देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः २६

विकिस्रोतः तः

चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम्

व्यास उवाच
इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ ।
जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ ॥ १ ॥
दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् ।
ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः ॥ २ ॥
बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् ।
निशुम्भञ्च महावीर्यं तुराषाड्‌विजयोद्धतम् ॥ ३ ॥
त्वमेकासि वरारोहे कालिकासिंहसंयुता ।
जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम् ॥ ४ ॥
मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा ।
देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते ॥ ५ ॥
विमृश्य कुरु तन्वङ्‌गि कार्यं स्वपरयोर्बलम् ।
अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा ॥ ६ ॥
किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः ।
शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः ॥ ७ ॥
ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः ।
जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम् ॥ ८ ॥
वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् ।
हितं तव विशालाक्षि सुखदं दुःखनाशनम् ॥ ९ ॥
दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः ।
सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः ॥ १० ॥
चतुरासि पिकालापे पश्य शुम्भबलं महत् ।
प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम् ॥ ११ ॥
प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल ।
सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते ॥ १२ ॥
शत्रुः सुराणां परमः शुम्भः समरदुर्जयः ।
तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः ॥ १३ ॥
तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते ।
दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका ॥ १४ ॥
कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् ।
देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम् ॥ १५ ॥
भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् ।
चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥ १६
ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् ।
निश्चयं परमं कृत्वा भर्तारं भज शोभनम् ॥ १७ ॥
व्यास उवाच
इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका ।
मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत् ॥ १८ ॥
गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः ।
त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्‌भजे पतिम् ॥ १९ ॥
न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह ।
स्वामिनी सर्वभूतानामहमेव निशामय ॥ २० ॥
शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः ।
घातिताश्च मया पूर्वं शतशो दैत्यदानवाः ॥ २१ ॥
ममाग्रे देववृन्दानि विनष्टानि युगे युगे ।
नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै ॥ २२ ॥
काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः ।
वृथा त्वं कुरुषे यत्‍नं रक्षणायात्मसन्ततेः ॥ २३ ॥
कुरु युद्धं वीरधर्मरक्षायै त्वं महामते ।
मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः ॥ २४ ॥
किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना ।
वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम् ॥ २५ ॥
शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः ।
सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम् ॥ २६ ॥
क्रमशः सर्वदैत्यानां करिष्याम्यद्य संक्षयम् ।
विषादं त्यज मन्दात्मन् कुरु युद्धं विशांपते ॥ २७ ॥
त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् ।
ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम् ॥ २८ ॥
अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे ।
गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम् ॥ २९ ॥
गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना ।
किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम् ॥ ३० ॥
व्यास उवाच
तयेत्थं प्रेरितौ दैत्यौ चण्डमुण्डौ क्रुधान्वितौ ।
ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ ॥ ३१ ॥
सापि शङ्खस्वनं चक्रे पूरयन्ती दिशो दश ।
सिंहोऽपि कुपितस्तावन्नादं समकरोद्‌बली ॥ ३२ ॥
तेन नादेन शक्राद्या जहर्षुरमरास्तदा ।
मुनयो यक्षगन्धर्वाः सिद्धाः साध्याश्च किन्नराः ॥ ३३ ॥
युद्धं परस्परं तत्र जातं कातरभीतिदम् ।
चण्डिकाचण्डयोस्तीव्रं बाणखड्‍गगदादिभिः ॥ ३४ ॥
चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः ।
मुमोच पुनरुग्रान्सा बाणांश्च पन्नगानिव ॥ ३५ ॥
गगनं छादितं तत्र संग्रामे विशिखैस्तदा ।
शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः ॥ ३६ ॥
मुण्डोऽपि सैनिकैः सार्धं पपात तरसा रणे ।
मुमोच बाणवृष्टिं वै क्रुद्धः परमदारुणः ॥ ३७ ॥
बाणजालं महद्‌ दृष्ट्वा कुद्धा तत्राम्बिका भृशम् ।
कोपेन वदनं तस्या बभूव घनसन्निभम् ॥ ३८ ॥
कदलीपुष्पनेत्रञ्च भृकुटीकुटिलं तदा ।
निष्क्रान्ता च तदा काली ललाटफलकाद्द्रुतम् ॥ ३९ ॥
व्याघ्रचर्माम्बरा क्रूरा गजचर्मोत्तरीयका ।
मुण्डमालाधरा घोरा शुष्कवापीसमोदरा ॥ ४० ॥
खड्गपाशधरातीव भीषणा भयदायिनी ।
खट्वाङ्गधारिणी रौद्रा कालरात्रिरिवापरा ॥ ४१ ॥
विस्तीर्णवदना जिह्वां चालयन्ती मुहुर्मुहुः ।
विस्तारजघना वेगाज्जघानासुरसैनिकान् ॥ ४२ ॥
करे कृत्वा महावीरांस्तरसा सा रुषान्विता ।
मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः ॥ ४३ ॥
गजान्घण्टान्वितान्हस्ते गृहीत्वा निदधौ मुखे ।
सारोहान्भक्षयित्वाजौ साट्टहासं चकार ह ॥ ४४ ॥
तथैव तुरगानुष्ट्रांस्तथा सारथिभिः सह ।
निक्षिप्य वक्त्त्रे दशनैश्चर्वयत्यतिभैरवम् ॥ ४५ ॥
हन्यमानं बलं प्रेक्ष्य चण्डमुण्डौ महासुरौ ।
छादयामासतुर्देवीं बाणासारैरनन्तरैः ॥ ४६ ॥
चण्डश्चण्डकरच्छायं चक्रं चक्रधरायुधम् ।
चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः ॥ ४७ ॥
नदन्तं वीक्ष्य तं काली रथाङ्गञ्च रविप्रभम् ।
बाणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम् ॥ ४८ ॥
तं जघान शरैस्तीक्ष्णैश्चण्डं चण्डी शिलाशितैः ।
मूर्च्छितोऽसौ पपातोर्व्यां देवीबाणार्दितो भृशम् ॥ ४९ ॥
पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा ।
चकार शरवृष्टिञ्च कालिकोपरि कोपतः ॥ ५० ॥
चण्डिका मुण्डनिर्मुक्तां शरवृष्टिं सुदारुणाम् ।
ईषिकास्त्रैर्बलान्मुक्तैश्चकार तिलशः क्षणात् ॥ ५१ ॥
अर्धचन्द्रेण बाणेन ताडयामास तं पुनः ।
पतितोऽसौ महावीर्यो मेदिन्यां मदवर्जितः ॥ ५२ ॥
हाहाकारो महानासीद्दानवानां बले तदा ।
जहर्षुरमराः सर्वे गगनस्था गतव्यथाः ॥ ५३ ॥
विहाय मूर्च्छां चण्डस्तु संगृह्य महतीं गदाम् ।
तरसा ताडयामास कालिकां दक्षिणे भुजे ॥ ५४ ॥
वञ्चयित्वा गदाघातं तं बबन्ध महासुरम् ।
तरसा बाणपाशेन मन्त्रमुक्तेन कालिका ॥ ५५ ॥
उत्थितस्तु तदा मुण्डो बद्धं दृष्ट्वानुजं बलात् ।
आजगाम सुसन्नद्धः शक्तिं कृत्वा करे दृढाम् ॥ ५६ ॥
आगच्छन्तं तदा काली दानवं वीक्ष्य सत्वरम् ।
बबन्ध तरसा तं तु द्वितीयं भ्रातरं भृशम् ॥ ५७ ॥
गृहीत्वा तौ महावीर्यौ चण्डमुण्डौ शशाविव ।
कुर्वती विपुलं हासमाजगामाम्बिकां प्रति ॥ ५८ ॥
आगत्य तामथोवाच गृहाणेमौ पशू प्रिये ।
रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ ॥ ५९ ॥
तावानीतौ तदा वीक्ष्य चण्डिका तौ वृकाविव ।
अम्बिका कालिकां प्राह माधुरीसंयुतं वचः ॥ ६० ॥
वधं मा कुरु मा मुञ्च चतुरासि रणप्रिये ।
देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया ॥ ६१ ॥

व्यास उवाच
इति तस्या वचः श्रुत्वा कालिका प्राह तां पुनः ।
युद्धयज्ञेऽतिविख्याते खड्गयूपे प्रतिष्ठिते ॥ ६२ ॥
आलम्भञ्च करिष्यामि यथा हिंसा न जायते ।
इत्युक्त्वा सा तदा देवी खड्गेन शिरसी तयोः ॥ ६३ ॥
चकर्त तरसा काली पपौ च रुधिरं मुदा ।
एवं दैत्यौ हतौ दृष्ट्वा मुदितोवाच चाम्बिका ॥ ६४ ॥
कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् ।
चण्डमुण्डौ हतौ यस्मात्तस्मात्ते नाम कालिके ।
चामुण्डेति सुविख्यातं भविष्यति धरातले ॥ ६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनं नाम षड्‌विंशोऽध्यायः ॥ २६ ॥