द्वात्रिंशत्पुत्तलिकासिंहासनम्/०७

विकिस्रोतः तः
Jump to navigation Jump to search

अथ ब्रह्मराक्षसोद्द्धारो नाम त्रयोदशोपाख्यानम्

अथ पुनः समारोहणकामनया सिंहासनसमीपे विक्रममाणं भोजं सन्निरुध्य अन्या पुत्तलिका समवदत्,- शृणु राजन् । एकदा विक्रमो राजा राज्यभारं मन्त्रिवर्गे निधाय, स्वयं योगि वेशेन पर्य्यटनं कर्त्तुं प्रवृत्तः । ग्रामे एकरात्रं (ढ) नयति, नगरे पञ्चरात्राणि गमयति । एवं पंरिभ्रमन्नेकदा नगरमेकमगमत् । तन्नगरसमीपस्थिते नदीतटे देवालयः एकः आसीत् ।

तस्मिन् देवालये सर्वे महाजनाः पौराणिकात् पुराणं ( ण ) शृण्वन्ति । राजाऽपि नद्यां स्नात्वा, देवालयं गत्वा, देवं नमस्कृत्य च महाजनसमीपे उपविष्टः । तस्मिन् समये पौराणिकः पुराण- वाक्यानि पठति । तद यथा,-

अनित्यानि शरीराणि विभवो नैव शाश्वतः ।

नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्म्मसङ्ग्रहः ।। १६९ ।।

श्रूयतां धर्म्मसर्व्वस्वं यदुक्तं ग्रन्थकोटिभिः ।

परोपकारः पुण्याय पापाय परपीडनम् ।। १७० ।।

यो दुःखितानि भूतानि दृष्ट्वा भवति दुःखितः ।

सुखितानि सुखी वाऽपि स धर्म्मं वेद नैष्ठिकम् ।। १७१ ।।

जाने भूयांस्ततो धर्म्मः कश्चिन्नान्योऽस्ति देहिनः ।

प्राणिनां भयभीतानामभयं यः प्रयच्छति ।। १७२ ।।

वरमेकस्य त्रस्तस्य प्रदातुर्जीवितं फलम् ।

न च विप्रसहस्रेभ्यो गोसहस्रं फलं भवेत् ।। १७३ ।।

अभयं सर्व्वभूतेभ्यो यो ददाति दयापरः ।

तस्य पुण्यस्य कल्पान्ते क्षय एव न विद्यते ।। १७४ ।।

हेमधेनु धरादीनां, दातारः सुलभा भुवि ।

दुर्लभः पुरुषो लोके सर्व्वजीवे दयापरः ।। १७५ ।।

महतामपि यज्ञानां कालेन क्षीयते फलम् ।

तच्चाभयप्रदानस्य कलां नार्हति षोडशीम् ।। १७६ ।।

चतुःसागरपर्य्यन्तां यो दद्याद्वसुधामिमाम् ।

यच्चाभयञ्च भूतेभ्यस्तयोरभयदोऽधिकः ।। १७७ ।।

अध्रुवेण शरीरेण प्रतिक्षणविनाशिना ।

ध्रुवं यो नाऽर्ज्जयेत् धर्म्मं स शोच्यो मूढचेतनः ।। १७८।।

यदि प्राण्युपकाराय देहोऽयं नोपयुज्यते ।

ततः किं पोषणं तस्य प्रत्यहं क्रियते नृभिः ? ।। १७९ ।।

एवं पुराणकथनसमये, कश्चिद् वृद्धो ब्राह्मणः पत्न्या सह नदीमुत्तरम्, महापूरेण ( त) नीयमानो हाहाकारं कुर्व्वन्, नदीमध्ये महाञ्जनान् प्रति (थ) वदति-भो भो महात्मानः! धावध्वं धावध्वं, (द) वृद्धः सपत्नीको ब्राह्मणोऽहं नदीप्रवाहेण बलात् नीयमानोऽस्मि । कोऽपि सत्त्वाधिको धार्मिकः मम सपत्नीकस्य जीवदानं करोतु । जलेनोह्यमानस्य इत्थं दीनध्वनिं ( ध) श्रुत्वा महाजनाः सर्वेऽपि सकौतुकं पश्यन्ति, परं न कोऽपि नदीमध्ये प्रविश्य प्रवाहाद् रक्षितुं तस्याभयं (न) प्रयच्छति ।

