दैवज्ञवल्लभा/अध्यायः ७ (जयपराजयौ)

विकिस्रोतः तः
← अध्यायः ६ ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः ८ →


दशमसप्तमलग्नगताः शुभा नगरवासिनृपस्य जयप्रदाः।
शनिकुजौ नवमे भयभंगदौ विजयदा गुरुभार्गवचन्द्रजाः॥ १॥

नागराश्चक्रभागैस्तृतीयादितः प्रश्नलग्नाश्च धर्मादितो यायिनः।
तत्र सौम्येन जुष्टौ जयप्राप्तिदः पापजुष्टस्तु भागो भवेद् भंगभाक्॥ २॥

मिश्रयुक्ते विमिश्रं फलं निर्दिशेत्तद्विरूपं फलं केचिदाक्षते।
पंक्तिलाभव्ययस्थास्तु पापग्रहा यातुरिष्टाः परं तत्पुरस्याशुभाः॥ ३॥

मिथुनतुलाघटकन्यामेषाणामेककोऽपि पापयुतः।
यदि भवति तदा विजयो गन्तुः स्थास्नोभवेद्भंगः॥ ४॥

लग्ने नृराशिभवने यदि सन्ति सौम्याः केन्द्रव्ययायभवनेष्वशुभा भवन्ति।
सन्धिस्तदा द्रुततरं प्रवदेन्नराणां पापैर्द्विदेहगृहगैस्तु विरोधमाहुः॥ ५॥

केन्द्रस्थिता यदि शुभा यदि वा भवन्ति लग्ने नृराशिभवने शुभदृष्टि पुष्टः।
प्रीतिस्तदा भवति पापविलोकितैस्तु पापैरमीषु भवनेषु भवेद्विरोधः॥ ६॥

अशुभग्रहस्थलग्ने बलिभिस्त्वशुभैश्च वीक्षिते युक्ते।
युद्धं महदादेश्यं क्षुद्रं सौम्यग्रहैर्दृष्टे॥ ७॥

सूर्यसमीरणसुरगुरुशुक्रान् समरे पृष्ठतः कृत्वा।
जयति परान्केवलमपि परमफलं प्राह यवनेन्द्रः॥ ८॥

केन्द्रगमर्कं केन्द्री यदि शनिरुद्वीक्षिते तदा भंगः।
एवंविधशनिदृष्टे मृत्युगतेऽर्के भवेन्मृत्युः॥ ९॥

लग्ने रवावष्टमगे शशांके कुजार्कजाभ्यामवलोक्यमाने।
अर्केऽष्टमे लग्नगते च चन्द्रे भङ्गो भवेत् प्रष्टुरसंशयेन॥ १०॥

जीवज्ञसूर्यभृगुजास्तनये हि लोकदुश्चिक्यलग्नभवने परिपृच्छतः स्युः।
लाभस्थिताश्च शशिभास्करिभूमिपुत्रा यायी विजित्य रिपुमेति गृहं कृतार्थः॥ ११॥

लग्ने वा क्षितिसुतमन्दयोः सुतस्थे जीवेऽर्के दशमगृहाश्रिते विलग्नात्।
लाभे वा नभसि सितेन्दुपुत्रयोर्वा प्रश्नैवं समिति रिपूञ्जयत्यवश्यम्॥ १२॥

 जीवतीव्रकरशीतमयूखैर्लग्नशत्रुदशगैर्जयसिद्धिः।
तद्वदेव गुरुभार्गवसूर्यैर्लग्नशत्रुदशगैरवधार्यम्॥ १३॥

आये गुरौ स्यात्सचिवस्य लाभः कर्मस्थयोः सूर्यजभौमयोश्च।
चतुर्थगे ज्ञेऽष्टमगे शशांके जायास्थिते चापि भृगौ जयः स्यात्॥ १४॥

