दीक्षोत्तरम् (निश्श्वासकारिकायाः)
| दीक्षोत्तरम् (निश्श्वासकारिकायाः) [[लेखकः :|]] |
निष्कलं परमं तत्वं तृटिगात्रं प्रकीर्तितम् ।
कथं विज्ञायते शंभो एतदिच्छामि वेदितुम् ।। १ ।।
ईश्वरः -
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ।
तदहं संप्रवक्ष्यामि हिताय तव सुवृते ।। १ आ ।।
भुवनाध्वा कलाध्वा च तत्वाध्वा च वरानने ।
वर्णमन्त्र पदाध्वा च कथयाम्यनुपूर्वशः ।। २ ।।
प्राणैके संस्थिता देवि वेदितव्यं हि देशिकैः ।
भुवनाध्वा तु यत्प्रोक्तो मया पूर्वं हि सुव्रते ।। ३ ।।
षड्विंशत्तत्वैराक्षिप्तं वेदितव्यं प्रयत्नतः ।
प्. ७९६)
पुनश्चाष्टादशैस्तत्वैः कलाभेदैः पुनस्थितम् ।। ४ ।।
पुनश्च नवभिस्तत्वैः कथितं सुरसुन्दरि ।
तत्सर्वञ्चाष्टभिर्भेदैराक्षिप्तं पुनरेव तु ।। ५ ।।
एकेषु **? ल्कं तत्वं तत्वयुक्तं समुद्वहेत् ।
षट्त्रिंशदङ्गुलञ्चारं यन्मया कथितं तव ।। ६ ।।
हृत्पद्माद्यवधिं देवि वेदितव्यं प्रयत्नतः ।
आपादतलमध्वानमुत्सहेत वरानने ।। ७ ।।
भुवनाध्वा स विज्ञेयो देशिकेन महात्मना ।
तत्त्वाध्वा च वरारोहे तेषाञ्चोर्ध्वं व्यवस्थितः ।। ८ ।।
कलिकालिक्तमात्मानमुच्छ्वसन्तं बहिस्थितः ।
प्. ७९७)
कलाध्वा तु स एवेति कथितस्तत्र पूर्वशः ।। ९ ।।
एवमन्योऽपि देवेशि वेदितव्यः प्रयत्नतः ।
षट्तृंशाङ्गुलं परित्यज्य क्रमवच्च सुमध्यमे ।। १० ।।
तृटिमात्रं स विज्ञेयो देहमुक्तस्तु निष्कलः ।
स्वामिभावं तु यत्तस्मिन् द्वादशान्तमवस्थितः ।। ११ ।।
संयुक्तशक्तिना बुद्धं तृटिमात्रस्तु निष्कलः ।
शक्त्या देहस्थितो ह्यात्मा निष्कलः परमेश्वरः ।। १२ ।।
तत्वस्थो व्यापयेद्देवि देहान्मुक्तस्तु निष्कलः ।
सुसमिद्धे यथा वह्नौ शिखालिहति चांबरे ।। १३ ।।
देहस्य तद्वरारोहे लीलायति तत्पदे ।
प्. ७९८)
दीक्षाकालेऽभिमानन्तु तद्वत् कुर्यात्तु देशिकः ।। १४ ।।
अहमेव परं तत्वं तत्वलीनस्तथैव च ।
शक्त्यारणिभूताया पुनस्तत्र क्षिपाम्यहम् ।। १५ ।।
एवं यो वेत्ति तत्वेन वह्निवद्देहमध्यतः ।
अतीतश्शिव तद्वह्नेः स तु योजयते परे ।। १६ ।।
शक्त्या तावत्स युज्येत यावत्तत्वन्न विन्दति ।
उदिते तु परे तत्वे तत्रस्थोऽपि न वार्यते ।। १७ ।।
बन्धमुक्तः परेशान्ते परे लीयन्ति शाश्वते ।
लीनस्सर्वगतो देवि धर्माधर्म विवर्जितः ।। १८ ।।
हृत्पद्माद्यावत्तत्पद्मं पृथक् संहारलक्षितम् ।
प्. ७९९)
यावद्वक्त्रमनुप्राप्तं द्विभागं त्यजते तु सः ।। १९ ।।
तृतीयं त्यजते स्वल्पो त्र्यंशैर्मुक्तस्तु निष्कलः ।
अतीतं द्वादशान्ते तु शक्तिपद्मं प्रकीर्तितम् ।। २० ।।
तत्रस्थं तृटिमात्रन्तु कालं तस्य प्रकीर्तितम् ।
निष्कलश्शक्तिपद्मे तु प्रबुद्धस्तत्र तिष्ठति ।। २१ ।।
अतीतस्सुप्रबुद्धस्तु उन्मनत्वं यदा प्रिये ।
न कालं न कलाचारं न तत्वा न च देवता ।। २२ ।।
सुनिर्वाणं परं शुद्धं गुरुवक्त्रे प्रतिष्ठितम् ।
तं प्राप्य न निवर्तन्ते भयसंसारबन्धने ।। २३ ।।
न तस्य चामराख्यातं निष्कलावस्थितस्य तु ।
प्. ८००)
एतत्ते निष्कलं तत्वमुक्तमेव समासतः ।। २४ ।।
चतुर्विधं मया देवि कथितं तत्वमुत्तमम् ।
त्रिविधं तु परित्यज्य शक्त्यन्तं यस्तृटि स्मृतः ।। २५ ।।
तृटौ पटौ तु स्थित्वा वै षोडशांशे व्यवस्थितः ।
स भोक्ता सर्वतत्वानां शक्त्यन्ते यस्तृटिस्मृतः ।। २६ ।।
स भोक्ता सर्वतत्वानां शक्तिना सहसंयुतः ।
शक्त्यतीतो वरारोहे तत्वेन सह युज्यते ।। २७ ।।
चतुः पद्मं भवेत्पद्मं व्यापिणी कर्णिकास्थिता ।
तत्र शक्तिचतुष्कन्तु सूक्ष्माख्यं परिकीर्तितम् ।। २८ ।।
श्रुत्वा बुध्वा विमुच्यन्ते नात्र कार्या विचारणा ।
प्. ८०१)
सर्वतन्त्रेषु सामान्यं तत्रस्थं विषुवं स्मृतम् ।। २९ ।।
प्राणस्य तल्लयं देवि तत्रस्थोऽपि निवर्तते ।
सकलं निष्कलञ्चैव मयनञ्च तृतीयकम् ।। ३० ।।
प्रशान्तं प्राप्य देवेशि निष्कलं विषुवं स्मृतम् ।
त्रिभागभाजिते चारे निष्कलः प्रणवः स्मृतः ।। ३१ ।।
प्रशान्तस्तु स्मृतो बिन्दुः निष्कलः प्रणवस्य तु ।
स चेतस्य स्मृतो जीवो यदा शक्त्या तु युज्यते ।। ३२ ।।
अन्यथा निष्कलोह्यात्मा सुषुप्ताविव लक्ष्यते ।
चिन्मात्रन्तु स्मृतो हुत्वा चेता शक्तिः प्रकीर्तिता ।। ३३ ।।
श्रुत्वा बुध्वा विमुच्यन्ते नात्र कार्या विचारणा ।
प्. ८०२)
सर्वतन्त्रेषु सामान्यं तन्त्रस्थे विषुवं वदेत् ।। ३४ ।।
प्राणस्य तल्लयं देवि तत्रस्थेन निवर्तते ।
तथा युक्तमिदं सर्वं नानाचेष्टानि कारयेत् ।। ३५ ।।
तत्स्थाने लीयते ज्ञानी ज्ञे * * *? परं लयम् ।
कल्पनारहितं ज्ञां सर्वतत्वविवर्जितम् ।। ३६ ।।
व्यापकं सर्वतत्वानां पारंपर्येण संस्थितम् ।
एतत्ते निष्कलञ्चारं कथितन्तु मयाखिलम् ।। ३७ ।।
न देयञ्च त्वया देवि अन्यायपथवर्तिने ।
कपटेनोपपन्नाय श्रवस्यपि न दापयेत् ।। ३८ ।।
व्यापिनी व्योमरूपा च अनन्ता नायका स्मृता ।
प्. ८०३)
मूर्तिदेवस्य विख्याता शक्त्या देवभुवस्य तु ।। ३९ ।।
पञ्चव्योमस्मृताह्येते शून्यावस्था तु देवता ।
ब्रह्मादीनां वरारोहे शून्यदेहः परः स्मृतः ।। ४० ।।
एतत्ते देवतायोगं प्रथमं परिकीर्तितम् ।
शक्त्यवस्थान्तरी भूतास्सूक्ष्माद्याः परिकीर्तिताः ।। ४१ ।।
तत्स्थचेतात्मका देवाश्शब्दरूपाः प्रकीर्तिताः ।
तृतीया तु वरारोहे ज्ञातव्या देशिकेन तु ।। ४२ ।।
द्विविधस्थान्तरे देवि ज्योतीरूपं विचिन्तयेत् ।
त एवमनुरूपन्तु पञ्चमां कथितं तव ।। ४३ ।।
ईशवक्त्रे तथा घोरे वामस्सद्यस्तथैव च ।
प्. ८०४)
त्रिविधं मन्त्रदेहन्तु वेदितव्यं प्रयत्नतः ।। ४४ ।।
ब्रह्माविष्णुस्तथा रुद्रो ईश्वरस्तु सदाशिवः ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। ४५ ।।
शून्यस्पर्शस्तथा शब्दो ज्योतीरूपं तथैव च ।
मन्त्ररूपं तथैवेह कथितं तत्वतो मया ।। ४६ ।।
स्थूलात्स्थूलतरैर्भावैः सूक्ष्मात्सूक्ष्मतरैः पुनः ।
पञ्चब्रह्माणि देवेशि वेदितव्यानि यत्नतः ।। ४७ ।।
शून्यस्पर्शस्तथा शब्दो ज्योरूपं तथैव च ।
तत्वरूपं तथैवेह पञ्चब्रह्माः प्रकीर्तिताः ।। ४८ ।।
एवं ज्ञात्वा च बुध्वा च मुच्यते पाशबन्धनात् ।
प्. ८०५)
व्रजते शिवसायुज्यं शिवेन सहमोदते ।। ४९ ।।
षट्पदार्थमिदं देवि मन्त्राणां कथितं तव ।
वेदितव्यं प्रयत्नेन सिद्धिमोक्षार्थकाङ्क्षिभिः ।। ५० ।।
एवं सर्वेषु मन्त्रेषु कथितं तव शोभने ।
इति निश्वासकारिकायां दीक्षोत्तरे प्रथमः पटलः ।।
देव उवाच-
शृणु देवि प्रवक्ष्यामि साधकानां हितावहम् ।
येन विज्ञातमात्रेण विधिमुक्तं लभेद्धृवम् ।। १ ।।
षड्विधस्तु शिवो ज्ञेयो योगिना सुमहात्मना ।
प्. ८०६)
शब्दव्योमतया ज्योतिः विग्रहो भुवनस्तथा ।। २ ।।
मन्त्रमूर्तिस्तु परमः षड्विधस्तु शिवोऽव्ययः ।
मन्त्रमूर्तिं विदित्वा तु मन्त्रसिद्धिमवाप्नुयात् ।। ३ ।।
भुवनेशत्वमाप्नोति भुवनासक्तमानसः ।
ब्रह्मादीनां सुरेन्द्राणां साधने विग्रहं स्मरेत् ।। ४ ।।
योगिनामधिपत्यर्थं ज्योतिस्थो योगमभ्यसेत् ।
शब्दतत्वे परे लीनः शब्दान्तर्गतमानसः ।। ५ ।।
परमेमाक्षमाप्नोति शब्दात्सर्वार्थसिद्धये ।
तस्यातीतं परं देवि शक्तिव्योमप्रकीर्तितम् ।। ६ ।।
तस्य ध्यानाद्भवेत्सिद्धिः मुक्तिश्चैव न संशयः ।
प्. ८०७)
विग्रहो भुवनो ज्योतिः शब्दच्छामन्तथैव च ।। ७ ।।
एते परप्रकाशन्तु शिवध्यानपरश्शिवः ।
शिवमेवं विधं ज्ञात्वा साधकस्तु समाहितः ।। ८ ।।
प्राप्नोति विविधां सिद्धिं मुक्तिञ्चैव न संशयः ।
मन्त्रमूर्तिपरं ज्ञात्वा सिद्धिं मुक्तिमाप्नुयात् ।। ९ ।।
जपे होमार्चनाध्यानात् सिद्धयश्च यथार्थतः ।
भुवनन्तु भुवनाकारं ब्रह्माण्डादि यथाक्रमम् ।। १० ।।
नानारत्नमयं दिव्यमनौपम्यगुणान्वितम् ।
इन्द्रनीलमहानीलैः राजतैश्च विभूषितम् ।। ११ ।।
पद्मरागमयस्तंभैः नानारत्नोपशोभितम् ।
प्. ८०८)
दिव्यसृग्गन्धवस्त्राढ्यं दिव्यैश्वर्यसमन्वितम् ।। १२ ।।
भुवनं देवदेवस्य ज्ञात्वा तल्लयमाप्नुयात् ।
विग्रहं विग्रहाकारं शिववर्णादिलक्षणम् ।। १३ ।।
शशाङ्कार्धधनं त्र्यक्षं नागयज्ञोपवीतिनम् ।
शून्यहस्तं वृषारूढमुमादेहार्धसंयुतम् ।। १४ ।।
शङ्खकुन्देन्दुधवलं सहस्रादित्यवर्चसम् ।
विग्रहं देवदेवस्य सर्वकामार्थसाधनम् ।। १५ ।।
साधनं सर्वमन्त्राणां भूम्यर्थे च स्मरेत्सदा ।
ज्योतिध्यानात्सदायोगी योगसिद्धिमवाप्नुयात् ।। १६ ।।
अणिमादिगुणैश्वर्यं योगी क्रीडादिलक्षणम् ।
प्.८०९)
व्यालाकारमनाकारं व्योमव्यापी परश्शिवः ।। १७ ।।
सर्वव्यापिनमीशानं चिन्तया शिवमाप्नुयात् ।
निर्गुणं साञ्जनातीतं गृहनक्षत्रवर्जितम् ।। १८ ।।
शुद्धस्फटिकसङ्काशं परं व्योम विचिन्तयेत् ।
व्योमलीनमनाः सम्यक् व्योमस्थो व्योमतन्मयः ।। १९ ।।
परं मोक्षमवाप्नोति यत्र शब्दे लयं गतः ।
शब्दध्यानात् परोमोक्षः सिद्धयश्च न संशयः ।। २० ।।
तस्मात् सर्वप्रयत्नेन शब्दध्यानं समाश्रयेत् ।
वामपार्श्वे इडा तस्य चिञ्चिणीशब्दमुत्तमम् ।। २१ ।।
प्राकृतं नाम चैतद्धि स्थूलश्च परिकीर्तितः ।
प्. ८१०)
दक्षिणेन सुषुम्ना हि चिरव्यक्रिनी स्मृता ।। २२ ।।
पौरुषन्नाम चेत्युक्त सूक्ष्मस्य परिकीर्तितम् ।
घण्टानादविरामान्तान्त्यमध्यपरं स्मृतम् ।। २३ ।।
निरालंबो निराधारः तदेव परमं पदम् ।
चिञ्चिणीचारवक्यन्ते निरालंबो निराश्रयः ।। २४ ।।
घण्डानादविरामान्ते शिवोऽहं या निराश्रयः ।
हृदिस्थं मन्त्रसङ्घातं कृत्वा मूर्तिन्यसेद्बुधः ।। २५ ।।
ब्रह्मादिभिः कलैस्तत्वैः सर्वसिद्धिकरस्मृतः ।
स तु चिन्तयते नित्यं तत्रस्थं बिन्दुमीश्वरम् ।। २६ ।।
चित्रस्थ ईश्वरो नादः स तु साक्षाच्छिवस्मृतः ।
प्. ८११)
हंसाख्यश्चैव बिन्दुश्च नादो नादान्त एव च ।। २७ ।।
एवं ज्ञात्वा भवेन्मन्त्री शिवः साक्षादलेपकः ।
एतत्तत्परमं गुह्यमेतत्तत्परमं शिवम् ।। २८ ।।
एतत्तत्परमं गुह्यमेतत्तत्परमं पदम् ।
एतत्तत्परमं ज्ञानमेतत्तत्परमाक्षरम् ।। २९ ।।
नातः परतरो ध्येयो नातः परतरं शिवम् ।
विदिते संयगेवं हि मुच्यते नात्र संशयः ।। ३० ।।
साधकस्य विधिह्येषा सर्वकामार्थसिद्धिदा ।
एतेषां परतो देवः शब्दरूपविवर्जितः ।। ३१ ।।
व्यापकस्सर्वतत्वानां मया पूर्वमुदाहृतम् ।
प्. ८१२)
तं विदित्वा विमुच्यन्ते सिध्यन्ते नात्र संशयः ।। ३२ ।।
इति निश्वासकारिकायां दीक्षोत्तरे द्वितीयः पटलः ।
देव्युवाच -
भगवन् श्रोतुमिच्छामि शून्यभेदमनुत्तमम् ।
कथं विज्ञायते शंभो रतिगुह्यतरं परम् ।। १ ।।
ईश्वरः -
विशून्यं सर्वतत्वेषु गीयते सुरसुन्दरि ।
तस्याहं संप्रवक्ष्यामि लक्षणन्तु सुरार्चिते ।। २ ।।
व्यापकेन समायुक्तमयनं तत्प्रकीर्तितम् ।
प्. ८१३)
दिवारात्र्योश्च मध्ये तु वेदितव्यं प्रयत्नतः ।। ३ ।।
न रात्रिर्न दिवा चैव न निन्दुकलकला तथा ।
पञ्चधा तु परित्यज्य प्रशान्तं शून्यमुच्यते ।। ४ ।।
देहातीतं तृतीयन्तु निष्कलेति विभाव्यते ।
नासायान्तु यदातीतं तच्छून्यञ्च तृतीयकम् ।। १५ ।।
घटिकान्तु परिच्छेदं यावत्तन्मुखमण्डलम् ।
अयनं शून्यमित्युक्तं कथितं ज्ञानमुत्तमम् ।। ६ ।।
रसानां शून्यतस्थाप्य विज्ञानमुपजायते ।
अधस्तात्तु परित्यज्य पञ्चधा परमेश्वरि ।। ७ ।।
प्रशान्तं शून्यमित्युक्तमूर्ध्वं किञ्चिन्न संस्पृशेत् ।
प्. ८१४)
एतत्प्रशान्तशून्यन्तु ज्ञात्वा मुच्येत बन्धनात् ।। ८ ।।
गमागममयोगेन तृतीयं परिकीर्तितम् ।
विदितं तद्वरारोहे देहमुक्तमिदं स्मृतम् ।। ९ ।।
तदेवं कथितं देवि शून्यमुक्तं शिवागमे ।
ऊर्ध्वशून्यमधश्शून्यं मध्यश्शून्यं तृतीयकम् ।। १० ।।
निरामयं चतुर्थन्तु कथितं ह्यनुपूर्वशः ।
सा मया कथिता ह्येते चतुर्थन्तु निरामयम् ।। ११ ।।
सा माया अपि देवेशि तत्वावस्थेन संस्थिता ।
तेन दोषाय वर्तन्ते शेषं महानुलक्षणम् ।। १२ ।।
चतुर्थं यन्महच्छून्यं विज्ञप्तिः सा तु कीर्तिता ।
प्. ८१५)
न तस्य कल्पना देवि पारंपर्येण संस्थितः ।। १३ ।।
तं ज्ञात्वा कथ्यते ज्ञेयं ज्ञानी शेषेषु कथ्यते ।
क्रियातीतन्तु तत्तत्वं गीयते सर्वतश्शुभे ।। १४ ।।
तस्यागमी तु संप्राप्तिः यस्य तुष्टा स एव च ।
एवं त्रिशून्यभेदन्तु कथितं तव सुवृते ।। १५ ।।
चतुर्थं यन्महच्छून्यं विज्ञप्तिः सा तु कीर्तिता ।
न तस्य कल्पना देवि पारंपर्येण संस्थितः ।। १६ ।।
तं ज्ञात्वा कथ्यते ज्ञेयं ज्ञानी शेषेषु कथ्यते ।
क्रियातीतन्तु तत्तत्वं गीयते सर्वतश्शुभे ।। १७ ।।
तस्यागमी तु संप्राप्तिः यस्य तुष्टा स एव च ।
प्. ८१६)
एवं त्रिशून्यभेदन्तु कथितं तव सुव्रते ।। १८ ।।
चतुर्थं यन्महच्छून्यं सर्वं तच्च प्रबोधकम् ।
तेन ज्ञातेन संज्ञेयी दीक्षानुग्रहकृत् भवेत् ।। १९ ।।
अन्यथा न गुरुर्ज्ञेयो न दीक्षा न च मुक्तिदा ।
पञ्चव्योमाः पुरा प्रोक्ताः ते त्वया विदिताः शुभे ।। २० ।।
ना ज्ञातेन विमुच्यन्ति स्वे स्वे विविधगोचरे ।
ब्रह्माणमादितः कृत्वा यावद्देवः सदाशिवः ।। २१ ।।
पञ्चव्योमाः समाख्याताः संहारेण वरानने ।
एकैकं पञ्चधा देवि वेदितव्यं प्रयत्नतः ।। २२ ।।
शून्यभेदं परं तेषां उक्तावस्था तु कीर्तिता ।
प्. ८१७)
स्वभाववर्णतो देवि ज्ञेयं विज्ञायते यथा ।। २३ ।।
तथा ते कथयिष्यामि तन्मे निगदतः शृणु ।
अणवस्त्रयमाख्यातं हृत्कर्णं तालुमाश्रितम् ।। २४ ।।
निम्नवत्तद्वरारोहे वर्णो भवति नित्यशः ।
ब्रह्माविष्णस्तथा रुद्र अभावः सूत्रवत्स्मृताः ।। २५ ।।
चतुर्थस्त्वीश्वरश्शान्तो वेदितव्यं प्रयत्नतः ।
तच्छब्दो नाद इत्युक्तः स जीवः कथितस्तव ।। २६ ।।
स्पर्शस्त्वस्मिंस्तु देवेशि सा शक्तिः परिकीर्तिता ।
तत्क्षयेन न किञ्चित् स्यात् गुरुवक्त्रं सदुच्यते ।। २७ ।।
संयोगमेवमेवं स्यात् व्याख्यातं तव शोभने ।
प्. ८१८)
मन्त्रास्तथैव ज्ञातव्या देशिकेन महात्मना ।। २८ ।।
नादं बिन्दुं तथा देवं वाङ्मयं स चराचरम् ।
श्रूयते उच्यते चैव शिवशक्तिविचेष्टितम् ।। २९ ।।
एवं ज्ञात्वा च बुध्वा च मन्त्रास्तस्य वशो भवेत् ।
सिध्यते नात्र सन्देहः शिवशक्त्युपबृंहितः ।। ३० ।।
अज्ञात्वा तु वरारोहे शिवशक्तिविचेष्टितम् ।
मन्त्रास्तस्य न सिध्यन्ति न च याति परं पदम् ।। ३१ ।।
इति निश्वासकारिकायां दीक्षोत्तरे तृतीयः पटलः ।
देव्युवाच -
प्. ८१९)
सृष्टिसंहारभेदेन देव देव त्वया पुरा ।
कथितं तत्र सद्भावं तन्मया विदितं प्रभो ।। १ ।।
पुनश्च श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।
के च कस्मिन् गृहादेव दीक्षिता देवदानवाः ।। २ ।।
ऋषिविद्याधरास्सिद्धा गन्धर्वाप्सरसः प्रभो ।
यक्षराक्षसभूताश्च पिशाचोरगकिन्नरा ।। ३ ।।
गुह्यकाश्च महादेव क्रूराश्चैव विनायकाः ।
स्वान्तेन दीक्षितादेव यस्य सिद्धि ध्रुवं भवेत् ।। ४ ।।
तदहं श्रोतुमिच्छामि भगवन् कथयस्व मे ।
कोटिभेदाः समाख्याताः शाखाभेदाश्च शङ्कर ।। ५ ।।
प्. ८२०)
शिवभेदञ्च देवेश सर्वमेतद्ब्रवीहि मे ।
ईश्वरः -
शृणु देवि प्रवक्ष्यामि तन्त्रभेदमनुत्तमम् ।। ६ ।।
मन्त्रमण्डलसंख्याञ्च शास्त्राणाञ्चैव सङ्ग्रहम् ।
दीक्षितानि मया यस्मिन् न शङ्काश्च यथा पुरा ।। ७ ।।
सर्वेषामेव मन्त्राणां शैवानां मन्त्रमूर्तिना ।
प्रकाशितं पुरा देवि ममेदं परमेष्ठिना ।। ८ ।।
सर्वजगतश्चेह सृष्टा च परमेश्वरः ।
संहर्ता च न सन्देहः मन्त्रमूर्तिः परश्शिवः ।। ९ ।।
अवतारमहं वक्ष्ये नामसङ्ग्रहनिर्णयम् ।
प्. ८२१)
दीक्षाविधिनियोगञ्च कृतं पूर्वं यथाश्रुतम् ।। १० ।।
मन्त्रयोगप्रभेदञ्च प्रवक्ष्याम्यनुपूर्वशः ।
तस्यादिर्भगवान् देवश्शिवो वै मन्त्रमूर्तिमान् ।। ११ ।।
मन्त्रतन्त्रप्रणेता च मन्त्रतन्त्रप्रकाशकः ।। ११ १/२ ।।
तेन प्रकाशितं पूर्वं शिवेनानन्दमूर्तिमान् ।। १२ ।।
तदेव वचनं ज्ञानं मम वक्त्रे निवेशितम् ।
मयापि तत्वदेवेशि त्वया दत्तं पितामहे ।। १३ ।।
ब्रह्मणापि सुराध्यक्षे विष्णवे प्रतिपादितम् ।
विष्णुनापि हुताशाय तेन दत्तन्तु वायवे ।। १४ ।।
वायुनापि पुरादत्तं सूर्याय च न संशयः ।
प्. ८२२)
सूर्येण चापि सोमाय कथितं पुनरेव तु ।। १५ ।।
सोमेनैव तु देवेशि धर्माय प्रतिपादितम् ।
एवं तद्दशधा ज्ञानं शिवोक्तं तत्र सङ्ग्रहे ।। १६ ।।
ख्यापितं तत्वमीशेन मन्त्रमूर्तिनिवेशितम् ।
स एव जगतश्चास्य मन्त्रमूर्तिर्महेश्वरः ।। १७ ।।
तत्प्रसादादिदं सर्वं ज्ञानविज्ञानमुत्तमम् ।
प्राप्यते देवदेवेशि मोक्षञ्च भुवि दुर्लभम् ।। १८ ।।
सार्वकामिकमित्येवं प्रोवाच भगवाञ्च्छिवः ।
लोकोद्भवेति रुद्रेण पुनरेव प्रकीर्तितम् ।। १९ ।।
देव्यायणं यदा ज्ञानमजितेति प्रकीर्तितम् ।
प्. ८२३)
कारणं भगवान् ब्रह्मा अजितेति जनार्दनः ।। २० ।।
दीप्ताभेति यथाग्निश्च वायुः सूक्ष्मेति वै पुनः ।
सहस्रांशेति धर्माय अंशुमानिति भास्करः ।। २१ ।।
सुव्रताः चन्द्रमाः प्रोक्तो दशतन्त्रप्रकाशकः ।
शिवशक्तिमधिष्ठाय विभिन्नं वै पुनस्थितः ।। २२ ।।
दशधा नामभेदेन लोकानां हितकाम्यया ।
एवमेति सुरास्सर्वे शिवज्ञानस्य पारगाः ।। २३ ।।
अवतारं पुनश्चैव बहुधा परिकीर्तितम् ।
अस्यैव ज्ञानमुख्यस्य शिवज्ञानस्य सांपृतम् ।। २४ ।।
भेदमष्टतरं प्रोक्तं तथाऽष्टादशधा पुनः ।
प्. ८२४)
अष्टादशविधैर्भेदैः तत्र भेदैः पुनस्थितः ।। २५ ।।
आजगाम सुवर्लोकभुवर्लोकक्रमागतः ।