ततो विक्रमो राजा मा भैषीः इति तस्याभयं दत्त्वा नदीमध्ये प्रविश्य, पत्न्या सह तं ब्राह्मणं महापूरादाकृष्य तटमानीतवान् ।

ब्राह्मणोऽपि स्वस्थः सन् राजानमवदत्- भो महासत्त्व! ममैतच्छरीरं पूर्वं मातापितृभ्यामुत्पादितम्, इदानीं त्वत्सकाशात् द्वितीयं जन्म प्राप्तम् । अतः प्राणदानात् महोपकारिणस्तव किमपि प्रत्युपकारं न करिष्यामि चेत् तर्हि मम जीवितं व्यर्थं स्यात् ।। तस्मात् गोदावर्य्युदकमध्ये द्वादश- वर्षपर्य्यन्तं मन्त्रजपस्य मदीयं पुण्यं तुभ्यं दीयते । अन्यच्च,-मम यत् कृच्छ्रचान्द्रायणादिना किमपि सुकृतमुपार्जितमस्ति, तत् सर्वं गृहाण इत्युक्त्वा स स्वपुण्यं राज्ञे समर्प्याऽऽशिषं दत्त्वा पत्न्या सह निजस्थानं गतः ।

तस्मिन्नवसरे अतिभयङ्कररूपः कश्चित् ब्रह्मराक्षसः ( प) राजसमीपमागतः ।

राजाऽपि तं दृष्ट्वा अवदत्- भो महासत्त्व! कोऽसि त्वम् ? तेनोक्तम्,- अहमेतन्नगरवासी कश्चित् ब्राह्मणः सर्वदा ब्रह्मस्वापहारी दुष्प्रतिग्रहजीवो (फ) अयाज्य- याजकश्च आसम्; तथाविधश्च गुरून्, वृद्धान्, साधून्, महतश्च अदूषयम् । । तस्मात् पातकवशात् अस्मिन् अश्वत्थपादपे ब्रह्मराक्षसो ।। अत्यन्तदुःखितो दशवर्षसहस्रं (ब) तिष्ठामि । भवान् परोपकारी सुकृतचरितः, तवानुग्रहेण अहं पातका- न्मुक्तो भविष्यामि इति विश्वस्य त्वां शरण्यम् आश्रयामि इति ।

तद्वाक्यं श्रुत्वा राज्ञा तदैव ब्राह्मणादधिगतं तत् पुण्यं तस्मै दत्तम् । सोऽपि तेन पुण्येन तस्मात् जन्मनो मुक्तो दिव्यरूपधरः ( भ) सन्, राजानं स्तुत्वा स्वर्गं जगाम; राजाऽपि स्वनगरमगमत् ।

इति कथां कथयित्वा पुत्तलिका भोजमवदत्- त्वय्येवं चेत परोपकारो धैर्य्यमौदार्य्यञ्च विद्यते, तस्मिन् सिंहासने समुपविश ।

राजाऽप्यधोमुखो बभूव ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे ब्रह्म- राक्षसोद्धारो नाम त्रयोदशोपाख्यानम् ।। १३ ।।


अथ काश्मीरलिङ्गदानं नाम चतुर्दशोपाख्यानम्

पुनरपि राजा यदा सिंहासने समुपवेष्टुं गच्छति तदाऽन्या पुत्तलिका तं निवार्य्याऽब्रवीत्,- एकदा विक्रमादित्यो राजा पृथ्वीतले कस्मिन् स्थाने किमाश्चर्य्यं, के च सन्तः, किं तीर्थं, का वा देवताऽस्ति ? इत्यादिकं विलोकयन् स्वयं योगिवेशेन परिभ्रमन् नगरमेकमगमत् । तन्नगरसमीपे तपोवनमेकम् अस्ति । तस्मिंस्तपोवने जगदम्बिकायाः (म) महान् प्रासादः आसीत् । तत्समीपे च काचित् नदी वहति । राजा नद्यां स्नात्वा देवतां नमस्कृत्य च तत्र देवालये उपविष्टो यावत् पश्यति, तावत् अवधूतसारो नाम कश्चित् योगी तत्र समागतः, - सुखी त्वम् इत्युक्त्वा, तेन सह तत्र देवालये उपविष्टः ।

योगिनोक्तं - कुतः समागतो भवान् ?

