सामग्री पर जाएँ

देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः १९

विकिस्रोतः तः

राजसंवादवर्णनम्

व्यास उवाच
भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् ।
उवाच वचनं श्लक्ष्णं समाश्‍वास्य शुचिस्मिताम् ॥ १ ॥
किं वृथा सुदति त्वं हि विप्रियं मम भाषसे ।
पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते ॥ २ ॥
सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः ।
बलकोशविहीनश्‍च परित्यक्तस्तु बान्धवैः ॥ ३ ॥
मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः ।
न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः ॥ ४ ॥
राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः ।
तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः ॥ ५ ॥
भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै ।
करोति रूपसम्पन्नः सर्वलक्षणसंयुतः ॥ ६ ॥
अन्यच्च कारणं सुभ्रु शृणु यच्च यथा श्रुतम् ।
युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः ॥ ७ ॥
दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् ।
वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह ॥ ८ ॥
भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् ।
मुनिना वारितः पश्‍चाज्जगाम निजमन्दिरम् ॥ ९ ॥
शशिकलोवाच
मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः ।
शर्यातिवचनेनैव सुकन्या च पतिव्रता ॥ १० ॥
च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता ।
भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा ॥ ११ ॥
अकैतवकृतं नूनं सुखदं भवति स्त्रियाः ।
भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम् ॥ १२ ॥
तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् ।
मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः ॥ १३ ॥
तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् ।
व्यास उवाच
प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः ॥ १४ ॥
भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् ।
विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम् ॥ १५ ॥
द्विजं शशिकला तत्र प्रेषयामास सत्वरम् ।
यथा न वेद मे तातस्तथा गच्छ सुदर्शनम् ॥ १६ ॥
भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो ।
पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः ॥ १७ ॥
आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः ।
मया त्वं वै वृतश्‍चित्ते सर्वथा प्रीतिपूर्वकम् ॥ १८ ॥
भगवत्या समादिष्टः स्वप्ने मम सुरोपम ।
विषमद्मि हुताशे वा प्रपतामि प्रदीपिते ॥ १९ ॥
वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा ।
मनसा कर्मणा वाचा संवृतस्त्वं मया वरः ॥ २० ॥
भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति ।
आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम् ॥ २१ ॥
यदधीनं जगत्सर्वं वर्तते सचराचरम् ।
भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति ॥ २२ ॥
यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः ।
वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः ॥ २३ ॥
यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ ।
इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया ॥ २४ ॥
गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः ।
सुदर्शनस्तु तज्ज्ञात्वा निश्‍चयं गमने तदा ॥ २५ ॥
चकार मुनिना तेन प्रेरितः परमादरात् ।
व्यास उवाच
गमनायोद्यतं पुत्रं तमुवाच मनोरमा ॥ २६ ॥
वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना ।
कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल ॥ २७ ॥
एकाकी कृतवैरश्‍च किं विचिन्त्य स्वयंवरे ।
युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः ॥ २८ ॥
न तेऽन्योऽस्ति सहायश्‍च तस्मान्मा व्रज पुत्रक ।
एकपुत्रातिदीनास्मि तवाधारा निराश्रया ॥ २९ ॥
नार्हसि त्वं महाभाग निराशां कर्तुंमद्य माम् ।
पिता ते निहतो येन सोऽपि तत्रागतो नृपः ॥ ३० ॥
एकाकिनं गतं तत्र युधाजित्त्वां हनिष्यति ।
सुदर्शन उवाच
भवितव्यं भवत्येव नात्र कार्या विचारणा ॥ ३१ ॥
आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे ।
मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने ॥ ३२ ॥
न बिभेमि प्रसादेन भगवत्या निरन्तरम् ।

