देवीभागवतपुराणम्/स्कन्धः ०७/अध्यायः ०२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

शर्यातिराजवर्णनम्

ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् ।
सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥ १ ॥
शृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् ।
यथा श्रुतं मया पूर्वं नारदाद्‌ऋषिसत्तमात् ॥ २ ॥
एकदा नारदH श्रीमान्सरस्वत्यास्तटे शुभे ।
आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः ॥ ३ ॥
प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा ।
ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात् ॥ ४ ॥
विधिवत्पूजयित्वा तं उक्तवान्वचनं त्विदम् ।
पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै ॥ ५ ॥
कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् ।
राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले ॥ ६ ॥
तेषामुत्पत्तिरतुला चरितं परमाद्‌भुतम् ।
श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम् ॥ ७ ॥
समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् ।
इति पृष्टो मया राजन्नारदः परमार्थवित् ॥ ८ ॥
उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् ।
नारद उवाच -
शृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम् ॥ ९ ॥
पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् ।
ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः ॥ १० ॥
विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः ।
सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान् ॥ ११ ॥
तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा ।
सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम् ॥ १२ ॥
पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् ।
मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि ॥ १३ ॥
तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः ।
त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल ॥ १४ ॥
देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः ।
पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी ॥ १५ ॥
देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु ।
तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः ॥ १६ ॥
तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः ।
नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः ॥ १७ ॥
तेषां नामानि राजेन्द्र शृणुष्वैकमनाः पुनः ।
इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥ १८ ॥
नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः ।
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ १९ ॥
इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत ।
तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान् ॥ २० ॥
नवानां वंशविस्तारं संक्षेपेण निशामय ।
शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम् ॥ २१ ॥
नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् ।
धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः ॥ २२ ॥
धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत ।
संग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा ॥ २३ ॥
शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः ।
सुकन्या च तथा पुत्री रूपलावण्यसंयुता ॥ २४ ॥
च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी ।
मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह ॥ २५ ॥
विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् ।
जनमेजय उवाच
सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया ॥ २६ ॥
यद्‌राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना ।
कुरूपा गुणहीना वा नारी लक्षणवर्जिता ॥ २७ ॥
पुत्री यदा भवेद्‌राजा तदान्धाय प्रयच्छति ।
ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः ॥ २८ ॥
कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा ।
सूत उवाच -
इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै ॥ २९ ॥
द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव ।
व्यास उवाच -
वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः ॥ ३० ॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः ।
राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः ॥ ३१ ॥
पत्‍न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसम्मताः ।
एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी ॥ ३२ ॥
पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी ।
नगरान्नातिदूरेऽभूत्सरो मानससन्निभम् ॥ ३३ ॥
बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् ।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ३४ ॥
दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम् ।
पञ्चधाकमलोपेतं चञ्चरीकसुसेवितम् ॥ ३५ ॥
पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः ।
सालैस्तमालैः सरलैः पुन्नागाशोकमण्डितम् ॥ ३६ ॥
वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् ।
जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा ॥ ३७ ॥
क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः ।
यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः ॥ ३८ ॥
जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् ।
पलाशनिम्बखदिरबिल्वामलकमण्डितम् ॥ ३९ ॥
बभूव कोकिलारावः केकास्वनविराजितम् ।
तत्समीपे शुभे देशे पादपानां गणावृते ॥ ४० ॥
भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः ।
ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः ॥ ४१ ॥
कृत्वा दृढासनं मौनमाधाय जितमारुतः ।
इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः ॥ ४२ ॥
जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् ।
सवल्मीकोऽभवद्‍राजल्लँताभिः परिवेष्टितः ॥ ४३ ॥
कालेन महता राजन् समाकीर्णः पिपीलिकैः ।
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः ॥ ४४ ॥
कदाचित्स महीपालः कामिनीगणसंवृतः ।
आजगाम सरो राजन् विहर्तुमिदमुत्तमम् ॥ ४५ ॥
शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले ।
क्रीडासक्तो महीपालो बभूव कमलाकरे ॥ ४६ ॥
सुकन्या वनमासाद्य विजहार सखीवृता ।
सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा ॥ ४७ ॥
सर्वाभरणसंयुक्ता रणच्चरणनूपुरा ।
चंक्रममाणा वल्मीकं च्यवनस्य समासदत् ॥ ४८ ॥
क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः ।
ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी ॥ ४९ ॥
किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे ।
गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी ॥ ५० ॥
सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा ।
विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी ॥ ५१ ॥
तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः ।
तामभाषत कल्याणीं किमेतदिति भार्गवः ॥ ५२ ॥
दूरं गच्छ विशालाक्षि तापसोऽहं वरानने ।
मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि ॥ ५३ ॥
तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै ।
किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ ५४ ॥
दैवेन नोदिता भित्त्वा जगाम नृपकन्यका ।
क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च ॥ ५५ ॥
चुक्रोध स तथा विद्धनेत्रः परममन्युमान् ।
वेदनाभ्यर्दितः कामं परितापं जगाम ह ॥ ५६ ॥
शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् ।
विशेषेण तु भूपस्य सामात्यस्य समन्ततः ॥ ५७ ॥
गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा ।
ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत् ॥ ५८ ॥
सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् ।
चिन्तयामास भूपालः कारणं दुःखसम्भवे ॥ ५९ ॥
विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा ।
गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम् ॥ ६० ॥
सरसः पश्चिमे भागे वनमध्ये महातपाः ।
च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम् ॥ ६१ ॥
केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे ।
तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः ॥ ६२ ॥
तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः ।
केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः ॥ ६३ ॥
ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् ।
कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह ॥ ६४ ॥
इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः ।
मनोवाक्कायनितं न विद्मोऽपकृतं वयम् ॥ ६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शर्यातिराजवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