन चित् ॥

२४९
यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो ।
मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥

२५०
यस्स सब्बे अहोरात्ते अहिंसाय रतो मनो ।
मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥

२५१
यस्स सब्बे अहोरात्ते निच्चं कायगता सतै ।
मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥

२५२
यो न हन्ति न घातेति न जिनाति न जापये ।
मेत्तं से सब्बभूतेसु वेरं तस्स न केनचि ॥

२५३ ५
न हि वेरेण वेराणि शामन्तीह कदाचनं ।
अवेरेण तु शामंति एस धंमो सनातनो ॥
१४:११
न हि वैरेण वैराणि शाम्यन्तीह कदा चन ।
क्षन्त्या वैराणि शाम्यन्ति एष धर्मः सनातनः ॥

२५४ ६
परे च न विजानंति वेरमेत्थ जयामथ ।
ये च तत्थ विजानंति ततो शांमंति मेधका ॥
१४:८
परे हि न विजानन्ति वयमत्रोद्यमामहे ।
अर्त ये तु विजानन्ति तेषां शाम्यन्ति मेथकाः ॥

२५५ १९७
सुसुखं वत जीवामो वेरिणेसु अवेरिणो ।
वेरिणेसु मनुष्येसु विहराम अवेरिणो ॥
३०:४७
सुसुखं बत जीवामो वैरिकेषु अवैरिकाः ।
वैरिकेषु मनुष्येषु विहरामो ह्यवैरिकाः ॥

२५६ १९९
सुसुखं वत जीवामो उस्सुकेसु अनुस्सुका ।
उस्सुकेसु मनुष्येसु विहराम अनुस्सुका ॥
३०:४३
सुसुखं बत जीवामो ह्युत्सुकेषु त्वनुत्सुकाः ।
उत्सुकेषु मनुष्येषु विहरामो ह्यनुत्सुकाः ॥

२५७ २०० ब्
सुसुखं वत जीवामो येसं नो नास्ति किंचनं ।
सकिञ्चनेसु मनुष्येसु विहराम अकिंचनं ॥
३०:४४ ब्
सुसुखं बत जीवामो येषां नो नास्ति किञ्चनं ।
मिथिलायां दह्यमानायां न नो दह्यति किञ्चनम् ॥

२५८ १७०
यथा बुब्बुदकं पश्शे यथा पश्शे मरीचिकं ।
एवं लोकमवेच्छानं मच्चुराजा न पश्शति ॥
२७:१५
यथा बुद्बुदिकां पश्येद् यथा पश्येन्मरीचिकाम् ।
एवं लोकमवेक्षं वै मृत्युराजं न पश्यति ॥

२५९ १४८
परिजिन्नमिदं रूपं रोगनीडं प्रभंगुरं ।
भिज्जीहिति<ति> पूतिसंदेहो मरणात्तं हि जीवितं ॥
१:३४
परिजीर्णमिदं रूपं रोगनीडं प्रभङ्गुरम् ।
भेत्स्यते पूत्यसंदेहं मरणान्तं हि जीवितम् ॥

२६०
जिह्मं च द्रिष्टा दुखितं च व्याधितं प्रेतञ्च द्रिष्टा न चिरस्स मानवो ।
संवेगो तीप्पे (?) विपुलो (?) अजायथ अच्चेच्छि धीरो गृहिबन्धनानि ॥
१:२७
जीर्णं च दृष्ट्वेह तथैव रोगिणं मृतं च दृष्ट्वा व्यपयातचेतसम् ।
जहौ स धीरो गृहबन्धनानि कामा हि लोकस्य न सुप्रहेयाः ॥


खान्तिवर्ग्गः

          • आसव *****



२६१ ८५
अप्पका ते मनुष्येसु ये जना पारगामिनो ।
अथायमितरा प्रजा तीरमेवानुधावति ॥
२९:३३
अल्पकास्ते मनुष्येषु ये जनाः पारगामिन ।
अथेयमितराः प्रजास् तीरमेवानुधावति ॥

२६२ ८६
ये च खो संमदाक्खाते धम्मे धंमानुयत्तिनो ।
ते जना पारमेहिंति मच्चुधेयं सुदुत्तरं ॥
२९:३४
ये तर्हि सम्यगाख्याते धर्मे धर्मानुदर्शिनः ।
ते जनाः पारमेष्यन्ति मृत्युधेयस्य सर्वशः ॥

२६३ ८७
किह्ने धम्मे विप्रहाय शुक्रे भावेथ पण्डिता ।
ओका अनोकमागंम विवेको यत्थ दूरमं ॥
१६:१४ -द्
कृष्नां धर्मां विप्रहाय शुक्लां भावयथ भिक्षवः ।
ओकादनोकमागम्य विवेकमनुबृंहयेत् ॥

२६४ ८८
तत्थाभिरतिमेषाणा हेत्ता कामे अकिंचना ।
पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥
१६:१४ f
तत्र चाभिरमेतार्यो हित्वा कामानकिञ्चनः ।
(पयिरोदमेथ आत्तानं चित्तं किलेशेहि सब्बशो ॥)

२६५ ८९
यस्स संबोधिअंगेहि समं चित्तं सुभावितं ।
आत्तानपटिनिस्सग्गे अनुपादाय ये रता ।
खीणासवा जुतीमन्तो ते लोके परिनि(व्)वृता ॥
३१:३९
संबोध्यङ्गेषु येषांस्तु सम्यक्चित्तं सुभावितम् ।
आदानं प्रतिनिःसृज्य चानुपादायमाश्रिताः ।
क्षीणासवा वान्तदोषास् ते लोके परिनिर्वृताः ॥

२६६ २९२
यद्<अ>हि किच्चं तदपविद्धं अकिच्चं पुन कीरति ।
उन्नद्धानां प्रमत्तानां तेसं वद्धंति आसवा ॥
४:१९ -द्
यत्कृत्यं तदपविद्धं अकृत्यं क्रियते पुनः ।
उद्धतानां प्रमत्तानां तेषं वर्धन्ति आसवाः ॥

२६७ २९३
येसं च सुसमारद्धा निच्चं कायगता सती ।
अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो ।
सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥
४:२० ब्,एf
येसं च सुसमारद्धा निच्चं कायगता सती ।
अकिच्चं ते न सेवंति किच्चे सातच्चकारिणो ।
सतानां सम्प्रजानानां तेसं खीयंति आसवा ॥

२६८ २५३
परवज्जानुपश्शीनां निच्चमोज्झायसंञिना ।
आसवा तेसं वद्धन्ति आरा ते आसवक्खया ॥
२७:२ द्,४:१९ f
परवद्यानुदर्शिनो नित्यावध्यानसंज्ञिनः ।
आसवास्तेषु वर्धन्ते आरात्ते ह्यास्रवक्षयात् ॥