तस्य भेदा भवन्त्येते संज्ञा च परिकीर्त्यते ।। २६ ।।
ऋषिभिस्तत्र कल्पज्ञैः विदितं तत्र मुत्तमम् ।
विजयं प्रथमं तेषां निश्वासं तदनन्तरम् ।। २७ ।।
स्वायंभुवमतश्चैव वातुलं तदनन्तरम् ।
वीरभद्रमिति ख्यातं रौरवं माकुटं तथा ।। २८ ।।
ंंंंंंंं
विमलं चन्द्रभागञ्च ज्ञानञ्च मुखवालकम् ।
प्रोद्गीतं ललितञ्चैव सिद्धिसन्तानमेव च ।। २९ ।।
शर्वोद्गीतञ्च विज्ञेयं किरणं पारमेश्वरम् ।
प्. ८२६)
ईश्वरः प्रथमः प्रोक्तो देवी च तदनन्तरम् ।। ३० ।।
ब्रह्मा च षण्मुखश्चैव वीरभद्रस्तथैव च ।
नन्दीश्वरो महाकाल ईशानं चन्द्रमास्तथा ।। ३१ ।।
बृहस्पतिः समाख्यातो देवी वीका च वासवः ।
ललिता चैव चण्डश्च शान्तपाणी तथैव च ।। ३२ ।।
सनत्कुमारो विष्णुश्च पारमेश्वरमेव च ।। ३२ १/२ ।।
विजयमीश्वरज्ञानं देव्या निश्वाससंहिताम् ।। ३३ ।।
ब्रह्मा स्वायंभुवश्चैव कुमारो ज्ञेयवातुले ।
वीरेण वीरभद्रस्तु नन्दीरौरवमेव च ।। ३४ ।।
मकुटेति महाकालं विसन्नरमुशनसा ।
प्. ८२७)
चन्द्रमाश्चन्द्रभासञ्च ज्ञानञ्चाङ्गिरसं तथा ।। ३५ ।।
दधीची मुखभिन्नन्तु प्रोद्गीतं कवचमेव तु ।
ललितं ललिता देवि दण्डहस्तं तथैव च ।। ३६ ।।
सन्तानं नाशपाणिः स्यात् शर्वोद्गीतञ्च विष्णुना ।
किरणं ब्रह्मणा चैव परमेशे पारमेश्वरम् ।। ३७ ।।
एते तन्त्राः पूर्वं शिवज्ञानस्य पारगाः ।
ते चाप्यन्ते महाभागाः क्रमाराद्याश्शचीपतिः ।। ३८ ।।
मन्त्रसिद्धास्तथा चान्ये ऋषयश्च तपोधनाः ।
मन्त्रभेद प्रणेतारो मन्त्रकल्पकरास्तथा ।। ३९ ।।
एभिरेव शिवज्ञानं स्थापितं वसुधातले ।
प्. ८२८)
नामभेदप्रसंख्यातमाराध्य परमेश्वरम् ।। ४० ।।
मन्त्रकल्पे तथा ख्यातं भूतकल्पे तथैव च ।
गणगुह्यकभेदैश्च रुद्रभेदैश्च संज्ञितम् ।। ४१ ।।
तस्य भेदाः स्मृताः पूर्वं दशधा परिकीर्तिताः ।
पुनश्चैव समाख्याता नष्टा दशविधास्तथा ।। ४२ ।।
विजये भगवान् रुद्रः प्रोवाच ब्रह्मणे पुरा ।
तस्मिन् मन्त्राः समाख्याताः श्रूयतां वरवर्णिनी ।। ४३ ।।
अष्टौ मन्त्रसहस्राणि तथा पञ्चशतानि च ।
एकपञ्चाशतञ्चैव तथा वै सप्तसप्ततिः ।। ४४ ।।
देवैर्ज्ञातमिदं देवि किञ्चित्तस्मादिहागतम् ।
प्. ८२९)
विजये तु समाख्यातं तस्मिन् ब्रह्मा तु दीक्षितः ।। ४५ ।।
त्रीणि मन्त्रसहस्राणि नियुतं त्रीणि चापरे ।
अष्टौ चैव तु लक्षाणि दशभिर्मण्डलैस्थितम् ।। ४६ ।।
निश्वासे तु समाख्यातं नन्दीशो यत्र दीक्षितः ।
शुक्रः कुबेरो वरुणो यमश्चैवाश्विनावपि ।। ४७ ।।
गणाश्चैव महाभागा रुद्राश्चैव तु दीक्षिताः ।
निश्वासे तु परे तन्त्रे कथितं तव शोभने ।। ४८ ।।
सहस्रमेकं विज्ञेयं नियता षष्टिसङ्ग्रहम् ।
शतमेकं तथा चान्यं मन्त्राणां परिसंख्यया ।। ४९ ।।
एकादशविधैर्भेदैः तथा सप्तविधैः पुनः ।
प्. ८३०)
सप्तविद्याधरं तन्त्रं तथा स्वायंभुवेति च ।। ५० ।।
नामद्वयं समाख्यातं दक्षाद्या यत्र दीक्षिताः ।
प्रजानां पतयश्चैव तथा ब्रह्मसुताश्च ये ।। ५१ ।।
दीक्षिताश्च नियुक्ताश्च असुराश्चैव सन्ततम् ।
यक्षराक्षसगन्धर्वाः पिशाचोरगकिन्नराः ।। ५२ ।।
गरुडाद्यो द्विजाश्चैव ये च लोकेषु संस्थिताः ।
सहस्रमेकं मन्त्राणां त्रिंशद्भिर्मण्डलैः स्थितम् ।। ५३ ।।
पञ्चधा भेदभिन्नन्तु आग्नेयो यत्र दीक्षिताः ।
गातरोधे गृहाश्चैव ये च विघ्नादयो गणाः ।। ५४ ।।
आग्नेयमिति तन्त्रेऽस्मिन् तेजस्संभवसे भवम् ।
प्. ८३१)
एकादश सहस्राणि कोटित्रीणि च संग्रहे ।। ५५ ।।
मण्डलानां शतञ्चैव अष्टधा वरणे स्थितम् ।
अष्टादश विधैर्भेदैः लोके मन्त्रगणान् बहून् ।। ५६ ।।
बहुधा परिसंख्यातं पञ्चगर्भपुरस्सरम् ।
विसर्पितञ्च संबोधैः कूटमुद्भूतकारणैः ।। ५७ ।।
अतिशयान्वितश्चैव गोह्यगुह्यकसंभवैः ।
अत्र ते ऋषयंस्सिद्धाः बलखिल्यास्तपोधनाः ।। ५८ ।।
अयने दक्षिणे देवा ये च वै उत्तरे स्थिताः ।
अनेन चैव सिद्धान्ते देवा वै मानवादयः ।। ५९ ।।
तत्साध्यस्तन्त्रमेतत्तु वीरभद्रेऽत्रसंज्ञितम् ।
प्. ८३२)
कोटिरेकं सहस्रञ्च मन्त्रमण्डलविंशकम् ।। ६० ।।
द्विविधं नामसंज्ञाभिः रौरवेति च विश्रुतम् ।
पञ्चमन्त्रशता ज्ञेयाः चतुर्मूर्तिव्यवस्थिताः ।। ६१ ।।
मकुटेति समाख्यातो निधनक्षेत्रवादिभिः ।
नलान्तर्मातृकल्पैश्च ऋषिभिः सेव्यते सदा ।। ६२ ।।
शतमेकन्तु विज्ञेयं भिन्नश्चापि तथा विधाः ।
मण्डलाष्टकसंयुक्तं विसरन्नामनामतः ।। ६३ ।।
दशमन्त्रसहस्राणि दशभिर्मण्डलैर्युतः ।
दशभेदाः समाख्याताः चन्द्रभासमिति स्मृतम् ।। ६४ ।।
शतार्धमेकमन्त्राणां एकवीरप्रतिष्टितम् ।
प्. ८३३)
एकमण्डलगूढन्तु नारसिह्मेति विश्रुतम् ।। ६५ ।।
यत्रेते दीक्षिता दैत्याः नलिनो देवकण्टकाः ।
मयाद्या नलिनश्चैव नलिनाद्याश्च यत्र वै ।। ६६ ।।
रसक्षेत्रक्रियापादा विज्ञेया बहुभेदतः ।
मन्त्रैर्द्वादशभिर्युक्तं मण्डलद्वयसंयुतम् ।। ६७ ।।
द्विधावस्थेन देवेशि मुखबिंबमिति स्मृतम् ।
द्विसहस्रे शते द्वे च मण्डाश्च त्रिसप्ततिः ।। ६८ ।।
सप्तशाखाप्रभेदश्च प्रोद्गीतन्नाम नामतः ।
योगिनां परमो यत्र मन्त्रभेदः प्रवर्तते ।। ६९ ।।
एकवीरधरैर्मन्त्रैः जपकर्मादिसिद्धये ।
प्. ८३४)
त्रयस्त्रिंशत्समायुक्तं विद्याशक्तिविचेष्टितम् ।। ७० ।।
महामहादिप्रमुखैः विद्याभिश्च सुसंस्कृतैः ।
महाव्रतविधानञ्च दीक्षाविधिसमुद्भवः ।। ७१ ।।
कपालोत्तरकल्पैश्च सिद्धिकल्पैश्च योजितः ।
नाडीसञ्चारसंयुक्तं ललितं पञ्चमं चलम् ।। ७२ ।।
आज्ञासिद्धिस्तु विज्ञेया मन्त्राणां शतयोजितम् ।
दशधा मण्डलाख्यातं सिद्धमित्येव संज्ञितम् ।। ७३ ।।
त्रीणि मन्त्रसहस्राणि विंशतिश्चैव मण्डलाः ।
कोटिद्वयन्तु मन्त्राणां शतानां परिकीर्तितम् ।। ७४ ।।
मन्त्रपञ्चसमायुक्तमेकमण्डलपूजितम् ।
प्. ८३५)
त्रिमण्डलमथाज्ञेयं गूढदेवैस्तु कीर्तितम् ।। ७५ ।।
मन्त्राणान्तु सहस्रे द्वे शताः पञ्चशतानि च ।
मण्डलानां शतञ्चैव शर्वोद्गीतमिति स्मृतम् ।। ७६ ।।
शृणु मन्त्रसहस्राणि मण्डलाश्चापि विंशतिः ।
किरणे हि समाख्यातमादित्यो यत्र दीक्षितः ।। ७७ ।।
कोटिसप्तसमाख्यातमादित्यो यत्र दीक्षितः ।
कोटिसप्तसमाख्यातं मन्त्राणां नियुतं तथा ।। ७८ ।।
मण्डलानां सहस्रन्तु सङ्ग्रहः परिकीर्तितः ।
संख्याता मन्त्रभेदाश्च शाखाभेदाश्च तत्वतः ।। ७९ ।।
मण्डलाश्चापि मन्त्राणां सर्वतन्त्रोत्तराणि च ।
प्. ८३६)
शिवप्रोक्ता स्मृतांह्येते तन्त्रकल्पबहु स्मृताः ।। ८० ।।
अनित्यता च भूतानां दृष्ट्वा लोकानिमान् पुरा ।
- ? तत्वं याति संज्ञाश्च विद्यातत्वं शिवात्मकम् ।। ८१ ।।
देवासुरमनुष्याश्च मन्त्रसिद्धाश्च ये स्मृताः ।
गन्धर्व यक्षरक्षाश्च पिशाचा ऋषयस्तथा ।। ८२ ।।
सर्वे ते मन्त्रसिद्धास्तु तेषामायुस्तु मन्त्रजाः ।
मन्त्रजापेन सिद्धास्तु सर्वे ते साधकाः स्मृताः ।। ८३ ।।
तत्वं विज्ञाय मुक्तिस्तु सत्यमेतन्महेश्वरि ।
इदं सारमिदं सारं यस्सर्वं ज्ञातुमिच्छति ।। ८४ ।।
अपि वर्षसहस्रान्ते शास्त्रान्तेनाधिगच्छति ।
प्. ८३७)
विज्ञायाक्षरतन्मात्रं गुरुमाराध्य यत्नतः ।। ८५ ।।
प्रार्थयेत महादेव गुरुं तत्वविशारदम् ।
तत्प्रसादाद्भवेन्मुक्तिः संसारभवबन्धनात् ।। ८६ ।।
इति निश्वासकारिकायां दीक्षोत्तरे तन्त्रावतारः चतुर्थः पटलः ।
देवी -
भगवन् श्रोतुमिच्छामि किञ्चित्कौतूहलान्विता ।
तत्वमाचक्ष्व देवेश यदि स्याद्वरदो मम ।। १ ।।
बिन्दुनादं तथा शक्तिनाडीत्रयमिदं शुभम् ।
यत्र तत्वञ्च देवेश उत्क्रान्तिसिद्धिसाधनम् ।। २ ।।
प्. ८३८)
एकादशविधञ्चैव नवात्मे सर्वमाश्रितम् ।
तेन सर्वमिदं कार्यं तेन सर्वमिदं ततम् ।। ३ ।।
दृश्यते च कथं बिन्दुः कतिरक्षरयोजितः ।
कस्मिन् कस्मिन् प्रदेशे तु द्रष्टव्यं बिन्दुमीश्वरम् ।। ४ ।।
करण एव कथं तस्य येन दृश्यते तत्वतः ।
नादञ्चैव तथा शक्तिः हृल्लक्षस्य च दर्शनम् ।। ५ ।।
सर्वमेतद्यथा न्यायं कथयस्व प्रसादतः ।
ईश्वरः -
शृणु देवि परं गुह्यं रहस्यमिदमुत्तमम् ।। ६ ।।
तदहं संप्रवक्ष्यामि साधकानां हितावहम् ।
प्. ८३९)
नवात्मकेन सर्वेशि यथा भवति तच्छृणु ।। ७ ।।
वर्णाष्टकं धृवं देवि बिन्दुव्यापक उच्यते ।
नादं तस्य शिखा प्रोक्ता शक्तिस्तु परमं स्थिता ।। ८ ।।
एकादश पदार्थन्तु कारणं परमस्ति च ।
गुरुवक्राच्च लभ्येत यथा तेनैव चोदितः ।। ९ ।।
अकार उकार भेदेन मकारेण तथैव च ।
यथा कर्माणि कुरुते कथयामि तवाखिलम् ।। १० ।।
सर्वज्ञानपरं सूक्ष्मं सर्वज्ञानं सुदुर्लभम् ।
अनादिपरमं ज्ञानं अनादि परमव्ययम् ।। ११ ।।
बिन्दुनादं तथा शक्तिं सूक्ष्मं परमव्ययम् ।
प्. ८४०)
यथा प्राप्स्यसि तन्नादं बिन्दुश्च भुवि दुर्लभम् ।। १२ ।।
न मया कस्यचित्ख्यातं तत्ते वक्ष्यामि सुव्रते ।
भ्रुवोर्मध्ये समाख्यातं देवदेवं महेश्वर ।। १३ ।।
शुद्धस्फटिकसङ्काशं सर्वतत्वप्रकाशकम् ।
वर्जितं दर्शतत्वैश्च दर्शतत्वप्रकाशकम् ।। १४ ।।
दृश्यते च तदा तेजो ज्वलन्तं स्वेन तेजसा ।
दीपौ तस्य समाख्यातौ उभौ तौ शशि भास्करौ ।। १५ ।।
अवस्था स्थिता चेताख्यातयन्तौ सन्ततः ।
इडा दृश्यति वामेन सुषुम्ना दक्षिणेन तु ।। १६ ।।
ताभ्यां मध्ये परं स्थानं यत्र बिन्दुर्व्यवस्थितः ।
प्. ८४१)
घटमध्ये यथा दीपः तद्घटं वै प्रकाशते ।। १७ ।।
उपदेशविहीनस्तु परं तत्वं न दृश्यते ।
यथाऽदर्शो मलैर्ग्रस्तः प्रतिबिंबं न दृश्यते ।। १८ ।।
तद्वद्योगविहीनस्य प्रत्यक्षं न च दृश्यते ।
उभयोरपि पाणिभ्यां धारसंस्थाप्य बुद्धिमान् ।। १९ ।।
उपदेशसमायोगात् दृश्यते बिन्दुरीश्वरः ।
नासा श्रोत्रं तथा चक्षुः उभयोरपिच्छादयेत् ।। २० ।।
षड् द्वाराणि च संस्थाप्य पश्यते बिन्दुमीश्वरम् ।
छादनात् त्यज्यते बिन्दुः शुद्धस्फटिकनिर्मलः ।। २१ ।।
विधुं निर्मलं बिन्दुं स बिन्दुं तेजसान्वितम् ।
प्. ८४२)
शब्दनादविनिर्मुक्तं ध्यातव्यं परमं शिवम् ।। २२ ।।
बिन्दुलीनमनः कृत्वा ध्यायेद्बिन्दुसुयन्त्रितः ।
यथा सर्वगतो वायुं पीठस्थो न च दृश्यते ।। २३ ।।
एवं सर्वगतो बिन्दुः योगहीनो न दृश्यते ।
अरणिस्थो यथा वह्निः विद्यमानो न दृश्यते ।। २४ ।।
योगहीनस्तथा बिन्दुः न तु दृश्यति सुन्दरि ।
संयोगेन तथा बिन्दुः प्रत्यक्षो दृश्यते तदा ।। २५ ।।
सर्पिः क्षीरे यथाऽव्यक्तं विद्यमानं न दृश्यते ।
तद्वत् सर्वगतो बिन्दुः योगहीनो न दृश्यते ।। २६ ।।
यथा सर्पि च अग्निश्च प्रयोगेण तु सुन्दरि ।
प्. ८४३)
प्राप्यते च तथा बिन्दुः योगिनाञ्च महात्मनाम् ।। २७ ।।
तोयकान्तो मणिर्यद्वत् प्रक्षिप्तोऽपि महाहदे ।
प्रकाशयति तत्तोयं आत्मकीडेन तेजसा ।। २८ ।।
उद्धृतेन मणिर्यद्वत् जलमग्नौ प्रकाशके ।
तद्वद्योगविहीनस्य बिन्दुश्चैव न दृश्यते ।। २९ ।।
ध्यानात्सा जायते बिन्दुः संयोगाद्दृश्यते पुनः ।
ध्यानं योगं समाख्याय पश्यते बिन्दुमीश्वरम् ।। ३० ।।
योगिनां प्रत्ययो बिन्दुः प्रत्ययात्प्राप्यते परम् ।
परत्वादपरं नास्ति नित्ययुक्तं सदा भवेत् ।। ३१ ।।
कारणेन तु संप्राप्तिः प्रयोगाच्चैव सुन्दरि ।
प्. ८४४)
कथितं स रहस्यन्तु ज्ञातव्यं योगिभिस्सदा ।। ३२ ।।
दृष्ट्वा बिन्दुर्ज्वलन्तं तु नेत्र मध्ये व्यवस्थितः ।
विज्ञेया च सदा देवि शिखा तस्यैव मध्यतः ।। ३३ ।।
दृश्यते तत्परं सूक्ष्मं बिन्दुकोटिसमप्रभम् ।
तल्लयस्सततं योगी लक्षयेत्सुसमाहितः ।। ३४ ।।
शृणुष्वावहिता देवि नादञ्च बिन्दुदुर्लभम् ।
नव तत्वानि देवेशि यान्युक्तानि नवात्मके ।। ३५ ।।
तेषां मध्ये यकाराद्याः सप्तबीजाः समाहिताः ।
आदिहुङ्कारसंयुक्तः सप्तैते भुविदुर्लभाः ।। ३६ ।।
फट्कारेण समायुक्ताः सद्योद्भ्रमण विश्रुताः ।
प्. ८४५)
सद्यस्सङ्क्रामणन्त्येते एकमेव नियोजिताः ।। ३७ ।।
षष्ठञ्च यत्परं बीजं वर्गान्ते च व्यवस्थितः ।
हाकाररूपसंयोगात् चिन्त्यमानस्तु सोत्क्रमात् ।। ३८ ।।
एवमन्ये समाख्याताः पञ्चबीजं समासतः ।
अकारादिमकारान्ता मकारोकारयोजिताः ।। ३९ ।।
सद्योत्क्रामकराह्येते कथितास्तव शोभने ।
एतास्सप्तसमाख्याताः क्षुरिकाः प्राणहारिकाः ।। ४० ।।
लक्षञ्जपेन्न सन्देहः सत्यं देवि वदाम्यहम् ।
सप्तानान्तु समाख्यातमष्ट ओङ्कार उच्यते ।। ४१ ।।
हुंफट्कारसमायुक्ताः सद्य उत्क्रामयेत्प्रभुः ।
प्. ८४६)
ओङ्कारं सर्वदेवत्यं सर्वव्यापी परश्शिवः ।। ४२ ।।
त्र्यक्षरञ्च त्रिदेवत्यं त्रिमात्राद्यधिकं तथा ।
तत्र चोत्पद्यते शंभुः शब्दातीतस्तु निष्कलः ।। ४३ ।।
परस्सूक्ष्मतरो देवः सर्वपाशविमोचकः ।
नानामार्गस्थितो व्यापी सर्वलोकस्य दुर्लभः ।। ४४ ।।
त्रीणि स्थानानि देहेऽस्मिन् यत्र नादो व्यवस्थितः ।
हृदये चैव कर्णे च भ्रुवोर्मध्ये तथैव च ।। ४५ ।।
यत्र सूत्राकृतिः सूक्ष्मं शुद्धस्फटिकसप्रभम् ।
तुर्यद्वारमिति प्रोक्तं देवयानमिति स्मृतम् ।। ४६ ।।
मार्गत्रयमिति प्रोक्तं नाडीत्रयमिति स्मृतम् ।
प्. ८४७)
देवतानां त्रयञ्चैव शक्तित्रयमिति स्मृतम् ।। ४७ ।।
फलत्रयमिति ख्यातं देहेऽस्मिन् परमेश्वरि ।
सर्वगः सर्वतो व्यापी सर्वमापूर्यतिष्ठति ।। ४८ ।।
अकारं हृदि मध्ये तु जागर्तीत्यवस्थितः ।
पद्मस्य कर्णिकामध्ये ब्रह्मा तत्र व्यवस्थितः ।। ४९ ।।
उकारं कर्णमाश्रित्य ब्रह्मस्थानं तदुच्यते ।
तालुजिह्वमिति ख्यातं द्वितीयं स्थानमुच्यते ।। ५० ।।
अकारन्नेत्रमाध्ये तु सुषुप्तपदमुच्यते ।
लवं कस्य तु तत्स्थानं कथितं तव शोभने ।। ५१ ।।
अर्धमात्रपदे तस्य तुर्यब्रह्मपदे स्थितः ।
प्. ८४८)
मूर्ध्नि स्थानं परं सूक्ष्मं मोक्षमार्गप्रदायकम् ।। ५२ ।।
तुर्यातीतं परं देवि सुसूक्ष्मपदमव्ययम् ।
तं ज्ञात्वा मुच्यते जन्तुः भवेत्संसारबन्धनात् ।। ५३ ।।
तुर्यातीतमिति प्रोक्तं यत्र गत्वा न शोचति ।
एवं व्याप्तमिदं सर्वं वाङ्मयं स चराचरम् ।। ५४ ।।
एतेषां नादमध्ये तु शिवं तत्र व्यवस्थितः ।
हृदयं देहमध्ये तु तत्र पद्मं व्यवस्थितम् ।। ५५ ।।
कर्णिकापद्ममध्ये तु अकारं तस्य मध्यतः ।
तस्य मध्ये विनिष्क्रान्तं नादं परमदुर्लभम् ।। ५६ ।।
उकारञ्च मकारञ्च भित्वा नादो विनिर्गतः ।
प्. ८४९)
तुर्यद्वारविनिष्क्रान्तं द्वयन्तस्य विचिन्तयेत् ।। ५७ ।।
अकारे तु समुत्थाय ब्रह्मद्वारसमुद्गतम् ।
एष शब्दस्समाख्यातो मोक्षमार्गप्रदायकम् ।। ५८ ।।
एतद्ध्यानवरं दिव्यं सेवितव्यं प्रयत्नतः ।
ध्यानेन तु किमन्येन तपसोग्रेण वा पुनः ।। ५९ ।।
किं तीर्थगमनैर्वापि ध्यानैर्वापि सुपुष्कलैः ।
विदन्ते नादसद्भावे बिन्दुदेवे च शोभने ।। ६० ।।
यद्येकं विदितं नादं सूक्ष्ममेकं परापरम् ।
अथापि दीपदेहस्तु आकाशे तु यथा शिवा ।। ६१ ।।
लीना सर्वगता तद्वत् न दृश्यति चांबरम् ।
प्. ८५०)
एवं सूक्ष्माति सूक्ष्मस्य नादतत्वस्य निर्णयः ।। ६२ ।।
एष नादः समुद्दिष्टः सर्वतन्त्रेषु चोत्तमः ।
सूर्यरश्मिसहस्राभा मध्ये नाडी प्रकीर्तिता ।। ६३ ।।
सहिता सर्वतत्वैश्च शक्तिना सह संयुता ।
सा नाडी सर्वशब्दानां तत्वानाञ्चैव शोभने ।। ६४ ।।
सङ्गृह्य समुदायेन शिवतत्वे तु लीयते ।
सूक्ष्मा च सर्वगा चैव ज्ञात्वा ज्ञानी विमुच्यते ।। ६५ ।।
हित्वा सूर्यञ्च सोमञ्च सर्वगः स शिवो भवेत् ।
- * * * * * * * * * * * ##?
- * * * * * ? सा तु नादं तस्यां तु लीयते ।
प्. ८५१)
सूर्यमण्डलमध्ये तु अकारस्तु व्यवस्थितः ।। ६७ ।।
तत्र चोत्पद्यते शब्दो विश्रमेच्छशिमण्डले ।
स्वयं विष्णुस्समुत् * * * * * * * * *
- ? ।। ६८ ।।
- * * * ? परं स्थानं वह्निमण्डलमुत्तमम् ।
मकारेति च विख्यातो भित्वा नादो लयं स्थितः ।। ६९ ।।
पिङ्गलामार्गमापन्ना तुर्यद्वारेति विश्रुता ।
अर्धमात्रा तु * * * * * * * * * *
- ? ।। ७० ।।
ध्यायेत्तु परमं नादं तुर्यद्वारेण योगवित् ।
लयं तस्य तु देवेशे यत्रासौ परमश्शिवः ।। ७१ ।।
तदेव निष्कलं तत्वं चिन्त्यते मोक्षवादिभिः ।
प्. ८५२)
- * * * * * * ? न्ते शिवतत्वविदो जनाः ।। ७२
।।
देव्युवाच -
मण्डलानाञ्च देवानां तत्वानाञ्च महेश्वर ।
हृल्लक्षः परमो ज्ञेयो योगिनाञ्च तथैव हि ।। ७३ ।।
तस्मिन् प्रवर्तते सिद्धिः योगञ्च भु * * * * ? ।
- * * * * * * * * * * *
- ? मर्हसि ।। ७४ ।।
ईश्वरः -
सबीजनिर्बीजविभागेन नवमात्मा परिकीर्तितः ।
ह्रासह्रासविभागेन नानासिद्धिफलप्रदा ।। ७५ ।।
षडक्षरपरञ्चैव पञ्चाक्षरपरं शुभम् ।
प्. ८५३)
चतुरक्षरं विजानीयात् * * * * * * * ? ।। ७६ ।।
- * * * * ? देवेश अङ्गानि कथितानि तु ।
संपूर्णः शिव इत्युक्तः स एव परमेश्वरि ।। ७७ ।।
एकैकह्रसिता ये तु बिन्दुरुकारयोजिता ।
हृदयादि समुद्दिष्टा ज्ञातव्यास्तु वरानने ।। ७८ ।।
- * * * ? एते सर्वे उद्य उत्क्रमणा स्मृताः ।
हृल्लक्षदर्शनं देवि अचिरादेव जायते ।। ७९ ।।
इदमन्यत्परं देवि कथिताम्यनु * * * ? ।
- * * * * * * * * * * ?
श्च तथैव च ।। ८० ।।
यकार उकारसंयुक्तं वर्णत्रयविवर्जितम् ।
प्. ८५४)
ध्यायमानो वरारोहे बीजदीपेन बोधितः ।। ८१ ।।
सप्तरात्रेण पश्येत हृल्लक्षं परमेश्वरि ।
विष्णुलिङ्गानि सङ्का * * * * * * * * *
? ।। ८२ ।।
- * * * * ? ते योगी पीतनीलान्यनेकशः ।
कृष्णशुक्लांस्तथा चान्यान् पश्यते रक्तवर्णकान् ।। ८३ ।।
निजैर्दीपितहृल्लक्षं संहरेत्सप्तमेऽहनि ।
ज्वलते हृदि पद्मे तु निजदीपसुबो * * ? ।। ८४ ।।
- * * * * * * * * * * * ##?
