सामग्री पर जाएँ

दुर्गानित्यार्चनक्रमः

विकिस्रोतः तः
दुर्गानित्यार्चनक्रमः
[[लेखकः :|]]

प्. ४)
दुर्गादेवीं तर्पयामि । इति त्रिः तर्पणं दत्वा । श्रीदुर्गापरिवरांस्तर्पयामि
इति सकृत्संतर्प्य । स्वेष्टदेवतां सूर्यं च प्रणमेत् । ततो जलादुत्तिर्यधौत
वस्त्राणि परिधाय । ह्रीं आधारशक्ति कमलासनाय नमः । इत्यासनं
संपूज्य ।

पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता ।।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।। १ ।।

इति स्तुत्वा । आसने उपविश्य ।

प्. ५अ)
विभूति धारणं कुर्यात् । तद्यथा । हौं सद्योजाताय नमः शिवाय शिरसि ।
हौं वामदेवाय नमः शिवाय ललाटे । हौं अघोराय नमः शिवाय
वक्षसि । हौं तत्पुरुषाय नमः शिवाय दक्षिणवाहौ । हौं ईशानाय
नमः शिवाय वामवाहौ । इति मंत्रेण विभूति धारणं कृत्वा । वामे
श्रीगुरुभ्यो नमः । परमगुरुभ्यो नमः । परापरगुरुभ्यो नमः दक्षिणे ।

प्. ५ब्)
गं गणेशाय नमः । मूर्द्ध्नि श्रीदुर्गादेवतायै नमः । इति नस्वा । फडिति
मंत्रेण गन्धपुष्पाभ्यां करौ संशोध्य ऊर्द्धोर्द्ध्वतालत्रयं
दत्वा । छोटिकाभिर्दशदिग्बन्धनं विधाय । रमिति मंत्रेण जलधारया
वह्निप्राकारं विचिन्त्य । भूतशुद्धिं कुर्यात् । तद्यथा । अंके उत्तानौ करौ
कृत्वा । हं स इति मंत्रेण जीवात्मानं दीपकलिकाकारं ।

प्. ६अ)
मूलाधारावस्थित कुंडलिन्या सह सुषुम्णावर्त्त्मना मूलाधार
स्वाधिष्ठान मणिपूरक अनाहत विशुद्धाज्ञाख्य षट्चक्राणि भित्वा
शिरोवस्थिताधोमुख सहस्रदलकमलकर्णिकान्तर्गत परात्मनि संयोज्य ।
स्वशरीरे पादादि जानुपर्यन्तं चतुरस्रं पीतवर्णं वज्रलांछितं लं
बीजं पार्थिवमण्डलं ध्यायेत् । जान्वादि नाभिपर्यन्तं

प्. ६ब्)
अर्द्धचन्द्राकारं शुभ्रं पद्मद्वयांकितं वं बीजं जलमंडलं
ध्यायेत् । नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकांकितं रक्तवर्णं रं
बीजं वह्निमण्डलं ध्यायेत् । हृदयाद्भ्रूमध्यपर्यन्तं धूम्रवर्णं
वर्तुलं षड्बिन्दु लांछितं यं बीजं वायुमंडलं ध्यायेत् ।
भ्रूमध्याद्ब्रह्मरन्ध्रपर्यन्तं वर्तुलं नीलवर्णं हं बीजं
गगनमण्डलं ध्यायेत् । ततः पृथिव्यप्तेजो

प्. ७अ)
वायवाकाशगन्धरसरूपस्पर्शशब्दनासिकाजिह्वाचक्षुस्त्वक्
श्रोत्रवाक्पाणिपादपायूपस्थ प्रकृति मनोबुद्धि अहंकारेति चतुर्विंशति
तत्वानि कारणक्रमेण तत्रैवलीनानि विभाव्य । यं इति धूम्रवर्णं
वायुबीजं वामनासापुटे विचिन्त्य । तस्य षोडशवारजपेन देहमापूर्य
नासापुटौ धृत्वा चतुःषष्टिवार जपेन कुंभकं कृत्वा ।

