देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search

देव्या कृष्णशोकायनोदनम्

व्यास उवाच
प्रातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः ।
किंवदन्त्यथ कंसेन श्रुता चारमुखादपि ॥ १ ॥
जानाति वसुदेवस्य दारास्तत्र वसन्ति हि ।
पशवो दासवर्गश्च सर्वे ते नन्दगोकुले ॥ २ ॥
तेन शङ्कासमाविष्टो गोकुलं प्रति भारत ।
नारदेनापि तत्सर्वं कथितं कारणं पुरा ॥ ३ ॥
गोकुले ये च नन्दाद्यास्तत्पत्‍न्यश्च सुरांशजाः ।
देवकीवसुदेवाद्याः सर्वे ते शत्रवः किल ॥ ४ ॥
इति नारदवाक्येन बोधितोऽसौ कुलाधमः ।
जातः कोपमना राजन् कंसः परमपापकृत् ॥ ५ ॥
पूतना निहता तत्र कृष्णेनामिततेजसा ।
बको वत्सासुरश्चापि धेनुकश्च महाबलः ॥ ६ ॥
प्रलम्बो निहतस्तेन तथा गोवर्धनो धृतः ।
श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः ॥ ७ ॥
तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः ।
धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे ॥ ८ ॥
अक्रूरं प्रेषयामास क्रूरः पापमतिस्तदा ।
आनेतुं रामकृष्णौ च वधायामितविक्रमौ ॥ ९ ॥
रथमारोप्य गोपालौ गोकुलाद्‌ गान्दिनीसुतः ।
आगतो मथुरायां तु कंसादेशे स्थितः किल ॥ १० ॥
तावागत्य तदा तत्र धनुर्भङ्गञ्च चक्रतुः ।
हत्वाथ रजकं कामं गजं चाणूरमुष्टिकम् ॥ ११ ॥
शलं च तोशलं चैव निजघान हरिस्तदा ।
जघान कंसं देवेशः केशेष्वाकृष्य लीलया ॥ १२ ॥
पितरौ मोचयित्वाथ गतदुःखौ चकार ह ।
उग्रसेनाय राज्यं तद्ददावरिनिषूदनः ॥ १३ ॥
वसुदेवस्तयोस्तत्र मौञ्जीबन्धनपूर्वकम् ।
कारयामास विधिवद्‌ व्रतबन्धं महामनाः ॥ १४ ॥
उपनीतौ तदा तौ तु गतौ सान्दीपनालयम् ।
विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः ॥ १५ ॥
जातौ द्वादशवर्षीयौ कृतविद्यौ महाबलौ ।
मथुरायां स्थितौ वीरौ सुतावानकदुन्दुभेः ॥ १६ ॥
मागधस्तु जरासन्धो जामातृवधदुःखितः ।
कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम् ॥ १७ ॥
स सप्तदशवारं तु कृष्णेन कृतबुद्धिना ।
जितः संग्राममासाद्य मधुपुर्यां निवासिना ॥ १८ ॥
पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः ।
सर्वम्लेच्छाधिपः शूरो यादवानां भयङ्करः ॥ १९ ॥
श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् ।
आनाय्य च तथा राममुवाच मधुसूदनः ॥ २० ॥
भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् ।
किं कर्तव्यं महाभाग यवनः समुपैति वै ॥ २१ ॥
प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् ।
सुखेन स्थीयते यत्र स देशः खलु पैतृकः ॥ २२ ॥
सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः ।
शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता ॥ २३ ॥
यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः ।
शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे ॥ २४ ॥
तथैव च भयाद्‌भीतः कैलासे त्रिपुरार्दनः ।
तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः ॥ २५ ॥
द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै ।
कथिता गरुडेनाद्य रम्या द्वारवती पुरी ॥ २६ ॥
रैवताचलसानिध्ये सिन्धुकूले मनोहरा ।
व्यास उवाच
तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः ॥ २७ ॥
गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः ।
शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा ॥ २८ ॥
धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्‌बहिः ।
रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः ॥ २९ ॥
अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः ।
कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल ॥ ३० ॥
शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः ।
संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ ॥ ३१ ॥
तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् ।
तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः ॥ ३२ ॥
ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्‌बहिः ।
पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥ ३३ ॥
पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः ।
तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम् ॥ ३४ ॥
यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः ।
प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः ॥ ३५ ॥
प्रययौ भगवांस्तत्र सकालयवनो हरिः ।
तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च ॥ ३६ ॥
तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत ।
मत्वा तं वासुदेवं स पादेनाताडयन्नृपम् ॥ ३७ ॥
प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः ।
तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम् ॥ ३८ ॥
वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् ।
जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥ ३९ ॥
उग्रसेनं नृपं कृत्वा विजहार यथारुचि ।
अहरद्‌रुक्मिणी कामं शिशुपालस्वयंवरात् ॥ ४० ॥
राक्षसेन विवाहेन चक्रे दारविधिं हरिः ।
ततो जाम्बवतीं सत्यां मित्रविन्दाञ्च भामिनीम् ॥ ४१ ॥
कालिन्दीं लक्षणां भद्रां तथा नाग्नजितीं शुभाम् ।
पृथक्पृथक्समानीयाप्युपयेमे जनार्दनः ॥ ४२ ॥
अष्टावेव महीपाल पत्‍न्यः परमशोभनाः ।
प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम् ॥ ४३ ॥
जातकर्मादिकं तस्य चकार मधुसूदनः ।
हृतोऽसौ सूतिकागेहाच्छम्बरेण बलीयसा ॥ ४४ ॥
नीतश्च स्वपुरीं बालो मायावत्यै समर्पितः ।
वासुदेवो हृतं दृष्ट्वा पुत्रं शोकसमन्वितः ॥ ४५ ॥
जगाम शरणं देवीं भक्तियुक्तेन चेतसा ।
वृत्रासुरादयो दैत्या लीलयैव यया हताः ॥ ४६ ॥
ततोऽसौ योगमायायाश्चकार परमां स्मृतिम् ।
वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः ॥ ४७ ॥
श्रीकृष्ण उवाच
मातर्मयातितपसा परितोषिता त्वं
     प्राग्जन्मनि प्रसुमनादिभिरर्चितासि ।
धर्मात्मजेन बदरीवनखण्डमध्ये
     किं विस्मृतो जननि ते त्वयि भक्तिभावः ॥ ४८ ॥
सूतीगृहादपहृतः किमु बालको मे
     केनापि दुष्टमनसाप्यथ कौतुकाद्वा ।
मानापहारकरणाय ममाद्य नूनं
     लज्जा तवाम्ब खलु भक्तजनस्य युक्ता ॥ ४९ ॥
दुर्गो महानतितरां नगरी सुगुप्ता
     तत्रापि मेऽस्ति सदनं किल मध्यभागे ।
अन्तःपुरे च पिहितं ननु सूतिगेहं
     बालो हृतः खलु तथापि ममैव दोषात् ॥ ५० ॥
नाहं गतः परपुरं न च यादवाश्च
     रक्षावतीव नगरी किल वीरवर्यैः ।
माया तवैव जननि प्रकटप्रभावा
     मे बालकः परिहृतः कुहकेन केन ॥ ५१ ॥
नो वेद्म्यहं जननि ते चरितं सुगुप्तं
     को वेद मन्दमतिरल्पविदेव देही ।
क्वासौ गतो मम भटैर्न च वीक्षितो वा
     हर्ताम्बिके जवनिका तव कल्पितेयम् ॥ ५२ ॥
चित्रं न तेऽत्र पुरतो मम मातृगर्भो
     नीतस्त्वयार्धसमये किल माययासौ ।
यं रोहिणी हलधरं सुषुवे प्रसिद्धं
     दूरे स्थिता पतिपरा मिथुनं विनापि ॥ ५३ ॥
सृष्टिं करोषि जगतामनुपालनं च
     नाशं तथैव पुनरप्यनिशं गुणैस्त्वम् ।
को वेद तेऽम्ब चरितं दुरितान्तकारि
     प्रायेण सर्वमखिलं विहितं त्वयैतत् ॥ ५४ ॥
उत्पाद्य पुत्रजननप्रभवं प्रमोदं
     दत्त्वा पुनर्विरहजं किल दुःखभारम् ।
त्वं क्रीडसे सुललितैः खलु तैर्विहारै-
     र्नो चेत्कथं मम सुताप्तिरतिर्वृथा स्यात् ॥ ५५ ॥
मातास्य रोदिति भृशं कुररीव बाला
     दुःखं तनोति मम सन्निधिगा सदैव ।
कष्टं न वेत्सि ललितेऽप्रमितप्रभावे
     मातस्त्वमेव शरणं भवपीडितानाम् ॥ ५६ ॥
सीमा सुखस्य सुतजन्म तदीयनाशो
     दुःखस्य देवि भवने विबुधा वदन्ति ।
तत्किं करोमि जननि प्रथमे प्रनष्टे
     पुत्रे ममाद्य हृदयं स्फुटतीव मातः ॥ ५७ ॥
यज्ञं करोमि तव तुष्टिकरं व्रतं वा
     दैवं च पूजनमथाखिलदुःखहा त्वम् ।
मातः सुतोऽत्र यदि जीवति दर्शयाशु
     त्वं वै क्षमा सकलशोकविनाशनाय ॥ ५८ ॥
व्यास उवाच
एवं स्तुता तदा देवी कृष्णेनाक्लिष्टकर्मणा ।
प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्‌गुरुम् ॥ ५९ ॥
श्रीदेव्युवाच
शोकं मा कुरु देवेश शापोऽयं ते पुरातनः ।
तस्य योगेन पुत्रस्ते शम्बरेण हृतो बलात् ॥ ६० ॥
अतस्ते षोडशे वर्षे हत्वा तं शम्बरं बलात् ।
आगमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः ॥ ६१ ॥
व्यास उवाच
इत्युक्त्वान्तर्दधे देवी चण्डिका चण्डविक्रमा ।
भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी ॥ ६२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देव्या कृष्णशोकापनोदनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