ज्वलते दीप्तवद्देवि हृदयं निजदीपितम् ।। ८५ ।।
हृल्लक्षमेवं विख्यातं ज्ञातव्यं योगिभिस्सदा ।
प्. ८५५)
नाभेरूर्ध्वं वितन्तुकम् * * * * * * * *
? ।। ८६ ।।
- * * * * * * * * * * *
- * * * ? ।
कर्णिकापद्ममध्ये तु बिन्दुस्तस्यैव मध्यतः ।
ज्वलते भगवान् बिन्दुः दीपस्योर्ध्वशिखोपमः ।। ८७ ।।
हृदयं षडक्षरं प्राप्तं बीजं परमदुर्लभम् ।
- * * * * * * * * * * ? त्तो
यथा कविः ।। ८८ ।।
एवमन्येऽपि ये प्रोक्ता वेदितव्या हितैषिभिः ।
कथितं ते महाज्ञानं सर्वज्ञानेषु चोत्तमम् ।। ८९ ।।
इदं तत्परमं * * * * * * * * *
- ? ।
सुवर्णेन सहैकत्वं गच्छते नात्र संशयः ।। ९० ।।
प्. ८५६)
ज्ञानसिद्धिस्तथा देवि पशुर्याति परं पदम् ।
शिवेन च संहैकत्वं गच्छते * * * * * ? ।। ९१ ।।
- * * * ? दशाहाद्वा पश्यते नात्र संशयः ।
दशाहान्नपरं लङ्घेत् पश्यते नात्र संशयः ।। ९२ ।।
एतल्लक्षपरं दिव्यं सेवितव्यं प्रयत्नतः ।
हिताय स * * * * * * * ? तव शोभने ।। ९३ ।।
नवशक्तिसमायुक्तं धर्मज्ञानसमन्वितम् ।
आसनं कल्प्य देवेशि तत्र न्यासन्तु कारयेत् ।। ९४ ।।
पूजयेत्सकलं देवि पञ्चब्रह्म समन्वितम् ।
एकनावरणेनैव पूजनीयो महेश्वरः ।। ९५ ।।
प्. ८५७)
सर्वसिद्धिकरो देवः पूज्यमानो दिने दिने ।
एवं पूज्य यथा न्यायं जपेध्यायेत्प्रयोगवित् ।। ९६ ।।
दशलक्षेण देवेशि मनसा यद्यदीप्सितम् ।
तत्तत्प्राप्नोत्ययत्नेन साधको नात्र संशयः ।। ९७ ।।
इति निश्वासकारिकायां दीक्षोत्तरे बिन्दुनादयोगप्रकरणे पञ्चमः पटलः
-
देव्युवाच -
भगवन् श्रोतुमिच्छामि यजनञ्चानुपूर्वशः ।
येन विज्ञातमात्रेण सिध्यते नात्र संशयः ।।
प्. ८५८)
ईश्वरः -
प्रकृतिञ्चादितः कृत्वा शिवतत्वमपश्चिमम् ।
आद्यमध्ये तु ये तत्वाः कथयामि यथाक्रमम् ।। २ ।।
आदिवक्त्रं लिखेत्पद्मं केसरालं स कर्णिकम् ।
तस्मिन् सर्वमशेषन्तु विधिं कुर्याद्वरानने ।। ३ ।।
देवतमण्डलांश्चैव त्रितत्वेन समन्वितं ।
प्रकृतिर्विन्यसेन्मध्ये मूर्तिना सहसंयुतम् ।। ४ ।।
सकलीकृततत्वैस्तु शिवस्यावाहनं कुरु ।
अनन्तं हृदयं तस्य व्योमरूपं शिरस्मृतम् ।। ५ ।।
व्यापिनी तु शिखा प्रोक्ता अनायकं कवचं स्मृतम् ।
प्. ८५९)
अनासिताभवेदस्तं शिवाङ्गाः परिकीर्तिताः ।। ६ ।।
मकारं हृदयं प्रोक्तमुकारन्तु शिरस्मृतम् ।
ईकारन्तु शिवा देवि आकारं कवचं विदुः ।। ७ ।।
अंकारमस्त्रमित्युक्तं कथितं ह्यनुपूर्वशः ।
ब्रह्माणमस्त्रदैवत्यं कवचं विष्णुदैवतम् ।। ८ ।।
- * * ? हृदयं रुद्रं शिरं ईशानदैवतम् ।
शिवा तु देवदेवेशि त्वमेव परिकीर्तिता ।। ९ ।।
नवात्मानं शिवं विद्यात् सर्वतः परिकीर्तिताः ।
पुरुषं पूर्वतोन्यस्य आग्नेययां नियतिं न्यसेत् ।। १० ।।
कालं दक्षिणपत्रे तु मायां वै नैरृते दिशि ।
प्. ८६०)
विद्या पश्चिमतः प्रोक्ता ईश्वरं वायुगोचरे ।। ११ ।।
सदाशिवं परं तत्वं उत्तरेण तु विन्यसेत् ।
शिवतत्वं परं शुद्धमीशान्यं परिकल्पयेत् ।। १२ ।।
एष ते यजनं देवि प्रकृतेः परिकीर्तितः ।
स्वतत्वं मध्यतः कृत्वा यष्टव्यानि दिने दिने ।। १३ ।।
एवं तत्वान्यजेद्देवि प्रकृत्यादिशिवात्मिकाम् ।
शिवाङ्गा ये जनाः प्रोक्ताः कर्णिकायां व्यवस्थिताः ।। १४ ।।
केयूराः पुष्कलान्तैस्तु कार्या नित्यं सदा बुधैः ।
एष एव विधिर्देविः प्रकृत्यादि शिवान्तिकाः ।। १५ ।।
विधिमेवं सकृत् ज्ञात्वा न भूयो जन्मभाक् भवेत् ।
प्. ८६१)
उत्तिष्ठन्तर्धाने च पादचारे तथैव च ।। १६ ।।
खड्गे च पादुके चैव अञ्जने रेचने तथा ।
गुडिकाकाशगमने दन्तकाष्ठे पवित्रके ।। १७ ।।
विद्वेषाकर्षणेचैव शान्तिके पौष्टिके तथा ।
पूर्वसूत्रेण तु ये प्रोक्ताः तत्सर्वं लभते नरः ।। १८ ।।
एकैकं जपतो मन्त्री जपेन्नानेन मन्त्रतः ।
पुनश्च शृणु देवेशि यजनं कथयामि ते ।। १९ ।।
चिरावरणसंयुक्त * * * * * * * * ? ।
सकलीकृत्य देवेशि निष्कलेन शिवं स्मरेत् ।। २० ।।
चोदिताः पूर्वसूत्रे तु शिवाङ्गाः कथयामि ते ।
प्. ८६२)
सकलं हृदयं देवि सकलाढ्यं शिरस्मृतम् ।। २१ ।।
खमलन्तु शिखा प्रोक्ता क्षपणं कवचं तथा ।
क्षयान्तमस्त्रमित्युक्तं शिवाङ्गाः परिकीर्तिताः ।। २२ ।।
शून्येनैव तु देवेशि तेन तत्वं विचिन्तयेत् ।
विद्याङ्गास्ते तु विज्ञेयाः पूर्वसूत्रे तु ये स्मृताः ।। २३ ।।
हृदयं मध्यतो न्यस्य शिरः पूर्वदले न्यसेत् ।
दक्षिणेन शिखां दद्यात् कवचं पश्चिमेन तु ।। २४ ।।
उत्तरेणास्त्रमित्युक्तं विन्यसेत्तु यथाक्रमम् ।
विद्याङ्गा हृदयं देवि आग्नेययां परिकल्पयेत् ।। २५ ।।
ईशान्यान्तु शिरो दद्यात् एवमादिक्रमेण तु ।
प्. ८६३)
द्वितीयावरणे मन्त्रतत्वानि परिकल्पयेत् ।। २६ ।।
पूर्वमादिक्रमेणैव विन्यसेत्तु यथाक्रमम् ।
एषते कथ्यते देवि तत्वानां यजनं प्रति ।। २७ ।।
प्रकृत्यादि विभागेन यजेत्तमनुपूर्वशः ।
एवं यष्ट्वा तु तत्वानि जपेच्चैव नवात्मकम् ।। २८ ।।
लक्षैकैकं जपेन्मन्त्रं सर्वसिद्धिमवाप्नुयात् ।
मनसा चिन्तितं सर्वं संपादयति मन्त्रिणः ।। २९ ।।
सूत्रेणैव तु यत्प्रोक्तं तत्सिद्धिफलमाप्नुयात् ।
द्विरावरणमेतद्धि यजनं समुदाहृतम् ।। ३० ।।
पुनश्च यजनं वक्ष्ये तत्वानां वरवर्णिनी ।
प्. ८६४)
त्रिभिरावरणैस्तत्वान्यष्ट्वा सिद्धिमवाप्नुयात् ।। ३१ ।।
पञ्चब्रह्मसमायुक्तं शिवाङ्गैश्च समन्वितम् ।
गर्भावरणमेतद्धि कर्तव्यं सुरसुन्दरि ।। ३२ ।।
द्वितीयं तत्वभिः कार्यं विद्याङ्गैश्च तृतीयकम् ।
एवं तत्वगणान् देवि यष्ट्वा सिद्धिमवाप्नुयात् ।। ३३ ।।
चतुरावरणेनैव यष्टव्या तु तवध्यति ।
यं यष्ट्वा सिध्यते मन्त्रं मुच्यते नात्र संशयः ।। ३४ ।।
तत्वानि सिद्धितान्येव कर्मणा मनसा गिरा ।
नानेन सदृशं यागं त्रिषु लोकेषु विद्यते ।। ३५ ।।
साधकानां हितार्थन्तु कथितन्तु तवाखिलम् ।
प्. ८६५)
पञ्चब्रह्म शिवाङ्गैश्च गर्भमेतत्तु कल्पयेत् ।। ३६ ।।
सकलादि शिवाङ्गा ये द्वितीयावरणे न्यसेत् ।
पूर्वसूत्रे तु यत्प्रोक्ता अङ्गाश्चैव नवात्मके ।। ३७ ।।
तृतीयावरणे ते तु यष्टव्या सुसमाहितैः ।
नवात्मपञ्चभिर्भेदैः यन्मया परिकीर्तितम् ।। ३८ ।।
चतुरावरणे ते तु यष्टव्याः साधकोत्तमैः ।
एवं यष्ट्वा ततो मन्त्री जपयोगं समारभेत् ।। ३९ ।।
एष ते कथितो देवि चतुरावरणेन तु ।
बुध्वा स्मृत्वा च मुच्यन्ते साधकाज्जन्मबन्धनात् ।। ४० ।।
पुनरेव प्रवक्ष्यामि शृणु देवि समाहिता ।
प्. ८६६)
यन्न कस्यचिदाख्यातं कथयामि तवाखिलम् ।। ४१ ।।
आवाहरोधसान्निध्यविसर्जनविसर्जितम् ।
न्यासमात्रेण मुच्यन्ते साधकाज्जन्मबन्धनात् ।। ४२ ।।
पूर्वोक्तन्तु विधिं कृत्वा साधकः परमेश्वरि ।
परमाक्षरं न्यसेत्तत्र कर्णिकायान्तु मन्त्रिणा ।। ४३ ।।
सकलादि क्रमेणैव पूर्वादारभ्य विन्यसेत् ।
परमाक्षरस्य योगोयमेवं ते समुदाहृतम् ।। ४४ ।।
सकलं पूर्वदिग्भागे कर्णिकायान्तु विन्यसेत् ।
पूर्वपत्रे पुनर्देवि विन्यसेत्परमाक्षरम् ।। ४५ ।।
आग्नेययां निष्कलं तत्र शून्यतत्वन्तु दक्षिणे ।
प्. ८६७)
कलाढ्यं नैऋते चैव खमलं पश्चिमे तथा ।। ४६ ।।
क्षपणं वायुदेशे तु क्षयान्तञ्चोत्तरे तथा ।
ईशान्यां विन्यसेन्मन्त्री कण्ठोष्ठं परमेश्वरि ।। ४७ ।।
सकलं पद्मपीठन्तु कथितं ह्यनुपूर्वशः ।
आग्नेययां निष्कलं तत्र कर्णिकायान्तु विन्यसेत् ।। ४८ ।।
पूर्वपत्रे तु सकलमाग्नेययां परमाक्षरम् ।
दक्षिणे शून्यतत्वन्तु कलाढ्यं नैर्-ऋतेन तु ।। ४९ ।।
पश्चिमे खमलं प्रोक्तं क्षपणं वायुगोचरे ।
क्षयान्तमुत्तरेणैव कण्ठोष्ठं नैशगोचरे ।। ५० ।।
निष्कलं पद्मपीठन्तु आग्नेययां परिकल्पयेत् ।
प्. ८६८)
दक्षिणे कर्णिकायान्तु शून्यतत्वन्तु विन्यसेत् ।। ५१ ।।
समलं पूर्वपत्रे तु आग्नेययां निष्कलं न्यसेत् ।
परमाक्षरं न्यसेद्देवि दक्षिणे समुदाहृतम् ।। ५२ ।।
कण्ठोष्ठ्यं नैर्-ऋते चैव खमलं पश्चिमे न्यसेत् ।
क्षपणं वायुदेशे तु विन्यसेत्समुदाहृतम् ।। ५३ ।।
शून्यस्य पद्मपीठन्तु कथितं ह्यनुपूर्वशः ।
नैर्-ऋते कर्णिकायान्तु कलाढ्यं विन्यसेच्छुभे ।। ५४ ।।
पूर्वपत्रे तु सकलमाग्नेययां निष्कलं न्यसेत् ।
शून्यं दक्षिणतो न्यस्य नैर्-ऋत्यां परमाक्षरम् ।। ५५ ।।
पश्चिमे खमलं प्रोक्तं आग्नेययां क्षपणं स्मृतम् ।
प्. ८६९)
क्षयान्तमुत्तरेणैव कण्ठोष्ठमीशगोचरे ।। ५६ ।।
चतुर्थन्ते समाख्यातं पञ्चमं शृणु सांप्रतम् ।
पश्चिमे कर्णिकायान्तु खमलः परिकीर्तितः ।। ५७ ।।
पूर्वपत्रे तु सकलमाग्नेययां निष्कलस्मृतः ।
दक्षिणे शून्यतत्वन्तु कलाढ्यं नैर्-ऋतेन तु ।। ५८ ।।
परमाक्षरन्तु देवेशि पश्चिमेव तु विन्यसेत् ।
वायव्यां क्षपणं चैव क्षयान्तञ्चोत्तरेण तु ।। ५९ ।।
कण्ठोष्ठमीशदेशे तु पञ्चमं कथितं तव ।
वायव्यां कर्णिकायान्तु क्षपणः परिकीर्तितः ।। ६० ।।
सकलं पूर्वपत्रे तु आग्नेययां निष्कलं न्यसेत् ।
प्. ८७०)
शून्यञ्च दक्षिणे चैव कलाढ्यं नैऋतेन तु ।। ६१ ।।
खमलं पश्चिमेनैव वायव्यां परमाक्षरम् ।
उत्तरे तु क्षयान्तञ्च कण्ठोष्ठ्यमीशगोचरे ।। ६२ ।।
षष्ठ एष समाख्यातः पीठस्ते परिकीर्तितः ।
उत्तरे कर्णिकापीठे क्षयान्तं तत्वविन्यसेत् ।। ६३ ।।
पूर्वतः सकलं देवि आग्नेययां निष्कलं परम् ।
दक्षिणे शून्यमित्युक्तं कलाढ्यं नैऋतेन तु ।। ६४ ।।
पश्चिमे खमलञ्चैव वायव्यां क्षपणं स्मृतम् ।
परमाक्षरन्तु देवेशि उत्तरेण तु विन्यसेत् ।। ६५ ।।
कण्ठोष्ठ्यं परमं तत्वमीशान्यां परिकल्पयेत् ।
प्. ८७१)
सप्तमं ते समाख्यातं तत्वं सुखरार्चिते ।। ६६ ।।
ईशान्यां कर्णिकापीठे कण्ठोष्ठ्यं परिकल्पयेत् ।
पूर्वपत्रे तु सकलमाग्नेययां निष्कलं परम् ।। ६७ ।।
शून्यं तु दक्षिणे पत्रे कलाढ्यं नैऋतेन तु ।
खमलं पश्चिमे चैव क्षपणं वायुगोचरे ।। ६८ ।।
क्षयान्तमुत्तरे चैव ईशान्यां परमाक्षरम् ।
अष्टमं ते समाख्यातं पीठं परमदुर्लभम् ।। ६९ ।।
नवभागं स्मृतो यागः सर्वभागेषु चोत्तमः ।
न मया कस्यचित्ख्यात याग एष सुदुर्लभः ।। ७० ।।
यष्टेनानेन यागेन कृतार्थच्छिन्नसंशयः ।
प्. ८७२)
व्रजते शिवसायुज्यं निर्मलो विगतज्वरः ।। ७१ ।।
शोध्यं दशदशाहुत्या विंशपञ्चाधिकेन तु ।
पञ्चांशेन शतेनैव दीक्षां कुर्वीत देशिकः ।। ७२ ।।
त्रिशक्तिदीपनं कृत्वा शान्तिके पौष्टितर्पणे ।
कर्तव्यं देशिकेन्द्रेण होमकर्म यथाक्रमम् ।। ७३ ।।
विस्तरे विस्तरं कुर्याद्वित्तशाठ्यन्न कारयेत् ।
स्वचित्तस्यानुसारेण यजनन्तु समारभेत् ।। ७४ ।।
सर्वसंहितसामान्यं सर्वतन्त्रेषु चोत्तमम् ।
एकाशीति विभागन्तु कथितं तव शोभने ।। ७५ ।।
करणैस्सह संयुक्ता पृथिव्यादिरनुक्रमात् ।
प्. ८७३)
एकेनावरणेनैव यजेन्नित्यं समाहितः ।। ७६ ।।
कालयासस्स विज्ञेयः सह तत्वेन सुव्रते ।
एवं * * * * ? यागाः कथिता ह्यनुपूर्वशः ।। ७७ ।।
एवं योजयते देवि साधकस्तु समाहितः ।
पृथिवी तेन सकला सराष्ट्रा नापसंयुता ।। ७८ ।।
यजितं तेन सुश्रोणि भवते नात्र संशयः ।
स ज्ञानी भूतले नित्यं साधकः स शिवं नयेत् ।। ७९ ।।
येन दीक्षितमात्रास्तु पशवः शिवसंमुखाः ।
प्रयान्ति नात्र सन्देहो ज्ञानविच्छिन्नबन्धनात् ।। ८० ।।
सदाशिवशिवश्चैव नादशक्तिस्तथैव च ।
प्. ८७४)
चत्वारो हि महायागाः अकथ्येया वरानने ।। ८१ ।।
तदहं संप्रवक्ष्यामि तदेकाग्रमना शृणु ।
स्थण्डिले मण्डले वाऽपि वायुराकाशमेव च ।। ८२ ।।
अग्निरप्सु च देवेशि यागहोमं समारभेत् ।
मनसा चक्षुषा चैव वचसा च न संशयः ।। ८३ ।।
धारणा कर्मयोगेन मोचयेन्नात्र संशयः ।
एभ्यः प्रवर्तते सर्वं अस्मिन् सर्वमिदं स्मृतम् ।। ८४ ।।
एभ्यः सिद्धिश्च मुक्तिश्च भिक्षिता जायते शुभे ।
पूर्वोक्तन्तु विधिं कुर्यात् कर्णिकायां महेश्वरि ।। ८५ ।।
मूर्तिं विन्यस्य तत्रैव सकलीकरणं ततः ।
प्. ८७५)
पञ्चब्रह्मकलैश्चैव शिवाङ्गैश्च समन्वितः ।। ८६ ।।
आवाहरोधसंयुक्तं ध्यानयोगसमन्वितम् ।
पञ्चभिः ब्रह्मभिश्चैव विधिं कुर्यादशेषतः ।। ८७ ।।
चतुरावरणैर्युक्तं यजेत सुसमाहितः ।
ईशानं मध्यतो दद्यात् पूर्वं तत्पुरुषं न्यसेत् ।। ८८ ।।
अघोरं दक्षिणेचैव वामदेवं तथोत्तरे ।
सद्योजातन्तु देवेशि पश्चिमेन तु विन्यसेत् ।। ८९ ।।
आग्नेययां हृदयं न्यस्य शिर ईशानगोचरे ।
नैऋत्यान्तु शिखां देवि वायव्यां कवचं न्यसेत् ।। ९० ।।
गर्भावरणमेतद्धि कथितं तव सुन्दरि ।
प्. ८७६)
द्वितीयावरणं देवि कथ्यमानं मया शृणु ।। ९१ ।।
घोषं पूर्वेण विन्यस्य रावमग्निं दिशि न्यसेत् ।
स्वनं दक्षिणतो न्यस्य शब्दं नैऋतके न्यसेत् ।। ९२ ।।
स्फोटं पश्चिमतो दद्यात् ध्वनिशब्दन्तु वायवे ।
उत्तरेणैव झङ्कारं ध्वङ्कृतंत्वीशगोचरे ।। ९३ ।।
नवमं यन्महच्छब्दं मध्ये कर्णिकया न्यसेत् ।
उकारादि स्मृता ये तु घोषादीनाञ्च वाचकाः ।। ९४ ।।
तृतीयावरणे देवि कथ्यमानं मया शृणु ।
सकलं पूर्ववक्त्रे तु आग्नेययां निष्कलं न्यसेत् ।। ९५ ।।
शून्यं दक्षिणतो दद्यात् कलाढ्यं नैऋते न्यसेत् ।
प्. ८७७)
खमलं पश्चिमेनैव क्षपणं वायुगोचरे ।। ९६ ।।
क्षयान्तमुत्तरेचैव कण्ठोष्ठन्तु ईशगोचरे ।
परमाक्षरन्तु देवेशि मध्यदेशे तु विन्यसेत् ।। ९७ ।।
तृतीयावरणं देवि कथितं तव शोभने ।
चतुरावरणं देवि प्रकृत्यन्तं तु विन्यसेत् ।। ९८ ।।
पूर्वमादिक्रमेणैव विन्यसेत् यथाक्रमम् ।
एष यागपरं देवि कथितं ह्यनुपूर्वशः ।। ९९ ।।
सर्वस्वं गोपितं ह्येतत् साधकानां हितावहम् ।
सिद्धिदं मुक्तिदञ्चैव नानेन सदृशं भवेत् ।। १०० ।।
निन्दाश्चतुष्कलश्चैव शृणु देवि वदाम्यहम् ।
प्. ८७८)
शान्त्यतीतन्तु हृदयं आग्नेययां परिकल्पयेत् ।। १०१ ।।
सकलाद्याः पुनःपश्चान्नवतत्वा यथाक्रमम् ।
एष सादाशिवो योगः कथितस्तव शोभने ।। १०२ ।।
नादस्यैव प्रवक्ष्यामि कथ्यमानं निबोध मे ।
इडिका दीपिका चैव रेचिका मोचिका तथा ।। १०३ ।।
ऊर्ध्वगामिनि संयुक्तं गर्भमावरणं स्थितम् ।
ऊर्ध्वगामिनि देवेशि न्यसेदाग्नेयगोचरे ।। १०४ ।।
मोचिकेशानदिग्भागे रेचिका नैऋते दले ।
दीपिकान्तु महाभागे वायव्यां परिकल्पयेत् ।। १०५ ।।
हौङ्कारं हृदयं तस्य हुङ्कारन्तु शिरस्मृतम् ।
P. ८७९)
हुङ्कारन्तु शिखा प्रोक्ता हैंकारं कवचं भवेत् ।। १०६ ।।
हःकारमास्त्रमित्युक्तं चतुर्दिक्षु च विन्यसेत् ।
गर्भावरणमेतद्धि कथितं सुरसुन्दरि ।। १०७ ।।
शेषं पूर्ववद्देवेशि आचरेच्च यथाक्रमम् ।
अस्य गुह्यतरं वक्ष्ये शक्तियागमनुत्तमम् ।। १०८ ।।
अस्मात्समाप्यते योगमस्मात्सर्वं प्रवर्तते ।
नानेन कथिता मर्त्या दीक्षानुग्रहकारकाः ।। १०९ ।।
न शक्तिरहितासिद्धि न च याति परं पदम् ।
तस्माच्छ्रेष्ठोपरिष्ठश्च नाख्येन परिदीक्षणे ।। ११० ।।
न रजोमण्डलश्चैव न लुप्ते तु परिग्रहम् ।
प्. ८८०)
अधिवासनञ्चैवत्रि सर्वशेषविवर्जितम् ।। १११ ।।
सानुमेतत्समाख्यातं साधकानां हितावहम् ।
सर्वसंहितसामान्यं यन्महत्सर्वतोमुखम् ।। ११२ ।।
आवाहरोधसान्निध्य विसर्जनविवर्जितम् ।
न्यासमात्रेण मुच्यन्ते साधकाजन्मबन्धनात् ।। ११३ ।।
चतुष्वक्त्रं लिखेत्पद्मं केसरोज्वलसकर्णिकम् ।
आसनं कल्पयेन्मन्त्री तत्र न्यासन्तु कारयेत् ।। ११४ ।।
पञ्चब्रह्मशिवाङ्गैश्च शिवेन सहसंयुतम् ।
पूजयित्वा विधानेन देवदेवं महेश्वरम् ।। ११५ ।।
ईशानं मध्यतो दद्यात् पूर्वे तत्पुरुषं न्यसेत् ।
प्. ८८१)
अघोरं दक्षिणे चैव वामदेवं तथोत्तरे ।। ११६ ।।
सद्योजातन्तु देवेशि पश्चिमेन तु विन्यसेत् ।
आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरो न्यसेत् ।। ११७ ।।
नैऋत्यां तु शिखां देवि वायव्यां कवचं न्यसेत् ।
अस्त्रं दिशासु विन्यस्य मकाराद्यास्तु ये स्मृताः ।। ११८ ।।
परमाक्षरं न्यसेन्मध्ये कर्णिकायां महेश्वरि ।
दक्षिणे कर्णिकापीठे विन्यसेच्च नवात्मकं ।। ११९ ।।
विद्याङ्गा हृदयं तस्य विन्यसेत्सुरसुन्दरि ।
शिरः शिखा च कवचमस्त्रञ्चैव यथाक्रमम् ।। १२० ।।
प्रकृतिः दक्षिणे पत्रे पुरुषं नैऋतेन तु ।
प्. ८८२)
पश्चिमे नियतिं दद्यात् वायव्यां कलविन्यसेत् ।। १२१ ।।
मायातत्वोत्तरेणैव ईशान्यां विद्य एव तु ।
ईश्वरं पूर्वतत्वं आग्नेययां तु सदाशिवम् ।। १२२ ।।
पश्चिमे कर्णिकामध्ये शान्त्यतीतन्तु विन्यसेत् ।
आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरोन्यसेत् ।। १२३ ।।
नैऋत्यान्तु शिखां देवि कवचं वायुगोचरे ।
उत्तरे कर्णिकायान्तु प्रणवः परिकल्पयेत् ।। १२४ ।।
शान्त्यतीतन्तु हृदयं शान्तिश्च शिर उच्यते ।
विद्याशिखा समाख्याता प्रतिष्ठां कवचं विदुः ।। १२५ ।।
निवृत्तिरस्रमित्युक्तं शिखाङ्गाः परिकीर्तिताः ।
प्. ८८३)
घोषन्तु पूर्वदिग्भागे आग्नेययां रवमेव च ।। १२६ ।।
दक्षिणे तु स्वनः प्रोक्तः शब्दं नैऋतगोचरे ।
पश्चिमेन स्मृतः स्फोटो ध्वनिः वायव्यतो न्यसेत् ।। १२७ ।।
झङ्कारमुत्तरेणैव ध्वंकृतं शैवगोचरे ।
पूर्वतः कर्णिकामध्ये रुद्रोङ्कारन्तु विन्यसेत् ।। १२८ ।।
आग्नेयां हृदयञ्चैव ईशान्यान्तु शिरो न्यसेत् ।
नैऋत्यान्तु शिखा प्रोक्ता वायव्यां कवचं तथा ।। १२९ ।।
अस्त्रे हस्तप्रदेशे तु ह्रस्वं वै संप्रयोदयेत् ।
शान्तिं पूर्वदिशाभागे विद्यां दक्षिणतो न्यसेत् ।। १३० ।।
प्रतिष्ठामुत्तरेणैव निवृत्तिः पश्चिमेन तु ।
प्. ८८४)
शान्त्यतीतं परं तत्वमस्त्रं देवस्य कीर्तितम् ।। १३१ ।।
सूक्ष्मवायुदिशाभागे सुसूक्ष्मा नैऋतेन तु ।
अमृताचाग्निदिग्भागे कथिता तत्वशोभने ।। १३२ ।।
अमृता मृता तु ईशान्यां कथिता तु वरानने ।
एष यागवरो देवि नामृतः कस्यचिन्मया ।। १३३ ।।
मम प्रियेति भक्तेति तेन ते कथितो मया ।
एवं यष्ट्वा तु विधिना दीक्षां कुर्याद्विचक्षणः ।। १३४ ।।
शतेन पञ्चविंशेन पञ्चाशेन दशेन तु ।
पञ्चस्वशिखां हुत्वा दीक्षानिर्वाणगामिनी ।। १३५ ।।
इति निश्वासकारिकायां दीक्षोत्तरे यागाधिकारः षष्ठः पटलः -
प्. ८८५)
देव्युवाच -
भगवन् श्रोतुमिच्छामि दीक्षाविधिमनुत्तमम् ।
प्रक्रियाशून्यमन्त्राणां शासनं ग्रहणं तथा ।। १ ।।
तद्वरञ्च महादेव कस्मिन् कार्यं महेश्वर ।
छेदनं कुत्र वा तेषां शुद्धतत्वस्य शङ्कर ।। २ ।।
सकलं निष्कलञ्चैव तथा सकलनिष्कलम् ।
त्रितत्वं परतत्वञ्च तदेव कथयस्व मे ।। ३ ।।
मन्त्राध्ययनकर्माणि अमृतीकरणं तथा ।
प्. ८८६)
यानि श्रेयस्तमानिस्युः कथयस्व प्रसादतः ।। ४ ।।
अन्यत् गुह्यतिमन्देव यन्नोक्तं न प्रचोदितम् ।
तदस्मिन् सर्वमस्माकं कथयस्व प्रसादतः ।। ५ ।।
ईश्वरः -
शृणु देवि परं गुह्यं कथयामि तवाखिलम् ।
गुह्यात् गुह्यतरं देवि नाख्यातं कस्यचिन्मया ।। ६ ।।
प्रक्रिया सूत्रमन्त्राणां यथावदनुपूर्वशः ।
अनन्तमादितः कृत्वा शिवतत्वमपश्चिमम् ।। ७ ।।
कथयामि समासेन संख्याध्वानस्य यावती ।
अधस्तात्परमेशानो ह्यनन्तः परमेश्वरः ।। ८ ।।
प्. ८८७)
तं हुत्वा देवदेवेशि कालाग्नं समुपक्रमेत् ।
याम्ये श्रोता तव प्रोक्ता तस्य ते भुवना स्मृताः ।। ९ ।।
अनुक्रमेण तान् सर्वान् सहसैवाधिकारिभिः ।
तस्योपरि समाख्याता नरका घोररूपिणः ।। १० ।।
शतमेकन्तु देवेशि चत्वारिंशत्तथैव च ।
अनुक्रमेण तान् सर्वान् शोधयेत् परमेश्वरि ।। ११ ।।
उपरिष्टात्तु देवेशि पातालास्सप्त एव तु ।
शोधनीयास्तु देवेशि क्रमेण वरवर्णिनी ।। १२ ।।
भुवना भुवनाधीना भुवनान्तर्निवासिनः ।
कथितास्तु समासेन एकविंशदनुक्रमात् ।। १३ ।।
प्. ८८८)
उपरिष्टात्तु भूर्लोकं आदितः कथयाम्यहम् ।
त्रिगुणेन स्थिता देवि पातालेन समासतः ।। १४ ।।
अष्टधा देवयोन्यस्तु पञ्चधा तिर्यगादयः ।
एकधा चैव मानुष्या ज्ञेयं संसारमण्डलम् ।। १५ ।।
ब्रह्मादिमुद्धरेद्देवि यावद्ब्रह्मादिमागतम् ।
एवं संसारचक्रन्तु कथितं तव शोभने ।। १६ ।।
गर्भाधानादिमारभ्य तथा देवव्रतानि तु ।
हविर्यज्ञाः पाकयज्ञाः सोमसंख्यास्तथैव तु ।। १७ ।।
संस्काराश्च समाख्याताश्चत्वारिंशत्क्रमेण तु ।
अष्टाधिकाश्च ज्ञातव्यं देशिकेन तु ।। १८ ।।
प्. ८८९)
एतान् हुत्वा ततो मन्त्री सहस्रक्रतवो न्यसेत् ।