प्. ७ब्)
वामकुक्षिस्थ कृष्णवर्ण पापपुरुषे सहदेहं संशोष्य
द्वात्रिंशद्वारजपेन दक्षनासया वायुरेचयेत् । दक्षनासापुटे रमिति
वह्निबीजं रक्तवर्णं ध्यात्वा । तस्य षोडशवारजपेन देहमापूर्य
नासापुटौ धृत्वा । चतुःषष्टिवारजपेन कुंभकं कृत्वा । पापेन
सहदेहं दग्ध्वा तस्य द्वात्रिंशद्वारजपेन वामनासया भस्मना
वायुं रेचयेत् । यमिति चन्द्रबीजे शुक्लवर्णं वामनासिकायां

प्. ८अ)
धृत्वा षोडशवारजपेन ललाटे चन्द्रं नीत्वा वमिति वरुणबीजस्य
चतुःषष्टिवारजपेन तस्मात् ललाटचन्द्राकुलितसुधया मातृकावर्णात्मिकया
समस्तदेहं विरचयय । लमिति पृथ्वीबीजस्य द्वात्रिशद्वारजपेन देहं
सुदृढं

प्. ८ब्)
विभाव्य दक्षिणनासापुटेन वायुं रेचयेत् । ततोहं इति आकाशबीजं स्मरन्
सर्वाण्यंगानि रचितानि विभावयेत् । ततः सोहमिति मंत्रेण कुंडलिन्या सह
जीवात्मानं चतुर्विंशति तत्वानि च स्वस्वस्थानस्थितानि विभाव्य ।
प्राणप्रतिष्ठां कुर्यात् । तद्यथा । अस्य श्रीप्राणप्रतिष्ठा मंत्रस्य
ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुःसामानि

प्. ९अ)
छन्दांसि प्राणशक्तिर्देवता आं बीजं ह्रीं शक्तिः क्रों कीलं
प्राणस्थापने विनियोगः । शिरसि ब्रह्मविष्णुमहेश्वरेभ्यो ऋषिभ्यो नमः
मुखे । ऋग्यजुःसामभ्यश्छन्दोभ्यो नमः हृदि । प्राणशक्त्यै देवतायै
नमः गुह्ये । आं बीजाय नमः पादयोः । ह्रीं शक्तये नमः सर्वांगे ।
क्रों कीलकाय नमः । अं कं खं गं घं ङं आं नभोवायवग्निवारि
भूम्यात्मने

प्. ९ब्)
अंगुष्ठाभ्यां नमः । इं चं छं जं झं ङं ईं
शब्दस्पर्शरूपरसगन्धात्मने तर्जनीभ्यां स्वाहा ।
उं टं ठं डं ढं णं ऊं श्रोत्रत्वङ्नयनजिह्वाघ्राणात्मने
मध्यमाभ्यां वषट् । एं तं थं दं धं नं ऐं
वाक्पाणिपादपायुपस्थात्मने अनामिकाभ्यां हुं । ओं पं फं बं
भं मं औं वक्तव्यादानगमनविसर्गानन्दात्मने कनिष्ठिकाभ्यां
वौषट् । अं यं रं लं वं शं षं सं हं लं

प्. १०अ)
क्षं अंः मनोबुद्ध्यहंकार चित्तविज्ञानात्मने
करतलकरपृष्ठाभ्यां फट् । अं कं खं गं घं ङं आं नभो
वायवग्निवारिभूम्यात्मने हृदयाय नमः । इं चं छं जं झं ञं
ईं शब्दस्पर्शरूपरसगंधात्मने शिरसे स्वाहा ।
उं टं ठं डं ढं णं ऊं श्रोत्रत्वङ्नयनजिह्वाघ्राणात्मने
शिखायै वषट् । एं तं थं दं धं नं ऐं
वाक्पाणिपादपायूपस्थात्मने कवचाय हुं । ओं पं फं बं भं मं
औं