२६९ २२६
जागरिकामनुयुत्तानां अहोरात्तानुशिक्खिणां ।
निब्बाने अधिमुत्तानां अत्थं गच्छंति आसवा ॥
१५:८
जागर्यमनुयुक्तानाम् अहोरात्रानुशिक्षिणाम् ।
अमृतं चाधिमुक्तानाम् अस्तं गच्छन्ति आस्रवाः ॥

२७० ९३
येसाऽसवा परिक्खीणा आहारे च अनिश्शिता ।
शुंञता आनिमित्तो च विमोघो येस गोचरो ।
आकाशे व शकुन्तानां पदं तेसं दुरन्नयं ।
२९:३१
येषां भवः परिक्षीणो ह्यपरान्तं च नाश्रिताः ।
शुन्यता चानिमित्तं च समाधिश्चैव गोचरः ।
आकाशैव शकुन्तानां पदं तेषं दुरन्वयम् ।

२७१ २७१
न हि शीलव्रतेनेव बाहुशोच्चेन वा पुन ।
अथ वा समाधिलाभेन विवित्तशयनेन वा ॥
३२:३१
न शीलव्रतमात्रेण बहुश्रुत्येन वा पुनः ।
तथा समाधिलाभेन विविक्तशयनेन वा ॥

२७२ २७२
फुसाम नेक्खंमसुखं अपृथुज्जनसेवितं ।
भिक्खू वि<स्स>श्शासमापादि अप्राप्यासवक्खयं ॥
३२:३२
भिक्षुर्विश्वासमापद्येत् अप्राप्ते ह्यासवक्षये ।
स्पृशेत्तु संबोधिसुखम् अकापुरुषसेवितम् ॥

२७३
नायं प्रमज्जितुं कालो ऽप्राप्यास्वक्खयं ।
प्रमत्तं दुखमन्नेति सीहं वा मृगमातिका ॥
४:१३
नायं प्रमादकालः स्याद् अप्राप्ते ह्यास्वक्षये ।
मारः प्रमत्तमन्वेति सिंहं वा मृगमातृका ॥

२७४ १२६
गब्भमेके ओक्रंमन्ति निरयं पापकंमुणो ।
सग्गं सुगतिनो यान्ति परिनिव्वान्ति अनासवा ॥

२७५ ८२
यथा ह्रदोऽस्स गंभीरो विप्रसन्नो अनाविलो ।
एवं धंमाणि शोत्थान विप्रसीदंति पण्डिता ॥
१७:११
यथा ह्रदः सुगम्भीरो विप्रसन्नो ह्यनाविलः ।
एवं श्रुत्वा हि सद्धर्मं विप्रसीदन्ति पण्डिताः ॥

२७६ १७९
यस्स जितं नाऽप्पज्जीयति जितमस्सा न उपेति अन्तको ।
तं बुद्धमनोमनिक्रमं अपदं केन पदेन नेहिसि ॥
२९:५२
यस्य जितं नोपजीयते जितमन्वेति न कं चिदेव लोके ।
तं बुद्धमनन्तगोचरमं ह्यपदं केन पदेन नेष्यसि ॥

२७७ १८०
यस्स जालिनी विसत्तिका तह्ना नास्ति कहिं चि नेतये ।
तं बुद्धमनन्तगोचरं अपदं केन पदेन नेहिसि ॥
२९:५३
यस्य जालिनी विषक्तिका तृष्णा नास्ति हि लोकनायिनी ।
तं बुद्धमनन्तगोचरं ह्यपदं केन पदेन नेष्यसि ॥

आसववर्ग्गः

          • वाचा *****



२७८ २८१
वाचानुरक्खी मनसा सुसंवृतो कायेन यो अकुशलं न सेवति ।
एते त्त्(र्)अयो कंमपथे विशोधिय प्राप्पोज्ज सो शान्तिपदमनुत्तरं ॥
७:१२
वाचानुरक्षी मनसा सुसंवृतः कायेन चैवाकुशलं न कुर्यात् ।
एतां शुभां कर्मपथां विशोधयन्न् आराधयेन्मार्गमृषिप्रवेदितम् ॥

२७९ २३१
कायप्रदोषं रक्खेया कायेन संवृतो सिया ।
कायदुच्चरितं हेत्ता कायेन सुचरितं चरे ॥
७:१
कायप्रदोषं रक्षेत स्यात्कायेन सुसंवृतः ।
कायदुश्चरितं हित्वा कायेन सुकृतं चरेत् ॥

२८० २३२
वाचाप्रदोषं रक्खेया वाचाय संवृतो सिया ।
वाचादुच्चरितं हेत्ता वाचाय सुचरितं चरे ॥
७:२
वाचाः प्रदोषं रक्षेत वचसा संवृतो भवेत् ।
वाचो दुश्चरितं हित्वा वाचा सुचरितं चरेत् ॥

२८१ २३३
मनप्रदोषं रक्खेया मनसा संवृतो सिया ।
मनोदुच्चरितं हेत्ता मनसा सुचरितं चरे ॥
७:३
मनःप्रदोषं रक्षेत मनसा संवृतो भवेत् ।
मनोदुश्चरितं हित्वा मनःसुचरितं चरेत् ॥

२८२ २३४
कायेन संवृता धीरा वाचाय उत्त चेतसा ।
सब्बत्थ संवृता धीरा ते वे सुपरिसंवृता ॥
७:१० -द्
कायेन संवृता धीरा धीरा वाचा सुसंवृताः ।
मनसा संवृता धीरा धीराः सर्वत्र संवृताः ॥

२८३ २२७
पोराणमेतमाधोर न एतमहुना-र्-इव ।
निन्दन्ति तोह्निमासीनं निन्दन्ति मितभाणिकं ।
बहुभाणिकं पि निन्दन्ति नास्ति लोके अनिन्दितो ॥
२९:४५ -f
(पोराणमेतमाधोर न एतमहुना-र्-इव ।)
निन्दन्ति तुष्णिमासीनं निन्दन्ति बहुभाषिणं ।
अल्पभाणिं च निन्दन्ति नास्ति लोकेषु अनिन्दितः ॥

२८४ २२८
न चाभु न भविष्यति न चेतरहि विज्जति ।
एकान्तनिन्दितो पोषो एकान्तं वा प्रशंसितो ॥
२९:४६
एकान्तनिन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥
नाभूद्भविष्यति च नो न चापि एतरहि विद्यते ।

२८५
यञ्च बाला अधंमट्ठं पूजेयु गरहेयु वा ।
अविञूमविभावाय न तमत्थाय कायचि ॥

२८६ २२९
यञ्च विञू प्रशन्ति अनुविच्च सुवे सुवे ।
अच्छिद्रवत्तिं मेधाविं प्रंञाशीलसमाहितं ॥
च्f. २९:४७-४८
यं तु विज्ञाः प्रशंसन्ति ह्यनुयुज्य शुभाशुभम् ।
मेधाविनं वृत्तयुक्तं प्रज्ञं शीलषु संवृतं ॥