पदं प्राप्य परित्यज्य अन्त्येष्टस्तदनन्तरम् ।। १९ ।।
अन्त्येष्टिञ्च ततो हुत्वा ऊर्ध्वं कृत्वा नियोजयेत् ।
भोगस्थानेषु संयोज्य तस्माद्भोगाद्वियोजयेत् ।। २० ।।
वियोजयित्वा तद्भोगान् पुर्यष्टकसमन्वितान् ।
भूर्लोके तु ततो योज्य भुवर्लोकं ततो नयेत् ।। २१ ।।
एवमादिक्रमेणैव ब्रह्मणि स्वासने तथा ।
रुद्रासने ततो योज्य सद्धि दण्डक्रमेण तु ।। २२ ।।
ध्यात्वा पाशुपतं देवि अस्त्रं परमदुर्जयम् ।
तेन चाहुतयस्सप्त दद्याच्छुध्यर्थकारणात् ।। २३ ।।
प्. ८९०)
शतरुद्रे तु संयोज्य शतस्थाने यथाक्रमम् ।
एवन्तु पृथिवी शुद्धा शतरुद्रस्तु योजिता ।। २४ ।।
अनन्तमादितः कृत्वा पातालं हेमसंज्ञितम् ।
शतमेकोनषष्टिञ्च कथितं तव शोभने ।। २५ ।।
भुवनान् भुवनाधीशान् भुवनान्तर्निवासिनः ।
प्रीणयित्वा कृतान् प्राज्ञः तत्वे तत्वे यथाक्रमम् ।। २६ ।।
ओं भुवनाय नमः । ओं भुवनाधिपतये नमः । ओं
भुवनान्तर्निवासिभ्यः ।
भुवव्यूहहोमन्तु कर्तव्यं देशिकेन तु ।
भुवनान्तर्निवासीनां शिखेनैवाहुतिं हुनेत् ।। २७ ।।
प्. ८९१)
एवं स शोधनार्थस्तु देशिकेन महात्मना ।
पार्थिवावरणं देवि अनन्तादिरनुक्रमात् ।। २८ ।।
कथयामि समासेन भुवनानां वरानने ।
शतद्वयं समाख्यातं तथा चैकोन सप्ततिः ।। २९ ।।
कूश्माण्डेन सहैकत्वं कथितन्तु समासतः ।
पञ्चाष्टकं पुनश्शोध्यं पञ्चधावरणैः क्रमात् ।। ३० ।।
येन येनाष्टकञ्चैव योगाष्टकमतः परम् ।
क्रोधाष्टकन्तु ज्ञातव्यं देशिकेन महात्मना ।। ३१ ।।
तानेव शोधयेद्देवि तेजोष्टकमतः परम् ।
तेजोष्टके तु संशुद्धे शिवद्वादशकं पुनः ।। ३१ ।।
प्. ८९२)
महादेवाष्टकञ्चैव वीरभद्रं तथैव च ।
मण्डलाधिपतिञ्चैव कथितं तव शोभने ।। ३२ ।।
एतान् शोध्यविधानेन प्रधानमुपरि हुनेत् ।
गुणत्रयं बुद्धितत्वं शोधनीयं यथाक्रमम् ।। ३३ ।।
बुध्या च तत्वपर्यन्तं प्रधानस्य तदन्तरे ।
क्रोधतेजोष्टकं शोध्यं योगिभिः स शिवैस्सह ।। ३४ ।।
वीरभद्रेण संयुक्तं मण्डलाधिपतेन तु ।
गुरुपङ्क्तित्रयं देवि गुरोरन्तरितास्तथा ।। ३५ ।।
साम्यावस्था गुणानान्तु तत्प्रधानं प्रवक्ष्यते ।
एतत्प्रधानमित्युक्तं बहुविस्तरतः स्थितम् ।। ३६ ।।
प्. ८९३)
कथितन्तु समासेन वेदितव्यं वरानने ।
तयो रूपाः समाख्याताः तत्वानान्तु पुरा मया ।। ३७ ।।
तेन रूपेण तान् रुद्रान् ज्ञात्वा शोध्येन सुवृते ।
अनन्तमादितः कृत्वा प्रधानान्तस्तथावधि ।। ३८ ।।
शतानि चतुरः प्रोक्ताः चतुश्चत्वारिंशत्पुनः ।
अतः परतरञ्चैव पुरुषं कथयामि ते ।। ३९ ।।
येन विज्ञातमात्रेण मुच्यन्ते नात्र संशयः ।
अंभाद्याः शोधने तत्र पौरुषे तु यथाक्रमम् ।। ४० ।।
मणिमातरमंभानां कथयामि समासतः ।
धर्मो दशविधः प्रोक्तः तव देवि न संशयः ।। ४१ ।।
प्. ८९४)
विकारषोडशः प्रोक्ताः बुद्धिरष्टविधा स्मृताः ।
अहंकारस्तु त्रिविधो गुणत्रयमुदाहृतम् ।। ४२ ।।
प्राणः पञ्चविधश्चैव विद्धि विद्याष्टकं तथा ।
विग्रहाष्टकसंयुक्ता शोधनीयाः प्रयत्नतः ।। ४३ ।।
कामक्रोधश्च लोभश्च जन्ममृत्युजरास्तथा ।
व्याधिश्च शाश्वतो लोके क्षुत्तृष्णाशोकमेव च ।। ४४ ।।
विवादश्च भयश्चैव मदमोहस्सुदारुणः ।
राणश्शोकश्च मोहश्च मदमात्सर्यमेव च ।। ४५ ।।
धर्माधर्मश्च तृष्णा च अस्वतन्त्रा सदा तनुः ।
एते बन्धात्मका पाशाः गणपाशीमतोऽन्यथा ।। ४६ ।।
प्. ८९५)
तत्वपाशाश्च विविधा तत्वे तत्वे व्यवस्थिताः ।
देशपाशास्तु ये तस्य शिवेन परिकीर्तिताः ।। ४७ ।।
वौषट्कारन्तु युक्तेन शोधनीयास्तु देशिकैः ।
शतपञ्चाशतेनैव पञ्चविंशेन वा पुनः ।। ४८ ।।
दशपञ्च दशेनापि त्रयः पञ्चद्वयेन वा ।
एकाहुत्या तु देवेशि शोधनीयाः शिवाध्वरे ।। ४९ ।।
एष ते होमभेदस्तु कथितो वरवर्णिनी ।
ध्यात्वा भक्तिमयं शिष्यं दीक्षां कुर्यात्तु देशिकः ।। ५० ।।
भुवनानान्तु या संख्या शिवेन कथिता पुरा ।
शतमेकन्तु विख्याता नियत्यां भुवनाधिपाः ।। ५१ ।।
प्. ८९६)
सर्वे पद्मासनासीनाः विद्याविद्येश्वरैर्व्रताः ।
शुक्लकृष्णविभागस्थां ध्यात्वा शोध्येत मोक्षकः ।। ५२ ।।
शुद्धबुद्धप्रबुद्धश्च दशैते भुवनाधिपाः ।
कालतत्वे तु विख्याता कोट्यनेकपरिग्रहाः ।। ५३ ।।
रागतत्वे दशप्रोक्ताः भुवनेशा महाबलाः ।
सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनिः ।। ५४ ।।
एवमादिक्रमेणैव वेदनीयो मुमुक्षुभिः ।
अतः परतरेणैव विद्येशानाः प्रकीर्तिताः ।। ५५ ।।
कल्याणः पिठलो हंसाः एवमादि प्रकीर्तिताः ।
विद्यातत्वे तु ज्ञातव्याः देशिकेन महात्मना ।। ५६ ।।
प्. ८९७)
कालतत्वे तु विज्ञेया ये रुद्रा भुवनाधिपाः ।
विधिना शोधनीयास्तु देशिकेन महात्मना ।। ५७ ।।
वामज्येष्ठः तथा भीमः एवमादि प्रकीर्तिताः ।
गोपतेश्च तदोर्ध्वन्तु ग्रथिद्वारे व्यवस्थिताः ।। ५८ ।।
असंख्या रुद्रकोटीभिः गोपतिः परिवारितः ।
अतः परतरेणैव त्रिकालः क्षेमीश एव च ।। ५९ ।।
एवमादिक्रमेणैव पञ्चरुद्राः प्रकीर्तिताः ।
योगक्षेमप्रदातारा दीक्षाध्वानविशोधिताः ।। ६० ।।
अत ऊर्ध्वमनन्तेश पाशाश्चैव तु संस्थिताः ।
मदमोहसमायुक्तं एवमादिमहाशये ।। ६१ ।।
प्. ८९८)
पुना ऋषिकुले प्रोक्तं ततो वागीश्वरी पुनः ।
छङ्कारसाध्यमोङ्कार दातारदवनेशिकम् ।। ६२ ।।
ध्यानाहारञ्च भस्मेशं परिवार्य विचक्षणः ।
प्रमाणाष्टकमेवापि मायावरणसंस्थितः ।। ६३ ।।
रुद्राङ्कुशन्तु प्रथमं व्यूहमन्त्रे प्रतिष्ठितम् ।
एवमादीनि हुत्वा तु मुनेत्मनां विधानवित् ।। ६४ ।।
नियमादितः कृत्वा मायातत्वमपश्चिमम् ।
एभ्यो मध्ये तु ये रुद्राः कथयाम्यनुपूर्वशः ।। ६५ ।।
नियत्यां दश रुद्रास्तु कालतत्वे दश स्थिताः ।
रगेऽपि च दश प्रोक्ताः विद्यायां न पुनर्दश ।। ६६ ।।
प्. ८९९)
कालतत्वे दश प्रोक्ताः ग्रन्थेरेकः प्रकीर्तितः ।
उपरिष्टात्पुनः पञ्चमायातत्वा तु संस्थिताः ।। ६७ ।।
अत ऊर्ध्वमनन्तेशपाशाश्चैव तु संस्थिताः ।
मदमोहादि संयुक्ताः पाशहस्ता महाबलाः ।। ६८ ।।
एवमादिक्रमेणैव यावन्मायान्त संस्थिताः ।
संख्या वै भुवनानान्तु सप्ततिः सप्तचाधिकाः ।। ६९ ।।
आत्मतत्वमिदं प्रोक्तमशुद्धं परिकीर्तितम् ।
अनन्तमादितः कृत्वा मायातत्वमपश्चिमम् ।। ७० ।।
येभ्यो मध्ये तु ये रुद्रास्तान् प्रवक्ष्यामि संख्यया ।
एकसंशीकृतास्सर्वे कथयामि तवाखिलम् ।। ७१ ।।
प्. ९००)
शतास्तु षट् समुद्दिष्टा चत्वारिंशत्तथैव च ।
भुवना सप्तचाधिक्यं कथितं तव शोभने ।। ७२ ।।
एवं ध्यात्वा विधानन्तु शोधयेदविशङ्कितः ।
आत्मतत्वमिदं ख्यातं मायान्तं सुरसुन्दरि ।। ७३ ।।
वेदितव्यं प्रयत्नेन विद्याया शृणु सांप्रतम् ।
अनन्तेशादितः कृत्वा होतव्यमनुपूर्वशः ।। ७४ ।।
भुवने संस्थितास्सर्वे बोधनीया विचक्षणैः ।
ईश्वरे शोधनीयास्तु मायाञ्जनविवर्जिताः ।। ७५ ।।
अतो रूपचतुष्टयं होतव्यमनुपूर्वशः ।
वामाज्ज्येष्ठादयस्तस्मात् शक्तयः परिकीर्तिताः ।। ७६ ।।
प्. ९०१)
अतो ज्ञानक्रियाशक्तिः ज्ञातव्याः पुनरेव हि ।
तां विदित्वा महादेवि देशिकः पाशहा भवेत् ।। ७७ ।।
तेजीशश्च ब्रवीशश्च प्रमाणे परमं पदम् ।
द्वौ रुद्रौ तु समाख्यातौ योगमोक्षफलप्रदौ ।। ७८ ।।
ततः प्राणः स्मृतो देवि ब्रह्मदत्तं ततः पुनः ।
चत्वारस्तु स्मृता रुद्राः योगमोक्ष फलप्रदाः ।। ७९ ।।
एकाहः पिङ्गलो हंसो रुद्रत्रयमुदाहृतम् ।
अतोपरि ध्रुवं देवि रुद्रैकादशकं पुनः ।। ८० ।।
ब्रह्मदत्तादि संयुक्ता जंभिकान्ताः प्रकीर्तिताः ।
तेषां तु परतो देवि ध्रुवश्चैव तृतीयकः ।। ८१ ।।
प्. ९०२)
सप्तकोटिपरीवारा स्थिता भुवननायकाः ।
अतो निरञ्जनं प्रोक्तं तस्य संख्या न विद्यते ।। ८२ ।।
निरञ्जनमतिक्रम्य इच्छाशक्तिर्व्यवस्थिता ।
अतश्चैवोपरिष्टात्तु अष्टौ ते भुवनेश्वराः ।। ८३ ।।
प्रतिराद्या स्मृता देवि प्रद्यतान्ताः प्रकीर्तिताः ।
शोधनीया वरारोहे योगक्षेमप्रदायकाः ।। ८४ ।।
संस्थिता सूक्ष्मरूपेण प्रतिच्छाया विधायिनी ।
अतः परं निरालंबं सर्वध्यान विवर्जितम् ।। ८५ ।।
स्वशक्तिकिरणायानं सर्वं व्याप्य व्यवस्थितम् ।
नापरं न परञ्चैव परापरविवर्जितम् ।। ८६ ।।
प्. ९०३)
सर्वज्ञानपरातीतं निस्संदिग्धमवस्थितम् ।
पारंपर्येण संस्थञ्च निर्मलं परमं पदम् ।। ८७ ।।
न तस्य शक्यते वक्तुं विज्ञेयो निष्कलश्शिवः ।
तेन सर्वमिदं व्याप्तं कल्पनातीतलक्षणम् ।। ८८ ।।
न च वस्त्वन्तरं किञ्चित् न्यस्तत्वाद्ध्वनिरुच्यते ।
ओतप्रोतमनाद्यन्तं सर्वतत्वावभासकम् ।। ८९ ।।
एतत् ज्ञानं परातीतं ज्ञानसद्भावमिष्यते ।
एतत्ते कथितं देवि भुवनानां समासतः ।। ९० ।।
संक्षेपेण मया प्रोक्तं भुवनाध्वा तु शोभने ।
विद्यातत्वे तु देवेशि भुवनेशाः प्रकीर्तिताः ।। ९१ ।।
प्. ९०४)
ईश्वरेऽपि तथैवाह तथा चैव सदाशिवे ।
तान् प्रवक्ष्याहं देवि गुणतत्वेन सुव्रते ।। ९२ ।।
अतीतभुवनाः प्रोक्ताः विद्यातत्वे समासतः ।
विदित्वा शोधने देवि देशिकः तत्वपारगः ।। ९३ ।।
शिवतत्वे तु ये प्रोक्ताः शिवेन परमात्मना ।
एकसंख्यैकतः कृत्वा प्रवक्ष्यामि वरानने ।। ९४ ।।
शतं वै सप्तदेवेशि भुवनानां प्रकीर्तिताः ।
विंशद्वयञ्च ज्ञातव्यं देशिकेन महात्मना ।। ९५ ।।
अमनस्का इति सहस्रेण भुवनाध्वानि शुद्ध्यति ।
पूर्णाहुत्या शतेनापि विशुद्ध्यते नात्र संशयः ।। ९६ ।।
प्. ९०५)
निष्कलेन दशेनैव शून्ये पञ्चाहुतिस्तथा ।
प्रशान्तेन त्रयः प्रोक्ताः सर्वाध्वानमशेषतः ।। ९७ ।।
षट्त्रिंशत्तत्वैरध्वानं सकलेन तु होमयेत् ।
प्रणवेन समाख्यातं शान्त्यतीतेन वा पुनः ।। ९८ ।।
परमाक्षरेण होतव्यं परात्मनो महेश्वरि ।
कालाध्वनं वरारोहे भुवनाध्वेन होमयेत् ।। ९९ ।।
तथा ध्वनेषु तज्जेता होमयेच्च शतं शतम् ।
कलाध्वाने तथैवेह कथितं तव शोभने ।। १०० ।।
एवं संक्षेपतः प्रोक्तं तत्वाध्वानं विशेषतः ।
वेदितव्यं प्रयत्नेन देशिकेन महात्मना ।। १०१ ।।
प्. ९०६)
समयी पुत्रको वाऽथ साधकाचार्य एव च ।
उपपन्नाय दान्ताय गुरुदेवरताय च ।। १०२ ।।
तेषामनुग्रहं कार्यमाचार्येण महात्मना ।
पूजयित्वा विधानेन देवदेवं महेश्वरम् ।। १०३ ।।
अग्नौ हुत्वा यथा न्यायं हस्ते यागं यजेद्बुधः ।
सव्यहस्ते तु यष्टव्यं वामहस्तेन संव्रते ।। १०४ ।।
पूजयित्वा विधानेन अध्वाधः क्रमशो न्यसेत् ।
गन्धैः पुष्पैः यथा न्यायं पूजयित्वा विधानवित् ।। १०५ ।।
ध्यात्वा देवं महेशानं शिष्यमाहूय मन्त्रवित् ।
आत्मन्येवं वशीकृत्य शिष्यस्य परमेश्वरि ।। १०६ ।।
प्. ९०७)
आलभ्य शिवहस्तेन तस्य देहं समन्ततः ।
तत्वानि देहतोऽन्यस्य स्थानन्तु शिरसि न्यसेत् ।। १०७ ।।
ज्वालामालाकलाकारं ध्यात्वा देवं महेश्वरि ।
ध्यात्वा देवं महेशानं भूमिमध्ये तु तत्ववित् ।। १०८ ।।
पुण्यपापं दहेत्तस्य ध्यात्वा देहं न संशयः ।
एवं कृते ततो देवि शिवहस्तेति स स्मृतः ।। १०९ ।।
शिवहस्तप्रदानेन समयी स विधीयते ।
अनेन विधिना देवि कुर्यात्तस्याप्यनुग्रहम् ।। ११० ।।
सायुज्यमीश्वरे तत्वे भवते नात्र संशयः ।
भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्समाधिपे ।। १११ ।।
प्. ९०८)
पन्नकेभ्यस्तु सुश्रोणि अवध्यस्त्रिदशैरपि ।
अध्वानं कुरुते सोहि न तु न व्यापयेत्परम् ।। ११२ ।।
समयी सर्वतन्त्रेषु भवते नात्र संशयः ।
पुत्रको येन देवेशि कथ्यते शिवयोगिभिः ।। ११३ ।।
तदहं संप्रवक्ष्यामि कथ्यमानं निबोध मे ।
गणयागादितः कृत्वा दृष्ट्वा खेर्मण्डलानि तु ।। ११४ ।।
हुत्वा तु विधिवद्देवि तत्वपाशैर्वियोजितः ।
योजितस्तु परे तत्वे पुत्रकस्स विधीयते ।। ११५ ।।
स एव मन्त्रकल्पज्ञो मन्त्रतन्त्र विधानवित् ।
मन्त्रकल्पसुवेत्ता च देशकालविधानवित् ।। ११६ ।।
प्. ९०९)
जपयोगविधानज्ञः तत्वज्ञश्च विधानवित् ।
तापने दीपने चैव छेदने च तथैव च ।। ११७ ।।
मोहनस्तंभने चैव संपुटज्ञस्तथैव च ।
परमन्त्रविभेदज्ञो मन्त्राप्यायनतत्परः ।। ११८ ।।
देशजातिविभेदज्ञः योजनाय च तत्परः ।
पातने दैत्यभूतेभ्यः सिंहविद्याधरेष्वपि ।। ११९ ।।
सर्वज्ञश्च कृतज्ञश्च शौचाचार समन्वितः ।
समर्थश्च परित्यागी जपासक्तस्सदा मतः ।। १२० ।।
चतुष्पात् संज्ञिताभिज्ञः कलाभिज्ञस्तथैव च ।
उत्साहवान् सदा दक्षः साधकस्स विधीयते ।। १२१ ।।
प्. ९१०)
कलशाष्टदशेनैव नवपञ्चदशेन वा ।
अभिषेकप्रदातव्यं देशिकेन महात्मना ।। १२२ ।।
संपुटीकृत्य विद्याख्यं कलशं सुरसुन्दरी ।
अभिषिञ्चेत्ततः शिष्यं विधिदृष्टेन कर्मणा ।। १२३ ।।
पृथिव्यादि समारभ्य मायातत्वमपश्चिमम् ।
संपुटीकृत्य पश्चात्तु विद्याख्येनाभिषेचयेत् ।। १२४ ।।
एवञ्चैवाभिषिक्तस्तु साधकस्स विधीयते ।
पृथिवीमादितः कृत्वा निर्वाणान्तेन शोभने ।। १२५ ।।
अभिषिक्तस्तु देवेशे आचार्यस्स विधीयते ।
मण्डलस्येशभागे तु कुर्याद्वै चतुरङ्गकम् ।। १२६ ।।
प्. ९११)
चतुर्हस्तसुविस्तारं हस्तमात्रसमुच्छ्रितम् ।
तोरणैस्सपताकैश्च दिशासु विदिशासु च ।। १२७ ।।
पीठमेवं विधं कृत्वा आचार्यस्सुसमाहितः ।
अकालमूलकलशैश्चन्दनेनोपलेपितैः ।। १२८ ।।
चूतपल्लवसंयुक्तैः दूर्वाङ्कुरसमन्वितैः ।
सर्वोषधि समायुक्तैः एकैकं कलशं कुरु ।। १२९ ।।
पञ्चब्रह्म शिवाङ्गैश्च शिवेन सहसंयुतम् ।
एकैककलशे देवि विन्यसेत यथाक्रमम् ।। १३० ।।
समुद्रास्सप्त सप्तैव एकैककलशे न्यसेत् ।
पृथिव्यादीनि कलशे विन्यसेत यथाक्रमम् ।। १३१ ।।
प्. ९१२)
कौतुकैर्मङ्गलैश्चैव स्त्रीसङ्गीतकसंयुतैः ।
वेदशब्दजयाकारैः पूर्वादारभ्य शोभने ।। १३२ ।।
अभिषिञ्चेच्च मतिमान् पृथिव्यादि समायुतम् ।
निर्वाणकलशं यावत् एष एव विधिस्मृतः ।। १३३ ।।
अभिषिक्तं तदा शिष्यं आनयेच्छिवसन्निधौ ।
अर्घ्यादिभिस्समभ्यर्च्य अधिकारं समर्पयेत् ।। १३४ ।।
संहितां सुक् स्रुवञ्चैव करणीं कर्तरीं तथा ।
कर्तव्योऽनुग्रहं नित्यं चतुराश्रमसंयुतम् ।। १३५ ।।
व्याख्याचानुग्रहश्चैव गुरुशिष्यप्रबोधनम् ।
स्वल्पमह्नि जपं कार्यं स्वल्पमन्हौ तु होमयेत् ।। १३६ ।।
प्. ९१३)
स्वल्पं वै ध्यानमुत्तिष्ठेत् सत्रमेतत्सदा गुरौ ।
एतेऽधिकारा ये प्रोक्ताः शिवज्ञाने विकल्पिताः ।। १३७ ।।
एवन्तु श्रावयेद्देवि आचार्यस्तत्वपारगाः ।
एवं कुर्वामहे तात यत्त्वया कथितं मम ।। १३८ ।।
सुविकल्पेन मे कार्या शिवाज्ञा यत्त्वयोदिता ।
एवं त्वं पूजयित्वा तु आचार्यः सुमहामतिः ।। १३९ ।।
प्रणिपत्य यथा न्यायं ततो देवं विसर्जयेत् ।
विसर्जिते ततो देवि गुरुपूजामुपक्रमेत् ।। १४० ।।
मण्डलं हस्तमात्रन्तु लिखित्वा तु समाहितः ।
तत्रस्थं स्थाप्य पूज्येत यथाविधि पुरस्सरम् ।। १४१ ।।
प्. ९१४)
मन्त्रैकादशकेनैव पूजयेत यथाक्रमम् ।
यथा भगवतः पूजां कुर्यादाचार्यकस्य तु ।। १४२ ।।
वित्तशाठ्यन्न कुर्वीत आचार्यं प्रतिसाधकः ।
शिववत्पूजयेद्देवि आचार्यं तन्त्रपारगम् ।। १४३ ।।
तेन पूजितमात्रेण शिवो भवति देशिकः ।
तत्प्रसादाद्भवेत्सिद्धिः मुक्तिश्चैव शिवोदिता ।। १४४ ।।
तस्मात्पूज्येत देवेशि आचार्यं तत्र पारगम् ।
कर्णिकाकटकैर्वस्त्रैः मेखलैर्मकुटैस्तथा ।। १४५ ।।
ग्रामदेशप्रदानैश्च विषयाखेटकैस्तथा ।
हस्त्यश्वरथयानैश्च रुक्मभेदैश्च संयुतम् ।। १४६ ।।
प्. ९१५)
बस्त्रखण्ड समायुक्तां धेनुं दद्यात् सुशोभनाम् ।
येन येन सुतुष्टेन न तत्तत् दद्यात्तु पुत्रकः ।। १४७ ।।
प्रदक्षिणं ततः कृत्वा आत्मानन्तु निवेदयेत् ।
निवेदिते ततो देवि अनृणो जायते गुरोः ।। १४८ ।।
संपूज्य विधिना देवि गुरुञ्च सुसमाहितः ।
भोजयेद्गुरुभक्तांश्च दीनानाथांश्च तर्पयेत् ।। १४९ ।।
शुक्ला तु दक्षिणा दद्यात् भोजयित्वा विधानतः ।
वक्तव्यन्तु ततो देवि प्रीयतां भगवाञ्च्छिवः ।। १५० ।।
एवं यः कुरुते देवि स सिद्धिफलभाक् भवेत् ।
अन्यथा कुरुते यस्तु आचार्यं प्रतिसाधकः ।। १५१ ।।
प्. ९१७)
दीक्षाज्ञानं गुरुत्वञ्च हित्वा नरकगामिकः ।
आचार्यं शिववन्मन्ता विद्याच्चैश्वरसाधकम् ।। १५२ ।।
पुत्रकं भ्रातृवच्चैव समं चैव तथैव च ।
मान्याः पूज्याश्च देवेशि अन्योन्यप्रीतितां व्रजेत् ।। १५३।।
एवं विदिविधानज्ञो लभते शाश्वतं पदम् ।
तत्वेनापि विधिज्ञेन दीक्षितः शिवतां व्रजेत् ।। १५४ ।।
स्वच्छन्दः सर्वगो भूत्वा विचरेत्तु यथा सुखम् ।
न तस्य हन्यते सिद्धिः यावद्देवः सदाशिवः ।। १५५ ।।
साधकस्य विधिः ख्यातः सर्वकामार्थसाधकः ।
आचार्यस्य तु देवेशे समयी पुत्रकस्य च ।। १५६ ।।
प्. ९१८)
सर्वेषान्तु समाख्यातं यथाविधिपुरस्सरम् ।
सर्वथा सर्वमानोऽपि तत्वविन्मोचयेत्पशुम् ।। १५७ ।।
तत्ववित् स शिवः साक्षात् तस्मात्तं प्रतिपूजयेत् ।
मानुषीं तनुमासाद्य शिवे ज्ञातं प्रयच्छति ।। १५८ ।।
तस्मात्तत्वविदाचार्यः शिववत् पूजयेत् सदा ।
माया तस्य न कर्तव्या कृत्वा मायां व्रजत्ययम् ।। १५९ ।।
इति निश्वासकारिकायां दीक्षोत्तरे सप्तमः पटलः ।
ईश्वरः -
अतः परं प्रवक्ष्यामि मन्त्राणां परमेश्वरि ।
प्. ९१९)
प्रत्येकं संस्मृता मन्त्राः मया प्रोक्तास्तु सुव्रते ।। १ ।।
साधारणविशेषाणि शिवेन कथितानि वै ।
पञ्चब्रह्मशिवाङ्गैश्च विद्याङ्गानि तथैव च ।। २ ।।
गायत्री चैव सावित्री तथैव परमाक्षरम् ।
शान्त्यतीतञ्च प्रणवं तथा चैव नवात्मकम् ।। ३ ।।
विद्येशा लोकपालाश्च ज्ञेयास्साधारणानि वै ।
यत्र प्रत्येकहोमस्यात् तत्र साधारणैर्यजेत् ।। ४ ।।
प्रत्येकशस्तु देवेशि तास्तु तत्रैव पूजयेत् ।
प्रणवे कथिता ये तु ते तु प्रत्येकशस्मृताः ।। ५ ।।
निवृत्याद्याः कलायास्तु तासु प्रत्येकशस्मृताः ।
प्. ९२०)
पदभेदविभागेन अष्टत्रिंशत्कलैस्तथा ।। ६ ।।
मातृकायां तथा देवि प्रत्येकं समुदाहृतम् ।
शोध्यशोधकभावेन तथा चान्ये प्रकीर्तिताः ।। ७ ।।
एवं ज्ञात्वा वरारोहे होमकर्म समारभेत् ।
दशया दीपितैर्मन्त्रैः कर्मकुर्याद्यथेप्सितम् ।। ८ ।।
ओङ्कारदीपिता मन्त्राः नमस्कारान्तयोजिताः ।
हुङ्कारमादियोगेन स्वाहान्तेन तु मन्त्रिणम् ।। ९ ।।
आकर्षयन्ति भूतानि दिव्यमानुषपन्नगाः ।
ओङ्कारमादितः कृत्वा वौषडन्तेन मन्त्रिणः ।। १० ।।
शान्तिकं फलदं श्रेष्ठं कथितं तव शोभने ।
प्. ९२१)
ओङ्कारदीपिता मन्त्रा नमस्कारान्तयोजिताः ।। ११ ।।
अर्चने तु प्रयोक्तव्या अग्नौ स्वाहान्तयोजिताः ।
सुवौषट्कारसंयुक्तं पुष्यर्थे विनियोजयेत् ।। १२ ।।
वषट्कारेण संयुक्तममृतीकरणं हितम् ।
मनोन्मनेति मन्त्राणां इन्द्यनार्थं प्रयोजयेत् ।। १३ ।।
उत्सादने प्रयोक्तव्यं फट्कारेण समन्वितम् ।
मारणे फट् फडित्येव मन्त्रं कुर्याद्विचक्षणः ।। १४ ।।
आदिहुङ्कारसंयुक्तं मध्ये मन्त्रसमन्वितम् ।
फट्कारमन्त्रयोगेन पाशच्छेदकरस्मृतिम् ।। १५ ।।
एष मन्त्रप्रयोगस्तु कथितस्तव शोभने ।
प्. ९२२)
अविदित्वा न सिध्येत न च याति परं पदम् ।। १६ ।।
तस्मान्मन्त्रपदस्यैव भेदनन्तु प्रयोजयेत् ।
सिध्यन्ते साधकेन्द्रास्तु प्रयोगैर्मन्त्रयोजितैः ।। १७ ।।
या योगेन सिध्यन्ते न च यान्ति परं पदम् ।
दीक्षा होमं सदा कुर्यात् स्वाहाकारान्तिकं पदम् ।। १८ ।।
हुंफट्कारकृतेनैव पाशच्छेदन्तु कारयेत् ।
वौषडन्तेन देवेशि पूर्णाहुत्यान्तु दापयेत् ।। १९ ।।
एकाक्षरस्मृतो मन्त्रो द्व्यक्षरत्र्यक्षरो परः ।
पञ्चषट् सप्तचाष्टौ तु बह्वक्षरमयः परः ।। २० ।।
एकाक्षरस्य मन्त्रस्य प्लुतेनोच्चारमिष्यते ।
प्. ९२३)
आपादतलमूर्धान्तं व्यापयित्वा व्यवस्थितः ।। २१ ।।
हृदि पादकलं यावत् ब्रह्मा तत्र व्यवस्थितः ।
चतुर्विंशतिभिस्तत्वैः प्रकृतिभिः परिकीर्तितः ।। २२ ।।
एतद्ब्रह्माधिदैवत्यं व्याख्यातं तव शोभने ।
भुवनार्थं चतुर्विंशत् व्याख्यातानि शिवेन तु ।। २३ ।।
पुरुषञ्चादितः कृत्वा मायातत्वञ्च पश्चिमम् ।
कथितं विष्णुदैवत्यं हृदयात् कर्णिकावधि ।। २४ ।।
अस्मिन् मध्ये तु ये रुद्रा कीर्तिता भुवनैस्सह ।
विष्णुना सह मोदन्ते विष्णुतुल्यपराक्रमाः ।। २५ ।।
तालुमध्ये गतोच्चारो रुद्रस्तत्र प्रकीर्तितः ।
प्. ९२४)
विद्याविद्येश्वरैश्चैव तत्र ते भुवनैस्सह ।। २६ ।।
तं विदित्वा महादेवि रुद्रतुल्यपराक्रमः ।