राज्ञोक्तं - मार्गस्थोऽहं कोऽपि तीर्थयात्रिकः ।

योगिनोक्तं,- त्वं विक्रमादित्यो राजा ननु, मया एकदा उज्जयिन्यां दृष्टोऽसि, अतोऽहं जानामि; किमर्थम् आगतोऽसि ?

राजाऽब्रवीत्- भो योगिराज! मम मनसि एवम् इच्छा वर्त्तते यत्- पृथ्वीपर्य्यटनेन किमप्याश्चर्य्यं विलोकनीयमिति, तथा च सतां सन्दर्शनमपि भविष्यति ।

अवधतूसारोऽब्रवीत,-भो राजन्! त्वं तादृशः विचक्षणोऽपि, प्रमत्तः (य) इव देशान्तरम् आगतोऽसि ।। राज्यमध्ये कश्चित् विप्लवः ( र) चेद्भविष्यति, तदा किं करिष्यसि ?

राज्ञोक्तम्,- अहं सर्वमपि राज्यभारं मन्त्रिहस्ते निधाय (ल) समागतः ।

योगिनोक्तं,--राजन्! तथाऽपि त्वया नीतिशास्त्रविरोधः कृतः । यतः,-

नियोगिहस्तार्पितराज्यभारा-

स्तिष्ठन्ति ये शैलविहारसाराः ।

विडालवृन्दाहितदुग्धकुम्भाः

स्वपन्ति ते मूढधियः क्षितीन्द्राः ।। १८० ।।

अन्यच्च, राज्यं स्ववंशागतमिति नोपेक्षणीयम्; (व) अपि तु पुनः सुदृढञ्च कर्तव्यम्; उक्तञ्च,-

कृषिर्विद्या वणिग्भार्य्या स्वधनं राज्यसम्पदः ।

सुदृढञ्चैव कर्त्तव्यं कृष्णसर्पमुखं यथा ।। १८१ ।।

तच्छ्रुत्वा राजा भणति,- योगिन्! सर्वमेतदनर्थकम्, (श) अत्र दैवबलमेव बलवत्। । सुदृढीकृते सर्वसामग्रीसहितेऽपि राज्ये पौरुषयुक्तोऽपि पुरुषो दैववैमुख्यात् पराभवं प्राप्नोति । तदुक्तम्,-

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः

स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतो वाहनम् ।

इत्यैश्वर्य्यसमन्वितोऽपि बलभिद्भग्नः परैः सङ्गरे

तद्युक्तं ननु दैवमेव शरणं धिग्धिग् वृथा पौरुषम् ।। १८२।।

तथा च,--

नैवाकृतिः फलति नैव कुलं न शीलं

विद्याऽपि नैव न च यत्नकृताऽपि सेवा ।

भाग्यानि पूर्वतपसा खलु सञ्चितानि

काले फलन्ति पुरुषस्य यथैव वृक्षाः ।। १८३ ।।

अपि च,-

यत्राखण्डलदन्तिदन्तमुसलान्याखण्डितान्याहवे

धारा यत्र पिनाकपाणिपरशोराकुण्ठतामागता ।

तद्वक्षोऽपि नृसिंहपाणिकरजैर्दीर्णं हि यत् साम्प्रतं

दैवे दुर्बलतां गते तृणमपि प्रायेण वज्रायते ।। १८४ ।।

किं न श्रुता भवता राजशेखरनृपतेः गाथा ( ष) इयम् अपूर्व्वविश्वासमूला ?-

वटवृक्षस्थिता यक्षा ददतीह हरन्ति च ।

अक्षान् पातय कल्याणि । यद्भाव्यं तद्भविष्यति ।। १८ ५।। इति ।

योगिनोक्तं,-कथमेतत् ?,

राजाऽब्रवीत्-अस्ति उत्तरदेशे नदीपर्वतवर्द्धनं नाम नगरम् । तत्र राजशेखरो नाम राजा राज्यभारं वहति स्म । स देवद्विजपरायणोऽतीव धार्म्मिकः आसीत् ।