व्यास उवाच
इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम् ॥ ३३ ॥
दृष्ट्वा मनोरमा पुत्रमाशीर्भिश्‍चान्वमोदयत् ।
अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः ॥ ३४ ॥
पार्वती पार्श्‍वयोः पातु शिवा सर्वत्र साम्प्रतम् ।
वाराही विषमे मार्गे दुर्गा दुर्गेषु कर्हिचित् ।
कालिका कलहे घोरे पातु त्वां परमेश्‍वरी ॥ ३५ ॥
मण्डपे तत्र मातङ्गी तथा सौ‌म्या स्वयंवरे ।
भवानी भूपमध्ये तु पातु त्वां भवमोचनी ॥ ३६ ॥
गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च ।
कामगा काननेष्वेवं रक्षतु त्वां सनातनी ॥ ३७ ॥
विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह ।
भैरवी चरणे सौ‌म्य शत्रूणां वै समागमे ॥ ३८ ॥
सर्वदा सर्वदेशेषु पातु त्वां भुवनेश्‍वरी ।
महामाया जगद्धात्री सच्चिदानन्दरूपिणी ॥ ३९ ॥

व्यास उवाच
इत्युक्त्वा तं तदा माता वेपमाना भयाकुला ।
उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा ॥ ४० ॥
निमिषार्धं विना त्वां वै नाहं स्थातुमिहोत्सहे ।
सहैव नय मां वत्स यत्र ते गमने मतिः ॥ ४१ ॥
इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा ।
विप्रैर्दत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः ॥ ४२ ॥
वाराणस्यां ततः प्राप्तो रथेनैकेन राघवः ।
ज्ञातः सुबाहुना तत्र पूजितश्‍चार्हणादिभिः ॥ ४३ ॥
निवेशार्थं गृहं दत्तमन्नपानादिकं तथा ।
सेवकं समनुज्ञाप्य परिचर्यार्थमेव च ॥ ४४ ॥
मिलितास्त्वथ राजानो नानादेशाधिपाः किल ।
युधाजिदपि सम्प्राप्तो दौहित्रेण समन्वितः ॥ ४५ ॥
करूषाधिपतिश्‍चैव तथा मद्रेश्‍वरो नृपः ।
सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः ॥ ४६ ॥
पाञ्चालः पर्वतीयश्‍च कामरूपोऽतिवीर्यवान् ।
कार्णाटश्‍चोलदेशीयो वैदर्भश्‍च महाबलः ॥ ४७ ॥
अक्षौहिणी त्रिषष्टिश्‍च मिलिता संख्यया तदा ।
वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः ॥ ४८ ॥
एते चान्ये च बहवः स्वयंवरदिदृक्षया ।
मिलितास्तत्र राजानो वरवारणसंयुताः ॥ ४९ ॥
अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा ।
सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः ॥ ५० ॥
एकाकी रथमारुह्य मात्रा सह महामतिः ।
विवाहार्थमिहायातः काकुत्स्थः किं नु साम्प्रतम् ॥ ५१ ॥
एतान् राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ ।
किमेनं राजपुत्री सा वरिष्यति महाभुजम् ॥ ५२ ॥
युधाजिदथ राजेशस्तानुवाच महीपतीन् ।
अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः ॥ ५३ ॥
केरलाधिपतिः प्राह तं तदा नीतिसत्तमः ।
नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे ॥ ५४ ॥
बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः ।
कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह ॥ ५५ ॥
अन्यायेन त्वया पूर्वमसौ राज्यात्प्रवासितः ।
दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम ॥ ५६ ॥
काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः ।
कथमेनं राजपुत्रं हनिष्यसि निरागसम् ॥ ५७ ॥
लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम ।
शास्तास्ति कश्‍चिदायुष्मञ्जगतोऽस्य जगत्पतिः ॥ ५८ ॥
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
मानयं कुरु राजेन्द्र त्यज पापमतिं किल ॥ ५९ ॥
दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः ।
राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति ॥ ६० ॥
अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः ।
कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम् ॥ ६१ ॥
वृते तथा विवादः कः प्रवदन्तु महीभुजः ।
परस्परं विरोधोऽत्र न कर्तव्यो विजानता ॥ ६२ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे राजसंवादवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