क्रीडते रुद्रलोके तु रुद्रतुल्यबलो भुवि ।। २७ ।।
मूर्ध्नि स्थानगतोच्चारमैश्वरं तं विनिर्दिशेत् ।
स तत्र ईश्वरो देवः आधिपत्येन संस्थितः ।। २८ ।।
तच्छब्दन्तु यथा भिन्नं विद्यातत्वं ततोपरि ।
तत्र देवः सदाख्यस्तु आधिपत्येन संस्थितः ।। २९ ।।
शक्तित्रयं कृताधारो द्विधावस्थेन संस्थितः ।
स्थूलसूक्ष्मविभागेन विदित्वा मोक्षमाप्नुयात् ।। ३० ।।
चतुर्थावस्थितं सूक्ष्मं स्थूलमेकविधं स्मृतम् ।
प्. ९२५)
इडिकादीपिका चैव रोचिका मोचिका तथा ।। ३१ ।।
स्थूलमेतत्स्मृतो नादः विदित्वा मोक्षमाप्नुयात् ।
कलाह्येतास्तु चत्वारः एकत्वे तु यदा स्थिताः ।। ३२ ।।
यथा स्थूलं स्मृतन्नादं मया ते कथितं शुभे ।
सूक्ष्ममेकविधञ्चैव ऊर्ध्वगामीति विश्रुतम् ।। ३३ ।।
तत्रस्था देवताः सर्वास्समुदायेन संस्थिताः ।
व्याप्तियोगेन ज्ञातव्या देवताह्यघनाशनाः ।। ३४ ।।
तस्मात्परतरा शक्तिः पञ्चधा संव्यवस्थिताः ।
सूक्ष्मा चैव सुसूक्ष्मा च अमृता च मृतामृता ।। ३५ ।।
सूक्ष्मभावा स्मृता ह्येताश्शक्तेस्तु परमेश्वरि ।
प्. ९२६)
तस्यापि परतः सूक्ष्मा व्यापिनीत्यभिधीयते ।। ३६ ।।
तस्याः परतरो देवि गुरुपारंपरागतम् ।
तं विदित्वा विमुच्यन्ते नरास्संसारसागरात् ।। ३७ ।।
मया ते कथिता देवि शक्तिः परमकारणा ।
तस्मिन् शून्यलयं देवि विघ्नन्तीं विनिर्दिशेत् ।। ३८ ।।
उच्चारेण विना देवि वर्णा निजलयं गतः ।
कण्ठस्थो विरमेच्छब्दः अर्धचन्द्र इति स्मृतः ।। ३९ ।।
तस्य शब्दस्य यच्छब्द ऋषिमन्तं विभाव्य ये ।
निरोधी सा विनिर्दिष्टा ललाटे तु लयं विदुः ।। ४० ।।
भिन्नमेतद्यदा देवि तदा नादं विनिर्दिशेत् ।
प्. ९२७)
अभिन्नो घाटमित्युक्तं ललाटे तु लयं विदुः ।। ४१ ।।
भिन्नं तद्वद्यदा देवि तदा नादं विनिर्दिशेत् ।
अभिन्नो घाटमित्युक्तं ललाटस्थो निवर्तते ।। ४२ ।।
बिन्दोः परतरेणैव नादतत्वं लयं व्रजेत् ।
नादतत्वलये लीना स परत्वेन गच्छति ।। ४३ ।।
परत्वे संस्थिता शक्तिः तच्छेष व्यापिनी तथा ।
तस्माद्गुरुतरो देवि गुरुपारंपरागतः ।। ४४ ।।
कालदेशविनिर्मुक्तमुच्चारालंबना ऋतम् ।
जपयोगविनिर्मुक्तं करणाधारवर्जितम् ।। ४५ ।।
बिन्दुमात्रविनिर्मुक्तं हेतुवादविवर्जितम् ।
प्. ९२८)
क्लिश्यन्ते देवतास्सर्वे ऋषयः सांशतव्रताः ।। ४६ ।।
तं प्राप्य न निवर्तन्ते ये चान्ये भुवि मानवाः ।
एतत्सर्वं परत्वेन कथितं तत्वमुत्तमम् ।। ४७ ।।
मन्त्रस्य विषुवं देवि शृणुष्व कथयामि ते ।
मन्त्रमुच्चारतो देवि यावन्नान्यमनो भवेत् ।। ४८ ।।
तावन्मन्त्रयतीरात्मा देहमध्ये व्यवस्थितः ।
नमस्कारं ततः प्रोक्तं स्वाहाकारान्तयोजितम् ।। ४९ ।।
बिन्दुद्वयं यदातीतं तन्मन्त्रं विषुवं स्मृतम् ।
प्राणे तु तच्चतुर्थी तु विभेदवरवर्णिनी ।। ५० ।।
प्रशान्तं प्राप्य देवेशि निष्कलं विषुवं स्मृतम् ।
प्. ९२९)
उत्तरायणपूर्वाह्णे द्वितीये दक्षिणायनम् ।। ५१ ।।
उभयोर्मध्यदेशे तु कालेन विषुवं स्मृतम् ।
चत्वारो विषुवा देवि जानीते देशिकोत्तमः ।। ५२ ।।
स विमोचयते बन्धं क्षिप्रं संसारबन्धनात् ।
एतत्सर्वं समासेन मया तु कथितं तव ।। ५३ ।।
मन्त्रे समरसो भूत्वा तिष्ठते परमेश्वरि ।
मन्त्रं समरसो देवि शिवेन परिकीर्तितः ।। ५४ ।।
नाडिमध्यगतोह्यात्मा शिवभक्तिभिरीश्वर ।
नाडीसमरसो देवि कथितस्तव शोभने ।। ५५ ।।
भूतेषु व्याप्य देवेशि तिष्ठते परमेश्वरः ।
प्. ९३०)
स भूतसमरसो देवि मया ते परिकीर्तितः ।। ५६ ।।
सर्वेषां समरसानान्तु श्रेष्ठं सर्वगुणोद्गतम् ।
तत्वं समासतो देवि शिवेन कथितं मम ।। ५७ ।।
तत्वं समासयेत्तत्तु दुर्लभं त्रिदशैरपि ।
न मया कस्यचित्ख्यातं तत्वं समरसं शुभम् ।। ५८ ।।
चत्वारः समरसा देवि कथितास्तु ततो मया ।
तत्वसन्धानदेवेशि तत्वतः कथयामि ते ।। ५९ ।।
मन्त्राणां सन्धानञ्चैव अध्वरे तु यथा शृणु ।
शिवादि तर्पणं कृत्वा अनुपूर्वेण मन्त्रवित् ।। ६० ।।
प्रायश्चित्तं ततो हुत्वा आत्मनश्च तु देशिकः ।
प्. ९३१)
नातिचित्रमपायस्य सूत्रच्छेदं तथैव च ।। ६१ ।।
कृशे स्थूले रजे चैव प्रायश्चित्तन्तु होमयेत् ।
एतान् हुत्वा ततो मन्त्री मन्त्राणां दीपनं हुनेत् ।। ६२ ।।
पशोह्यालंभनं कृत्वा प्रायश्चित्तन्तु होमयेत् ।
हुङ्कारमादिमध्येषु अन्ते चैव प्रयोजयेत् ।। ६३ ।।
फट्कारं तत्परत्वेन दापनन्तु प्रकीर्तितम् ।
एवं सन्दीपनं कृत्वा पशोरथे वरानने ।। ६४ ।।
ततस्तु सन्धयीन्मन्त्री त्रितत्वञ्च यथाक्रमम् ।
शिवतत्वे तु विद्याख्यामात्मतत्वञ्च विद्यया ।। ६५ ।।
विद्यातत्वात्मतत्वेन एकीकृत्य तु बुद्धिमान् ।
प्. ९३२)
ततस्तु शिवतत्वेन सन्धयीत विचक्षणः ।। ६६ ।।
ततस्त्रितत्वसन्धानं मन्त्राणां सन्धनं शृणु ।
विद्येशां शिवतत्वेन लोकेशान् विद्यसंज्ञिते ।। ६७ ।।
अस्त्राणि चात्मतत्वे तु सन्धयेत् परमेश्वरि ।
एवन्तु सन्धानं कृत्वा पूर्णाहुत्या तु पातयेत् ।। ६८ ।।
पात्यमाने विकाराणि अग्निमध्ये स पश्यति ।
स धूमश्चिटचिटाशब्दो विष्णुलिङ्गैर्विराजितः ।। ६९ ।।
एवन्तु लक्षणं ज्ञात्वा ब्रह्मघ्नं तं विनिर्दिशेत् ।
नीलमम्रनिभाकारं स धूमं शालिका मतः ।। ७० ।।
श्रूयमाणे यदा वह्नौ सुरापन्तु विनिर्दिशेत् ।
प्. ९३३)
अस्मिन् धेयने हव्ये चैव परिप्लुते * * *? ।। ७१ ।।
क्षणाज्ज्वलननिर्वाति स्तेयकारं विनिर्दिशेत् ।
विस्तरं घोररूपञ्च स धूमञ्च लिखेन्महीम् ।। ७२ ।।
एवं लक्षणविज्ञाने कृतगुर्वङ्गनागमः ।
सर्वेषां रूपमाधत्ते कृष्यमानोऽपि पावकः ।। ७३ ।।
स तु संयोगिको देवि पातकं तस्य निर्दिशेत् ।
उपपातकिनाश्चान्ये तान्येवमुपलक्षयेत् ।। ७४ ।।
ध्याक्षस्वरस्तथा रूक्षकाकोलूकश्वरश्वरः ।
उष्ट्रगृध्रस्वराघोराः शिवावानररावकाः ।। ७५ ।।
स धूमन्धूमलन्नीचयो भूम्याञ्च विलिखेत्सकृत् ।
प्. ९३४)
जलते क्रधुका शब्दः फट्कारश्च सकृत् सकृत् ।। ७६ ।।
एवं वै लक्षणं ज्ञात्वा उपपातकिनो नराः ।
दृष्ट्वैतान्यपचिह्नानि दीक्षाकर्म न कारयेत् ।। ७७ ।।
कोणदेशे च तं स्थाप्य तमुद्दिश्य च देशिकः ।
होमयेद्दीपनञ्चैव नवतत्वालयं प्रभुः ।। ७८ ।।
खट् खटेति च चत्वारः फट् फटेति पुनः पुनः ।
पश्चात्तत्वकृतं तत्वं पुनर्होमकृतेन तु ।। ७९ ।।
शुध्यते तु किमाश्चर्यं ततो होमेन पातयः ।
यथा विषं महाघोरं सप्तधातुगतं हरेत् ।। ८० ।।
एवं हरति तत्पापं तत्ववित्पापकर्मणाम् ।
प्. ९३५)
ब्रह्महत्यादिपापानि उपपातकिनां तथा ।। ८१ ।।
शतमष्टशतेनापि शोधयेन्नात्र संशयः ।
एवं संशोध्य शिष्यन्तु दीक्षाकर्म समारभेत् ।। ८२ ।।
न तु सङ्कीर्तयेत्पापमन्येषां देशिकोत्तमः ।
कथया दोषमायाति तस्मात्क्रुद्धं विवर्जयेत् ।। ८३ ।।
कथितं मन्त्रसद्भावं सर्वेषामुत्तमोत्तमम् ।
इति निश्वासकारिकायां दीक्षोत्तरे अष्टमः पटलः ।
ईश्वरः -
अतः परं प्रवक्ष्यामि श्रूयतां सुरसुन्दरि ।
प्. ९३६)
प्रक्रियासूत्रयोगञ्च पाशानां ग्रहणं तथा ।। १ ।।
यद्यविज्ञाय कर्तव्यं कथयामि तवाखिलम् ।
कन्या कर्तृत्वसूत्रेण त्रिगुणीत्रिगुणी कृते ।। २ ।।
पञ्चगव्येन चाभ्युक्ष्य गन्धतोयेन वा पुनः ।
अर्च्येकादशकेनैव तत्सूत्रन्तु विचक्षणः ।। ३ ।।
अर्चयित्वा तु तत्सूत्रमाचार्यस्सुसमाहितः ।
पादाङ्गुष्ठप्रदेशे तु सूत्रं कृत्वा प्रधारयेत् ।। ४ ।।
प्रसारयेत्ततः सूत्रं शिखाग्राद्यावस्थितम् ।
सकलीकृत्य तत्सूत्रं सर्वमन्त्रैर्विचक्षणः ।। ५ ।।
यश्शिवः पूजितो देवि देशिकेन महात्मना ।
प्. ९३७)
तेन पाशानि संगृह्य सूत्रग्रन्थ्या तु कारयेत् ।। ६ ।।
संपुटीकृत्य तं पाश गृहेत्संहारमुद्रया ।
तत्वेन बन्धयेद्भूयः तान् पाशांस्तु विचक्षणः ।। ७ ।।
क्रमेण सर्वपाशानि बन्धयेद्देशिकोत्तमः ।
बध्वा पाशं यथान्यायं वासयेद्देव संयुतम् ।। ८ ।।
गन्धैः पुष्पैः समभ्यर्च्य देवदेवेन संमतः ।
दीपयेत ततः पाशां हुंफडन्तः क्रमेण तु ।। ९ ।।
एकैकमाहुतिं दत्वा पाशे पाशे न संशयः ।
प्रभाते विमले मन्त्री प्रदीप्तेहनि सुवृते ।। १० ।।
संहारक्रमयोगेन हुनेत्तत्वान्यथाक्रमम् ।
होमान्ते तु ततो मन्त्री पाशच्छेदन्तु कारयेत् ।। ११ ।।
हुंफडन्तशिवेनैव छित्वा तेनैव होमयेत् ।
प्. ९३८)
हुत्वा पाशां ततो मन्त्री पूर्णाहुत्या तु पातयेत् ।। १२ ।।
पूर्णाहुति क्रमेणैव सर्वतत्वान् समुद्धरेत् ।
तत्स्थानात्ततः पाशान् तत्वं तत्वेन सन्धयेत् ।। १३ ।।
शुद्धतत्वं भवेद्ध्रस्वमशुद्धदीर्घसंयुतम् ।
विलीनमानं संचिन्त्य सन्धीतकरणान्वितम् ।। १४ ।।
एवं क्रमेण तान् सर्वान् हुनेत्सन्धेन सुव्रते ।
पृथिवीमादितः कृत्वा शिवतत्वमपश्चिमम् ।। १५ ।।
एष एव विधिः प्रोक्तः पाशानां छेदनं प्रति ।
तत्वानां सन्धनञ्चैव एष एव विधिस्मृतः ।। १६ ।।
भुवनाध्वकलाध्वे च तत्वाध्वे च वरानने ।
प्. ९३९)
वर्णाध्वे च पदाध्वे च मन्त्राध्वे च तथैव हि ।। १७ ।।
यश्शिवः कल्पितस्तत्र तेन पाशानि छेदयेत् ।
भुवनाध्वे ततः कुर्यात् कथयामि समासतः ।। १८ ।।
तत्वं संस्थापयेत्पूर्वं ततो भुवनजल्पनम् ।
गन्धैर्धूपैः समभ्यर्च्य ततो योनिविकल्पनम् ।। १९ ।।
गन्धपुष्पैः समभ्यर्च्य ताडनञ्च पशोस्मृतः ।
शिखया ताडनं कृत्वा ग्राह्यसंहारमुद्रया ।। २० ।।
शक्त्या संताडिते पुंसि तत ऊर्ध्वं प्रयात्यसौ ।
द्वादशान्तमनुप्राप्तं ततो ग्राह्यं विचक्षणः ।। २१ ।।
वामया योजयेन्मन्त्री तेन दद्यात्तु आहुती ।
प्. ९४०)
अधिकारे दशा दद्यात् भोगे दद्याद्दशाहुतिः ।। २२ ।।
लये दद्याद्दश प्राज्ञः ततस्तत्वाद्वियोजयेत् ।
वियोज्य मन्त्रवित् प्राज्ञः पाशच्छेदन्तु कारयेत् ।। २३ ।।
वियोजनन्तु ज्येष्ठ्यायां शिवः पाशन्निकृन्तति ।
पूर्णाहुतिं ततोन्ते तु रौद्रं तस्मात्तु उद्धरेत् ।। २४ ।।
एष एव विधिः प्रोक्तः सर्वाध्वानमशेषतः ।
विधिमेवं सकृत् ज्ञात्वा मोचयेन्नात्र संशयः ।। २५ ।।
तत्वाध्वाने तु मन्त्रज्ञः कथयामि तवाखिलम् ।
तत्वमावाहयेद्देवि ततो होमं प्रकल्पयेत् ।। २६ ।।
गन्धैः पुष्पैः समभ्यर्च्य ताडनन्तु ततः पुनः ।
प्. ९४१)
शिवेन योजयेत्तत्र हुनेत्तेनैव सुवृते ।। २७ ।।
- * *? शतं शतञ्च पूर्णाहुत्यां प्रति प्रति ।
त्रितत्वाध्वरशुद्धे च शिखाच्छेदन्तु कारयेत् ।। २८ ।।
तत्वात्मस्थं पशुं कृत्वा योजयेत् परमे पदे ।
योजिते तु परे तत्वे स्तौम्यमाहुतयो हुनेत् ।। २९ ।।
ओं सर्वज्ञतायै च परिपूर्णेति च परम् ।
परितृप्तो भवस्वेति निर्वाणं भवस्वेति च ।। ३० ।।
यथा सर्वंगतोह्येवमाहुतिः प्रतिपादयेत् ।
सर्वव्यापीति होतव्यं देशिकेन महात्मना ।। ३१ ।।
भवेत्सर्वज्ञता देवि स पशुः कारणाज्ञया ।
प्. ९४२)
यदुक्तं देवदेवेन तद्भवेन्नात्र संशयः ।। ३२ ।।
कलास्तथैव ज्ञातव्याः पदेनैव तथैव च ।
वर्णाध्वाने तथा प्रोक्तं कर्तव्यं देशिकेन तु ।। ३३ ।।
वर्णा एव स्मृतास्तत्वा वर्णयोनिस्तथैव च ।
प्रणवे योजनञ्चैव ताडने प्रणवस्मृतः ।। ३४ ।।
ग्रहणं प्रणवेनैव उत्क्षेपः प्रणवेन तु ।
वर्णाध्वाने यथा प्रोक्तं पदाध्वाने तथैव च ।। ३५ ।।
कलाध्वाने तथैवेह आचार्येण महात्मना ।
मन्त्राध्वानं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् ।। ३६ ।।
गायत्री तु भवेद्योनिः तया मन्त्रान्विशोधयेत् ।
प्. ९४३)
सावित्र्या ताडनं कुर्यात् ग्राह्यं तेनैव मन्त्रतः ।। ३७ ।।
योजनं तेन कर्तव्यं तथा चैव वियोजनम् ।
उत्कर्षणन्तु तेनैव सावित्र्या तु विचक्षणः ।। ३८ ।।
पाशच्छेदं शिवेनैव कर्तव्यं देशिकेन तु ।
पूर्णाहुतिः प्रदातव्या योजनाय परे शिवे ।। ३९ ।।
वसोर्धाराप्रयोगेन पातयेत्तु विचक्षणः ।
एष एव विधिर्देवि कथितो ह्यनुपूर्वशः ।। ४० ।।
ज्ञातव्यं देशिकेनैव योजनाय परे शिवे ।
सर्वसंहितसामान्यं कथितं तव शोभने ।। ४१ ।।
दीक्षा पञ्चविधा देवि कर्तव्या देशिकेन तु ।
प्. ९४४)
तदहं संप्रवक्ष्यामि साधकानां हितावहम् ।। ४२ ।।
आसनं प्रणवेनैव कर्तव्यं देशिकेन तु ।
अनन्तधर्मज्ञानञ्च वैराग्यैश्वर्यमेव च ।। ४३ ।।
नवधा शक्तिदेवेन प्रणवं विन्यसेद्बुधः ।
पद्मञ्च चन्दनं तेन कर्णिकान्तेन कारयेत् ।। ४४ ।।
पुष्करान्तेन कर्तव्या मण्डलान्तेन कारयेत् ।
देवतान्तेन कर्तव्या मूर्त्यन्तेनैव कारयेत् ।। ४५ ।।
पञ्चब्रह्मा तु तेनैव अष्टत्रिंशत्कलैर्युतः ।
आवाहनन्तु तेनैव कर्तव्यं सुरसुन्दरि ।। ४६ ।।
ब्रह्मणस्तु न सन्देहो देशिकेन महात्मना ।
प्. ९४५)
निवृत्तिस्तु शिरस्तस्य इडिकाहृदयं विदुः ।। ४८ ।।
सूक्ष्मां शिखान्तु विज्ञेया सद्यस्तु कवचं भवेत् ।
पृथिवी तु भवेदस्त्रं ब्रह्मणाङ्गाः प्रकीर्तिताः ।। ४९ ।।
पूर्वेण प्रणवं दद्यात् दक्षिणेन तथैव च ।
पश्चिमेनोत्तरेणैव मध्ये प्रणवसंयुतम् ।। ५० ।।
आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरस्मृतम् ।
शिखा नैऋतदिग्भागे कवचं वायुगोचरे ।। ५१ ।।
रुद्रोङ्कारेण कर्तव्यं रुद्रतत्वस्य शोभने ।
इकारस्तु शिखा देवि अकारस्तु शिरस्मृतम् ।। ५२ ।।
गकारो हृदयञ्चैव सद्यस्तु कवचं विदुः ।
प्. ९४६)
लकारमस्त्रमित्युक्तं ग्राहकाः परिकीर्तिताः ।। ५३ ।।
हन्ताख्य भेदयेत्तैस्तु ग्राहकैस्सुरसुन्दरि ।
भूतत्वं ब्रह्मतत्वस्य प्रणवेन तु होमयेत् ।। ५४ ।।
एवं हुत्वा विधानेन पूर्णाहुत्या तु पातयेत् ।
योजने साधकेन्द्राय प्रजनत्वमपाश्रिते ।। ५५ ।।
तस्मिन् युक्तं ततो मन्त्री ब्रह्मसायुज्यतां व्रजेत् ।
ब्रह्मणे तु यथा प्रोक्तं विष्णवेऽपि तथा स्मृतम् ।। ५६ ।।
प्रतिष्ठा तु शिवस्यैव आकारः परिकीर्तितः ।
रुकारो हृदयं प्रोक्तमीकारस्तु शिखा स्मृता ।। ५७ ।।
वामन्तु कवचं प्रोक्तं वकारोस्त्रं प्रकीर्तितम् ।
प्. ९४७)
पूर्वोक्तेन विधानेन कुर्यादावाहनं बुधः ।। ५८ ।।
सायुज्यं तादृशं प्रोक्तं शिवेन परमात्मना ।
अनाद्ये तु पदे देवि विष्णुसायुज्यतां व्रजेत् ।। ५९ ।।
तस्मिन्युक्तमया देवि विष्णुतुल्यपराक्रमः ।
विद्याशिरस्समाख्यातमङ्गारं नाम नामतः ।। ६० ।।
ऋकारं हृदयं तस्य कथितं तव शोभने ।
अघोरं कवचं देवि रुद्रतत्वस्य शोभने ।। ६१ ।।
ब्रह्मणे विष्णवे यद्वत् तद्वत्कुर्यात्तु देशिकः ।
आसनेऽयं विधिर्देवि मया ते परिकीर्तिताः ।। ६२ ।।
अमृता तु शिखा तस्य इकारः परिकीर्तितः ।
प्. ९४८)
विद्याशिरस्समाख्यातं मकारं नाम नामतः ।। ६३ ।।
आकारं हृदयं तस्य पुरुषं कवचं विदुः ।
यकारमस्त्रमित्युक्तमङ्गान्येतानि चेश्वरि ।। ६४ ।।
यो विधी रुद्रतत्वस्य ईश्वरेऽपि तथा स्मृताः ।
अनन्ता रुद्रतत्वस्य निर्वाणं परमं पदम् ।। ६५ ।।
ईश्वरे व्योमरूपा तु कथिता तव शोभने ।
निधनेन तु कर्तव्यं तत्वेन तु सदाशिवे ।। ६६ ।।
यथा पूर्वं मयाख्यातमत्रापि विधिरेव सः ।
परमाक्षरं शिखा तस्य शान्त्यतीतं शिरस्मृतम् ।। ६७ ।।
बिन्दुदेवन्तु हृदयं ईशानं कवचं विदुः ।
प्. ९४९)
शून्यतत्वं हकारस्तु अस्त्रं तत्परिकीर्तितम् ।। ६८ ।।
सायुज्यं पूर्वमेवोक्तं यथा कुर्यात्तु नान्यथा ।
एते पञ्चमहायागा नाख्याता कस्यचिन्मया ।। ६९ ।।
नैष्ठिका ब्रह्मचर्येषु स्थिता भुवि च मानवाः ।
तेषामुद्धरणार्थाय मया तु कथितं तव ।। ७० ।।
लिङ्गोद्धारविधिह्येष कथितस्तव सुव्रते ।
नैष्ठिकानान्तु कर्तव्यं लिङ्गोद्धारं समीरितम् ।। ७१ ।।
स्वजातीयपदे स्थाप्य ततो दीक्षान्तु कारयेत् ।
अथवा ब्रह्मविद्ये तु अभियुक्तस्तु साधकः ।। ७२ ।।
तत्र दीक्षा तु कर्तव्या अभिषेकन्तु शोभने ।
प्. ९५०)
वैष्णवेऽपि तथैवेह कथितं परमेष्ठिना ।। ७३ ।।
रुद्ररुद्रगणानान्तु साधनं परिकीर्तितम् ।
गणगुह्यकमन्त्रेषु साधनेनैव साधकः ।। ७४ ।।
विनायकानां सर्वेषां तत्र दीक्षान्तु कारयेत् ।
डाकिन्यो मातरश्चैव योगिन्योऽपि तथा पराः ।। ७५ ।।
अस्मिंस्तु दीक्षितेनैव साधकस्स विधीयते ।
ईश्वरे पाशुपत्यानां उद्धारे तु विचक्षणः ।। ७६ ।।
लिङ्गोद्धारविधानन्तु कर्तव्यं देशिकेन तु ।
शुद्धायुक्तस्तु एतस्मिन् दीक्षितेन मुक्तिमिच्छता ।। ७७ ।।
सर्वतत्वफलोपेतं सर्वतत्वफलोदयम् ।
प्. ९५१)
यजेद्देवादिदेवेशं सर्वेषां फलमाप्नुयात् ।। ७८ ।।
एष सर्वोदयो नाम सर्वमुक्तिफलप्रदः ।
एष ते योग आख्यातः पञ्चव्योमात्मकश्शुभः ।। ७९ ।।
शिवयागं प्रवक्ष्यामि सर्वयागमनौपमम् ।
चतुरावरणैर्यागं कर्तव्यं देशिकेन तु ।। ८१ ।।
पञ्चब्रह्म शिवाङ्गाच्च गर्भमेतदुदाहृतम् ।
द्वितीयावरणे देवि कला शक्त्यात्मकानि तु ।। ८२ ।।
दिशासु विन्यसेद्देवि शक्तेस्तु विदिशाः कलाः ।
नादस्येककला यास्तु दिशासु विदिशासु च ।। ८३ ।।
य * * *? द कला देवि निन्दोश्चौ तथैव च ।
एष ते याग आख्यातो दुर्लभस्त्रिदशैरपि ।। ८४ ।।
सर्वस्वं गोपितं ह्येतत् व्याख्यातं तव शोभने ।
प्. ९५२)
एष सर्वादयो यागाः कथितास्तव शोभने ।। ८५ ।।
ज्ञात्वा बुध्वा च यष्ट्वा च मुच्यते नात्र संशयः ।
प्रणवं ह्यासनं कृत्वा मातृकां तु यजेद्बुधः ।। ८६ ।।
मुक्तिन्तु प्रणवं कृत्वा योजयेत् सुसमाहितः ।
दक्षिणे योजयेद्बीजं वामे योनिन्तु विन्यसेत् ।। ८७ ।।
सकलीकरणं ह्येतत् कथितं तव शोभने ।
अवर्गं पूर्वपत्रे तु कवर्गञ्चाग्निगोचरे ।। ८८ ।।
चवर्गं दक्षिणे चैव टवर्गं नैऋतेन तु ।
तवर्गं पश्चिमे चैव पवर्गं वायुगोचरे ।। ८९ ।।
यवर्गमुत्तरेणैव शवर्गन्त्वीशगोचरे ।
प्. ९५३)
एष वै मातृकायागः कथितं तव शोभने ।। ९० ।।
अवर्गं प्रथमं तत्वं कवर्गं पुरुषं स्मृतम् ।
एवं वर्गक्रमेणैव शिवतत्वन्तु मातृकान् ।। ९१ ।।
ओङ्कारमात्मतत्वन्तु प्रथमं परिकीर्तितम् ।
रुद्रोङ्कारेण देवेशि विद्यातत्वन्तु कारयेत् ।। ९२ ।।
निधनेन तु होतव्यं शिवतत्वं समाहितैः ।
एवन्ते मातृकायागो दुर्लभस्त्रिदशैरपि ।। ९३ ।।
कथितं सुरहस्यन्तु न मया गोपितं तव ।
इति निश्वासकारिकायां दीक्षोत्तरे नवमः पटलः ।।
प्. ९५४)
देव्युवाच -
दीक्षाकाले समुत्पन्ने आचार्यैश्शास्त्र तत्परैः ।
कथं तस्मिन् प्रदेशे च शिष्यास्स्थाप्या महेश्वर ।। १ ।।
कस्मिंस्तु यतयस्थाप्या ब्राह्मणाश्च महेश्वर ।
क्षत्रियाणान्तु यत्स्थानं वैश्यानां वद शङ्कर ।। २ ।।
शूद्राणां स्थानमाख्याहि स्त्रीणाञ्चैव तथैव हि ।
ग्रहमेधि यथा कार्यो दीक्षाकाले महेश्वर ।। ३ ।।
एतत्सर्वं यथान्यायं ब्रूहि मे भक्तवत्सल ।
ईश्वरः -
शृणु देवि प्रवक्ष्यामि नियोगविधिमुत्तमम् ।। ४ ।।
येन विज्ञातमात्रेण सर्वदोषैर्न लिप्यते ।
प्. ९५५)
ईशान्यां यतयस्थाप्या विप्राश्चोत्तरतः स्थिताः ।। ५ ।।
शिवाद्दक्षिणतः स्थाप्या क्षत्रवर्णसमुद्भवाः ।
वैश्याः पश्चिमदिग्भागे शूद्रा वै नैऋतेन तु ।। ६ ।।
शिवा वायव्यदिग्भागे संस्कारे योजयेत्स्त्रियम् ।
एवं संस्थाप्य विधिवत् कुर्यादालभनक्रियाम् ।। ७ ।।
स्वदारापत्यभृत्यात्मा गृहमेधी यदा भवेत् ।
तस्य संस्कारयोगोऽयमतिरुद्धा समाचरेत् ।। ८ ।।
प्रणवं विनियुञ्जीयात् गुरवे गृहमेधिने ।
गृहस्थं शिववद्भावं तद्भार्यामग्निकातनौ ।। ९ ।।
कुमारं तदपत्यानां सुहृदा मन्त्रनायके ।
प्. ९५६)
दिक्पालैः कुलजान् गृह्यात् शेषानस्त्रगणान्यसेत् ।। १० ।।
एकाध्वरिकसंस्कारमीहतां गृहमेधिनाम् ।
सदारापत्यपत्यानां नियोगः परिकीर्तितः ।। ११ ।।
गृहमेधीमये यागे पुष्पपान्तं विसर्जयेत् ।
अत्रैव विनियुक्तस्य स्त्रियायानन्तु कारयेत् ।। १२ ।।
स्वामिने पतितैः पुष्पैः स्त्रियस्वपतये यदा ।
महादोषमवाप्नोति चर्यायुः परिपाल्यते ।। १३ ।।
चर्यादोषसमुत्पन्ने जायते गुरुतल्पगः ।
गुरुतल्पसमं पापं हृष्टसंस्कारपापकृत् ।। १४ ।।
प्राप्नोति नरकं शिष्यः पर्याया दुहिता क्रिया ।
प्. ९५७)
पुष्पलातचितानस्य क्रिययोः परिपूरणम् ।। १५ ।।
सर्पिषा होमयेदग्नौ शिवेन तु शताहुतिम् ।
अनेन विधिना देवि दोषहीनो भवेद्गुरुः ।। १६ ।।
याग संपूर्णतामेति हुतं मोक्षफलावहम् ।
ग्रहिणान्तु विधानोऽयं कथितस्तव शोभने ।। १७ ।।
यतीनामादितः कृत्वा मान्या शिवसंहिता ।
होमः कार्यस्तु देवेशि आचार्येण महात्मना ।। १८ ।।
मन्त्राध्ययनयोग्यस्तु शिवहस्तेन जायते ।
शिवमन्त्रस्य समयी मन्त्रतन्त्रोत्तरो भवेत् ।। १९ ।।