दशमगेहगते क्षितिनन्दने किरणमालिनि लाभगृहं गते।
सहजगेऽर्कसुते रिपुगे विधौ तदितरैरुदयालयगैर्जयः॥ १५॥

भूमिनन्दनतीव्रभानुशनैश्चरैः सहजस्थितैर्लग्नगैश्च
शुभग्रहैरिह प्रच्छतां विजयः स्फुटः।
लग्नशालिनि वा गुरौ विशुभैस्तु लाभगृहगतैः
कर्मगैरथवा जयो भवतीति चाह पराशरः॥ १६॥

क्षितिसुतसूर्यसुतौ यदि षष्ठे सुरगुरुचन्द्रमसौ यदि विलग्ने।
शशिसुतदैत्यगुरू यदि चाये दिवसकरो दशमे जयाय॥ १७॥

नवमात्मजलग्नगैरिह स्याच्छनिशीतांशुकुजैर्नृपस्य भंगः।
वसुधासुतदृष्टयोर्विलग्ने शशभृन्मन्दगयोर्भवेच्च मृत्युः॥ १८॥

अष्टमे कुजयुते शनैश्चरे लग्नगे च मरणं दिवाकरे।
त्र्यायमृत्युषु च रोहिणीपतौ स्याद्वधः समिति भास्करानुगे॥ १९॥

कुजबुधशनिभिः स्मरस्थितैर्भवति रिपूनथ गच्छतो वधः।
उदयगृहगयोः सितारयोरपि च रिपूपचयः क्षुधामृति॥ २०॥

विज्ञेयाः क्षितिसुतमन्दयोर्विलग्ने षष्ठर्क्षे बुधसितयोरिहाष्टमर्क्षे।
तीक्ष्णांशोर्ध्रुवमिति पापिनो रिपूणां संग्रामे पटुतरमन्त्रिणो वधाय॥ २१॥

विलग्नात्मजस्थानसंस्थैरवश्यं वधं प्रष्ट्रपुत्रस्य जानीहि पापैः।
सचन्द्रे कुजे लग्नगे सौरिदृष्टे पुनः संगरे भंग एवं प्रदिष्टः॥ २२॥

द्यूननैधनगते सितद्युतौ लग्नगामिनि च तीक्ष्णदीधितौ।
गच्छतः समिति वा विपर्यये त्रासभंगमरणागमा ध्रुवम्॥ २३॥

द्वित्रिकेन्द्रस्थितैः पापरूपैर्ग्रहैः शक्तिहानिं वहद्भिः स्वकीयांशुभिः।
अष्टमस्थे निशानायके भूभुजां बन्धनाशात्ययाः स्युः रणे पृच्छताम्॥ २४॥

द्यूने महीनन्दनचन्द्रयोः स्याद् बुधोऽर्कलग्ने स्वबलस्य भेदः।
यमारयोस्तद्वदवेहि भङ्गं युद्धे बुधाहस्करयोस्तथैव॥ २५॥

सर्वैरमीभिर्नवमस्थितैऽतु हन्यान्नृपो मंत्रिपुरोहितादीन्।
अत्रैव योगे च शशी विलग्ने स देशिकाश्वस्थपतिस्वपुत्रान्॥ २६॥

अर्कसूर्यसुतयोश्च विलग्ने दृष्टयोश्चधरणीतनयेन।
अस्तगे शशधरे बलहीनैर्वाहिनीपतिवधः किल सौम्यै॥ २७॥

अस्तगे शशिना लग्नगे रवावष्टमे कुजशनैश्चरौ यदा।
ज्ञस्तृतीयगृहगस्तदा रणे मंत्रिणा सह विहन्यते नृपः॥ २८॥

शीर्षोदयं ज्ञुभसुहृद्‍ग्रहयुक्तदृष्टं लग्नं शुभा बलयुताः शुभवर्गलग्ने।
सर्वार्थसिद्धिदमतोऽन्यदनिष्टमेव प्रस्थानजन्मफलयुक्तिभिरन्यदूह्यम्॥ २९॥