प्. १०ब्)
वक्तव्यादानविसर्गानन्दात्मने नेत्रत्रयाय वौषट् । ओं यं रं लं वं
शं षं सं हं क्षं अं मनोबुध्यहंकारचिन्तात्मने अस्त्राय फट् । इति
न्यासं कृत्वा । सिंहस्था इति । हृदये हस्तं निधाय आं ह्रीं क्रों यं रं लं
वं शं षं सं हों ओं क्षं सं हं सः ह्रीं ओं हं सः मम जीव इह
स्थितः । आं ह्रीं क्रों यं रं लं वं शं षं सं हों अं सं हं सः ओं
हं सः मम

प्. ११अ)
सर्वेन्द्रियाणि । आं ह्रीं क्रों यं रं लं वं शं षं सं हों अं क्षं सं
हं सः ह्रीं ओं हं सः मम वाङ्मनश्चक्षुश्रोत्रघ्राणप्राणा इत्यागत्य
सुखं चिरं तिष्ठन्तु स्वाहा । ओं क्षं सं हं सः ह्रीं ओं इति

प्. ११ब्)
प्राणप्रतिष्ठां कृत्वा । अन्तर्मातृका न्यासं कुर्यात् । तद्यथा । अस्य श्री
अंतर्मातृविद्यायाः ब्रह्मा-ऋषिर्गायत्रीछन्दः अन्तर्मातृकादेवता हल्भ्यो
बीजानि स्वराः शक्तयः मातृकान्यासे विनियोगः । शिरसि ब्रह्मणे ऋषये
नमः । मुखे गायत्रीछन्दसे नमः । हृदि मातृकायै देवतायै नमः । गुह्ये
हल्भ्यो बीजेभ्यो नमः । पादयोः स्वरेभ्यः

प्. १२अ)
शक्तिभ्यो नमः सर्वाङ्गे । अव्यक्ताय कीलकाय नमः । अं कं खं गं
घं ङं आं अंगुष्ठाभ्यां नमः । इं चं छं जं झं ञं ईं
तर्जनीभ्यां स्वाहा । उं टं ठं डं ढं णं ऊं मध्यमाभ्यां
वषट् । एं तं थं दं धं नं ऐं अनामिकाभ्यां हुम् । ओं पं फं
बं भं मं औं कनिष्ठिकाभ्यां वौषट् । अं यं रं लं वं
शं षं सं हं लं क्षं अंः करतलकरपृष्ठाभ्यां फट् । अं कं
खं गं घं ङं आं हृदयाय नमः । इं चं छं जं झं ञं ईं
शिरसे स्वाहा ।

प्. १२ब्)
उं टं ठं डं ढं णं ऊं शिखायै वषट् । एं तं थं दं धं
नं ऐं कवचाय हुं । ओं पं फं बं भं मं औं नेत्रत्रयाय
वौषट् । अं यं रं लं वं शं षं सं हं लं क्षं अंः अस्त्राय
फट् ।।

ध्यानम् ।।

पंचाशल्लिपिभिर्विभक्त मुखदोः यन्मध्यवक्षस्थलां
भास्वन्मौलिनिबद्ध चन्द्रशकलामापीन तुङ्गस्तनीम् ।।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैर्
प्. १३अ)
विभ्राणां विशद प्रभां त्रिनयनां वाग्देवतामाश्रये ।। १ ।।

इति ध्यात्वा ।

कंठदेशे षोडशदलकमले विशुद्धचक्रे अं आं इं ईं उं ऊं ऋं ॠं
ऌं ॡं एं ऐं ओं औं अं अः प्रादक्षिण्येन मनसा विन्यसेत् । हृदि ।
अनाहतचक्रे द्वादशदलकमले । कं खं गं घं ङं चं छं जं
झं ञं टं ठं इति विन्यसेत् । नाभौ । मणिपूरचक्रे दशदलकमले
। डं ढं णं तं थं दं धं नं पं फं इति विन्यसेत् । लिंगदेशे ।
स्वाधिष्ठान चक्त्रे

प्. १३ब्)
षड्दलकमले बं भं मं यं रं लं इति न्यसेत् । गुदद्वारे ।
मूलाधारचक्रे चतुर्दलकमले । वं शं षं सं इति न्यसेत् । भ्रूमध्ये ।
आज्ञाचक्रे द्विदलकमले । हं क्षं इति न्यसेत् । इत्यन्तर्मातृकान्यासं
विधाय । सृष्टिमातृकान्यासं कुर्यात् । तद्यथा ।