एकदा तस्य दायादाः ( स) सर्व्वे समागत्य तेन सह विगृह्य ( ह) बलात् राज्यं गृहीत्वा, सपत्नीकं तं नगरात् निरासिषुः । (क) ततः स राजा पत्न्या पुत्रेण च सह नानादेशं पर्य्यटन्, कस्यचिन्नगरस्य समीपस्थे उपवने गतः । तदा सूर्य्योऽप्यस्तं गतः । स पत्न्या पुत्रेण च समन्वितः कस्मिंश्चित् वटवृक्षमूले गत्वोपविष्टः । तस्मिंश्च वृक्षे पञ्च यक्षाः आसन् । ते परस्परं आलपन्ति स्म । तत्र एकेनोक्तम्- अस्मिन् नगरे राजा मृतः, तस्य च सन्ततिर्नास्ति; को वा राजा भविष्यति ? द्वितीयनोक्तम, -तत्र का चिन्ता? अत्र वटवृक्षमूले यो राजा तिष्ठति, तमेव अस्मिन् राज्ये अभिषेचय । अन्यैरुक्तं,- तथाऽस्तु । सपरिवारो राजाऽपि यक्षाणां तदवाक्यान्यशृणोत् ।

ततः सूर्योदयो जातः । सर्वे जनाः स्वस्वकर्माणि कर्त्तुं प्रवृत्ताः । राजाऽपि सन्ध्यादिकं विधाय यावद्राजमार्गाभिमुखं निर्गतः, तावत्तद्राज्यराजनिर्वाचननिमित्तं मन्त्रिभिर्मुक्ता धृत- माला काचित् करिणी राजानं विलोक्य, तस्य कण्ठे मालां निधाय तं स्वपृष्ठमारोप्य राजभवनं निनाय । ततः सर्व्वैर्मन्त्रिभिर्मिलित्वा अभिषेकं विधाय राजशेखरो राजा राज्ये स्थापितः ।

एकदा सर्वे प्रतिस्पर्द्धिनः ( ख) नृपाः राजशेखरस्य भूयो राज्यप्राप्तिमाकर्ण्य सन्धिबद्धाः ( ग) तद्राज्यात् तमुन्मूलयितुं तन्नगरमवरुद्धवन्तः । तस्मिंश्च राजनि स्वदेव्या सह पाशकक्रीडां कुर्वति चारमुखात् सहसा तद्वृत्तान्तमाकर्ण्य स्वामिनं तत्र सम्यक् उदासीनमालोक्य देव्या सविस्मयं भणितं-भोः नाथ! भवता अधुनाऽपि कथं तूष्णीं स्थीयते? प्रत्यर्थिनृपैः (घ) तवैषा नगरी वेष्टिता, प्रभाते न केवलं नगरम्, अस्मानपि ते ग्रहीष्यन्ति ।

राज्ञोक्तं,- भो मुग्धे! किं प्रयत्नेन? यदा दैवमनुकूलं भवति, तदा सर्वं कार्य्यं स्वयमेव सम्पद्यते; यदा प्रतिकूलं दैवं, तदा सर्वं स्वयमेव नश्यति, त्वया नानुभूतं किं - वृद्धौ क्षये च दैवमेव परं कारणम् ?