२८७ २३०
निक्खं जांबूनदस्सेव को तं निन्दितुमरिहति ।
देवा पि नं प्रशन्सन्ति ब्रह्मुणा पि प्रशंसितो ॥

२८८ २६२
न वाक्ककरणमात्त्(र्)एण वन्नपुक्खलताय वा ।
साधुरूपी नरो होति इश्शुकी मच्छरी शठो ॥
२९:१०
न नामरुपमात्रेण वर्णपुष्कलया न च ।
साधुरूपो नरो भवति मायावी मत्सरी शठः ॥

२८९ च्f. २६१,२६३
यम्हि सच्चं च धम्मो च विरती संय्यमो दमो ।
स वान्तदोषो मेधावी साधुरूपी ति वुच्चति ॥
१०:७
यस्य श्रद्धा च शीलं चैव् आहिंसा संयमो दमः ।
स वान्तदोषो मेधावी साधुरूपो निरुच्यते ॥

२९० १९
बहुं पि चे सहितं भाषमानो न तक्करो होति नरो प्रमत्तो ।
गोपो व गावो गणयं परेसं न भागवा शामण्णस्स होति ॥
४:२२
सुबह्वपीह सहितं भाषमानो न तत्करो भवति नरः प्रमत्तः ।
गोपैव गाः संगणयं परेषां न भागवां च्छ्रामण्यार्थस्य भवति ॥

२९१ २० -च्,f
अप्पं पि चे सहितं भाषमानो धम्मस्स होति अनुधम्मचारी ।
रागं च दोषं च प्रहाय मोहं विमुत्तचित्तो अखिलो अकंछो ।
अनुपादियानो इह वा हुरे वा स भागवा शामन्नस्स होति ॥
४:२३ ब्च्f
अल्पमपि चेत्सहितं भाषमानो धर्मस्य भवति अनुधर्मचारी ।
रागं च दोषं च तथैव मोहं (विमुत्तचित्तो अखिलो अकंछो ।
अनुपादियानो इह वा हुरे वा) प्रहाय भागी श्रामण्यस्य भवति ॥

२९२ २२४
सच्चं भणे न क्(र्)उज्झेया देया अप्पा पि याचितो ।
एतेहि त्तिहि ट्ठाणेहि गच्छे देवान सन्तिके ॥
२०:१६
सत्यं वदेन्न च क्रुध्येद् दद्यादल्पादपि स्वयम् ।
स्थानैरेभिस्त्रिभिर्युक्तो देवानामन्तिकं व्रजेत् ॥

२९३ १७७
न वे कदार्य्या देवलोकं व्रजन्ति बाला हि भे (ते) न प्रशंसन्ति दानं ।
धीरो तु दानमनुमोदमानो तेनेव सो देवलोकं परेति ॥
१०:२
न वै कदर्या देवलोकं व्रजन्ति बाला हि ते न प्रशंसन्ति दानम् ।
श्राद्धस्तु दानं ह्यनुमोदमानो ऽप्येवं ह्यसौ भवति सुखी परर्त ॥

२९४ २१७
शीलवन्तं शुचिं दच्छं धम्मट्ठं सच्चवादिनं ।
आत्तनो कारकं शन्तं तं जनो कुरुते प्रियं ॥
५:२४
धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनम् ।
आत्मनः कारकं शन्तं तं जनः कुरुते प्रियम् ॥

२९५ ३०८
श्रेयो अयोगुडा भुत्ता तत्ता अग्गिशिखोपमा ।
यं च भुञ्जेय दुश्शीलो राष्टपिण्डमसंय्यतो ॥
९:२
श्रेयो ह्ययोगुडा भुक्तास् तप्ता ह्यग्निशिखोपमाः ।
न तु भुञ्जीत दुःशीलो राष्ट्रपिण्डमसंयतः ॥

२९६ ३११
कुशो यथा दुग्गृहीतो हस्तमेवानुकंतति ।
शामन्नं दुप्परामाट्ठं निरयाय उपकट्टति ॥
११:४
शरो यथा दुर्गृहीतो हस्तमेवापकृन्तति ।
श्रामण्यं दुष्परामृष्टं नरकानुपकर्षति ॥

२९७ १७६
एकधंममतीतस्स मुषावादिस्स जंतुनो ।
वितिन्नपरलोकस्स नास्ति पापमकारियं ॥
११:४

२९८
न हि शस्तं सुनिशितं विषं हालाहक्लं तथा ।
एवं खिप्रमतिपातेति वाचा दुब्भाषिता यथा ॥

२९९
पुरुषस्स जायमानस्स कुठारी जायते मुखे ।
याय छिन्दति आत्तानं वाचं दुब्भाषितं भणं ॥
८:२
पुरुषस्य हि जातस्य कुठारी जायते मुखे ।
यया छिनत्ति हात्मानं वाचा दुर्भाषितं वदन् ॥

३००
यो हि निन्दिये प्रशंसति उत्तवा निन्दति यो प्रषंसिये ।
विचिनाति मुखेन सो कलिं कलिना तेन सुखं न विन्दति ॥
८:३
यो निन्दियां प्रशंसति तानपि निन्दति ये प्रशंसियाः ।
स चिनोति मुखेन तं कलिं कलिना तेन सुखं न विन्दति ॥

३०१
अप्पामात्तो अयं कली यो अक्खेहि धनं पराजये ।
सब्बस्सं पि सहापि आत्तना यमेव महत्(त्)अरो कली ॥
यो सुगतेसु मनं प्रदूषये
८:४
अल्पामात्रो ह्ययं कलिर् य इहाक्षेण धनं पराजयेत् ।
अयमत्र महत्तरः कलिर् यः सुगतेषु मनः प्रदूषयेत् ॥

३०२
शतं सहस्राणि निरब्बुदानां छत्त्रीशतिं पंच च अब्बुदानि ।
यमयिरगरही निरयमुपेति वाचं मनं च प्रणिधाय पापिकां ॥
८:५
शतं सहस्राणि निरर्बुदानि षट्त्रिंशतिं पंच तथार्बुदानि ।
यानार्यगर्ही नरकानुपैति वाचं मनश्च प्रणिधाय पापकम् ॥

३०३
कल्लाणिमेव भाषेया नाऽस्स मुच्चेय पापिका ।
मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥
८:८
कल्याणिकां विमुञ्चेत नैव मुञ्चेत पापिकाम् ।
मुक्ता कल्याणिकी श्रेयो मुक्ता तपति पापिका ॥

३०४
कल्लाणिमेव सेवेया नाऽस्स मुच्चेय पापिका ।
मोक्खो कल्लाणिये श्रेयो मुत्ता तपति पापिकं ॥