अस्य श्रीसृष्टिमातृका सरस्वती मंत्रस्य ब्रह्मा-ऋषिर्गायत्रीछन्दो
मातृकासरस्वतीदेवता हल्भ्यो बीजानि स्वराः शक्तयः

प्. १४अ)
सृष्टिमातृकान्यासे विनियोगः । न्यास ध्यानं च अन्तर्मातृका वदत्रापि
कृत्वा न्यसेत् । अं नमः शिरसि । आं नमो मुखे । इं नमो दक्षिणनेत्रे । ईं
नमो वामनेत्रे । उं नमो दक्षिणकर्णे । ऊं नमो वामकर्णे । ऋं नमो
दक्षिणनासिकायां । ॠं नमो वामनासिकायां । ऌं नमो दक्षिणकपोले
। ॡं नमो वामकपोले । एं नम ऊर्द्ध्वोष्ठे । ऐं नमः अधरोष्ठे । ओं
नमः ऊर्द्ध्वदन्तपंक्तौ ।

प्. १४ब्)
औं नमः अधोदन्तपंक्तौ । अं नमः शिरसि । अंः नमः मुखे । कं नमो
दक्षबाहुमूले । खं नमः कूर्परे । गं नमो मणिबन्धे । घं नमः
अंगुलिमूले । ङं नमः अंगुल्यग्रे । चं नमो वामबाहुमूले । छं
नमः कूर्परे । जं नमो मणिबन्धे । झं नमः अंगुलिमूले । ञं नमः
अंगुल्यग्रे । टं नमो दक्षिणपादमूले । ठं नमो जानुनि । डं नमः
गुल्फे । ढं नमः अंगुलिमूले । णं नमः अंगुल्यग्रे ।

प्. १५अ)
तं नमो वामपादमूले । थं नमो जानुनि । दं नमो गुल्फे । धं नमः
अंगुलिमूले । नं नमः अंगुल्यग्रे । पं नमो दक्षिणकुक्षौ । फं नमो
वामकुक्षौ । बं नमः पृष्ठे । भं नमो नाभौ । मं नमः उदरे । यं
नमो हृदि । रं नमो दक्षांसे । लं नमः ककुदि । वं नमो वामांसे ।
शं नमो हृदयादिदक्षिणबाहौ । षं नमो हृदयादिवामबाहौ । सं नमो
हृदयादिदक्षिणपादे । हं नमो हृदयादि वामपादे । लं

प्. १५ब्)
नमो हृदयादि उदरे । क्षं नमो हृदयादि मुखे । इति सृष्टिमातृकान्यासं
विधाय ।

स्वमूलमंत्रोक्त ऋष्यादि न्यास जपादिकं कृत्वा । पूजां कुर्यात् । तद्यथा ।
दुं आत्मतत्वाय नमः । दुं विद्यातत्वाय नमः । दुं शिवतत्वाय नमः ।
इत्याचम्य । दीपं प्रज्वाल्य ।

नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।।
सहस्रनाम्ने पुरुषाय सास्वते सहस्रकोटि युगधारिणे नमः ।। २ ।।

प्. १६अ)
इति दीपं संपूज्य । कलशं संस्थाप्य । स्कंधदेशे । गं गणेशाय
नमः । इति गणेशमावाह्य संपूज्य । कलशमुखे । वं वरुणाय नमः ।
इत्यावाह्य पूजयेत् । तत्रैव । सूर्यादि नवग्रहान् । गौर्यादि षोडशमातृ
आवाह्य पूजयेत् । तत्सदिति मासपक्षाद्युल्लिख्य । यथानामगोत्रः
यथानामवर्मा अहं मम इष्टदेवता प्रीतिद्वारा सकलाभीष्टसिद्धये
यथा मिलितोपचारैः