वटवृक्षस्थिता यक्षा ददतीह हरन्ति च ।

अक्षान् पातय कल्याणि! यद्भाव्यं तद्भविष्यति ।। इति । वृक्षमूले स्थितस्य मे येन राज्यं दत्तं, तस्यैव चिन्तापि अधुना नूनम् आपतिता ( ङ) भवति ।

एवं कथयतः दैवे परमविश्वस्तस्य तस्य वाक्यमन्तर्य्यामितया (च) विज्ञाय, येन यक्षेणास्मै राज्यं दत्तं, तेनैवं चिन्तितं,- अहमेव अमुं प्रतीत्य एतद्राज्यभारमस्मै समर्पितवान्; यदि इदानीं मयाऽस्य रक्षणे प्रयत्नो न क्रियते, तर्हि महत् अयशो मे भविष्यति इति विचार्य्य, स भयङ्कररूपं धृत्वा सर्वान् शत्रून् अभीषयत् । तञ्चातिभीमाऽऽकृतिमालोक्य ते सर्वे प्रतिस्पर्द्धिनः पलायिता बभूवुः । ततोऽसौ राजशेखरो राजा निष्कण्टकं (छ) राज्यमकरोत् । अतोऽहं ब्रवीमि - वटवृक्षस्थिताः इत्यादि । एषा कथा विक्रमेण योगीन्द्रं प्रति कथिता ।

ततो योगीन्द्रः इमां कथां श्रुत्वा अतिसन्तुष्टः सन् राज्ञ काश्मीरलिङ्गमेकं ( ज) दत्त्वा अभणत्- भो राजन्! एतत् काश्मीरलिङ्गं चिन्तामणिरिव ( ण) चिन्तितं वस्तु ददाति । तद् एनं सम्यक् पूजय ।

राजा तथाऽस्तु इत्युक्त्वा तं प्रणम्य यावन्नगरमार्गे आगच्छति, तावद्ब्राह्मणः कश्चित् समागत्य राज्ञ- हस्ते तल्लिङ्गं दृष्ट्वा राजानमाशीर्वादपूर्वकमवदत्-भो राजन् , प्रत्यहं मम शिवलिङ्गपूजने नियमोस्ति; तदनभ्यर्च्च्य कदाऽपि पानीयमपि न पिबामि; किन्तु मम शिवलिङ्गं नष्टं, तेन दिनत्रयमुपोषितो(ञ)ऽस्मि । ततः अद्य मे एतत् शिवलिङ्गं पूजार्थं त्वया दातव्यम् ।

राजाऽपि तस्मै ब्राह्मणाय काश्मीरलिङ्गं दत्त्वा निजनगरमगमत् ।

इति कथां कथयित्वा पुत्तलिका भोज- राजमवदत्,- त्वयि एवमौदार्य्यादयो गुणा विद्यन्ते चेत्, तर्ह्यत्र सिंहासने समुपविश ।

राजा तूष्णीमासीत् ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे काश्मीरलिङ्गदानं नाम चतुर्दशोपाख्यानम् ।। १४ ।।


अथ मन्मथसञ्जीवनीवृत्तान्तो नाम पञ्चदशोपाख्यानम्

अथ नित्यप्रतिहतसिंहासनाधिरोहणविक्लवमानसमपि (ट) स्वाभीष्टवशं भोजदेवं प्रतिषिध्य पुनरन्या पुत्तलिकाऽब्रवीत् -शृणु राजन्! विक्रमार्के राज्यं कुर्वति, तस्य पुरोहितो वसुमित्रः अत्यन्तरूपवान्, सकलकलाऽभिज्ञः, राज्ञोऽत्यन्तप्रिय- तमः, परमोपकारी सर्वलोकस्य, महाधनसम्पन्नश्च आसीत् । तेन एकदा विचारितं, ननु उपार्जितानां (ठ) पापानां गङ्गास्नानादन्यत् क्षयसाधनं नास्ति । उक्तञ्च ।-

तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ।

गतिमप्राप्य वै जन्तुर्गङ्गां संसेव्य तां व्रजेत् ।। १८६।।

स्नातानां शुचिभिस्तोयैर्गाङ्गेयैर्नियतात्मनाम् ।

शुद्धिर्भवति या पुंसां न सा क्रतुशतैरपि ।। १८७ ।।

अपहृत्य तमस्तीव्रं यथा यात्युदयं रविः ।

तथाऽपहाय पापानि भाति गङ्गाजलाप्लुतः ।। १८८।।

अग्निं प्राप्य यथा सद्यस्तूलराशिर्विनश्यति ।

तथा गङ्गाप्रवाहेण सर्वं पापं विनश्यति ।। १८९ ।।

यस्तु सूर्य्यांशुभिस्तप्तं गाङ्गेयं सलिलं पिबेत् ।

पञ्चगव्यस्य पानाद्धि सोऽधिकं फलमाप्नुयात् ।। १९० ।।

चान्द्रायणसहस्रेण यः कुर्य्यात् कायशोधनम् ।

पिबेद्यश्चापि गङ्गाम्भः समौ स्यातामुभावपि ।। १९१ ।।

भूतानामपि सर्वेषां दुःखाभिहतचेतसाम् ।

गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ।।१९२ ।

महद्भिः पातकैर्यस्तान् अनेकान् हतमानसान् ।

पततो नरके घोरे गङ्गा रक्षति सेवनात् ।। १९३ ।।

सप्ताऽवरान् सप्तपरान् पितॄंश्चापि हि वै ध्रुवम् ।

नरस्तारयते नित्यं गङ्गातोयावगाहितः ।। १९४ ।।

दर्शनात् स्पर्शनात् ध्यानात् तथा गङ्गेतिकीर्त्तनात ।

पुनाति पुरुषान् पुण्यान् शतशोऽथ सहस्रशः ।। १९५ ।।

जात्यन्धा न हि तुल्यास्ते खगैः पशुभिरेव च ।

समर्था ये न पश्यन्ति गङ्गां पापप्रणाशिनीम् ।। १९६ ।।

इत्येवं विचार्य्य वाराणसीं गतो विश्वेश्वरं दृष्ट्वा, प्रयागे पुनः माघस्नानं विधाय स्वनगराभिमुखमगच्छत् प्रतिनिवृत्तस्य तस्य मार्गे नगरमेकमासीत् । तत्र नगरे शापभ्रष्टा सुराङ्गना काचित राज्यं करोति । तस्याः भर्त्ता नास्ति । तत्र लक्ष्मीनारायणस्य महान् प्रासादो विद्यते । तत्समीपे विवाहमण्डपः सज्जितोऽस्ति; देवताप्रासादद्वारे च महति लोहपात्रे तैल तप्यते । तत्र नियुक्ताः पुरुषाः देशान्तरादागतानेवं वदन्ति - यदि कश्चित् सत्त्वाधिकोऽस्मिन् सन्तप्ततैलमध्ये पतिष्यति, तस्य मन्मथसञ्जीवनी नाम्नी अप्सराः कण्ठे मालामर्पयिष्यति । वसुमित्रः सर्वमेतत् पश्यन् शृण्वंश्च स्वनगरं ययौ । सर्वैर्बन्धुभिः सह सन्दर्शनं जातम् । असौ क्षेमेण (ड) आगत इति सर्वेषाम् आनन्दोऽभूत् । तत परेद्युः प्रभाते राजमन्दिरं गतः, राजानं दृष्ट्वा राज्ञे गङ्गोदकं विश्वेश्वरप्रसादञ्च दत्त्वोपविष्टः ।

ततः राज्ञा पृष्टः,-भो वसुमित्र! कुशलिना तीर्थयात्रा कृता ?

तेनोक्तं भोः स्वामिन्! तव प्रसादात् तीर्थयात्रां विधाय कुशलो समागताऽस्मि ।

राज्ञोक्तं,--तत्र देशान्तरं गतेन किमपूर्वं दृष्टम् ?

राज्ञा एवं पृष्टेन वसुमित्रेण सुराङ्गना- तप्ततैलवृत्तान्तः कथितः । ततः राजा तेन सह तत्र स्थाने गतः, तत्र स्नानं विधाय लक्ष्मीनारायणं नत्वा तप्ततैलमध्ये पपात । तद्दृष्ट्वा तत्रत्यैस्तैर्जनैर्हाहाकारः कृतः । तदा राजशरीरं मांसपिण्डाऽऽकारमभूत् । तच्छ्रुत्वा मन्मथसञ्जीवनी अमृतम् ( ढ) आनीय, मांसपिण्डस्याभिषेकमकरोत् । ततः स राजा दैवशक्त्या दिव्यरूपधरः पुरुषो जातः ।

