देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः ०८

विकिस्रोतः तः

भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम्

श्रीनारायण उवाच
तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा ।
पूजयन्ति महादेवीं जपध्यानसमाधिभिः ॥ १ ॥
सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः ।
फलानां पल्लवानां च यत्र शोभा निरन्तरम् ॥ २ ॥
तेषु काननवर्षेषु वर्षपर्वतसानुषु ।
गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु ॥ ३ ॥
विकचोत्पलमालासु हंससारससञ्चयैः ।
विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च ॥ ४ ॥
जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च ।
सुन्दरीललितभ्रूणां विलासायतनेषु च ॥ ५ ॥
तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह ।
नवस्वपि च वर्षेषु भगवानादिपूरुषः ॥ ६ ॥
(नारायणाख्यो लोकानामनुग्रहरसैकदृक् ।)
देवीमाराधयन्तास्ते स च सर्वैश्च पूज्यते ।
आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः ॥ ७ ॥
इलावृते तु भगवान् पद्मजाक्षिसमुद्‍भवः ।
एक एव भवो देवो नित्यं वसति साङ्गनः ॥ ८ ॥
तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च ।
भवान्याः शापतस्तत्र पुमान्तस्त्री भवति स्फुटम् ॥ ९ ॥
भवानीनाथकैः स्वीणामसंख्यैर्गणकोटिभिः ।
संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन् ॥ १० ॥
आत्मना ध्यानयोगेन सर्वभूतहितेच्छया ।
तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः ॥ ११ ॥
उपधावते चैकाग्रमनसा भगवानजः ।
श्रीभगवानुवाच
ॐनमो भगवते महापुरुषाय
सर्वगुणसंख्यानायानन्तायाव्यक्ताय नम इति ॥ १२ ॥
भजे भजन्यारणपादपङ्कजं
     भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं
     भवापहं त्वा भव भावमीश्वरम् ॥ १३ ॥
न यस्य मायागुणकर्मवृत्तिभि-
     र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नो स्त्रतमन्युरंहसा
     कस्तं न मन्येत जिगीषुरात्मनः ॥ १४ ॥
असद्दृशो यः प्रतिभाति मायया
     क्षीबेव मध्वासवताग्रलोचनः ।
न नागवध्वोऽर्हण ईशिरे ह्रिया
     यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ १५ ॥
यमाहुरस्य स्थितिजन्मसंयमं
     त्रिभिर्विहीनं यमनन्तमॄषयः ।
न वेद सिद्धार्थमिव क्यचित्स्थितं
     भूमण्डलं मूर्धसहस्रधामसु ॥ १६ ॥
यस्याद्य आसीद् गुणविग्रहो महान्
     विज्ञानधिष्ण्यो भगवानजः किल ।
यत्सवतोऽहं त्रिवृता स्वतेजसा
     वैकारिकं तामसमैन्द्रियं सृजे ॥ १७ ॥
एते वयं यस्य वशे महात्मनः
     स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।
महानहंवैकृततामसेन्द्रियाः
     सृजाम सर्वे यदनुग्रहादिदम् ॥ १८ ॥
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं
     मायां जनोऽयं गुरुसर्गमोहितः ।
न वेद निस्तारणयोगमञ्जसा
     तस्मै नमस्ते विलयोदयात्मने ॥ १९ ॥
श्रीनारायण उवाच
एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् ।
इलावृतमुपासीत देवीगणसमाहितः ॥ २० ॥
तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति ।
तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः ॥ २१ ॥
भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् ।
हयमूर्तिभिदा तां तु हयग्रीवपदाङ्‌किताम् ॥ २२ ॥
परमेण समाध्यन्यवारकेण नियन्त्रिताम् ।
एवमेव च तां मूर्तिं गृणन्त उपयान्ति च ॥ २३ ॥
भद्रश्रवस ऊचुः
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ।
अहो विचित्रं भगवद्विचेष्टितं
घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्न सद्यर्हि विकर्म सेवितुं
निर्हृत्य पुत्रं पितरं जिजीवुषुः ॥ २४ ॥
वदन्ति विश्वं कवयः स्म नश्वरं
पश्यन्ति चाध्यात्मविदो विपश्चितः ।
तथापि मुह्यन्ति तवाज मायया
सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ २५ ॥
विश्वोद्‍भवस्थाननिरोधकर्म ते
     ह्यकर्तुरङ्गीकृतमप्यपावृतः ।
युक्तं न चित्रं त्वयि कार्यकारणे
     सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ २६ ॥
वेदान् युगान्ते तमसा तिरस्कृतान्
     रसातलाद्यो नृतुरङ्गविग्रहः ।
प्रत्याददे वै कवयेऽभियाचते
     तस्मै नमस्ते वितथेहिताय ते ॥ २७ ॥
एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते ।
भद्रश्रवसनामानो वर्णयन्ति च तद्‍गुणान् ॥ २८ ॥
एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः ।
पापकंचुकमुत्सृज्य देवीलोकं व्रजेच्च सः ॥ २९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