प्. १६ब्)
श्रीदुर्गादेवतायाः पूजनमहं करिष्ये । इति संकल्पं
विधायार्घस्थापनं कुर्यात् । तद्यथा । स्वाग्रतः किंचिद्वामभागे ।
चन्दनादिना त्रिकोणषट्कोणवृत्त चतुरस्रात्मकं मंडलं कृत्वा
पुष्पाक्षतैः आधारशक्तये नमः । इति संपूज्य । त्रिपदिकां मूलेन
प्रक्षाल्य । मं अग्निमंडलाय दशकलात्मने श्रीदुर्गार्घपात्रासनाय
नमः । इति त्रिपदिकां प्रतिष्ठाप्य । तत्र अग्नेर्धूम्रादि दशकलाभ्यो

प्. १७अ)
नमः । इति संपूज्य । अर्घपात्रं फडिति प्रक्षाल्य । सूर्यमंडलाय
द्वादशकलात्मने श्रीदुर्गार्घपात्राय नमः । इत्यर्घपात्रमाधारे
निधाय । तत्र तपिन्यादि द्वादशकलाभ्यो नमः । इति संपूज्य । क्षं लं हं
सं षं शं वं लं रं यं मं भं बं फं पं नं धं दं
थं तं णं ढं डं ठं टं ञं झं जं छं चं ङं घं
गं खं कं अंः अं औं ओं ऐं एं ॡं ऌं ॠं ऋं ऊं उं ईं इं
आं अं इति प्रातिलोम्येनोच्चरन् शुद्धोदकेनार्घपात्रं सम्पूर्य ।

प्. १७ब्)
उं चन्द्रमंडलाय षोडशकलात्मने श्रीदुर्गार्घपात्रामृताय नमः । इति
संपूज्यं । तत्रैव जले अमृतादि षोडशकलाभ्यो नमः । इति संपूज्य ।

गंगे च यमुने चैव गोदावरि सरस्वति ।।
नर्मदे सिन्धु कावेरि जलेस्मिन्सन्निधिं कुरु ।। १ ।।

अंकुशमुद्रया क्रोमिति मंत्रेण सूर्यमंडलं भीत्वा ।

ब्रह्माण्डोदर तीर्थानि करैः स्पृष्टानि ते रवे ।।
तेन सत्येन मे देव तीर्थं देहि * वाकर ।।

प्. १८अ)
इति मंत्रेण तीर्थान्यावाह्य । तत्र जले देवतां ध्यात्वा । मूलेन
त्रिःपुष्पाक्षतादिभिः संपूज्य । दक्षहस्तेन जलं स्पृष्ट्वा मूलेन
त्रिरभिमंत्र्य मत्स्यमुद्रयाछाद्य । वमिति धेनुमुद्रयामृतीकृत्य ।
योनिमुद्रां शंखमुद्रां च प्रदर्श्य । तत्र जलेन ।

अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा ।
यः स्मरेत् पुंडरीकाक्षं सवाह्याभ्यंतरेषु च ।।

इति पूजासामग्री आत्मानं च सिंचेत् ।।

प्. १८ब्)
ततः ओं तत्सदिति देशकालमासतिथिवारादि पूर्वकं स्मृत्वा ।
अमुकगोत्रोमुकवर्मा अहं मम इष्टदेवता प्रीतिद्वारा
सकलाभीष्टसिद्ध्यर्थं यथा मिलितोपचारैः श्रीदुर्गादेवतायाः
पूजनमहं करिष्ये । इति संकल्पं विधाय ।

चन्दनादिना । सकर्णिकं अष्टदलं तद्वाह्ये भूःपुरं चालिख्य । तत्र
चन्दनाक्षत पुष्पादिना

प्. १९अ)
केशरेषु । आं प्रभायै नमः । ईं मायायै नमः । ऊं जयायै नमः ।
एं सूक्ष्मायै नमः । ऐं विशुद्धायै नमः । ओं नंदिन्यै नमः । औं
सुप्रभायै नमः । अं विजयायै नमः । अंः सर्वसिद्धिदायै नमः सर्वत्र ।
मध्ये । ओं वज्रनखदंष्ट्रायुधाय महासिंहाय हुं फट् नमः । इति
पूजयेत् । ततो ध्यानोक्त देवतामावाह्य पूर्वोक्त प्राणप्रतिष्ठां कृत्वा ।