ततः सा सुप्रसन्नचित्ता यावद्राजकण्ठे मालामर्पयति, (ण) तावद्राज्ञा भणिता,- भो मम्मथसञ्जीवनि । यदि त्वं मदीया भवसि, तर्हि मद्वचः शृणु ।

तयोक्तं,- भोः स्वामिन्! निरूप्य- ?म्, ( त) सर्वथा भवद्वचनं प्रतिपालयिष्याम्येव ।

राज्ञोक्तं, - यदि मदुक्तं करिष्यसि, तर्हि मत्पुरोहितं वृणीष्व ( थ) ।

साऽपि तथाऽस्तु इत्युक्त्वा, पुरोहितकण्ठे मालां समर्प्य विवाहमकरोत् ।

अथ राजा स्वनगरं गतः ।

इमां कथां कथयित्वा पुत्तलिका भोजमवदत् - त्वय्येवं धैर्य्यं विद्यते चेत्, तस्मिन् सिंहासने समुपविश ।

राजा तूष्णीमासीत् ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे मन्मथसञ्जीवनी- वृत्तान्तो नाम पच्चदशोपाख्यानम् ।।१५।।


अथ कन्यातुलितसुवर्णदानं नाम षोडशोपाख्यानम्

सिंहासनमस्मदायत्तं कथमबलाप्रतिषेधान्नोपवेष्टव्यम्? इति विचार्य्य सिंहासनमधिरोढुकामे राज्ञि तं निवार्य्य पुनरन्या पुत्तलिकाऽब्रवीत्,- शृण राजन्! विक्रमार्को राजा दिग्विजयार्थं (द) निर्गत्य पूर्वदक्षिणपश्चिमोत्तरदिशः विदिशश्च (ध) परिभ्रम्य, तत्रत्यान् नृपतीन् पादतलावनतान् विधाय, तैः समर्पितमन्यैरनास्वादितं वस्तुजातं ( न) गृहीत्वा पुनस्तान् स्वपदे संस्थाप्य, निजनगरं प्रति समायातः ।

अथ नगरप्रवेशसमये केनचित् दैवज्ञेनोक्तं,- भो देव! दिनचतुष्टयं नगरप्रवेशे मुहूर्तः ( प) नास्ति ।

तस्य तद्वचनं श्रुत्वा राजा ग्रामाद्बहिः उपवने पटमण्डपान् (फ) कारयित्वा, तत्रैव दिनचतुष्टयं नेतुमुपक्रान्तवान् ( ब) । तस्मिन् समये ऋतुराजो वसन्तः समागतः ।

अथ वसन्तविलासं ( भ) दृष्ट्वा सुमन्त्रः मन्त्री राजसमीपमागत्योक्तवान्- भो राजन्! ऋतुराजो वसन्तः समायातः, अद्य वसन्तपूजा कर्त्तव्या । तस्मिन् पूजिते सर्वेऽपि देवाः त्वयि प्रसन्ना भविष्यन्ति, सर्वोऽपि लोकः सुखी भविष्यति, सर्वस्याऽप्यरिष्टस्य शान्तिः ( म) भविष्यति । तस्य मन्त्रिणः तद्वचनं श्रुत्वा राजा तथाऽस्तु इत्यङ्गीकृत्य, वसन्तपूजासम्पा- दने तमेव समादिदेश ।

तदनन्तरं स मन्त्री सुमनोहरं सभामण्डपं (य) कारयित्वा, वेदशास्त्रसम्पन्नान् ब्राह्मणान्, गीतवाद्याभिज्ञान् भरतान्, (र) इतरकलाकुशलाः नर्त्तकीश्च समाह्वयत्; दीनान्धबधिर- पङ्गु-कुब्जादयस्तु स्वयमेवागताः । तत्र सभामण्डपे तेन नवरत्न- खचितं (ल) सिंहासनं संस्थाप्य तत्र लक्ष्मीनारायाणप्रतिमाद्वयं प्रतिष्ठापितम् । पूजार्थं कुङ्कुम-कर्पूर कस्तूरिका चन्दनाऽगुरुप्रभृ- तीनि सुगन्धिद्रव्याणि, पुष्पाणि जाती यूथिका मल्लिका कुन्द- शतपत्र मदनचम्यक केतकीप्रभृतीनि च समानीतानि ।