दीक्षां प्राप्य ममासिध्यो महासिद्धारुहो भवेत् ।
प्. ९५८)
त्रितत्वविनिविष्टस्तु मोक्षयोग्यः प्रजायते ।। २० ।।
लब्धानुज्ञोऽभिषिक्तस्तु बिन्दुस्थो योगसिद्धिभाक् ।
प्रत्ययानि यथा सम्यक् अणिमादिगुणाष्टकम् ।। २१ ।।
नादस्थः समवाप्नोति ततो भयविवर्जितः ।
विशोकः परमं स्थानं यत्र गत्वा मृती भवेत् ।। २२ ।।
य एवं वेत्ति तत्वेन गुरुकर्म विनिश्चयम् ।
स दीक्षां कर्तुमर्हेत अन्यथा पापकृत् भवेत् ।। २३ ।।
एवं कृत्वा तु विन्यासं शिष्याणान्तु महेश्वरि ।
अग्निस्थानमुपक्रम्य कर्म निर्वर्तयेद्गुरुः ।। २४ ।।
अग्निकर्मविधानज्ञो जिह्वालक्षण तत्ववित् ।
प्. ९५९)
सिद्धासिद्धविभागज्ञो वर्णरूपहुताशने ।। २५ ।।
अग्निस्तु देवतास्सर्वा अग्निरूपो महेश्वरः ।
तस्य मन्त्राः परा मूर्तिः आद्यं वै सोमसंभवम् ।। २६ ।।
लक्षयेत्सप्तजिह्वास्तु हुताशनमुखैस्तथा ।
सप्तजिह्वाविधानज्ञो होमकर्म समारभेत् ।। २७ ।।
जिह्वाभेदनतत्वज्ञो जुहुयाद्यो हुताशने ।
यथा दाहरते कर्म तत्सर्वं सफलं भवेत् ।। २८ ।।
हुत्वास्याग्निं विधानेन पूज्याहुत्य प्रतर्पितम् ।
तुष्यते यजमानस्य सन्तुष्ठो वृषभध्वजः ।। २९ ।।
अङ्गुष्ठपर्वविस्तीर्णा बहुहव्येन्धनोचिता ।
प्. ९६०)
एकीभूतास्तु तिष्ठन्ति स्वलहव्येन्धनेन तु ।। ३० ।।
तत्कुण्डानप्रमाणेन मुखमेतद्धुताशने ।
ज्वालामालासहस्रैस्तु पातालं वदनं स्मृतम् ।। ३१ ।।
अग्नेः प्रबोधनं कृत्वा जिह्वानां लक्षयेत्तदा ।
देवतारूपकञ्चैव फलं तस्यैव यादृशम् ।। ३२ ।।
पूर्वपश्चिमतो जिह्वा ग्रहास्तत्र प्रतिष्ठिताः ।
होमकाले प्रयत्नेन द्वे जिह्वे परिवर्जयेत् ।। ३३ ।।
प्रथमा धर्मजिह्वा तु नीलवर्णेन संस्मृता ।
द्वितीया यक्षदैवत्या ताम्राकारसमप्रभा ।। ३४ ।।
तृतीया सोमदेवत्या शुक्ला सा चामृतोद्भवा ।
प्. ९६१)
पञ्चमी विष्णुदेवत्या अतसीपुष्पसन्निभा ।। ३५ ।।
षष्ठी च सूर्यदेवत्या शुक्ला रक्ता च सा स्मृता ।
सप्तमी बहुदेवत्या सर्वरूपैस्तु दीप्यते ।। ३६ ।।
प्रथमा निष्फला जिह्वा द्वितीयार्थप्रदायिका ।
तृतीया प्रणयेत्सर्वां जननं स्थाप्य सङ्गमान् ।। ३७ ।।
यमजिह्वा जयं गोत्रं पञ्चमी कुलवर्धिनी ।
षष्ठी तु सूर्यदेवत्या आरोग्यं सा प्रयच्छति ।। ३८ ।।
सप्तमी धर्मकामार्थान् ददाति विधिपूजिताः ।
तस्मात्सर्वप्रयत्नेन मध्ये होमं प्रशस्यते ।। ३९ ।।
गृहजिह्वा यमजिह्वा पूर्वपश्चिमतस्थिता ।
९६२)
तस्मात्सर्वप्रयत्नेन द्वे जिह्वे परिवर्जयेत् ।। ४० ।।
अग्निवर्णा दशप्रोक्ताः कर्मसिद्धिमयावहा ।
आदित्योदयवर्णाभा स्निग्धवैडूर्यसन्निभा ।। ४१ ।।
घृतवर्णनिभाश्चैव लोहवर्णास्तथैव च ।
तप्तायससवर्णाभा कुसंभरससन्निभाः ।। ४२ ।।
हरितालनिभाश्चैव धूम्रवर्णास्तथैव च ।
इन्द्रायुधसवर्णाभा इन्दुगोपकसन्निभाः ।। ४३ ।।
बहुहव्येन्धनैश्चैव स समिद्धे हुताशने ।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ।। ४४ ।।
अर्चिष्मान् पिण्डितशिखः तप्तकाञ्चनसन्निभः ।
प्. ९६३)
स्निग्धः प्रदक्षिणावर्तस्सर्वकर्मफलप्रदः ।। ४५ ।।
एवं विज्ञाय विधिवत् गुरुणा साधकस्य तु ।
संस्कारयोगः कर्तव्यो यथावत्तन्निबोधये ।। ४६ ।।
कृत्वा सूत्रमयान् पाशान् नवात्मेनाभिमन्त्रितान् ।
उच्चार्य नवतत्वानि अकारेण तु भेदितान् ।। ४७ ।।
मूर्ध्नि कण्ठे च हृदये नाभिरूरुः कटिस्तथा ।
जङ्घे गुल्फे तथा पादे सर्वत्र विनियोजयेत् ।। ४८ ।।
बाहुभ्यां हस्तयोश्चैव सर्वदेहन्तु वेष्टयेत् ।
नवात्मनाहुतिशतं स्वाहाकारेण पातयेत् ।। ४९ ।।
विद्यते न तु देवेशि पश्चाच्छून्येन होमयेत् ।
प्. ९६४)
सान्निध्यबन्धनार्थन्तु एवं भवति शोभने ।। ५० ।।
बध्वा पाशं यथा न्यायं छेदनञ्च तथोच्यते ।
योजितव्यं शिवे पश्चात् पुत्रको देशिकेन तु ।। ५१ ।।
शोधयित्वा महात्मा तु पूर्वोक्तविधिना गुरुः ।
गर्भाधानादितः कृत्वा चत्वारिंशाष्टकं क्रमात् ।। ५२ ।।
संस्कारं विधिवत्कृत्वा मन्त्रैः ब्रह्मोद्भवैः क्रमात् ।
निक्षेपोद्धारयोगादीन् संस्कारांश्च यथाक्रमम् ।। ५३ ।।
ततश्च्छेदन्तु पाशानां अनेन विधिना भवेत् ।
नकारसंपुटं देवि पकारोकारयोजितः ।। ५४ ।।
मस्तकं बिन्दुनाक्रान्तं शिष्यदेहे नियोजयेत् ।
प्. ९६५)
शिवेन सह देवेशि नात्रकार्या विचारणा ।। ५५ ।।
अतिगुह्यमिदं देवि नाख्यातं कस्यचिन्मया ।
एष सर्वविधानन्तु श्रेष्ठसर्वगुणोत्तमम् ।। ५६ ।।
सर्वसंहितसामान्यं कथितन्तु तवाखिलम् ।
इति निश्वासकारिकायां दीक्षोत्तरे दशमः पटलः ।
देव्युवाच -
भगवन् श्रोतुमिच्छामि मातृकाध्वानमुत्तमम् ।
निस्संशयकरञ्चैव निर्वाणफलसाधनम् ।। १ ।।
ईश्वरः -
प्. ९६६)
शृणु देवि परं गुह्यं कथयामि तवाखिलम् ।
तेन विज्ञातमात्रेण प्राप्नोति परमं पदम् ।। २ ।।
मातृकायान्तु होतव्यमध्वानन्तु यथाक्रमम् ।
षकारं शतरुद्रे तु दशधा परिकल्पयेत् ।। ३ ।।
पञ्चाष्टके शकारन्तु वकारो योनिरष्टके ।
योगाष्टके यकारस्तु सुशिवेरं प्रभुस्मृतः ।। ४ ।।
पङ्क्तित्रये यकारस्तु मकारं पञ्चविंशके ।
भकारस्संहितस्साध्ये बकारश्शिवसङ्करे ।। ५ ।।
असाध्ये तु फकारो वै वकारो हरिरुद्रके ।
दशघाते नकारस्तु पञ्चशिष्ये च य स्मृतः ।। ६ ।।
प्. ९६७)
महादेवे दकारस्तु थकारो गोपति स्मृतः ।
शिवब्रह्मपदे तन्तु णकारो नन्दहेमके ।। ७ ।।
ढकारस्याद्दृषिकुले महामाया दृढप्रभुः ।
वागेशान्ते ठकारस्तु टकारः प्रतिपाधिपः ।। ८ ।।
साधुस्थाने तृकारस्तु झकारो विमले स्थितः ।
ध्यानाहारे झकारो वै विज्ञेयं साधकोत्तमैः ।। ९ ।।
दमने फस्तु विज्ञेयं चकारञ्चैव रुद्रके ।
धातारो वै दकारश्च घकारं भस्ममीश्वरे ।। १० ।।
प्रणवाष्टगकारन्तु महविद्याष्टके च खम् ।
ककारो मूर्तिरष्टासु ओष्ठान्तो रूपकं विदुः ।। ११ ।।
प्. ९६८)
शक्तित्रये बिन्दुयुतं द्वे विद्ये औ तु कीर्तितम् ।
ओङ्कारोप्यस्त्रमित्युक्तमैङ्कारं कवचं विदुः ।। १२ ।।
ए शिखा तु समाख्याता शिरं रूकार उच्यते ।
हृदयन्तु ऌ विज्ञेयं ऋ सावित्री निगद्यते ।। १३ ।।
गायत्री तु ऋकारन्तु धर्मादि ऊ प्रकीर्तितम् ।
आसने उ इति ज्ञेयं विज्ञेयं ई ति कर्णिका ।। १४ ।।
इकारः शक्तिसंसक्तः आकारं पञ्चमीश्वरे ।
सदाशिवं विजानीयादकारः परमश्शिवः ।। १५ ।।
पञ्चाशदक्षरैह्येतैः अध्वानं यस्तु विन्दति ।
स ज्ञानात् स शिवस्साक्षात् स योगी स शिवं विदुः ।। १६ ।।
प्. ९६९)
पञ्चपञ्चभिराहुत्यैर्दशभिर्दशभिस्तथा ।
विंशविंशतिभिश्चैव पञ्चविंशतिभिस्तथा ।। १७ ।।
पञ्चाशच्च शतञ्चैव ज्ञात्वा शक्तिबलाद्बलम् ।
दीक्षाकार्या तु मन्त्रज्ञः पशूनाञ्च यथेच्छया ।। १८ ।।
निष्कले चतुराहुत्या शून्ये चैव त्रयं पुनः ।
प्रशान्तेन द्वयं दद्यात् तत्तु एकाहुतिं हुनेत् ।। १९ ।।
सर्वाध्वानमशेषस्य एष एव विधिस्मृतः ।
एतद्रहस्यं परमं गोपितं न प्रकाशितम् ।। २० ।।
दीक्षिताय प्रशान्ताय अभिषिक्ताय धीमते ।
गुरुप्रियाय दातव्यं शिवभक्तिरताय च ।। २१ ।।
प्. ९७०)
अन्यथा नैव दातव्यं शिवभक्तिरताय च ।
अन्यथा नैव दातव्यं दीक्षाज्ञानमिदं शुभम् ।। २२ ।।
सर्वसंहितसामान्यं सर्वतन्त्रेषु चोत्तमम् ।
विदित्वा ज्ञानविज्ञानं मोचयेन्मुच्यतेति च ।। २३ ।।
विस्तरं कथितं यत्तु सकलेन तु होमयेत् ।
वर्णमन्त्रपदेनैव कलया च चतुर्विधम् ।। २४ ।।
भुवनाध्वा कलाध्वा च तत्वाध्वा च वरानने ।
ज्ञानाध्वा च पदाध्वा च वर्णाध्वा च यथा पुनः ।। २५ ।।
षट् प्रकारमिदं देवि अध्वानं परिकीर्तितम् ।
एषामेकदशं शोध्यं देशिकेन महात्मना ।। २६ ।।
प्. ९७१)
पूर्णाहुतिस्तु दातव्या योजनाय परे शिवे ।
वसोर्धारप्रयोगेन दातव्यं देशिकेन तु ।। २७ ।।
मन्त्रद्रव्यप्रयोगेन युज्यते पशु तत्पदे ।
तस्मान्मन्त्रञ्च तत्वञ्च महिमानञ्च शोभने ।। २८ ।।
देवतानां परित्यागं स्वशरीरे यथाक्रमम् ।
बिन्दुनादलयञ्चैव लयातीतं परं पदम् ।। २९ ।।
एवं क्रमेण देवेशि योजयेत्परमं पदम् ।
अतः संक्षेपतो देवि कथयामि तवाखिलम् ।। ३० ।।
न रजो नाधिवासञ्च न भूक्षेत्रपरिग्रहः ।
यत्र यत्र प्रदेशे तु पूजयित्वा महेश्वरम् ।। ३१ ।।
प्. ९७२)
अध्वानं मनसा ध्यात्वा आचार्यस्तन्त्रपारगः ।
भुवनाध्वा तु यः प्रोक्तो मया तु तव सुवृते ।। ३२ ।।
तं ध्यात्वाह्यात्मदेहे तु पशुदेशे तथैव च ।
होमयेत्तन्त्रवित्प्राज्ञः तत्वमार्गविचक्षणः ।। ३३ ।।
आहुतीनां सहस्रन्तु अमनस्केन देशिकः ।
सहस्रेण तु युध्येत अमनस्केन शोभने ।। ३४ ।।
भुवनाध्वैष विख्यातः शिवेन परमात्मना ।
स्रुवानुपूरणं यावत्तावत्कालं समादिशेत् ।। ३५ ।।
अमनस्केन संयुक्तो देशिकः परमेश्वरि ।
सर्वमन्त्रमयः प्रोक्तः सर्वतत्वमयस्तथा ।। ३६ ।।
प्. ९७३)
सर्वदेवमयश्चैव सर्वभूतमयस्सदा ।
एतं हुत्वा तु पातव्यं पूर्णाहुत्या तु शोभने ।। ३७ ।।
अन्ते तु योजनं कृत्वा शिवसायुज्यमिच्छता ।
एवं हुत्वा महादेवि लभते शाश्वतं शिवम् ।। ३८ ।।
सर्वदीक्षामयं सारं शोभनं गोपितं मया ।
अन्याया कथिता दीक्षा एकाहुत्या तु शुध्यति ।। ३९ ।।
एकाहुत्यापि देवेशि नियुज्येत्परमे पदे ।
किं पुनर्बहुधा हुत्या शुध्यतेति किमद्भुतम् ।। ४० ।।
आहुतीनां सहस्रेण शुध्यते नात्र संशयः ।
अत एवं पुनर्वक्ष्ये संक्षेपं शृणु सुव्रते ।। ४१ ।।
प्. ९७४)
परमाक्षरेण होतव्यं सर्वाध्वानमशेषतः ।
पूर्णाहुतिशतेनैव शुध्यते च शिवाध्वरे ।। ४२ ।।
एवं विधेन देवेशि दीक्षा निर्वाणगामिनी ।
निष्कलेन मया ख्यातं शून्येनैव तथा पुनः ।। ४३ ।।
प्रशान्तेन समाख्यातं तत्वेनैव तथैव च ।
अकथ्येयमिदं शुद्धं गोपनीयं प्रयत्नतः ।। ४४ ।।
एवं वै यो न जानाति न हि मोचयते पशुम् ।
न चासौ देशिकः प्रोक्तो न च योज्यः शिवाध्वरे ।। ४५ ।।
इति निश्वासकारिकायां दीक्षोत्तरे शिवयागपटलः एकादशः ।
प्. ९७५)
ईश्वरः -
अतः परं प्रवक्ष्यामि सकलं परमेश्वरि ।
यस्मिन् प्रतिष्ठितं सर्वं त्रैलोक्यं स चराचरम् ।। १ ।।
सिद्धयो विविधाश्चैव यस्मिन् देवि प्रतिष्ठिताः ।
स ज्ञेयस्सकलो देवो वर्णरूपधरः प्रभुः ।। २ ।।
सितरक्तञ्च कृष्णञ्च कपिलं नालमेव च ।
पीतस्वच्छकपोतञ्च शबलं कर्बुरं तथा ।। ३ ।।
मूर्धा चतुः पञ्चवक्त्रं दशबाहुं त्रिलोचनम् ।
सर्वायुधधरं शंभुं जटाभारविभूषितम् ।। ४ ।।
पद्मासनस्थं देवेशं ध्यायेत्सकलविग्रहम् ।
सर्वसिद्धिकरं देवं साधकानां न संशयः ।। ५ ।।
प्. ९७६)
उत्तिष्ठे चातर्वामे च पादलेपाञ्जने तथा ।
गुलिकाकाशगमने दन्तकाष्ठपरित्रके ।। ६ ।।
सर्वसिद्धिकरं देवं मनसा यद्यदीप्सितम् ।
सर्वं संपद्यते सम्यक् जपतः सकलं प्रिये ।। ७ ।।
ध्यायतः सकलं देवं तस्य सिद्धिर्न दूरतः ।
पूजयेत्सकलं देवं जपेत्सकलनिष्कलम् ।। ८ ।।
ध्यायेज्ज्योतिर्मयं सूक्ष्मं कलाभिन्नन्तु तर्पयेत् ।
पूजयेच्छकलं देवं शिरः पाण्यादिभिर्युतम् ।। ९ ।।
पञ्चमूर्ध्नि तु संयुक्तं पूजाकाले सदा स्मरेत् ।
जपकाले सदा देवं कुर्याच्छकलनिष्कलम् ।। १० ।।
प्. ९७७)
सकलं मन्त्ररूपन्तु कलारूपन्तु निष्कलम् ।
ध्यायेज्ज्योतिर्मयं सूक्ष्मं रक्तं पीतं सितासितम् ।। ११ ।।
एवं ध्यानपरो भूत्वा योगसिद्धिमवाप्नुयात् ।
तर्पणे सर्वमन्त्राणां स्वाहाकारसमन्वितम् ।। १२ ।।
वौषट्कारवषट्कार सुवौषट्कारमेव च ।
हुंकारः फट्कृतश्चैव द्विरभ्यस्तं भवेदिव ।। १३ ।।
सुवषट्स्वाहा नमश्चैव ज्ञात्वा कर्मणि योजयेत् ।
स्वाहाकारे यदाभिन्नो प्रतिष्ठा नाम सा कला ।। १४ ।।
हुत्वा मात्रनिवृत्तिश्च प्रतिष्ठादि सभेदिता ।
विद्याबिन्दुसमायुक्ता शान्तिस्तु स विसर्गतः ।। १५ ।।
प्. ९७८)
तर्पणं सर्वमन्त्राणां कथितं तव शोभने ।
साधकानां हितार्थाय शिवेन कथितं पुरा ।। १६ ।।
विपरीता कला या तु मरणोच्चाटने स्मृता ।
उच्चाटने च विद्वेषस्तंभने च प्रयोजयेत् ।। १७ ।।
सकलं देवदेवेशि कथितन्तु समासतः ।
पञ्चतत्वमयं देवं सर्वतत्वमयं तथा ।। १८ ।।
सर्वभूतमयञ्चैव सर्वतः पर्यवस्थितम् ।
यस्मिन् यस्मिंश्च देवेशि ज्ञायते सु परिस्फुटम् ।। १९ ।।
तदहं संप्रवक्ष्यामि तन्मे निगदतः शृणु ।
सप्ततत्वपरं देवि तत्वमेकादश प्रभुम् ।। २० ।।
षोडशावयवमात्मानं एकविंशात्मकं प्रभुम् ।
प्. ९७९)
षट्त्रिंशात्मा तु विज्ञेयं कलातत्वं स एव तु ।। २१ ।।
मातृकात्मा तु विज्ञेयमेकाशीति पदात्मकम् ।
मन्त्रात्मा तु स विज्ञेयो भुवनाध्वा स एव तु ।। २२ ।।
पञ्चविंशः स विज्ञेयः सांख्यानां परमेश्वर ।
षट्त्रिंशकस्सविज्ञेयः ईश्वरः परमेश्वरः ।। २३ ।।
वेदान्तविदुषैश्चैव गीयते परमेश्वरः ।
पञ्चरात्रं तु तत्वज्ञैः स एव परिकीर्तितः ।। २४ ।।
वैमलाकारकश्चैव तथा पाशुपताश्च ये ।
बौद्धश्चार्हताश्चैव न्यायवैशेषिकास्तथा ।। २५ ।।
इतिहासपुराणज्ञा धर्मशास्त्रपरायणाः ।
प्. ९८०)
सर्वे मोक्षविदो देवि स्वसंज्ञाप्रतिपादिताः ।। २६ ।
सेवन्ते देवदेवेशं वेदवेदाङ्गपारगाः ।
स एव कथितो हंसः सकलः परमेश्वरि ।। २७ ।।
तिष्ठते देवदेवेशि सकलः कलसंयुतः ।
शक्तिनादार्धचन्द्रश्च बिन्दुदेवस्तथैव च ।। २८ ।।
अकारश्च उकारश्च वर्णस्सकलस्मृतः *? ।
एष देहे समाख्यातः सकलस्य विनिर्णयः ।। २९ ।।
अथवाचान्यभेदेन सकलः परमेश्वरः ।
कथयेद्देवदेवस्य तन्निबोध समासतः ।। ३० ।।
विकारः प्रथमः प्रोक्त अकारस्तद्वितीयकः ।
प्. ९८१)
उकारस्तु तृतीयस्तु मकारस्तु चतुर्थकम् ।। ३१ ।।
पञ्चमो बिन्दुनादस्तु ईकारः षष्ठ उच्यते ।
एभिर्वणैर्यदा हीनं निष्कलं परमेश्वरम् ।। ३२ ।।
अकारेण भकारेण इकारेण तु शोभने ।
त एते संस्थितैकस्थो हुकारः परिकीर्तितः ।। ३३ ।।
तुष्टा या तु यदा युक्तो मकारः परिकीर्तितः ।
यदा बिन्दुगतो शंभुः नासिकायां प्रवर्तते ।। ३४ ।।
ककारान्तं विजानीयात् तिरोधयति योगिनाम् ।
नाभिवर्णैर्यदा हीनं तदा शून्यं विनिर्दिशेत् ।। ३५ ।।
आकारश्च हकारश्च ईकारस्सह संयुतः ।
प्. ९८२)
अकारः कथितो देवि बिन्दुनादपरे स्थितः ।। ३६ ।।
तस्यापि परतरेणैव शक्तिस्तु परिकीर्तिता ।
शक्त्यातीतं यदा देवि किञ्चिच्छेषमवस्थितम् ।। ३७ ।।
व्यापिनी सा विनिर्दिष्टा सार्णो यद्वत्पिपीलिका ।
सकलानुग्रहेणैव कथितं तव शोभने ।। ३८ ।।
सकलाल्लभते सर्वं यत्किञ्चिद्भुवि दुर्लभम् ।
एष देवि समाख्यातो देहे यस्मात्प्रतिष्ठिता ।। ३९ ।।
स योगेन समायुक्तः उच्चारः स तु कीर्तितः ।
देहयुक्तस्तु देवेशे सकलः परिपठ्यते ।। ४० ।।
ब्रह्माविष्णुस्तथारुद्र ईश्वरश्च सदाशिवः ।
प्. ९८३)
ईकारसहसंयुक्तं देहं तस्य वरानने ।। ४१ ।।
एतत्त्यक्तो यदात्मा तु निष्कलस्स तु पठ्यते ।
कथितं पूर्वसूत्रे तु तत्त्वया विदितं पुरा ।। ४२ ।।
स्वयं निष्क्रमते देवो देहं त्यक्त्वा स मारुतः ।
निष्कलस्स समाख्यातो वेदितव्यः सुशोभने ।। ४३ ।।
पञ्चदेव विनिर्मुक्त आत्मानं यत्तु विन्दति ।
आत्मज्ञानेन संयुक्तो गच्छते स सदाशिवे ।। ४४ ।।
ऊर्ध्वगामी कलाह्येका कलाशक्ति चतुष्टयम् ।
व्यापिन्या तु यदायुक्तं षड्वर्णरहितश्शिवः ।। ४५ ।।
शुद्धस्फटिकसंकाशं विद्युत्कोटिसमप्रभम् ।
प्. ९८४)
असंख्यानञ्च सूर्याणां उदितोदितसुप्रभम् ।। ४६ ।।
ऊर्ध्वगामी तदेतद्धि कथितं तव शोभने ।
तत्स्थाने तु यदाह्यात्मा तद्रूपः प्रतिभाति सः ।। ४७ ।।
सूक्ष्मा नामकला या तु शुद्धस्फटिकनिर्मला ।
तस्यां मध्ये तदाह्यात्मा तद्रूपः प्रतिभाति सः ।। ४८ ।।
अमृता नाम कला या तु अनेककिरणप्रभा ।
तस्मिंस्थाने तदाह्यात्मा तद्रूपप्रतिमो भवेत् ।। ४९ ।।
अमृतामृतेति या प्रोक्ता तस्या रूपं यथा शृणु ।
चन्द्रातपप्रतीकाशा अमृतं स्रवते सदा ।। ५० ।।
अमृतामृतेति सा प्रोक्ता कलाशक्तिचतुर्थिका ।
प्. ९८५)
तत्स्थाने तु तदाह्यात्मा तद्रूपः प्रतिभाति सः ।। ५१ ।।
एतत् षड्वर्णमुद्दिष्टं मया ते वरवर्णिनी ।
एभिर्वर्णैर्यदाहीनं षड्वर्णरहितश्शिवः ।। ५२ ।।
एवं ज्ञात्वा वरारोहे देशिकः पाशहा भवेत् ।
षट्पदार्थमिदं ज्ञानं कथितं परमेष्ठिना ।। ५३ ।।
एतत्स्थानवरं दिव्यं ज्ञात्वाह्यात्मा प्रकीर्तितः ।
येन येन च ते तत्तत् भावाभावमवाप्नुयात् ।। ५४ ।।
स्फटिकोपलवद्देवि आत्मा तु परिकीर्तितः ।
यद्यद्रूपेण संयुज्येत् तद्रूपं प्रतिभाति च ।। ५५ ।।
रूपवर्णविनिर्मुक्तः करणेन्द्रियवर्जितः ।
प्. ९८६)
तस्मात्करणसंयुक्तो बध्यते मुच्यतेति च ।। ५६ ।।
बुध्यमानो परो भूत्वा ज्ञान यज्ञं स विन्दति ।
ज्ञानेन तल्लयं ज्ञेयं ज्ञेयं सर्वगतो भवेत् ।। ५७ ।।
ज्ञानज्ञेयः सदाह्यात्मा ज्ञात्वा मुच्येत मोचयेत् ।
ज्ञात्वा ह्यात्मा विनिर्दिष्टो ज्ञानज्ञेयं स जानते ।। ५८ ।।
विदित्वा मुच्यते जन्तुः संसारभवबन्धनात् ।
एवन्ते ज्ञानमाख्यातं षड्वर्णं परमेश्वरि ।। ५९ ।।
एतेषां परतो देवि अरूपाख्यो निरामयः ।
न तस्य शक्यते वक्तुं पारंपर्येण संस्थितम् ।। ६० ।।
तं विदित्वा महादेवि दीक्षकस्स गुरुर्भवेत् ।
प्. ९८७)
ज्ञानविज्ञानवान् सो हि मोचकस्स गुरुस्सदा ।। ६१ ।।
स चानुग्रहकर्ता च पाशहा देशिकोत्तमः ।
ब्रह्मादयस्मृतास्ते तु ये रूपाः कथिता मया ।। ६२ ।।
व्यापिनी तु पराशक्तिः सर्वतत्वप्रबोधिका ।
एतद्देवि मया ख्यातं तत्वं परमदुर्लभम् ।। ६३ ।।
त्वया गुह्यतरं कार्यं न दद्याद्यस्य कस्यचित् ।
सकलं निष्कलञ्चैव तथा सकलनिष्कलम् ।। ६४ ।।
ब्रह्माविष्णुस्तथा रुद्रस्त्रिभिस्तु सकलस्मृतः ।
बिन्दुदेवं परं तत्वं ज्ञेयं सकलनिष्कलम् ।। ६५ ।।
सदाशिवं महात्मानं विज्ञेयं निष्कलं शिवम् ।
प्. ९८८)
आत्मतत्वे त्रयो देवा विद्यातत्वे तथैव च ।। ६६ ।।
शिवतत्वेऽथवा देवि विज्ञेयस्तु सदाशिवः ।
शक्तिस्तु परमा देवि त्रितत्वपरमा स्थिता ।। ६७ ।।
सर्वतत्वपदातीतः तत्वानां योऽव्ययः परः ।
तस्मात् सर्वमिदं देवि ततो सर्वमिदं ततम् ।। ६८ ।।
इति निश्वासकारिकायां दीक्षोत्तरे सकलविचारो नाम द्वादशः पटलः ।
देव्युवाच-
भगवन् श्रोतुमिच्छामि सकलस्य विनिर्णयम् ।
व्याप्तिर्बहुविधा प्रोक्ता समया नावधारिता ।। १ ।।
प्. ९८९)
पञ्चदेवमयं देवं कथं नु सकलः प्रभुः ।
सर्वतत्वमयञ्चैव सर्वभूतमयं कथम् ।। २ ।।
सप्ततत्वधरं देवं तत्वमेकादशात्मकम् ।
षोडशावयवात्मानं एकविंशात्मकं कथम् ।। ३ ।।
षट्त्रिंशात्मकमेवोक्तं कलातत्वस्स एव तु ।
मातृकात्मेति यत्प्रोक्तं एकाशीति पदात्मकम् ।। ४ ।।
मन्त्रात्मा सर्वमन्त्राणां भुवनाध्वा स एव तु ।
पञ्चविंशसविज्ञेयः षड्विंशकस्तथैव च ।। ५ ।।
वेदान्तवादिनो देवस्त्वमेव परमेश्वरम् ।
पाञ्चरात्रिकतत्वज्ञः स एव परमं पदम् ।। ६ ।।
प्. ९९०)
वैमलाकारकाश्चैव तथा पाशुपताश्च ये ।
सर्वेषु संस्थितं देवं सकलः परमेश्वरः ।। ७ ।।
बौद्धाश्चैवार्हताश्चैव न्यायवैशेषिकास्तथा ।
इतिहासपुराणज्ञा धर्मशास्त्ररताश्च ये ।। ८ ।।
सर्वमोक्षविदो ये तु वेदवेदाङ्गपारगाः ।
सेवन्ते देवदेवेशं सकलं परमेश्वरम् ।। ९ ।।
एतदेव त्वया प्रोक्तं न मया विदितः प्रभो ।
सर्वमेतदशेषन्तु विस्तरेण ब्रवीहि मे ।। १० ।।
स्वकीयान्तत्र युक्त्या तु ब्रूहि देव सविस्तरम् ।
ईश्वरः -
प्. ९९१)
शृणु देवि प्रवक्ष्यामि सकलस्य विनिर्णयम् ।। ११ ।।
अनुक्रमेण वक्ष्यामि चोदितस्तु यथा त्वया ।
पञ्चदेवमयं देवि ब्रह्मविष्णुमहेश्वराः ।। १२ ।।
ईश्वरञ्च तथा प्रोक्तं तथा देवं सदाशिवम् ।
पञ्चदेवा स्मृता ह्येते सर्वतः पर्यवस्थिताः ।। १३ ।।
अकारं ब्रह्मदेवत्यं मकारं रुद्रदेवतम् ।
ऊकारं विष्णुदेवत्यं बिन्दुदेवं तथेश्वरम् ।। १४ ।।
नादरूपी तु यत्तस्य विज्ञेयन्तु सदाशिवम् ।
सकलं निष्कलञ्चैव कलाढ्यं शून्यमेव च ।। १५ ।।
खमलं क्षपणञ्चैव क्षयं कण्ठोष्ठ्यमेव च ।
प्. ९९२)
एते भूतास्समाख्याताः करणैः सहसंयुताः ।। १६ ।।
विकाराष्षोडश प्रोक्ताः सप्तप्रकृति सूक्ष्मगाः ।
गुणत्रयं तथा देवि भूतात्मकमिदं स्मृतम् ।। १७ ।।
भूताः प्रकाशमायान्ति तेन भूतात्मका स्मृताः ।
भूतैः परिवृता यस्मिन् करणाशेषशोभने ।। १८ ।।
एतद्भूतात्मकं सर्वं कथितं तव शोभने ।
विद्याचेश्वरमाया च कालो नियतिरेव च ।। १९ ।।