३०५
वाचं भाषेय कल्लाणिं नाऽस्स मुच्चेय पापिक(ं) ।
जातं क्रोधं निवारेया सो बिषब्भि निरुज्झति ॥
२०:२
(वाचं भाषेय कल्लाणिं नाऽस्स मुच्चेय पापिक(ं) ।)
अविद्यां प्रजहेद्धीरः (सो बिषब्भि निरुज्झति ॥)

वाचावर्ग्गः

          • आत्त *****



३०६ १६२
यस्स अच्चन्तदोश्शिल्लं मलुता सालमिवोऽतता ।
करोति सो तथात्तानं यथा नं बिषमिच्छति ॥
११:१०
योऽसावत्यन्तदुःशिलः सालवां मूलुता यथा ।
करोत्यसौ तथात्मानं यथैनं द्विष्-दिच्छति ॥

३०७ १६१ द्
आत्तना हि कतं पापं आत्तजमात्तसंभवं ।
अनुमंधति दुम्मेधं वयितं वा अह्ममयं मणिं ॥
२८:१२ द्
(आत्तना हि कतं पापं आत्तजमात्तसंभवं ।)
अभिमथ्नाति तं पापं वज्रमश्ममणिं यथा ॥

३०८ १६५
आत्तना हि कतं पापं आत्तना संकिलिश्शति ।
आत्तना अकतं पापं आत्तना ये विशुज्झति ।
शोद्धी अशोद्धी प्रच्चत्तं नांञो अंञं विशोधये ॥
२८:११,१२ ब्
आत्मना हि कृते पापे त्वात्मना क्लिश्यते सदा ।
आत्मना त्वकृते पापे ह्यात्मनैव विशुध्यते ।
अशुद्धबुद्धिं प्रत्यात्मं नान्यो ह्यन्यं विशोधयेत् ॥

३०९ ५०
न परेसं विलोमानि न परेसं कताऽकतं ।
आत्तना ये अवेच्छेया कतानि अकतानि च ॥
१८:९
न परेषां विलोमानि न परेषां कृताकृतम् ।
आत्मनस्तु समीक्षेता समानि विषतानि च ॥

३१०
न परेसं विलोमानि न परेसं समासमं ।
आत्तना ये अवेच्छेया समानि विषमानि च ॥

३११
आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं ।
न एतं सुलभं होति सुखं दुक्कतकारिणां ॥
५:१३
आत्मानं चेत्प्रियं विद्यान् नैनं पापेन योजयेत् ।
न ह्येतत्सुलभं भवति सुखं दुष्कृतकारिणा ॥

३१२ १५७
आत्तानं चे प्रियं ञाय्या रक्खेया नं सुरक्खितं ।
त्तिण्णमञतरं यामानं पटिजाग्ग्रेय पण्डितो ॥
५:१५ बेf
आत्मानं चेत्प्रियं विद्यात् रक्षेदेनं सुरक्षितम् ।
त्रयाणामन्यतमं यामां प्रतिजाग्रेत पण्डितः ॥

३१३ ३०५
एकासनमेकशेयं एकचरियामतन्द्रितो ।
एको रमयमात्तानं वनान्ते रमिता सिया ॥
२३:२
एकासनं त्वेकशय्याम् एकचर्यामतन्द्रितः ।
रमयेच्चैकमात्मानं वनेषु एकः सदा वसेत् ॥

३१४
यो शासनमरहतां अयिराणां धम्मजीविनां ।
पटिक्रोति दुम्मेधो दृष्टिं निश्शाय पापिकां ।
करोति सो तथात्तानं यथा नं बिषमिच्छति ॥

३१५ १६४
यो शासनमरहतां अयिराणां धम्मजीविनां ।
पटिक्रोशति दुम्मेधो दृष्टिं निश्शय पापिकां ।
फलं कण्टकवेणुर्वा आत्तघन्नाय फल्लति ॥

८:७
यः शासनं ह्यर्हतां आर्याणां धर्मजीविनाम् ।
प्रतिक्रोशति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् ।
फलानि कण्टकस्सेव फलत्यात्मवधाय सः ॥

३१६
आत्तानमेव पठमं अत्थे धंमे निवेशये ।
अथांञमनुशासेया एवं होति यथा अहं ॥
च्f. २३:६
आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् ।
ततोऽन्यमनुशासित (एवं होति) यथा ह्यह(ं) ॥

३१७ १५८
आत्तानमेव पठमं पटिरूपे नियोजये ।
अथांञमनुशासन्तो न किलिश्शति प्रंञवा ॥
२३:७
आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् ।
ततोऽन्यमनुशासीत न क्लिश्यत हि पण्डितः ॥

३१८ १५९
आत्तना ये तथा कयिरा यथांञमनुशासये ।
अदान्तो वत दमेया आत्ता हि किर दुद्दमो ॥
२३:८
आत्मानं हि तथा कुर्याच् छासीतान्यं यथा स्वयम् ।
सुदान्तो बत मे नित्यम् आत्मा स हि सुदुर्दमः ॥

३१९ १०४
आत्ता हि वरं दान्तो यच्छायमितरा प्रजा ।
आत्तदान्तस्स पोषस्स सदा संय्यतचारिणो ॥
२३:४
आत्मा ह्यस्य जितः श्रेयां यच्चेयमितराः प्रजाः ।
आत्मदान्तस्य पुरुषस्य नित्यं संवृतचारिणः ॥

३२० १०५
नेव देवा न गन्धब्बा न मारो सह ब्रह्मुणा ।
जितमपजितं कयिरा तथरूपस्स जन्तुनो ।
२३:५
न देवा नापि गन्धर्वा न मारो ब्राह्मुणा सह ।
जितस्यापजितं कुर्युस् तथा प्राज्ञस्य भिक्षुणः ॥

३२१ १६०
आत्ता हि आत्तनो नाथो को हि नाथो परो सिया ।
आत्तना हि सुचिन्नेन नाथं लभति दुल्लभं ॥
२३:११
आत्मा त्विहात्मनो नाथः को नु नाथः परो भवेत् ।
आत्मना हि सुदान्तेन नाथं लभति पण्डितः ॥

३२२ ३८०
आत्ता हि आत्तनो नाथो आत्ता हि आत्तनो गती ।
तस्सा संय्यमयाऽत्तानं अश्शं भद्रं व वाणिजो ॥
१९:१४
आत्मैव ह्यात्मनो नाथः आत्मा शरणमात्मनः ।
तस्मात्संयमयात्मानं भद्रामिव सारथिः ॥

३२३
आत्तानमेव दमये अश्शसुगतिया सदा ।
दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥
ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो ।
१९:१३ ब्
आत्मानमेव दमयेद् भद्राश्वमिव सारथिः ।
(दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥
ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो ।)

३२४ ३७९
आत्तना चोदयाऽत्तानं परिमशात्तानमात्तना ।
सो आत्तगुत्तो सतिमा सुखं भिक्खू विहाहिसि ।