एवं यथाविधानं राजा स्वयं लक्ष्मीनारायणौ स्नपनादि- षोडशोपचारैः पूजयित्वा, ब्राह्मणादीन् कला(व) कुशलजनान् वस्त्राऽऽदिना सम्भावितवान् । तदनन्तरं गायकाः वसन्तरागालापं कृत्वा वसन्तं जगुः । ततो राजा तेषां वीटिकां (श) ददौ ।

अत्रान्तरे कश्चिद्ब्राह्मणः सकन्यकः समागत्य,-

कल्याणदायि भवतोऽस्तु पिनाकपाणेः

पाणिग्रहे भुजगकङ्कणभूषितस्य ।

सम्भान्तदृष्टि सहसैव नमः शिवाये-

त्यर्द्धोक्तलज्जितनतं मुखमम्बिकायाः ।। १९७ ।।

इत्याशिषः प्रयुज्य चावदत् - भो राजन्! विज्ञप्तिरेकाऽस्ति ।

राज्ञोक्तं -निवेदय ।

ब्राह्मणेनोक्तम्,- अहं नन्दिवर्द्धननगरवासी ब्राह्मणः । ममाऽष्टौ पुत्रा एव जाताः, परं नैवापि दुहिता सम्भूता । ततः अतिदुःखितेन सभार्येण मया जगदम्बिकायाः पुरतः एवं सङ्कल्पः ( ष) कृतः, यत्- मातः अम्बिके! मम कन्या यदि भविष्यति, तदा तां तव नाम धारयिष्यामि । अन्यच्च,- तत्कन्यया तुलितं (स) सुवर्णं तुभ्यं दास्यामि, कन्याञ्च तां कस्मैचिद् वैदिकवराय वराय (ह) सम्प्रदास्यामि इति । कालेन जगदम्बिकाप्रसादात् मम इयं सुलक्षणा दुहिता समजायत । इदानीम् अस्या विवाहकालः समायातः; सम्प्रति च अस्याः एकादशस्थाने गुरुर्वर्त्तते इति कथमपि अयं कालो नोपेक्षणीयः इति सम्प्रत्येव त्वस्या विवाहं दातुमुद्युक्तः । अतोऽहं पूर्व्वप्रतिश्रुतं कन्यया तुलितं सुवर्णं देव्यै दातुम् इच्छामि । अन्यः कश्चित् विक्रमं विना राजा भूमण्डले नास्ति, यः एतत कन्यातुलितं सुवर्णं दातुं प्रभवति (क) इति त्वदन्तिकं समागतोऽस्मि ।

राज्ञोक्तं,- भो ब्राह्मण! साधु समनुष्ठितं त्वया, तव यावता धनेन कार्य्यं भवति, तावद्धनं गृहाण इति । ततः राजा भाण्डारिकमाहूयोक्तवान्,- भो भाण्डारिक! अस्मै ब्राह्मणाय एतत् कन्यातुलितं सुवर्णं देहि,- पुनरप्यष्टवर्गार्द्धमष्टकोटिसुवर्णं ( ख) पृथग्दीयताम् ।

ततस्तेन आज्ञप्तो भाण्डारिकस्तस्मै ब्राह्मणाय तावत् सुवर्णं ददौ । बाह्मणोऽप्यतिसन्तुष्टः सन् कन्यया सह निजस्थानमगात् । राजाऽपि शुभे मुहूर्ते पुरं प्रविवेश ।

अथ पुत्तलिकाऽब्रवीत्,- देव! त्वयि औदार्य्यम् एवं विद्यते चेत् तर्हि अस्मिन् सिंहासने समुपविश ।

राजा तूष्णीम् आसीत ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे कन्यातुलित- सुवर्णदानं नाम षोडशोपाख्यानम् ।।१६ ।।


अग्रिमपुटम्