पुरुषः प्रकृतिश्चैव सप्तैते कथितानि तु ।
ईश्वरस्तु शिरश्चैव विद्यादक्षिणरेखिणी ।। २० ।।
मायावामेन विज्ञेया त्रिलोका च संस्थिताः ।
प्. ९९३)
नियतिः कालोऽधस्तात्तु बोद्धव्यमनुपूर्वशः ।। २१ ।।
पुरुषं वक्त्रदेशे तु तस्याधः प्रकृतिस्थिता ।
सप्ततत्वधरं देवमेष ते समुदाहृतम् ।। २२ ।।
तत्वमेकादशात्मेति यदुक्तं हि मया पुरा ।
शृणुष्वावहिता देवि कथयामि तवाखिलम् ।। २३ ।।
सप्ततत्वोपरिष्ठात्तु ज्ञेयं तत्वं सदाशिवम् ।
उपरिष्टाच्छिवं तत्व मूर्ध्वशक्तिप्रतिष्ठितम् ।। २४ ।।
व्यापिनी तु परा तस्य तत्वमेकादशात्मकम् ।
षोडशावयवात्मानं यदुक्तं हि मया पुरा ।। २५ ।।
कखाख्या षोडशा देवि ज्ञातव्या देशिकेन तु ।
प्. ९९४)
तृटिर्लवं निमेषस्तु कलाकाष्ठा मुहूर्तता ।। २६ ।।
रात्र्यहः पक्षमासर्तु अयनं वत्सरं तथा ।
युगं मन्वन्तरं कल्पं महाकल्पस्तथैव च ।। २७ ।।
षोडशावयवं ह्येतत् कालस्सप्तदश स्मृतः ।
षट्त्रिंशात्मेति यत्प्रोक्तं शृणु तस्य वदाम्यहम् ।। २८ ।।
पृथिवीमादितः कृत्वा प्रधानान्तं तु सुव्रते ।
चतुर्विंशति तत्वं हि पुरुषं पञ्चविंशकम् ।। २९ ।।
षड्विंशकस्तु नियतिः कालः सप्ताधिको भवेत् ।
अष्टाविंश स्मृतं रागं विद्या ज्ञेया तथा परा ।। ३० ।।
ऊनत्त्रिंशस्तु विज्ञेयं देशिकेन महात्मना ।
प्. ९९५)
त्रिंशतस्तु कलातत्वं कथितं हि शिवेन तु ।। ३१ ।।
एकत्रिंशद्वरारोहे मायातत्वं प्रकीर्तितम् ।
द्वात्रिंशकस्मृता विद्या त्रयस्त्रिंशाधिकेश्वरम् ।। ३२ ।।
सदाशिवं चतुस्त्रिंशत् पञ्चत्रिंशच्छिवास्मृता ।
शिवष्षट्त्रिंशमाख्याता शिवेन परमात्मना ।। ३३ ।।
षट्त्रिंशात्मा समाख्यातो यथावत्तव शोभने ।
कला चतुर्थी सा ज्ञेया देशिकेन महात्मना ।। ३४ ।।
प्रथमं पञ्चब्रह्माणमष्टत्रिंशत्क्रमात् स्मृतम् ।
सद्या कलाभिरष्टाभिः वामदेवस्त्रयोदशम् ।। ३५ ।।
अघोरमभिचाष्टाभिः चतुर्भिर्वदनं स्मृतम् ।
प्. ९९६)
ईशानं पञ्चधा देवि तस्य देहाद्विनिस्सृताः ।। ३६ ।।
ब्रह्मादीन् पञ्चधा **? पञ्चब्रह्मा प्रकीर्तिताः ।
बिन्दुदेवे च चत्वारः कला देवि वदाम्यहम् ।। ३७ ।।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।
कलाह्येतास्तु चत्वारः स एव परमेश्वरः ।। ३८ ।।
नादस्य याः कला प्रोक्ता शक्त्यायाश्च महेश्वरि ।
सूक्ष्मासूक्ष्मतरैर्भावैः सकलः परमेश्वरः ।। ३९ ।।
कलातत्वं सचैवेह कथितं तव शोभने ।
मातृकात्मेति यत्प्रोक्तं मया ते सुरसुन्दरि ।। ४० ।।
अकारादिक्षकारान्ता मातृका परिकीर्तिताः ।
प्. ९९७)
स कामस्य तु देवेशि देहो ज्ञेयास्सदा बुधैः ।। ४१ ।।
प्रणवे संस्थिता तस्मिन् ज्ञातव्या तु वरानने ।
एकाशीति पदात्मे तु यदुक्तं परमेश्वरि ।। ४२ ।।
नवभेद विभागेन कथितं विदितं त्वया ।
मन्त्रात्मा तु क्रिया प्रोक्तः स एव परमेश्वरः ।। ४३ ।।
कला षोडशमित्युक्तं सर्वतन्त्रेषु गीयते ।
ताभ्यो बिन्दुद्वयमन्ते ताभ्यां ते अलिकद्वयम् ।। ४४ ।।
बिन्दुद्वयस्य मध्ये तु एकं मध्ये नियोजयेत् ।
द्वितीया बिन्द्वधस्तात्तु मन्त्रात्मा स तु कीर्तितः ।। ४५ ।।
स जीवः सर्वमन्त्राणां कथितं तव शोभने ।
प्. ९९८)
तेन सर्वमिदं देवि त्रैलोक्यं स चराचरम् ।। ४६ ।।
व्यापितं परमेशेन नात्र कार्या विचारणा ।
तिर्यङ्मृगनराख्यानां स जीवः परिकीर्तितः ।। ४७ ।।
तेन सर्वमिदं व्याप्तं पयसीव यथा घृतम् ।
सर्वेषामेव मन्त्राणां कथितं तव शोभने ।। ४८ ।।
एतत् ज्ञानपरं देवि अविज्ञातं सुरैरपि ।
संज्ञेयस्सर्वमन्त्रेषु सर्वतन्त्रेषु शोभने ।। ४९ ।।
उच्छवसेद्देव देवेशे हंसः परमकारणम् ।
एष ते ज्ञानसद्भावं मन्त्रसद्भाव एव च ।। ५० ।।
मन्त्रसद्भावमित्युक्तं जीवसद्भावमुत्तमम् ।
प्. ९९९)
गोपितव्यं प्रयत्नेन ज्ञानमेतत्सुदुर्लभम् ।। ५१ ।।
अविदित्वा इदं देवि जीवसद्भावमुत्तमम् ।
नैव मन्त्राः प्रसिध्यन्ति जप्ताः कोटिशतैरपि ।। ५२ ।।
गीयते सर्वलोकेषु जीवं परमदुर्लभम् ।
सुभाषितमिदं वाक्यं कलानार्हन्ति षोडशी ।। ५३ ।।
यस्मात्परतरं देवि ज्ञानज्ञेयं वरानने ।
सर्वस्वं गोपितं ज्ञातं न ख्यातं यस्य कस्यचित् ।। ५४ ।।
देयं दान्ताय शान्ताय गुरुभक्तरताय च ।
सर्वतन्त्रविधिज्ञाय साधकाय च धीमते ।। ५५ ।।
अभिषिक्ताय दातव्यमाचार्यस्य महात्मनः ।
प्. १०००)
अन्यायै गृह्यते ये तु नाभिनन्दन्ति ये गुरुम् ।। ५६ ।।
ज्ञेनं ज्ञेयं विदित्वा तु प्रायश्चित्तीयते नरः ।
तस्मात् ज्ञानं गुरुञ्चैव अ * * * * *? वृते ।। ५७ ।।
ज्ञानवित् तत्वविच्चैव शिवश्चैव वरानने ।
विभक्तिञ्चैव कुर्वीत परमेशेन भाषितम् ।। ५८ ।।
एष ते कथितं देवि मन्त्रात्मा परमेश्वरः ।
विदित्वा सर्वकर्माणि कुरु देवि यथेच्छया ।। ५९ ।।
सर्वतन्त्रेषु सामान्यं कथितं तव शोभने ।
नातः परतरं ज्ञानं सत्यं देवि वदाम्यहम् ।। ६० ।।
भुवनाध्वा स एवोक्तः सकलः परमेश्वरः ।
प्. १००१)
तत्प्रवक्ष्याम्यहं देवि संक्षेपान्न तु विस्तरात् ।। ६१ ।।
पञ्चधा पञ्चदेवत्वं सकलं पर्यवस्थितम् ।
ते मया पूर्वमाख्यातं यथा तु विदितं त्वया ।। ६२ ।।
अनन्तमादितः कृत्वा प्रधानान्ते च शोभने ।
ब्रह्मा तत्राधिपत्येन संस्थितं परमेश्वरि ।। ६३ ।।
पौरुषमादितः कृत्वा कलातत्वमपश्चिमम् ।
विष्णुस्तत्वाधिपत्येन संस्थितं परमेश्वरि ।। ६४ ।।
ग्रन्थ्या तु आदितः कृत्वा कलातत्वमपश्चिमम् ।
रुद्रस्तत्वाधिपत्येन संस्थितः परमेश्वरः ।। ६५ ।।
विद्या तु आदितः कृत्वा यावत्तत्वं सदाशिवम् ।
प्. १००२)
ईश्वर आधिपत्येन संस्थितो नात्र संशयः ।। ६६ ।।
उपरिष्टाच्छिवं तत्वं तत्र देवं सदाशिवम् ।
व्यापिनं पञ्चधा देवि भुवनाध्वमशेषतः ।। ६७ ।।
पञ्चविंशति तत्प्रोक्तं मया पूर्वं वरानने ।
तदहं संप्रवक्ष्यामि तदेकाग्रमना शृणु ।। ६८ ।।
परिसंख्यानुपूर्वेण संक्षेपात्कथयाम्यहम् ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। ६९ ।।
कर्मेन्द्रियस्तथा पञ्चपञ्च बुद्धीन्द्रियाणि च ।
तन्मात्राणि तथा पञ्च कतितं तव शोभने ।। ७० ।।
बुद्धिर्मनस्वहङ्कारं प्रधानं सहसंयुतम् ।
प्. १००३)
चतुर्विंशत् स्मृतं क्षेत्रं क्षेत्रज्ञः पञ्चविंशकः ।। ७१ ।।
स एष परमो देवि क्षेत्रभुक् कारणं स्मृतम् ।
व्यक्ताव्यक्तविज्ञानात् ज्ञात्वा कुच्यति बन्धनात् ।। ७२ ।।
व्यक्ता बुद्धिस्समाख्याता अव्यक्ता प्रकृतिः स्मृता ।
ज्ञस्वभावो भवेदात्मा पुरुषं पञ्चविंशकम् ।। ७३ ।।
तुर्यरूपस्वभावस्थं स एष परमं पदम् ।
निष्क्रियं तत्स्वभावेन अकर्ता कर्मणः प्रभुः ।। ७४ ।।
कर्ता प्रधानमित्याहुः क्षययुक्तं गुणान्वितम् ।
एवं वदन्ति देवेशि षष्टितन्त्राध्ववादिनः ।। ७५ ।।
महदादिक्रमेणैव भूतादिविधिवाचकैः ।
प्. १००४)
विषयेन्द्रियतन्मात्रैः गुणादिविधिवाचकैः ।। ७६ ।।
प्रकृतिस्सा तु विज्ञेया भेदैर्नामाङ्गलक्षणैः ।
भोक्ता तु पुरुषः प्रोक्तः चिन्मात्रो गुणवर्जितः ।। ७७ ।।
पञ्चविंशकमित्युक्तं सांख्यज्ञानार्थवादिभिः ।
निष्कलत्वेन मन्यन्ते सर्वज्ञं सर्वतोमुखम् ।। ७८ ।।
निर्गुणं गुणसंयुक्तं चिन्त्यते सांख्यवादिभिः ।
इत्येतत्पौरुषं तत्वं सांख्यानां परमं पदम् ।। ७९ ।।
अस्य दोषं शृणु देवि स्वसिद्धान्ते यथा भवेत् ।
यैर्बद्धः पशुतानैति अज्ञत्वञ्च प्रजायते ।। ८० ।।
भोक्तृत्वा नित्यता चैव अकर्ता निष्क्रयस्तथा ।
प्. १००५)
अर्थित्वं पारतन्त्रञ्च धर्माष्षट् पौरुषास्त्विमे ।। ८१ ।।
भोक्ता यस्स अतृप्तस्तु मर्त्यधर्मा अनित्यता ।
निष्क्रयत्वादुदासीनो अकर्ता अज्ञता पुनः ।। ८२ ।।
मध्यस्थता पराशीति पारतन्त्र्यदरिद्रता ।
धर्माह्येते स्मृतास्तस्य मातृकैः प्रतिपादिताः ।। ८३ ।।
सर्वज्ञता न च तस्य निर्गुणत्वं न चैव हि ।
निष्कलत्वं न तस्यैव शक्त्याग्रकलना श्रुतः ।। ८४ ।।
गुणैस्सुप्रतिबद्धस्तु मुक्तिस्तस्य न शाश्वति ।
किञ्चित्कालं भवेन्मुक्तिः प्रधानगुणबन्धनात् ।। ८५ ।।
स्वाकयं भावं कला तस्य चैतन्येन समन्विता ।
प्. १००६)
रोगमानन्दभावेन विद्याह्यर्थविवेकिनी ।। ८६ ।।
त्रिविधं बन्धनाख्यातं पुरुषस्य महात्मने ।
मायात्मकमिदं देवि अधोभागप्रवर्तकम् ।। ८७ ।।
एष ते देवि आख्यातः सांख्यज्ञानस्वनिर्णयम् ।
सकलं व्यापयित्वा तु संस्थितं तन्तु सुव्रते ।। ८८ ।।
षड्विंशेति यथा प्रोक्तं मया पूर्वं हि सुवृते ।
तदहं संप्रवक्ष्यामि तदेकाग्रमनाः शृणु ।। ८९ ।।
कलाधस्तात्कर्मकला पुरुषः परिकीर्तितः ।
नराणां नयने सूक्ष्मे योगी नारायणेश्वरः ।। ९० ।।
सा निष्ठा वेदवादीनां योगिनाञ्च निगद्यते ।
प्. १००७)
स चैव पठ्यते तैस्तु षडूर्मिरहिता तनुः ।। ९१ ।।
वदन्ते नैव जानन्ते अन्यार्थेन वदन्ति ते ।
अस्मिन्नेव शृणु देवि षडूर्मिरहितं यथा ।। ९२ ।।
ब्रह्माविष्णुस्तथा रुद्रो ईश्वरश्च सदाशिवः ।
शक्तिना रहितं देवि षडूर्मिरहितं शिवम् ।। ९३ ।।
मूलतत्वं समाख्यातं विज्ञानानन्दकारकम् ।
नेति नेति च हंसाख्यं परमं ब्रह्मवाचकम् ।। ९४ ।।
इदं तत्त्परमं तत्वमिदं तत्परमं पदम् ।
इदं सा परमामुक्तिः या सा वेदविदो ध्रुवम् ।। ९५ ।।
त्रिप्रकारेण भेदेन योगिभिः समुदाहृतम् ।
प्. १००८)
आत्मानमन्तरात्मानं परमात्मानमेव च ।। ९६ ।।
एवं त्रिधा वदन्त्येव हंकारं तथापरे ।
बुद्धिमन्ये तथा देवि प्रधानगुणगोचरम् ।। ९७ ।।
पञ्चविंशञ्च षड्विंशं वेदमन्ये तथा परे ।
बद्धा वदन्ति बहवः ऋषयस्संशितव्रताः ।। ९८ ।।
एकं तत्सकलं देवमुपास्यं विदिवौकसः ।
ऋषयो यक्षरक्षांसि पिशाचोरगकिन्नराः ।। ९९ ।।
गन्धर्वासुरदैत्याश्च तथा विद्याधरादयः ।
सिद्धाश्चैव तथा देवि ये चान्ये भुवि मानवाः ।। १०० ।।
ह्रस्वं दीर्घं कृशं सूक्ष्मं सूक्ष्मात्सूक्ष्मतरं तथा ।
प्. १००९)
स्थूलात्स्थूलतरं देवं कल्पयन्ति मनीषिणः ।। १०१ ।।
अरूपं रूपवान् देवं कल्पयन्ति अनेकधा ।
हरितं कपिलञ्चैव मञ्जिष्ठः सगरेव च ।। १०२ ।।
बभ्रुः पिङ्गः कपोतश्च धूम्रश्शबलकं तथा ।
श्यामं तदुलमान्त्रन्तु आपबद्धे च पुष्करे ।। १०३ ।।
खद्योताभनिभञ्चैव तारामात्रं तथैव च ।
चन्द्रबिंबनिभं केचित् आदित्योदयसन्निभम् ।। १०४ ।।
इन्द्रनीलनिभञ्चैव पद्मरागनिभं तथा ।
एवं बहुविधं देव सकलं परमेश्वरि ।। १०५ ।।
सकलं सर्वविद्यानां आधारं परिकीर्तितम् ।
प्. १०१०)
अस्मात्प्रभूयते सर्वमस्मिन्नेव लयं पुनः ।। १०६ ।।
अस्मात्सिद्धिश्च मुक्तिश्च संस्थिता नात्र संशयः ।
उत्तिष्ठमादितः कृत्वा विद्वेषाकर्षणं तथा ।। १०७ ।।
करोति साधकेन्द्रस्तु यस्तत्वं जपते सदा ।
किं तस्य बहुभिर्मन्त्रैः ज्ञातैस्तु वरवर्णिनी ।। १०८ ।।
चिन्तामणिरिव परं तत्वं सकलं सर्वतोमुखम् ।
यागे यागे जपे होमे यथा सिध्यन्ति योगिनः ।। १०९ ।।
यथा च यजनं कुर्यात् शृणु देवि समासतः ।
यागस्थं सकलं देवं शिरः पाण्यादिलक्षणम् ।। ११० ।।
त्र्यक्षं दशभुजं देवं सर्वायुधधरं तथा ।
प्. १०११)
एवं जपं तथा ध्यायन् पूजयेत्परमेश्वरम् ।। १११ ।।
न रूपेण विना सिद्धिः तस्माद्रूपं विचिन्तयेत् ।
चिन्त्यमानस्य देवेशे सर्वविघ्नक्षयो भवेत् ।। ११२ ।।
निर्विघ्नस्सिध्यते मन्त्री कथितं सर्वतो मया ।
योगकाले तथा देवि ध्यातव्यं सकलं प्रिये ।। ११३ ।।
पूर्वमुच्चारयेत्तत्वं सकलं यत्प्रकीर्तितम् ।
बिन्दुस्थं शब्दलीनन्तु ज्योतीरूपं शिखान्वितम् ।। ११४ ।।
ध्यानकाले तु योगीभिः ध्यातव्यं सकलं सदा ।
जपकाले जपं कुर्यात् एवं सकलनिष्कलम् ।। ११५ ।।
नमस्कारस्य अन्ते तु ज्ञेयं बिन्दुद्वयं बुधः ।
प्. १०१२)
बिन्दुद्वयात्परो देवि स वै निष्कलमुच्यते ।। ११६ ।।
होमकाले यथा होमः कर्तव्यः साधकेन तु ।
स्वाहाकार समायुक्तं होमकाले तु होमयेत् ।। ११७ ।।
प्रतिष्ठा नाम सा ज्ञेया बिन्दुदेवकला प्रिये ।
तया होमविकल्पस्तु कर्तव्यन्तु सदा बुधैः ।। ११८ ।।
- ? ने बिन्दुसमायुक्तं मन्त्रं कुर्याद्विचक्षणः ।
शान्त्यर्थे वौषडित्येवं पुष्ट्यर्थे नमसुवौषट् ।। ११९ ।।
अमृतीकरणे चैव वषट्कारेण होमयेत् ।
मारणे ताडने चैव इच्छा देवि विचक्षणम् ।। १२० ।।
फट् फट्कार समायुक्तं होमं कुर्याज्जपं तथा ।
प्. १०१३)
एवं विज्ञाय कर्तव्यं जपयोगं समाधिना ।। १२१ ।।
अन्यथा नैव सिध्येत कल्पकोटिशतैरपि ।
सकलं जपमानस्तु निष्कलं जपितं भवेत् ।। १२२ ।।
निष्कलं जपते यस्तु सकलस्योपरि स्थितम् ।
अचिराद्देवि सिद्ध्येत परमेशेन भाषितम् ।। १२३ ।।
नैव पुण्यं भवेत्तस्य नैव पापं कथञ्चन ।
कथितं स रहस्यन्तु न मया गोपितं तव ।। १२४ ।।
त्वयापि देवदेवेशि गोपनीयं न संशयः ।
अन्याये पृच्छते यस्तु गुरुवुत्क्रान्तिगोचरम् ।। १२५ ।।
तस्य देवि न दातव्या आज्ञैषा परमेश्वरि ।
प्. १०१४)
धर्मशीलविनीतस्य गुरुभक्तस्य धीमते ।। १२६ ।।
ज्ञानमेतत्प्रदातव्यं ममाज्ञापरिपालके ।
तस्माच्छ्रेयार्थिभिर्नित्यं पूजनीयो गुरुस्सदा ।। १२७ ।।
इति निश्वासकारिकायां दीक्षोत्तरे सकलविचारो नाम त्रयोदशः पटलः ।।
ईश्वरः -
अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् ।
तिथिनक्षत्रयोगाश्च इतरानुकूलमेव च ।। १ ।।
तारा चन्द्रकलेनैव कुर्याद्भूमिपरिग्रहम् ।
प्. १०१५)
पूर्वेण ब्रह्मणे कुर्यात् क्षत्रियस्योत्तरेण तु ।। २ ।।
वैश्यस्य वसुधा पीता कृष्णा शूद्रस्य कीर्तिता ।
ब्राह्मणे मधुरास्वादा कषाया क्षत्रियस्य तु ।। ३ ।।
वैश्यस्य षड्डूसा ज्ञेया शूद्रस्य कटुका स्मृता ।
आज्यगन्धाद्विजे भूमीरक्तगन्धा तु क्षत्रिये ।। ४ ।।
धान्यगन्धाविशे भूमी शूद्रस्य क्षारगन्धिनी ।
परीक्ष्य निपुणो भूमिं वारयोगविधानवित् ।। ५ ।।
पूजयित्वा विधानज्ञो रिक्तां राशिगणैस्सह ।
होराद्द्रेक्काणि अंशाश्च तारा चैव बलाबलम् ।। ६ ।।
प्. १०१६)
लौकिकं धार्मिकाश्चैव कलज्ञानविचक्षणः ।
यदि स्याल्लौकिको देवि कालज्ञानं न जानति ।। ७ ।।
तदात्वाध्यात्मिकं कालं परीक्षेत विचक्षणः ।
ततस्संपूज्य देवेशं लक्षयेच्च क्रमाद्बुधः ।। ८ ।।
दिव्यान्तरिक्षभौमानि प्रञ्चान्तरिनितराणि च ।
लक्षयित्वा विधानेन आचार्यस्सुसमाहितः ।। ९ ।।
शङ्घदुन्दुभिनिर्घोषैः वेदशब्दादिमङ्गलैः ।
गीतवाद्यरवोद्घोषं जयशब्दसमन्वितम् ।। १० ।।
सिंहनादरवञ्चैव कुमारीजनक्रीडनम् ।
भौमान्येतानि शब्दानि अन्तरिक्षाः प्रकीर्तिताः ।। ११ ।।
प्. १०१७)
मेघस्तनितनिर्घोषं मेघसञ्जनमंबरम् ।
स्निग्धविद्युल्लतारम्यं सर्वसंपत्करं शुभम् ।। १२ ।।
प्रशान्तानि तु गृह्णीयात् अप्रशस्तानि वर्जयेत् ।
काकवृद्धचलोलूकश्वानमार्जारकूजितम् ।। १३ ।।
उष्ट्रगर्दभशब्दानि वानरं ऋक्षसूकरम् ।
एतेषाञ्चैव यश्शब्द प्रशस्तन्तु शोभने ।। १४ ।।
पूजति ग्रहचक्रे तु सङ्क्रमाद्गृह्य यत्नतः ।
खातयेज्जानुमात्रन्तु पांसुमुद्धृत्य पूरयेत् ।। १५ ।।
पांसुरभ्यधिको यत्र सा भूमिः सर्वकामदा ।
ज्ञात्वा भूमिर्विधानज्ञो वास्तुयागं यजेद्बुधः ।। १६ ।।
प्. १०१८)
विद्याङ्गावरणं यष्ट्वा हुनेदष्टशतं क्रमात् ।
वास्तुयाग स्मृतो ह्येषः ततो भूम्यां विशोधनम् ।। १७ ।।
शोधयित्वा ततो भूमिं कीटकेशास्थिवर्जिताम् ।
सेचयेत्पञ्चगव्येन तां भूमिं सुपरीक्षिताम् ।। १८ ।।
प्रशस्ततरमुद्भूतैः पलाशाश्वत्थमुद्गरैः ।
कोष्टयेत् सुदृढां भूमिं निम्नोन्नतविवर्जिताम् ।। १९ ।।
पर्वोत्तरप्लुवा कार्या यागभूमिस्सुशोभना ।
समं सर्वत्र कर्तव्यं भूमिभागमिदं शुभम् ।। २० ।।
एवं कृत्वा विधानेन परितः परिवारयेत् ।
पुरुषाया न कर्तव्यमिष्टकं मृण्मयञ्च वा ।। २१ ।।
प्. १०१९)
द्वारमेकन्तु कर्तव्यं सकवाटार्गलान्वितम् ।
एवं कृत्वा ततो देवि विष्णुभूमिपरिग्रहम् ।। २२ ।।
गणयागं यजेदादौ ततो भूमिपरिग्रहम् ।
पञ्चाङ्गञ्च शिवं यष्ट्वा जुहुयादष्टशतं क्रमात् ।। २२ ।।
गणयागे त्रिकोणन्तु मण्डलं पद्मलाञ्छितम् ।
पीठोङ्कारसमायुक्तं पूजयेत गणेश्वरम् ।। २४ ।।
वास्तुयागे चतुष्कोणं मध्ये पङ्कजभूषितम् ।
भूम्यां परिग्रहोह्येष कथितं तव शोभने ।। २५ ।।
अधिवासनं ततः कुर्यात् शास्त्रदृष्टेन कर्मणा ।
संभारैः संभृतो मन्त्री अधिवासनमारभेत् ।। २६ ।।
प्. १०२०)
अष्टौ तु कलशान् कुर्याद्दिशासु विदिशासु च ।
एवं विन्यस्य यत्नेन शिवाख्यं कलशं न्यसेत् ।। २७ ।।
हेमजं ताम्रजं वापि ऋग्मजं वापि कारयेत् ।
अथवा मृण्मयं वापि कारयेत विचक्षणः ।। २८ ।।
अकालमूलकलशाश्चन्दनेनोपलेपितम् ।
सु सुगन्धैस्तथा गन्धैः कण्ठसूत्रविभूषितम् ।। २९ ।।
अक्षतैः पञ्चगव्येन धूपैर्गन्धैस्तथैव च ।
आसनं कल्पयेत्तत्र ईशान्यादिशमाश्रितम् ।। ३० ।।
कलशं स हिरण्यन्तु मूर्तिना सहसंयुतम् ।
पञ्चब्रह्मा न्यसेत्पूर्वं अष्टत्त्रिंशत्कलां ततः ।। ३१ ।।
प्. १०२१)
पृथिवीमादितः कृत्वा तत्वानि परिकल्पयेत् ।
एवं विन्यस्य तत्वानि त्रितत्वांस्तु त्रिधा न्यसेत् ।। ३२ ।।
विद्याङ्गानि ततो दद्यान्नेत्रादि क्षुरिका न्यसेत् ।
एवं विन्यस्य यत्नेन शिवस्यावाहनं कुरु ।। ३३ ।।
सद्येनावाहयेद्देवं वामदेवेन स्थापयेत् ।
अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु ।। ३४ ।।
ईशानेन तु पुष्पाणि शिवस्य परिकल्पयेत् ।
हृदये हृदयं दद्यात् शिरः शिरसि विन्यसेत् ।। ३५ ।।
शिखायान्तु शिखा दद्यात् कवचं सर्वगात्रिकम् ।
अस्त्रं हस्तप्रदेशे तु विन्यस्य परमेश्वरि ।। ३६ ।।
प्. १०२२)
एवं विन्यस्य देवेशि चिन्तयेच्छिवमव्ययम् ।
मन्त्रातीतं परं देवं तत्वातीतं परं पदम् ।। ३७ ।।
अनेन विधिना पूज्य सकलं परमेश्वरि ।
अस्त्रं जप्त्वा ततो देवि विकिरान् सर्वतो दिशि ।। ३८ ।।
विकिरेन्मन्त्रविच्चैव पञ्चगव्यं ततः पुनः ।
गन्धोदकेन संशोध्य कलशं भ्रामयेत्ततः ।। ३९ ।।
वर्धन्यामस्त्रजप्तायां जपन्नस्त्रन्तु भ्रामयेत् ।
अच्छिन्नोदकधारान्तु दद्यात् बाह्ये तु मन्त्रवित् ।। ४० ।।
चतुरस्रं तस्य मध्ये तु दर्पणञ्चैव बाह्यतः ।
वर्धनीमग्रतो गच्छेत् कलशं तस्य पृष्टतः ।। ४१ ।।
प्. १०२३)
शिवन्तु जपतश्चैव आचार्येण समन्वितः ।
भ्रामयित्वा ततो देवि पुनस्तत्रैव स्थापयेत् ।। ४२ ।।
स्थापयित्वा ततो मन्त्री अर्घ्यं दद्यात्ततः पुनः ।
स्थण्डिलन्तु ततो गच्छेत् विधिना पूजयेत्ततः ।। ४३ ।।
शिवं पूज्य ततो देवि गच्छेन्मन्त्र्यनलं पुनः ।
आग्नेययां दिशि आश्रित्य अग्निकुण्डन्तु कारयेत् ।। ४४ ।।
हस्तमात्रप्रमाणन्तु कुण्डं कुर्यात्त्रिमेखलम् ।
चतुरङ्गुलमेकैका ह्रस्वा ह्रस्वतरा स्मृताः ।। ४५ ।।
एवं कृत्वा विधानेन प्रोक्ष्या स्त्रेण विचक्षणः ।
उल्लेखनन्तु तेनैव उद्धृत्याभ्युक्षयेत् पुनः ।। ४६ ।।
प्. १०२४)
अवकुण्डन्तु अस्त्रेण गायत्र्यावोपलेपयेत् ।
उपलेपिते तु पश्चात् कुर्याद्रेखोपकल्पनम् ।। ४७ ।।
रेखत्रयन्तु कर्तव्यं पूर्वपश्चिमतश्शुभम् ।
एका उत्तरतः कार्या दक्षिणायतमुत्तरा ।। ४८ ।।
वज्र एष समाख्यातो द्रढीकरणमुत्तमम् ।
विष्टरं कुण्डमध्ये तु वागीश्वर्याः प्रकल्पयेत् ।। ४९ ।।
नीलोत्पलदलश्यामां ध्यात्वा रूपवतीं शुभाम् ।
तस्मिन् ततो मन्त्री ऋतुमतीं विचिन्तयेत् ।। ५० ।।
ताम्रपात्रे शरावे वा आनयेज्जातवेदसम् ।
अभ्यर्च्य पञ्चभिर्मन्त्रैः विद्याङ्गैश्च यथाक्रमम् ।। ५१ ।।
प्. १०२५)
अवकुण्ठनं तु कर्तव्यं कवचेन विचक्षणः ।
त्रिधा कुण्डन्तु तं भ्राम्य हृदयेन विधानवित् ।। ५२ ।।
प्रक्षिपेद्योनिमार्गेण हेतिभूतं विचिन्तयेत् ।
गर्भाधानं प्रतिमन्त्री सद्येन तु त्रिधा हुतिः ।। ५३ ।।
पुं प्रशान्ते त्रयं दद्यात् आहुतीनान्तु मन्त्रवित् ।
अर्घ्यं पाद्यं ततो दद्यात् गर्भाधानं कृतं भवेत् ।। ५४ ।।
वामे पुंसुवनं कार्यं दद्यान्मन्त्री त्रयाहुतिः ।
रुद्राण्या तु त्रयं दद्यात् कृतं पुंसुवनं भवेत् ।। ५५ ।।
अघोरेण त्रयं दद्यात् सीमन्तोन्नयनं बुधः ।
त्रयो ब्रह्मशिरेणैव अर्घ्यं पाद्यं ततः पुनः ।। ५६ ।।
प्. १०२६)
वक्त्रपञ्चकसंयुक्तं वक्तृनिष्कृतिमेव च ।
वक्त्रोद्घाटन्तु कुर्यादानुपूर्वेण मन्त्रवित् ।। ५७ ।।
सद्याद्या ईशपर्यन्तं दद्यादाहुतयस्त्रयः ।