३२५ १६६
आत्तदात्थं परात्थेन बहुना पि न हापये ।
आत्तदात्थं परं ञात्ता सदात्थपरमो सिया ॥
२३:१०
आत्मनोऽर्थं परार्थेन बहुनापि न हापयेत् ।
आत्मार्थं परमं ज्ञात्वा स्वकार्थपरमो भवेत् ॥

३२६ ८४
नेवात्तहेतो न परस्स हेतो न सग्गमिच्छे न धनं न राष्टं ।
नेच्छे अधम्मेण समृद्धिमात्तनो सो शीलवा प्रंञवा धांमिको सिया ॥

आत्तवर्ग्गः

          • ददन्ती *****



३२७ २४९
ददन्ति वे यथाश्रद्धं यथाप्रसदनं जना ।
तत्थ यो दुंमनो होति परेसं पानभोजने ।
न सो दिवा च रात्तो च समाधिमधिगच्छति ॥
१०:१२
ददन्त्येके यथा श्रद्धा यथाविभवतो जनाः ।
तत्र यो दुर्मना भवति परेषां पानभोजने ।
नासौ दिवा च रात्रौ च समाधिमधिगच्छति ॥

३२८ २५०
यस्स चेतं समुच्छिन्नं मूलोऽग्घच्चतं ।
स वे दिवा च रात्तो च समाधिमधिगच्छति ॥
१०:१३
यस्य त्वेते समुच्छिन्नास् तालमस्तकवद्धताः ।
स वै दिवा च रात्रौ च समाधिमधिगच्छति ॥

३२९ १४३ -द्,१४४ ब्
अश्शो व भद्रो कषाय पुट्ठो आतापिनो सविंगणो चराणो ।
श्रद्धाय शीलेन च वीरियेण च समाधिना धम्मविपश्शनाय च ।
ते खान्तिसोरच्छसमाधिसंठिता शुतस्स प्रंञाय च सारमज्झगू ॥
१९:१,२(?)
भद्रो यथाश्वः कशयाभिस्पृष्ट ह्यातापिनः संविजिताश्चरेत ।
श्राद्धास्तथा शीलगुणैरुपेतः समाहितो धर्मविनिश्चयज्ञः ।
संपन्नविद्याचरणः प्रतिस्मृतस् तायि स सर्वं प्रजहाति दुःखम् ॥

३३०
यो द्रिष्टे धंमे लभति श्रद्धां प्रंञामनुत्तरां ।
स वे महद्धनो लोके मोहमंञं बहुं धनं ॥
१०:९
यो जीवलोके लभते श्रद्धां प्रज्ञां च पण्डितः ।
तद्धि तस्य धनं श्रेष्टं हीनमस्येतरद्धनम् ॥

३३१ ३०३
श्रद्धो शीलेन संपन्नो यशभोगसमाहितो ।
यं यं सो भजते देशं तत्थ तत्थेव पूजितो ॥
१०:८
श्राद्धः शीलेन संपन्नस् त्यागवां वीतमत्सरः ।
व्रजते यत्र यत्रैव तत्र तत्रैव पूज्यते ॥

३३२
श्रद्धबितियं पुरुषं चरन्तं न नं लभेया अश्रद्धो व चारो ।
यशो चकित्ती च ततो नमेति सग्गं च गच्छे शरीरं प्रहाय ॥

३३३ ९७
अश्रद्धो अकतंञू च संधिच्छेदो च यो नरो ।
हतावकाशो वान्ताशो स वे उत्तिमपोरुषो ॥
२९:२३
अश्रद्धश्चाकृतज्ञश्च संधिच्छेत्ता च यो नरः ।
हतावकाशो वान्ताशः स वै तूत्तमपूरुषः ॥

३३४ १८२
किच्छो बुद्धान उप्पादो किच्छा धम्मस्स देशना ।
किच्छो श्रद्धपटीलाभो किच्छं माच्चान जीवितं ॥

३३५ ३८
अनवट्ठितचित्तस्स सद्धंममविजानतो ।
पारिप्लवप्रसादस्स प्रंञा न परिपूरति ॥
३१:२८
अनवस्थितचित्तस्य सद्धर्ममविजानतः ।
पारिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥

३३६
नाप्रसन्नचित्तेन दुष्टेन कुपितेन वा ।
शक्कमाजानितुं धम्मो सारंभबहुलेन वा ॥
३१:२५
नाप्रसन्नेन चित्तेन दुष्टेन क्षुभितेन वा ।
धर्मो हि शक्यमाज्ञातुं संरम्भबहुलेन वा ॥

३३७
यो तु विनीय सारंभं अप्रसादं च चेतसो ।
प्रसन्नचित्तो सुमनो स वे न्याय्या सुभाषितं ॥
३१:२६
विनीय यस्तु संरम्भम् अप्रसादं च चेतसा ।
आघातं चैव निःसृज्य प्रजानीयात्सुभाषितम् ॥

३३८ १७८
मनुष्यपटिलाभेन सग्गानां गमनेन च ।
पृथिव्यामेकराज्जेन सोतापत्तिफलं वरं ॥

३३९
यस्स श्रद्धा तथागते अचाला सुप्रतिष्ठिता ।
शीलञ्च यस्स कल्लाणं अयिरकान्तं प्रशंसियं ॥

३४०
संघे प्रसादो यस्स अस्ति उज्जुभूतञ्च दंशनं ।
अदरिद्रो ति तमाहु अमोघं तस्स जीवितं ॥

३४१
तस्सा श्रद्धञ्च शीलं च प्रसादं धम्मदंशने ।
अनुयुञ्जेय मेधावी सरं बुद्धान शासनं ॥
ददन्तीवर्ग्गः

          • चित्त *****



३४२ ३३
फन्दनं चपलं चित्तं दुरक्खं दुन्निवारयं ।
उज्जुं करोति मेधावी उषुकारो व तेजना ॥
३१:८
स्पन्दनं चपलं चित्तं दुरक्ष्यं दुन्निवारणं ।
ऋजुं करोति मेधावी इषुकारो इव तेजसा ॥

३४३ ३४
वारिजो व थले खित्तो ओकमोकातु उब्भतो ।
परिफन्दतिमं चित्तं मारधेयं प्रहातये ॥
३१:२
वारिजो वा स्थले क्ष्प्तो ओकादोघात्समुद्धृतः ।
परिस्पन्दति वै चित्तं मारधेयं प्रहातवै ॥

३४४ ३७
दूरंगममेकचरं अशरीरं गुहाशयं ।
ये चित्तं संय्यमेहिन्ति मोक्खंते मारबंधना ॥

३४५ ३५
दुन्निग्ग्रहस्स लघुनो यत्थकामनिपातिनो ।
चित्तस्स दमथो साधु चित्तं दान्तं सुखावहं ॥
३१:१
दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः ।
चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥

३४६ ३६
सुदुद्दशं सुनिपुणं यथकामनिपातिनं ।
चित्तं रक्खेय मेधावी तद्<अ>हि गुत्तं सुखावहं ॥

३४७ ३९
अनपाश्रयमाणस्स अनन्वाहतचेतसो ।
हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥
२८:६
अनपाश्रयमाणस्स अनन्वाहतचेतसो ।
हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥

३४८ ७९
धम्मप्रीतिरसं पाता विप्रसन्नेन चेतसा ।
अयिरप्रवेदिते धम्मे सदा रमति पण्डितो ॥
३०:१३
धर्मप्रीतिः सुखं शेते विप्रसन्नेन चेतसा ।
आर्यप्रवेदिते धर्मे रमते पण्डितः स्मृतः ॥

३४९ ४१
अचिरा वत अयं कायो पठविमभिशेहिति ।
छूडो अपेतविंन्याणो निरात्थं वा कटिंगरं ॥
१:३५
अचिरं बत कायोऽयं पठिवीमभिशेष्यते ।
शुन्यो व्यपेतविज्ञाणो निरास्तं वा कडङ्गरम् ॥

३५० ४०
कुंभोपमं कायमिमं विदित्ता नगरोपमं चित्तमधिष्ठित्ता ।
योधेय मारं प्रंञायुधेन जितं च रक्खे अनिवेशनो सिया ॥
३१:३५
कुम्भोपमं कायमिमं विदित्वा नगरोपमं चित्तमधिष्ठितं च ।
युध्येत मारं प्रज्ञायुधेन जितं च रक्षेदनिवेशनः स्यात् ॥

३५१ १३
यथा अगारं दुच्छन्नं वट्ठी समिविज्झति ।
एवमभावितं चित्तं रागो समितिविज्झति ॥
३१:११
यथा ह्यगारं दुच्छन्नं वृष्टिः समतिभिन्धति ।
एवं ह्यभावितं चित्तं रागः समतिभिन्दति ॥

३५२ १४
यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति ।
एवं सुभावितं चित्तं रागो न समितिविज्झति ॥
३१:१७
यथा ह्यगारं सुच्छन्नं वृष्टिर्न व्यतिभिन्दति ।
एवं सुभावितं चित्तं रागो न व्यतिभिन्दति ॥

३५३
यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति ।
एवमभावितं चित्तं रागो समितिविज्झति ॥
३१:१२
यथा ह्यगारं दुच्छन्नं वृष्टिर्समतिभिन्दति ।
एवं ह्यभावितं चित्तं द्वेषः समतिभिन्दति ॥

३५४
यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति ।
एवं सुभावितं चित्तं दोषो न समितिविज्झति ॥
३१:१८
यथा ह्यगारं सुच्छन्नं वृष्टिर्न व्यतिभिन्दति ।
एवं सुभावितं चित्तं द्वेषो न व्यतिभिन्दति ॥

३५५
यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति ।
एवमभावितं चित्तं मोहो समितिविज्झति ॥
३१:१३
यथा ह्यगारं दुच्छन्नं वृष्टिर्समतिभिन्दति ।
एवं ह्यभावितं चित्तं मोहः समतिभिन्दति ॥

३५६
यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति ।
एवं सुभावितं चित्तं मोहो न समितिविज्झति ॥
३१:१९
यथा ह्यगारं सुच्छन्नं वृष्टिर्न समतिभिन्दति ।
एवं सुभावितं चित्तं मोहो न व्यतिभिन्दति ॥

३५७ १८३
सब्बपापस्स अकरणं कुशलस्स अपसंपदा ।
सचित्तपयिरोदमनं एतं बुद्धान शासनं ॥
२८:१
सर्वपापस्यआकरणं कुशलस्योपसंपदः ।
स्वचित्तपर्यवदनम् एतद्बुद्धस्य शासनम् ॥

चित्तवर्ग्गः

          • माग्ग *****



३५८ २७३
माग्गानष्टंगिको श्रेष्ठो सच्चानां चतुरो पदा ।
विरागो श्रेष्ठो धम्माणां दुपदानां च चक्खुमा ॥
१२:४
मार्गेषु अष्टाङ्गिकः श्रेष्ठश् चत्वार्यार्याणि सत्यतः ।
श्रेष्ठो विरागो धर्माणां चक्षुमां द्विपदेषु च ॥

३५९ २७५ द्,२७६
आक्खातो वो मया माग्गो अंञाये शल्लसःसनो ।
तुब्भेहि किच्चमातप्पं अक्खातारो तथागता ।
पटिपन्ना प्रमोक्खन्ति झायिनो मारबंधना ॥
१२:९ -द्,१२:११
आख्यातो वो मया मार्गस् त्वज्ञायै शल्यकृन्तनः ।
युष्माभिरेव करणीयम् आखातारस्तथागताः ।
प्रतिपन्नकाः प्रहास्यन्ति ध्यायिनो मारबन्धनम् ॥

३६० २७४,२७५ ब्
एसेव माग्गो नास्तंऽञो दंशनस्स विशुद्धिये ।
तं माग्गं पटिपज्जह्वो मारस्सेऽसा प्रमोहनी ।
एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥
१२:११ ब्
एषो हि मार्गो नास्त्यन्यो दर्शनस्य विशुद्धये ।
(तं माग्गं पटिपज्जह्वो मारस्सेऽसा प्रमोहनी ।
एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥)

३६१ २८३
वनं छिन्दथ मा रुक्खे वनो जायते भयं ।
छेत्ता वनञ्च वनधञ्च निब्बनेन गमिश्शथ ॥
१८:३
वनं छिन्दत मा रुक्षं वनाद्वै जायते भयम् ।
छित्वा वनं च समूलं तु निर्वणा भवत भिक्षवः ॥

३६२ २८४
यावता वनधो न च्छिज्जति अणुमात्तो पि नरस्स ञातिसु ।
पटिबद्धमनो हि तत्थ सो वच्छो च्छीरवको व मातरि ॥
१८:४
न छिद्यते यावता वनं ह्यनुमात्रमपि नरस्य बन्धुषु ।
प्रतिबद्धमनाः स तत्र वै वत्सः क्षीरपक इव मातरम् ॥

३६३ २८५
उच्छिन्न सिनेहमात्तनो कुमुदं शारदिकं व पाणिना ।
शान्तिमाग्गमेव ब्यूहय निब्बाणं सुगतेन देशितं ॥
१८:५
उच्छिन्धि हि स्नेहमात्मनः पद्मं शारदकं यथोदकात् ।
शान्तिमार्गमेव बृंहयेन् निर्वाणं सुगतेन देशितम् ॥