देवेशि भक्तिसुलभे परिवार समन्विते ।
यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ।।

प्. १९ब्)
इत्यावाह्य । दुर्गायंत्रं पाद्यादिभिः पूजयेत् । मूलमुच्चार्य श्रीदुर्गायै
पाद्यं समर्पयामि नमः । एवं अर्घ्यं आचमनीयं मधुपर्कं
शुद्धोदकं उद्वर्तनम् स्नानीयं पुनराचमनीयं समर्पयामि । इति
संस्नाप्य । अंगप्रोछनं विभाव्य । मूलांते दुर्गायै वस्त्रं
समर्पयामि नमः । गन्धं अक्षतान् सिंदूरं पुष्पाणि । ततो मूलेन

प्. २०अ)
पंचपुष्पांजलीं दत्वा । ह्रां ह्रीं दुं दुर्गायै हृदयाय नमः । ह्रीं
ह्रीं दुं दुर्गायै शिरसे स्वाहा । ह्रूं ह्रीं दुं दुर्गायै शिखायै वषट् ।
ह्रैं ह्रीं दुं दुर्गायै कवचाय हुं । ह्रौं ह्रीं दुं दुर्गायै
नेत्रत्रयाय वौषट् । ह्रंः ह्रीं दुं दुर्गायै अस्त्राय फट् । इत्यादि पूजयेत् ।

ततः पत्रेषु पूर्वादि । जं जयायै नमः । विं विजयायै नमं । किं कीर्त्यै
नमः । प्रीं प्रीत्यै नमः । प्रं प्रमायै नमः । शं श्रद्धायै नमः ।
मं मेधायै नमः । शं श्रुत्यै नमः ।

प्. २०ब्)
पत्राग्रेषु पूर्वादि । शं शंखाय नमः । चं चक्राय नमः । गं
गदायै नमः । खं खड्गाय नमः । पं पाशाय नमः । अं अङ्कुशाय
नमः । शं शराय नमः । चं चापाय नमः । तद्वाह्ये । इन्द्राय नमः ।
अग्नये नमः । यमाय नमः । निर्-ऋतये नमः । वरुणाय नमः । वायवे
नमः । कुबेराय नमः । ईशानाय नमः । पूर्वेशानयोर्मध्ये ब्रह्मणे
नमः । निर्-ऋति वरुणयोर्मध्ये

प्. २१अ)
अनन्ताय नमः । अनेनैव क्रमेण । वज्राय नमः । शक्तये नमः । दंडाय
नमः । खड्गाय नमः । पाशाय नमः । अंकुशाय नमः । गदायै नमः
। त्रिशूलाय नमः । पद्माय नमः । चक्राय नमः । इत्यादि संपूज्य ।

अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्यासमर्पयेत् तुभ्यं समस्तावरणार्चनम् ।।

इति देवस्य चरणयोरर्घोदकं कृत्वा । धूपं समर्पयेत् । धूपपात्रं
फडिति संप्रोक्ष्य नमः ।

प्. २१ब्)
इति संपूज्य मूलांते सांगायै सपरिवारायै श्रीदुर्गायै धूपं
समर्पयामि नमः । अर्घोदकेन समर्पयेत् । जगद्ध्वनि मंत्रमातस्स्वाहा ।
इति घंटां संपूज्य । वामहस्तेन तां वादयन् । देवस्य पादादि
नाभिपर्यन्तं धूपं दद्यात् । अनेनैव क्रमेण दीपं पादादि
नेत्रपर्यंतं धूपपात्रं देवस्य वामभागे दीपपात्रं दक्षिणे
स्थापयेत् ।

