देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ०४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम्

व्यास उवाच -
गते राजनि सा बाला पतिसेवापरायणा ।
बभूव च तथाग्नीनां सेवने धर्मतत्परा ॥ १ ॥
फलान्यादाय स्वादूनि मूलानि विविधानि च ।
ददौ सा मुनये बाला पतिसेवापरायणा ॥ २ ॥
पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा ।
परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि ॥ ३ ॥
तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् ।
तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम ॥ ४ ॥
तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि ।
बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत् ॥ ५ ॥
पश्चादानीय पक्वानि फलानि च नृपात्मजा ।
भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम् ॥ ६ ॥
भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् ।
पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता ॥ ७ ॥
गृहीतमुखवासं तं संवेश्य च शुभासने ।
गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः ॥ ८ ॥
फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ ।
प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो ॥ ९ ॥
पादसंवाहनं तेऽद्य करोमि यदि मन्यसे ।
एवं सेवापरा नित्यं बभूव पतितत्परा ॥ १० ॥
सायं होमावसाने सा फलान्याहृत्य सुन्दरी ।
अर्पयामास मुनये स्वादूनि च मृदूनि च ॥ ११ ॥
ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया ।
सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा ॥ १२ ॥
सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा ।
चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी ॥ १३ ॥
पादसंवाहनं कृत्वा निशि भक्तिपरायणा ।
निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके ॥ १४ ॥
शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी ।
कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा ॥ १५ ॥
हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः ।
स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत् ॥ १६ ॥
ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् ।
समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया ॥ १७ ॥
स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् ।
कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः ॥ १८ ॥
आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे ।
मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि ॥ १९ ॥
दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् ।
समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी ॥ २० ॥
चकारोष्णं जलं शुद्धं समानीतं सुपावनम् ।
स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता ॥ २१ ॥
किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् ।
उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम् ॥ २२ ॥
वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते ।
विधिवद्‌हवनं कृत्वा देवतापूजनं कुरु ॥ २३ ॥
एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता ।
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ २४ ॥
अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा ।
आराधयामास मुदा च्यवनं सा शुभानना ॥ २५ ॥
कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ ।
च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ ॥ २६ ॥
जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति ।
गच्छन्तीं चारुसर्वाङ्‌गीं रविपुत्रावपश्यताम् ॥ २७ ॥
तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् ।
ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ ॥ २८ ॥
क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि ।
आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते ॥ २९ ॥
पुत्री कस्य पतिः कस्ते कथमुद्यानमागता ।
एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने ॥ ३० ॥
द्वितीया श्रीरिवाभासि कान्त्या कमललोचने ।
इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने ॥ ३१ ॥
कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ ।
हृदाये कुरुतः पीडां चलन्तौ चललोचने ॥ ३२ ॥
विमानार्हासि तन्वङ्‌गि कथं पद्भ्यां व्रजस्यदः ।
अनावृतात्र विपिने किमर्थं गमनं तव ॥ ३३ ॥
दासीशतसमायुक्ता कथं च त्वं विनिर्गता ।
राजपुत्र्यप्सरा वासि वद सत्यं वरानने ॥ ३४ ॥
धन्या माता यतो जाता धन्योऽसौ जनकस्तव ।
वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे ॥ ३५ ॥
देवलिकाधिका भूमिरियं चैव सुलोचने ।
प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम् ॥ ३६ ॥
सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने ।
ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना ॥ ३७ ॥
स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने ।
पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम् ॥ ३८ ॥
व्यास उवाच -
तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी ।
तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा ॥ ३९ ॥
शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह ।
च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया ॥ ४० ॥
पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः ।
तस्य सेवामहोरात्रं करोमि प्रीतिमानसा ॥ ४१ ॥
कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे ।
तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम् ॥ ४२ ॥
तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप ।
कथं त्वमपि कल्याणि पिता दत्ता तपस्विने ॥ ४३ ॥
भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा ।
न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि ॥ ४४ ॥
त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता ।
सर्वाभरणसंयुक्ता नीलालकवरूथिनी ॥ ४५ ॥
अहो विधेर्दुष्कलितं विचेष्टितं
     यदत्र रम्भोरु वने विषीदसि ।
विशालनेत्रेऽन्धमिमं पतिं प्रिये
     मुनिं समासाद्य जरातुरं भृशम् ॥ ४६ ॥
वृथा व्रतस्तेन भृशं न शोभसे
     नवं वयः प्राप्य सुनृत्यपण्डिते ।
मनोभवेनाशु शराः सुसन्धिताः
     पतन्ति कस्मिन्पतिरीदृशस्तव ॥ ४७ ॥
त्वमन्धभार्या नवयौवनान्विता
     कृतासि धात्रा ननु मन्दबुद्धिना ।
न चैनमर्हस्यसितायतेक्षणे
     पतिं त्वमन्यं कुरु चारुलोचने ॥ ४८ ॥
वृथैव ते जीवितमम्बुजेक्षणे
     पतिं च सम्प्राप्य मुनिं गतेक्षणम् ।
वने निवासं च तथाजिनाम्बर-
     प्रधारणं योग्यतरं न मन्महे ॥ ४९ ॥
अतोऽनवद्याङ्ग्युभयोस्त्वमेकं
     वरं कुरुषावहिता सुलोचने ।
किं यौवनं मानिनि सङ्करोषि
     वृथा मुनिं सुन्दरि सेवमाना ॥ ५० ॥
किं सेवसे भाग्यविवर्जितं तं
     समुज्झितं पोषणरक्षणाभ्याम् ।
त्यक्त्वा मुनिं सर्वसुखापवर्जितं
     भजानवद्याङ्ग्युभयोस्त्वमेकम् ॥ ५१ ॥
त्वं नन्दने चैत्ररथे वने च
     कुरुष्व कान्ते प्रथितं विहारम् ।
अन्धेन वृद्धेन कथं हि कालं
     विनेष्यसे मानिनि मानहीनम् ॥ ५२ ॥
भूपात्मजा त्वं शुभलक्षणा च
     जानासि संसारविहारभावम् ।
भाग्येन हीना विजने वनेऽत्र
     कालं कथं वाहयसे वृथा च ॥ ५३ ॥
तस्माद्‌भजस्व पिकभाषिणि चारुवक्त्रे
     एवं द्वयोस्तव सुखाय विशालनेत्रे ।
देवालयुषे च कृशोदरि भुङ्क्ष्व भोगान्
     त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि ॥ ५४ ॥
किं ते सुखं चात्र वने सुकेशि
     वृद्धेन सार्धं विजने मृगाक्षि ।
सेवा तथान्धस्य नवं वयश्च
     किं ते मतं भूपतिपुत्रि दुःखम् ॥ ५५ ॥
शशिमुखि त्वमतीव सुकोमला
     फलजलाहरणं तव नोचितम् ॥ ५६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