३६४ २८६
इदं वश्शा करिष्यामि इदं हेमंन गृह्मसु ।
इति बालो विचिंतेति अन्तरायं न बुज्झति ॥
१:३८
इह वर्षं करिष्यामि हेमन्तं ग्रीष्ममेव च ।
बालो विचिन्तयत्येवम् अन्तरायं न पश्यति ॥

३६५ २८७
तं पुत्तपशुसंमत्तं व्यासत्तमनसं नरं ।
सुत्तं ग्ग्रामं महोघो वा मच्चु-र्-आदाय गच्छति ॥
१:३९
तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् ।
सुप्तं ग्रामं महौघैव मृत्युरादाय गच्छति ॥

३६६ २८८
न सन्ति पुत्ता त्ताणाय न पिता नो पि भातरो ।
अन्तकेनाऽधिभूतस्स नास्ति ञातीसु त्ताणता ॥
१:४०
न सन्ति पुत्रास्त्राणाय न पिता नापि बान्धवाः ।
अन्तकेनाभिभूतस्य न हि त्राणा भवन्ति ते ॥

३६७
क्रन्दतामेव ञातीनं विलपतां चेवमेकतो ।
जना अन्तरहीयंति असकामा जहंति नं ॥

३६८ २८९
एतं विदिय मेधावी प्रंञवा वीतमच्छरी ।
तं सग्गगमनं माग्गं निच्चमेव विशोधये ।
६:१५
एतद्धि दृष्ट्वा शिक्षेत सदा शीलेषु पण्डितः ।
निर्वाणगमनं मार्गं क्षिप्रमेव विशोधयेत् ॥

३६९
तस्सा हि पण्डितो पोषो संपश्शमत्थमात्तनो ।
तं सग्गगमनं माग्गं निच्चमेव विशोधये ॥

३७०
श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो ।
निच्चं माग्गं विशोधेति सच्छयनं सांपरायिकं ॥

३७१
श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो ।
रमते माग्गमासेवं अज्झत्तोपसमे रतो ॥

३७२ ३१ द्
श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा ।
संयोजनमणुत्थूलं दहमग्गी व गच्छति ।
मानमक्खे व पापके ॥
४:२९ द्
(श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा ।)
संयोजनमणुस्थूलं दहन्नग्निरिव गच्छति ।
(मानमक्खे व पापके ॥)

३७३ २७७
अनिच्चा सब्बसंखारा यतो प्रंञाय पश्शति ।
अथ निव्वण्डते दुक्खा एस माग्गो विशुद्धिये ॥
१२:५
अनित्यां सर्वसंस्कारां प्रज्ञाय पश्यते सदा ।
अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥

३७४ २७९
सब्बधंमा अनात्ता ति यतो प्रंञाय पश्शति ।
अथ निव्विण्डते दुक्खा एस माग्गो विशुद्धिये ॥
१२:८
सर्वधर्मा अनात्मानः प्रज्ञया पश्यते यदा ।
अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥

३७५ २८२
योगा हि भूरी संभवति अयोगा भूरिसंखयो ।
एतं जेथापथं ञात्ता भवाय विभवाय च ।
तथा शिच्छेय मेधावी यथा भूरी प्रवद्धति ॥
२९:४०
योगाद्भवः प्रभवति वियोगाद्भवसंषयः ।
एतद्द्वैधापथं ज्ञात्वा भवाय विभवाय च ।
तत्र शिक्षेत मेधावी यत्र योगानतिक्रमेत् ॥

माग्गवग्गः

          • सहस्र *****



३७६ १००
सहस्रमपि चे वाचा अनत्थपदसाहिता ।
एकमत्थपदं श्रेयो यं शोत्ता उपशांमति ॥

३७७ १०२
यो च गाथाशतमनत्थपदसाहितं ।
एकं धमपदं श्रेयो यं शोत्ता उपशाम्मति ॥
२४:१,२
यच्च गाथाशतमनर्थपदसंहितम् ।
एकं धर्मपदं श्रेयो यच्छ्रुत्वा ह्युपशाम्यति ॥

३७८ १०३
यो सहस्रं सहस्राणां संग्ग्रामे मानुषे जिने ।
एकं च पंञमात्तानं स वे संग्ग्राममुत्तमो ॥
२३:३
यः सहस्रं सहस्राणां संग्रामे द्विषतां जयेत् ।
यश्चात्मानं जयेतेकं संग्रामो दुर्जयः स वै ॥

३७९ १०६ -f
मासे मासे सहस्रेण यो यजेय शतं समा ।
एकं च भावि<त्त>तात्तानं मुहुत्तमपि पूजये ।
सा एव पौजना श्रेयो यच्छ वश्शशतं हुतं ॥
२४:१६ -f
(मासे मासे सहस्रेण यो यजेय शतं समा ।)
यच्वैकं भावितात्मानं मुहूर्तमपि पूजयेत् ।
सा तस्य पूजना श्रेष्टता न तद्वर्षशतं हुतम् ॥

३८० १०७
यो च वश्शशतं जन्तू अग्गिं परिचरे वने ।
एकञ्च भावितात्तानं मुहुत्तमपि पूजये ।
सा एव पूजना श्रेयो यच्छ वश्शशतं हुतं ॥
२४:१६
यच्च वर्षशतं पूर्णम् अग्निं परिचरेद्वने ।
यच्चैकं भावितात्मानं मुहूर्तमपि पूजयेत् ।
सा तस्य पूजना श्रेष्ठा न तद्वर्षशतं हुतम् ॥

३८१ १०८
यं किंचि यष्टं व हुतं व लोके संवत्सरं यजते पुंञपेखी ।
सब्बं पि तं न चतुब्बागमेति अभिवादना उज्जुगतेसु श्रेयो ॥

३८२
मासे मासे सहस्रेण यो यजेय शतं समा ।
न तं बुद्धे प्रसादस्स कलामग्घति षोडशिं ॥
२४:२१
मासे मासे सहस्रेण यो यजेत समाशतम् ।
न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥

३८३
मासे मासे सहस्रेण यो यजेय शतं समा ।
न तं धम्मे प्रसादस्स कलामग्घति षोडशिं ॥
२४:२२
मासे मासे सहस्रेण यो यजेत समाशतम् ।
न तद्धर्मे प्रसादस्य कलामर्घति षोडशीम् ॥

३८४
मासे मासे सहस्रेण यो यजेय शतं समा ।
न तं संघे प्रसादस्स कलामग्घति षोडशिं ॥
२४:२३
मासे मासे सहस्रेण यो यजेत समाशतम् ।
न तद्संघे प्रसादस्य कलामर्घति षोडशीम् ॥

३८५
मासे मासे सहस्रेण यो यजेय शतं समा ।
न तं साखातधंमानां कलामग्घति षोडशिं ॥
२४:२१-२३
मासे मासे सहस्रेण यो यजेत समाशतम् ।
न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥

३८६
मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं ।
न तं बुद्धे प्रसादस्स कलामग्घति षोडशिं ॥
२४:१७
मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् ।
न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥

३८७
मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं ।
न तं धम्मे प्रसादस्स कलामग्घति षोडशिं ॥
२४:१८
मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् ।
न तद्धर्मे प्रसादस्य कलामर्घति षोडशीम् ॥

३८८
मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं ।
न तं संघे प्रसादस्स कलामग्घति षोडशिं ॥
२४:१९
मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् ।
न तद्संघे प्रसादस्य कलामर्घति षोडशीम् ॥

३८९ ७०
मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं ।
न तं साक्खातधंमाणां कलामग्घति षोडशिं ॥
२४:१७-१९
मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् ।
न तद्बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥

३९० ११०
यो च वश्शशतं जीवे दुश्शीलो असमाहितो ।
एकाहं जीवितं श्रेयो शीलवन्तस्स झायतो ॥
२४:३
यच्च वर्षशतं जीवेद् दुःशीलो ह्यसमाहितः ।
एकाहं जीवितं श्रेयः सदा शीलवतः शुचेः ॥

३९१ १११
यो च वश्शशतं जीवे दुश्शीलो असमाहितो ।
एकाहं जीवितं श्रेयो प्रंञवन्तस्स झायतो ॥
२४:४
यच्च वर्षशतं जीवेद् दुष्प्रज्ञो असमाहितः ।
एकाहं जीवितं श्रेयः प्राज्ञस्य ध्यायिनः सदा ॥

३९२ ११२
यो च वश्शशतं जीवे कुसीदो हीनवीरियो ।
एकाहं जीवितं श्रेयो वीर्य्यमारभतो दृडं ॥
२४:५
यच्च वर्षशतं जीवेद् कुसीदो हीनवीर्यवान् ।
एकाहं जीवितं श्रेयो वीर्यमारभतो दृढम् ॥

३९३ ११३
यो च वश्शशतं जीवे अपश्शमुदयव्ययं ।
एकाहं जीवितं श्रेयो पश्शतो उदयव्ययं ॥
२४:६
यच्च वर्षशतं जीवेद् अपश्यन्नुदयव्ययम् ।
एकाहं जीवितं श्रेयः पश्यतो ह्युदयव्ययम् ॥

३९४ ११५
यो च वश्शशतं जीवे अपश्शं धम्ममुत्तमं ।
एकाऽहं जीवितं श्रेयो पश्शतो धम्ममुत्तमं ॥

३९५ ११४
यो च वश्शशतं जीवे अपश्शममतं पदं ।
एकाऽहं जीवितं श्रेयो पश्शतो अमतं पदं ॥
२४:१५
यच्च वर्षशतं जीवेद् अपश्यन्नमृतं पदम् ।
एकाहं जीवितं श्रेयः पश्यतो ह्यमृतं पदम् ॥

३९६
यो च वश्शशतं जीवे सद्धंमे अप्रतिष्ठितो ।
एकाऽहं जीवितं श्रेयो सधंममिह विजानतो ॥

३९७
यो च वश्शशतं जीवे अप्राप्य आसवक्खयं ।
एकाऽहं जीवितं श्रेयो प्राप्यतो आसवक्खयं ॥
२४:८
यच्च वर्षशतं जीवेद् अपश्यन्नास्रवक्षयम् ।
एकाहं जीवितं श्रेयः पश्यतो ह्यासवक्षयम् ॥

सहस्रवर्ग्गः

          • [उरग] *****



३९८
यो नाऽज्झगमी भवेसु सारं विचिनं पुष्पमिव उदुम्बरेसु ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
१८:२१
यो नाध्यगमद्भवेषु सारं बुद्ध्वा पुष्पमुदुम्बरेस्य यद्वत् ।
स तु भिक्षुरिदस्ं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

३९९
यो उप्पतितं विनेति रागं विसटं सप्पविषं व ओषधीहि ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥

४००
यो उप्पतितं विनेति दोषं विसटं सप्पविषं व ओषधीहि ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥

४०१
यो उप्पतितं विनेति मोहं विसटं सप्पविषं व ओषधीहि ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥

४०२
यो उप्पतितं विनेति क्रोधं विसटं सप्पविषं व ओषधीहि ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराण्ज्ं ॥

४०३
यो उप्पतितं विनेति मानं विसटं सप्पविषं व ओषधीहि ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
३२:६५
यस्तूत्पतितं निहन्ति मानं विसृटं सर्पविषं यथौषधेन ।
सो तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

४०४
यो रागमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
१८:२१ =३२:५६
यो रागमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य ।
स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

४०५
यो दोषमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
१८:२१ =३२:५७
यो द्वेषमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य ।
स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

४०६
यो मोहमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
१८:२४ =३२:५८
यो मोहमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य ।
स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

४०७
यो क्रोधमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥

४०८
यो मानमुदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
१८:२१ =३२:५९
यो मानमुदाच्छिनत्त्यशेषं बिसपुष्पमिव जलेरुहं विगाह्य ।
स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

४०९
यो रागमुदिच्छिया अशेषं कुश (क्रम)-संगानि व छेत्त (छेतु) बन्धनानि ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥

४१०
यो तह्नमुदिच्छिया अशेषं सरितां शीघरयां विशोधयित्ता ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
३२:७४
तृष्णां य उदाच्छिनत्त्यशेषं सरितां शीघरजवामशोषयज्ञः ।
स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

४११
यो नाऽच्चसरी न प्रेच्चसारी सब्बं वीतसरी इमं प्रपञ्चं ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥

४१२
यो नाऽच्चसरी न प्रेच्चसारी सब्बमिदं वितधं ति मोषधंमं ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
३२:५५
यो नात्यसरं न चात्यलीयं ज्ञात्वा वितथमिमं हि सर्वलोकम् ।
स तु भिक्षुरिदं जहाति अपारं ह्युरगो जीर्णमिव त्वचं पुराणम् ॥

४१३
यस्स वनथा न संति केचि विनिबंधाय भवाय हेतुकप्पा ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
३२:७८
यस्य हि वनसा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् ।
स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणं ॥

४१४
यस्स वनथा न सन्ति केचि मूला अक्कुशला समूहताऽस्स ।
सो भिक्खु जहाति ओरपारं उरगो जिन्नमिव त्तचां पुराणिं ॥
३२:७९
यस्य ज्वरथा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् ।
स तु भिक्षुरिदं जहात्यपारं ह्युरगो जीर्णमिव त्वचं पुराणं ॥

समाप्ता धम्मपदा अमृतपदानि गाथाशतानि पञ्च द्वे च गाथे ॥ यथा दृष्टं तथा लिखितमिति परिहारोयमस्मदीयः ॥ शुभमस्तु सर्व्वसत्वानानम् ॥�

"https://sa.wikisource.org/w/index.php?title=धम्मपदपठनम्&oldid=368420" इत्यस्माद् प्रतिप्राप्तम्