ततः सजलं सघृतं पायसादि यथा

प्. २२अ)
लब्धं वा नैवेद्यमानीय । मूलेनाचमनीयं देवतायै दत्त्वा । फडिति
संप्रोक्ष्य । मूलमंत्रमष्टधा जप्त्वा । धेनुमुद्रया वं इत्यमृतीकृत्य
नमः इति संपूज्य । वामांगुष्ठेन पात्रं पृशन् । देवमुखात्तेजो
निःसृतं विभाव्य सांगायै सपरिवारायै श्रीदुर्गायै इदं नैवेद्यं
समर्पयामि नमः । इत्यर्घोदकेनोत्सृज्य । दक्षहस्तेन प्राणादिपंचमुद्राः
प्रदर्शयेत् । मूलेनाचमनीयं दत्वा ।

प्. २२ब्)
प्रावरणं धृत्वा । यथाशक्ति मूलमंत्रं जपित्वा प्रावरणमपसार्य
पूर्वोक्त ऋष्यादि न्यासान्विधायाचम्य ईशानभागे । निर्माल्य भोजिने
शेषिकायै नमः । इति नैवेद्यांशं दत्वा । मूलेन उपायनं ताम्बूलं ।
छत्रं चामरं आदर्शं प्रदर्शयेत् । मूलेन आरार्तिकं कृत्वा ।

बुद्धिः सवासना कॢप्ता दर्पणं मंगलानि च ।
मनोवृतिर्विचित्रा ते नृत्यरूपेण कल्पिता ।।

प्. २३अ)
ध्वनयोगीतरूपेण शब्दावाद्य प्रभेदतः ।।
छत्राणि तव पद्मानि कल्पितानि मया प्रभो ।।

सुषुम्णा ध्वजरूपेण प्राणाद्याश्चामरात्मना ।।
अहंकारो गजत्वेन वेगः कॢप्तो रथात्मना ।।

इन्द्रियाण्यश्वरूपाणि शब्दादीन् रथवर्त्मना ।।
मनःप्रग्रहरूपेण विवेकः सारथिस्त्वयम् ।।

सर्वमन्यत् तथा कॢप्तं तवोपकरणात्मना ।।

इत्यात्मार्पण मंत्रान् पठित्वा ।।

प्. २३ब्)
पुष्पाणि सन्तु मम देवि सदेन्द्रियाणि धूपो गुरुर्वपुरिदं हृदयं प्रदीपः
प्राणाहंवीषिकरुणानि नवाक्षतास्ते पूजा फलं भजतु सांप्रतमेष
जीवः ।।

कुंकुमेन समालब्धे चन्दनेन विलेपिते ।।
बिल्वपत्र कृता पिंड दुर्गेहं शरणागतः ।।

रूपं देहि जयं देहि भगं भगवति देहि मे ।।
पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ।।

महिषघ्नि महामाये चामुंडे मुंडमालिनि ।।
आयुरारोग्यमैश्वर्यं देहि देवि नमोस्तुते ।।

प्. २४)
इति पुष्पांजलिं दत्वा ।

चुलुकोदकमादाय । इतः पूर्वं प्राणबुद्धि देहधर्माधिकारतो
जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसावाचाकर्मणा हस्ताभ्यां
पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं
श्रीदुर्गादेवतायै समर्पितमस्तु । इति दत्वा । प्रदक्षिणां कृत्वा । प्रणम्य ।
अर्घं गृहीत्वा । त्रिर्भ्राम्य पराङ्मुखं धृत्वा । श्रीदुर्गाद्यर्घपात्राय
नमः । इत्यर्घपात्रं संपूज्य ।

प्. २५)
संहारमुद्रां वध्वा ।

गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वरि ।।
यत्र ब्रह्मादयो देवाः न विदुः परमं पदम् ।।

इति पठित्वा यंत्रं पुष्पं गृहीत्वा नासापुटे संयोज्यपुष्पेणाहृतं
तेजोरूपं नासाध्वना हृद्गतं विभावयेत् । अनया पूजया श्रीभगवती
दुर्गा प्रीयतामित्युक्ता । मूलेन तिलकं कृत्वा चरणोदकं पीत्वा । नैवेद्यं
किंचित् स्वयं भुक्ता श्रीदुर्गा भिन्नमात्मानं भावयेदिति नित्यार्चन
क्रमः संक्षेपः ।।

शुभम् ।।