एकेनैव तु मन्त्रेण जुहुयान्नत्र संशयः ।। ५८ ।।
अस्त्रेण निष्कृतिं कुर्यात् वक्त्राणान्तु वरानने ।
आहुतीनां त्रयं दद्यात् वक्त्रे वक्त्रे न संशयः ।। ५९ ।।
उद्घाटन्तु तत्वेन दद्याद् वै आहुतित्रयम् ।
उद्घाटिते ततो वक्त्रे जातकर्मन्तु होमयेत् ।। ६० ।।
आहुतीनां त्रयं मन्त्री दद्यात् तत्पुरुषेण तु ।
अस्त्रेणैव त्रयं दद्यात् आहुतीनां वरानने ।। ६१ ।।
प्. १०२७)
एवं हुते ततो मन्त्री जातकर्म कृतं भवेत् ।
जातकर्म कृते पश्चात् रक्षां कुर्याद्विचक्षणः ।। ६२ ।।
पूर्वेण ब्रह्मा तत्रैव विन्यसेत् * * * * * ? ।
दक्षिणे रुद्रदेवत्यं कल्पयेद्विष्टरोपरि ।। ६३ ।।
पश्चिमे विष्णुदेवत्यं कल्पयेत् स विष्टरम् ।
उत्तरेण शिवस्यैव कल्पयेत यथाक्रमम् ।। ६४ ।।
एवं कृत्वा ततो मन्त्री नामकर्मन्तु कारयेत् ।
ईशानेन तु होतव्यं नामकर्म विचक्षणः ।। ६५ ।।
कवचेन तथैवेह जुहुयादाहुतित्रयम् ।
हुत्वा ह्येवं ततो देवी शिवाग्निर्जनितो भवेत् ।। ६६ ।।
प्. १०२८)
संस्कारसिद्धिहेत्वर्थं पूर्णाहुत्या तु पातयेत् ।
संस्कारेण यदा शुद्धं अग्निमाहुत्य सुवृते ।। ६७ ।।
चरुं श्रुपेत मन्त्रज्ञा विधिदृष्टेन कर्मणा ।
साङ्गेन देवदेवेन पञ्चब्रह्मयुतेन च ।। ६८ ।।
सकलीकृत्य तां स्थालीं शिवं तत्रैव विन्यसेत् ।
त्रितत्वं विन्यसेत् पूर्वं शिवं तत्त्वात्तु विन्यसेत् ।। ६९ ।।
घृतदिग्धान्तु तां कृत्वा क्षीरपूर्णाञ्च कारयेत् ।
यवगोधूमनीवारैश्शालिषष्टिकतण्डलैः ।। ७० ।।
कङ्गुनावाथ कुर्वीत चरुकं सु समाहितः ।
मध्यमं पाकसंयुक्तं पाचयेत विचक्षणः ।। ७१ ।।
प्. १०२९)
यदा स्विन्नं विजानीयात् तदा तमवतारयेत् ।
चालनं घट्टनालेपं कुर्यादेकादशेन तु ।। ७२ ।।
तप्ताभिधारणञ्चैव तथा भूताभिधारणम् ।
एकादशात्मदेवेन जुहुयादाहुतित्रयम् ।। ७३ ।।
संपाताभिर्हुतञ्चैव कृत्वा मन्त्री विचक्षणः ।
विभागभाजितं कृत्वा चरुकं मन्त्रसंस्कृतम् ।। ७४ ।।
भागं देवाय कल्पेत द्वितीयं होमकर्मणि ।
तृतीयं साधकेभ्यश्च पञ्चगव्यपुरस्सरम् ।। ७५ ।।
विधिना कल्पितं देवि दद्याद्वक्त्राभिमन्त्रितम् ।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।। ७६ ।।
प्. १०३०)
अभिमन्त्र्य सर्वमन्त्रैस्तु अमृतत्वं शिवेन तु ।
पञ्चगव्यन्तु कर्तव्यं विधिनाऽनेन सुवृते ।। ७७ ।।
आशु शुद्धिमतो वक्ष्ये शृणुष्व कथयामि ते ।
आज्याधिश्रयणं कुर्यादुद्वास्योप्लवनं ततः ।। ७८ ।।
संप्लावनं ततः पश्चात् कुर्याच्चाप्यवद्योतनम् ।
नीरायणं ततः कुर्यात् आज्यशुद्धिं विधानवित् ।। ७९ ।।
गायत्र्या कारयेत्सर्वमाज्यसंस्कारकं शोभने ।
संस्कारैश्शोधिते आज्ये आज्यभागन्तु होमयेत् ।। ८० ।।
दक्षिणेनोत्तरेणैव मध्यदेशे तथैव च ।
ओं अग्नये नमः । ओं सोमाय नमः । ओमग्नीषोमाभ्यां नमः ।
प्. १०३१)
ओमग्नये स्विष्टकृते नमः ।
आज्यभागविभागन्तु कथितं तव शोभने ।। ८१ ।।
शुद्धे आज्ये ततो मन्त्रं बिन्दुं बिन्दुन्तु प्रक्षिपेत् ।
आज्यशुद्धिविधिर्ह्येषः कथितन्तु यथाक्रमम् ।। ८२ ।।
आज्ये शुद्धे ततो देवि कुर्याद्वक्त्राभिधारणम् ।
सद्यादि ईशपर्यन्तमेकैकाहुतयो हुनेत् ।। ८३ ।।
वक्त्राभिधारणं ह्येष कथितं वै शिवेन तु ।
अनेन सर्वकर्माणि कर्तव्यानि तु देशिकैः ।। ८४ ।।
आज्याधिश्रयणे ब्रह्मा पूर्वं तत्रैव चिन्तयेत् ।
उद्वासने तु गायत्री उत्प्लवने विष्णुदैवतम् ।। ८५ ।।
प्. १०३२)
संप्लवेचैवमित्युक्तं रुद्रं तत्रैव चिन्तयेत् ।
अवद्योतस्वरो ज्ञेयो देशिकेन महात्मना ।। ८६ ।।
निरात्मने तथा देवि स्वयं देवस्सदाशिवः ।
अभिमन्त्र्य समन्त्रैस्तु शिवं तत्रैव चिन्तयेत् ।। ८७ ।।
सावित्र्या बिन्दुबिन्दुन्तु सर्वमाज्येषु प्रक्षिपेत् ।
कर्ममन्त्रप्रयोगेन अधिदेवैश्च संयुतम् ।। ८८ ।।
सर्वकर्मप्रसिध्येत साधकस्य न संशयः ।
आसनं कल्पयेत्तत्र विधिदृष्टेन कर्मणा ।। ८९ ।।
हृन्मध्ये कल्पयेद्देवि आसनं तव संज्ञितम् ।
अनन्तं विन्यसेत्पूर्वं धर्मज्ञानं तथैव च ।। ९० ।।
प्. १०३३)
नवशक्तिं तथा देवि कर्णिकापद्मसन्धिषु ।
अकारं विन्यसेद्देवि कर्णिकायां वरानने ।। ९१ ।।
आदित्यमण्डलं तेन चिन्तयेत् सुसमाहितः ।
ह्रस्वोङ्कारसमायुक्तं सोममण्डलकल्पितम् ।। ९२ ।।
उकारो ह्रस्वं देवेशि अग्निमण्डलमुत्तमम् ।
आकारं ब्रह्मदेवत्यमादित्यस्याधिदैवतम् ।। ९३ ।।
इकारं विष्णुदेवत्यं सोममण्डलदैवतम् ।
उकारं रुद्रदैवत्यमग्निमण्डलदैवतम् ।। ९४ ।।
एवं विन्यस्य यत्नेन मूर्तिं तत्रैव विन्यसेत् ।
ईश्वरेण समायुक्तं विन्यसेत वरानने ।। ९५ ।।
प्. १०३४)
बिन्दुस्तु ईश्वरो ज्ञेय आत्मा हंसः प्रकीर्तितः ।
न्यस्या तु देवदेवेशि पञ्चब्रह्माणि विन्यसेत् ।। ९६ ।।
आदित्यं सोममग्निञ्च न्यस्तमात्मनि सुवृते ।
आत्मतत्वे तु वक्तव्यमात्मा तु परमेश्वरि ।। ९७ ।।
ईशानः पुरुषेणैव अघोरेण तु सुवृते ।
वामदेवेन सद्येन लक्षमात्रं प्रकीर्तितम् ।। ९८ ।।
अष्टत्रिंशत् कलाभिस्तु शिरोवक्त्रन्तु कल्पयेत् ।
अङ्गप्रत्यङ्गसंयुक्तं कर्तव्यं सुसमाहितैः ।। ९९ ।।
सद्योजातकलाभिस्तु स्थिरत्वं परिकल्पयेत् ।
पञ्चमूर्धानमीशेन पूर्वादारभ्य मन्त्रतः ।। १०० ।।
प्. १०३५)
क्रमेण कल्पयेद्देवि ईशानस्य कला बुधैः ।
वक्त्रे तत्पुरुषस्यैव कलानि परिकल्पयेत् ।। १०१ ।।
पूर्वमादिक्रमेणैव सकलं मूर्ध्नि विन्यसेत् ।
अघोरस्य कलां देवि हृदयादिविनिर्दिशेत् ।। १०२ ।।
हृदि ग्रीवा च अंसौ च नाभौ च जठरे तथा ।
पृष्ठेह्युरसि मन्त्रज्ञ अघोरस्य कला न्यसेत् ।। १०३ ।।
वामस्य गुह्यदेशे तु विन्यसेत यथाक्रमम् ।
गुदे चैव तु लिङ्गे च ऊरुभ्यां जानुनी तथा ।। १०४ ।।
जङ्घे स्फिजौ च कट्याञ्च पादपार्श्वौ च तावुभौ ।
गुह्याङ्गक्रमयोगेन वामदेवकला न्यसेत् ।। १०५ ।।
प्. १०३६)
पादौ हस्तौ च नासायां शिरश्चैव भुजावुभौ ।
सद्योजातकला देवि सद्यः सर्वत्र मूर्तिषु ।। १०६ ।।
एवन्तु सकलीकृत्य तत्वानि परिकल्पयेत् ।
तत्वान्यष्टादशं देवि नवतत्वान्यथापि वा ।। १०७ ।।
पञ्चतत्वानि देवेशे तथा षट्तृंशमेव च ।
पञ्चतत्वानि विन्यस्य त्रितत्वमुपरि न्यसेत् ।। १०८ ।।
विद्याङ्गानि ततो दद्यात् शिवस्यावाहनं कुरु ।
आवाहिते ततो देवि अङ्गानि परिकल्पयेत् ।। १०९ ।।
हृदये हृदयं दद्यात् शिरे चैव शिरो न्यसेत् ।
शिखायान्तु शिखां दद्यात् कवचं सर्वगात्रकम् ।। ११० ।।
प्. १०३७)
अस्रं हस्तप्रदेशे तु विन्यसेत शुभानने ।
आवाहयेत सद्येन वामदेवेन स्थापयेत् ।। १११ ।।
अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु ।
ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च ।। ११२ ।।
ईशानं मध्यतो दद्यात् पूर्वे तत्पुरुषं न्यसेत् ।
अघोरं दक्षिणेनैव वामदेवं तथोत्तरे ।। ११३ ।।
सद्योजातन्तु देवेशे पश्चिमेन तु विन्यसेत् ।
आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरो न्यसेत् ।। ११४ ।।
नैऋत्यान्तु शिखां दद्यात् वायव्यां कवचं तथा ।
अस्त्रं द्वारप्रदेशे तु विन्यसेत यथा बुधः ।। ११५ ।।
प्. १०३८)
गर्भावरणमेतत्तु द्वितीयावरणं शृणु ।
अनन्तं पूर्वतो दद्यात् सूक्ष्मं दक्षिणतो न्यसेत् ।। ११६ ।।
शिवोत्तमं तथा देवं पश्चिमेन तु विन्यसेत् ।
एकनेत्रोत्तरेणैव विन्यसेत सदा बुधः ।। ११७ ।।
ईशान्यामेकरुद्रस्तु त्रिमूर्तिं ह्यग्निगोचरे ।
श्रीकण्ठं नैऋतेनैव शिखण्डिं वायुगोचरे ।। ११८ ।।
द्वितीयावरणं ह्येवं कथितं तव शोभने ।
तृतीयावरणं देवि शृणुष्व कथयामि ते ।। ११९ ।।
ऐन्द्रीन्तु दिशमाश्रित्य इन्द्राद्यास्तु यथाक्रमम् ।
एवं विन्यस्य यत्नेन चतुर्थेऽस्त्राणि विन्यसेत् ।। १२० ।।
प्. १०३९)
यष्ट्वा एवं विधं देवि दीक्षां कुर्वीत मन्त्रवित् ।
पूर्वोक्तेन विधानेन कुर्वीत विधिविस्तरम् ।। १२१ ।।
अपरेऽहनि देवेशे यजेच्छण्डेश्वरं गुरुः ।
पञ्चाङ्गेन समायुक्तमर्धचन्द्रपुरोत्तरे ।। १२२ ।।
त्रिभागहोमं कृत्वा वै विज्ञाप्यैवं महेश्वरम् ।
समयाष्टकदोषस्य कृतं होमं मया तव ।। १२३ ।।
एवं विज्ञापयेद्देवि देशिकस्तु महात्मनः ।
समयाष्टकदोषेण साधकेनैव लिप्यते ।। १२४ ।।
हुते चण्डेश्वरे पश्चात् गुरुपूजान्तु कारयेत् ।
पूजयेत्तद्गुरुं प्राज्ञो यथा विभवविस्तरैः ।। १२५ ।।
प्. १०४०)
ग्रामैर्हिरण्यगोश्वाद्यैः देशदानैस्तथैव च ।
कर्णिकाकटकेयूरैः पूजयेत सदा गुरुम् ।। १२६ ।।
येन येन च सन्तुष्टः तत्तद्दद्यात्तु देशिकः ।
निवेदयेत्तदात्मानं तदा तु निनृणो भवेत् ।। १२७ ।।
सर्वसंहितसामान्यं कथितं तव शोभने ।
षड्विधं यजते यस्तु आचार्यः सुसमाहितः ।। १२८ ।।
तेन तुष्टेन तुष्टास्तु अशेषभुवनाधिपाः ।
शिववत्पूजयेद्देवि आचार्यं तत्वपारगम् ।। १२९ ।।
यथाहं तादृशस्सोहि गुरुस्तत्वविशारदः ।
इति निश्वासकारिकायां दीक्षोत्तरे अधिवासनः पटलः चतुर्दशः ।
प्. १०४१)
ईश्वरः -
शरीरं सर्वजन्तूनां सर्वदेवमयं स्मृतम् ।
वेदितव्यं प्रयत्नेन साधकैस्तत्वचिन्तकैः ।। १ ।।
तत्वानि चोदितान्यादौ मया तु तव शोभने ।
शरीरे तानि सर्वाणि ज्ञातव्यानि विपश्चितैः ।। २ ।।
इडा चैव सुषुम्ना च पिङ्गला च तथैव हि ।
नासां सञ्चारयोगं वै ज्ञातव्यं तत्ववेदिभिः ।। ३ ।।
कलानाञ्चैव सर्वासां नाडीनां वायुभिस्सह ।
सञ्चारं ह्येष तत्वानां भोक्ता भोज्यं तथैव च ।। ४ ।।
प्. १०४२)
कालवेलविभागानि सङ्क्रमानि तथैव हि ।
ज्ञात्वा सर्वमशेषेण साधकस्सविधीयते ।। ५ ।।
दक्षिणेन सुषुम्ना तु यदा वहति सुवृते ।
विज्ञेयस्स सदा तज्ज्ञो उत्तरायणमुत्तमम् ।। ६ ।।
इडायान्तु यदा देवि तिष्ठते परमेश्वरः ।
दक्षिणायनमित्येव कथितं तव सुवृते ।। ७ ।।
मध्यस्थन्तु यदा देवि पिङ्गलायां व्यवस्थितः ।
विषुवं स तु विज्ञेयं योगकालः प्रकीर्तितः ।। ८ ।।
सुषुम्नायां स्थितो ब्रह्मा अकाराक्षरसंयुतः ।
आदित्यः स तु विज्ञेयो ज्येष्ठा शक्तिः प्रकीर्तिता ।। ९ ।।
प्. १०४३)
ज्ञानशक्तिरिति ज्ञेया सत्वस्थं तं विनिर्दिशेत् ।
सांग्रत्स्थानं स विज्ञेयं दक्षिणेन व्यवस्थितः ।। १० ।।
इडायां संस्थितो विष्णुरीकाराक्षरसंयुतः ।
सोमस्य तु स तु ज्ञेयो वामा शक्तिः प्रकीर्तिता ।। ११ ।।
क्रियाशक्तिः स विज्ञेयो राजसं गुणलक्षणम् ।
स्वप्नस्थानं स विज्ञेयं वामतस्तु व्यवस्थितम् ।। १२ ।।
मध्यमं रुद्रमित्याहुः उकारः परिकीर्तितः ।
रौद्री तन्तु विजानीयादिच्छाशक्तिः प्रकीर्तिताः ।। १३ ।।
वह्निस्थानं हि यत्प्रोक्तं सुषुप्तं परिकीर्तितम् ।
तामसन्तु विजानीयात् मध्यमे तु व्यवस्थितम् ।। १४ ।।
प्. १०४४)
त्रिकालविषयं ज्ञानमेभ्यो देवि प्रकीर्त्यते ।
भूतं ब्रह्म विजानीयात् भविष्यं वैष्णवे पदे ।। १५ ।।
वर्तमानं हि रुद्रत्वे सर्वशास्त्रे प्रतिष्ठिते ।
त्रिकालमेकतो देवि बिन्दुदेवं व्यवस्थितम् ।। १६ ।।
सार्वकालं स*? वोक्तं ज्ञानकालस्वत स्मृतः ।
तस्यातीतं भवोन्नादं देवदेवं सदाशिवम् ।। १७ ।।
त्रिकालज्ञानसंयुक्तं ज्ञात्वा भवति साधकः ।
पञ्चधा पञ्चदेवत्यं सकलं व्याप्य संस्थितम् ।। १८ ।।
अनन्तमादितः कृत्वा प्रधानान्ते तु सुवृते ।
ब्रह्माणमाधिपत्येन वेदितव्यं प्रयत्नतः ।। १९ ।।
प्. १०४५)
पौरुषमादितः कृत्वा कालतत्वमपश्चिमम् ।
ज्ञातव्यं हि तत्वज्ञैः विष्णुस्तत्राधिदैवतम् ।। २० ।।
ग्रन्थिन्तु आदितः कृत्वा विद्यातत्वमपश्चिमम् ।
विज्ञेयं तत्सदा तज्ज्ञैः रुद्रस्तत्राधिदैवतम् ।। २१ ।।
ईश्वरमादितः कृत्वा यावत्तत्वं सदाशिवम् ।
ज्ञातव्यन्तु वरारोहे ईशस्तत्राधिदैवतम् ।। २२ ।।
उपरिष्टाच्छिवं तत्वं तत्र देवं सदाशिवम् ।
एतत्सर्वमशेषेण ज्ञातव्यं देशिकेन तु ।। २३ ।।
सर्वेषामेव तत्वानां शिवो व्याप्य व्यवस्थितः ।
ज्ञात्वा सर्वमशेषेण आचार्यस्स विधीयते ।। २४ ।।
प्. १०४६)
निवृत्तिः कथितो ब्रह्मा प्रतिष्ठा विष्णुरुच्यते ।
विद्या रुद्रस्समाख्यातः शान्तिरीश्वर उच्यते ।। २५ ।।
शान्त्यतीतन्तु देवेशि देवदेवं सदाशिवम् ।
नादस्यैव क्रमेणैव देवता कथिता मया ।। २६ ।।
इण्डिका दीपिका चैव रेचिका मोचिका तथा ।
- ? नास्तु पञ्चमो ज्ञेयो निष्कलस्तु सदाशिवः ।। २७ ।।
ब्रह्माणमादितः कृत्वा ज्ञातव्यानि वरानने ।
सूक्ष्मान्यायेन मया प्रोक्ता देवता ते प्रकीर्तिताः ।। २८ ।।
एताः कलाः समाख्याताः देवता नाडयस्तथा ।
ज्ञातव्यं तत्वतो देवि साधकेन महात्मना ।। २९ ।।
प्. १०४७)
कलानां देवतानाञ्च व्यापयित्वा व्यवस्थितः ।
सञ्चारं कुरुते देवि स तु आत्मा विजानतः ।। ३० ।।
अष्टतत्वा स्मृता देवि यैर्व्याप्तमखिलं जगत् ।
तस्मिंस्तैस्तु समायुक्तसञ्चरेत् परमेश्वरः ।। ३१ ।।
तिर्यङ्मृगनराख्येषु तत्वभावेन्द्रियेषु च ।
इष्टसेत्सर्वभूतेषु तत्वैर्युक्तो न संशयः ।। ३२ ।।
गमागमं ततो देवि विदित्वा साधको भवेत् ।
अविदित्वा न सिध्येत न च याति परं पदम् ।। ३३ ।।
भोज्यं भोक्ता च दाता च तत्वैर्युक्तः करोति यः ।
देव्युवाच -
प्. १०४८)
भगवन् श्रोतुमिच्छामि भोक्ता भोज्यञ्च शङ्कर ।। ३४ ।।
पानं पिबति कस्तत्र स्वादं गृह्णाति कः पुनः ।
को वा क्षिपति गर्भे तु ग्रासं गृह्णाति कः प्रभो ।। ३५ ।।
रसानां विविधानान्तु विचारयति कः पुनः ।
एतत्सर्वमशेषेण कथयस्व प्रसादतः ।। ३६ ।।
ईश्वरः -
शृणु देवि प्रवक्ष्यामि समासात्साधकस्य तु ।
येन विज्ञातमात्रेण अन्नदोषे न लिप्यते ।। ३७ ।।
दाता भोक्ता च मन्ता च सादाख्यपदमाप्नुयात् ।
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः ।। ३८ ।।
प्. १०४९)
स्थितस्सर्वशरीरेषु भुङ्क्ते चैव ददाति च ।
यो विजानाति कर्तारं भोक्ता भोज्यञ्च हे प्रिये ।। ३९ ।।
श्वपचेष्वपि भुञ्जानो न स पापे न लिप्यते ।
तत्वानि मनसा चिन्त्य स्वशरीरे यथाक्रमम् ।। ४० ।।
कर्णौ च चक्षुषी चैव नासायां वदने तथा ।
दक्षिणे श्रवणे चैव खमलः परिकीर्तितः ।। ४१ ।।
वामे चैव कलाढ्यन्तु श्रवणे परिचिन्तयेत् ।
सकलं निष्कलञ्चैव नासायां परिकल्पयेत् ।। ४२ ।।
क्षपणं क्षयमन्तञ्च चक्षुषी तौ विचिन्तयेत् ।
शून्येन पश्यते चान्नं वेदितव्यं प्रयत्नतः ।। ४३ ।।
प्. १०५०)
ग्रासं गृह्णाति देवेशे कण्ठोष्ठः परमेश्वरः ।
ब्रह्मा च विष्णुश्श्रवणे रुद्रमीश्वरचक्षुषी ।। ४४ ।।
घ्राणे वक्त्रे स्थितो नित्यमुक्तिश्चैव सदाशिवः ।
नासाशक्तिं विजानीयाद्वक्त्रे देवं सदाशिवम् ।। ४५ ।।
षण्मुख एककरणं कथितं तव शोभने ।
एवं तत्वमयं ध्यात्वा शिवं परमकारणम् ।। ४६ ।।
शिवोऽहमिति सञ्चिन्त्य भुञ्जमानो न लिप्यते ।
षण्मुखेनैव यागेन भुञ्जते सततं प्रभुः ।। ४७ ।।
त्रिविधेन प्रयोगेन सलिलं पिबते सदा ।
खण्डखाद्यैश्च भुञ्जानः क्षपणे गृह्णते सदा ।। ४८ ।।
प्. १०५१)
बध्यते सकलेनैव निष्कलेन तु स्वाद्विति ।
ऊर्ध्वमुत्क्षिपते ग्रासन्न विद्यात्खमलं कृतम् ।। ४९ ।।
अन्तस्थो मुच्यते ग्राहिं नात्र कुर्याद्विचक्षणः ।
शून्येनैव अन्नाद्य ग्रन्थेते सततं पुनः ।। ५० ।।
भोजनञ्चैव अन्नस्थो अन्नञ्चैव विचारति ।
लेह्यं शोष्यञ्च पेयञ्च अन्नानि विविधानि च ।। ५१ ।।
कण्ठोष्ठं परमेशानो वेदितव्यं प्रयत्नतः ।
एवं तत्वमयं दिव्यमाचार्यच्छिन्नसंशयः ।। ५२ ।।
सकृद्भोजितमात्रेण कोटिर्भवति भोजितः ।
अथ तत्वविदश्चैव एवं भुञ्जते प्रिये ।। ५३ ।।
प्. १०५२)
परिसंख्या न विद्येत इत्याह भगवान् शिवः ।
अतत्वप्रतिबुद्धस्य ज्ञानिने कोटिरुच्यते ।। ५४ ।।
ज्ञानितत्वविदश्चैव परिसंख्या न विद्यते ।
द्विजानां वेदविदुषां कोटिं संभोज्य यत्फलम् ।। ५५ ।।
ज्ञानिने शान्तिचित्ताय सकृत् भुङ्क्ते तु तत्फलम् ।
भोज्यं मायात्मकं सर्वं कर्ता देवो महेश्वरः ।। ५६ ।।
भोक्ता चैव शिवस्साक्षात् एवमेव न संशयः ।
एवं वै यो विजानाति देशिकस्तत्वपारगः ।। ५७ ।।
तं दृष्ट्वा गृहमायान्तं क्रीडन्त्योषधयो गृहे ।
एवं भोज्यविधिं सम्यक् न तु सर्वत्र व्यापयेत् ।। ५८ ।।
प्. १०५३)
पुत्रस्यापि न दातव्यं ये नराः पापबुद्धयः ।
एवं वै यो विजानीयादज्ञानीचान्यथा भवेत् ।। ५९ ।।
आभुङ्क्ते सततं देवि अन्नपाने न संशयः ।
ऊर्ध्वेन वहते प्राण आपानोधः प्रवर्तते ।। ६० ।।
एवं ज्ञात्वा तु भोक्तव्यं मुच्यते सर्वकिल्विषैः ।
तेन भुक्तेन देवेशे दातरोडस्य कुलानि तु ।। ६१ ।।
मुच्यन्ते यातना क्षिप्रं सुचिरं नरकार्णवात् ।
इति निश्वासकारिकायां दीक्षोत्तरे देवतातत्वभोज्यविधिः पञ्चदशः
पटलः ।
प्. १०५४)
देव्युवाच -
पुर्यष्टकसमायुक्त आत्मा सर्वत्र युज्यते ।
तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि ।। १ ।।
सुकृते कर्मभोक्तृत्वे दुष्कृते च तथैव हि ।
पुर्यष्टके यदाह्यात्मा वायुभूतो व्यवस्थितः ।। २ ।।
विद्यमानेऽपि तद्देहे प्रत्यक्षेण तु दृश्यते ।
श्रूयते यातना तस्य नरकेषु अनेकधा ।। ३ ।।
स्वर्गे च विविधं भोगमणिमाद्या महेश्वर ।
तनुभूतश्शरीरात्मा भोगान् भुञ्जति शङ्कर ।। ४ ।।
नरके यातना तस्य कथयस्व प्रसादतः ।
ईश्वरः -
प्. १०५५)
शृणु देवि इदं गुह्यं कथयामि तवाखिलम् ।। ५ ।।
स्वर्गे वा नरके वाऽपि यथा सुकृतदुष्कृतौ ।
भुञ्जते पूजितं कर्म कथयामि महेश्वरि ।। ६ ।।
त्यक्ते स्थूलशरीरे तु लौकिके भूतसंभवे ।
पुर्यष्टके यदाह्यात्मा वायुभूतो व्यवस्थितः ।। ७ ।।
शब्दस्पर्शं तथा रूपं गन्धादिविषयोरगः ।
त्रिधान्तः करणं देवि तैर्न मुच्येत्क्षणादपि ।। ८ ।।
सर्वथा वर्तमानस्य गच्छन्तमनुगच्छति ।
तिष्ठन्तमनुतिष्ठेत धावन्तमनुधावति ।। ९ ।।
न तैर्विना क्षणमपि आत्मा तिष्ठेत सुवृते ।
प्. १०५६)
तैस्तु युक्तं पुनर्देहं संप्रपद्ये वरानने ।। १० ।।
पूर्वदेहे विनिर्मुक्ते गच्छतस्तस्य देहिनः ।
अकस्माज्जायते देहं क्षणमात्रेण शोभने ।। ११ ।।
पृथिव्यापस्तथा तेजो वायुराकाशसंयुतः ।
भूतात्मकं तदा देहं जायते परमाणुभिः ।। १२ ।।
तदा भोगात्मकं देहं अणिमादिगुणाष्टकम् ।
ताराद्यं ज्ञानजं वापि अकृताद्यादिदेहजम् ।। १३ ।।
पैशाचादिषु देहेषु तत्वेषु विविधेषु च ।
नरके च वरारोहे यातना तु पृथग्विधा ।। १४ ।।
भूतेभ्यो जायते देहं प्राणिद्वयं न संशयः ।
प्. १०५७)
ब्रह्मविष्ण्वात्मका भूता रुद्रात्मा ईश्वरात्मकाः ।। १५ ।।
सदाशिवात्मका देवि तैरेव परमाणुभिः ।
विषयाश्चैव तेष्वेव ज्ञातव्यानि वरानने ।। १६ ।।
तैर्युक्तन्तु संबध्येत तैर्विमुक्तस्तु मुच्यति ।
तस्मात्तु देवदेवेशे न्यसेद्देवि सदाशिवे ।। १७ ।।
एवं न्यस्ते तदा योगी निश्चयं शिवतां व्रजेत् ।
सन्यास एष विख्यातः शिवेन परमात्मना ।। १८ ।।
न्यासदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः ।
ब्रह्माणमादितः कृत्वा देवैश्च सहसंयुतः ।। १९ ।।
पुर्यष्टकं न्यसेद्देवि परिवारेण देशिकः ।
प्. १०५८)
पूर्वमादिक्रमेणैव शब्दादीनां यथाक्रमम् ।। २० ।।
तेषान्तु तर्पणं कृत्वा शतमेकैव होमयेत् ।
एवं हुते शते देवि पूर्णाहुत्या तु पातयेत् ।। २१ ।।
ततश्शब्दञ्च स्पर्शञ्च शुद्धे ब्रह्मणि विन्यसेत् ।
रसं वै विन्यसेद्विष्णोः रूपं गन्धस्तथैव च ।। २२ ।।
रुद्रतत्वे तु कर्तव्यं देशिकेन महात्मना ।
अहङ्कारस्तथा बुद्धिरीश्वरे तन्तु विन्यसेत् ।। २३ ।।
मनस्तु विन्यसेद्देवि तत्वे चैव सदाशिवे ।
न्यस्ते पुर्यष्टके देवि पूर्णाहुत्या तु पातयेत् ।। २४ ।।
ब्रह्मोङ्कारेण देवेशे ब्रह्मविष्णू तु होमयेत् ।
प्. १०५९)
पूर्णाहुत्या तु देवेशि पातयेत् सुसमाहितः ।। २५ ।।
रुद्रञ्च ईश्वरञ्चैव रुद्रोङ्कारेण होमयेत् ।
सदाशिवस्य तत्वस्य निधनेन तु होमयेत् ।। २६ ।।
पूर्णाहुत्या तु दातव्यं देशिकेन महात्मना ।
सकलादिक्रमेणैव ग्राहकाः परिकीर्तिताः ।। २७ ।।
इयं सन्यासिनी दीक्षा कथिता तव शोभने ।
दीक्षा पञ्चविधा देवि कथिता तु समासतः ।। २८ ।।
अन्यायकथिता दीक्षा तस्मिंस्थैर्ये नियोजयेत् ।
तत्र शुध्येन्न शुध्येत विशेषः कथितो मया ।। २९ ।।
दीक्षा संशुद्धदेहन्तु पञ्चत्वे समुपागते ।
प्. १०६०)
समयभेदे हेत्वर्थे अन्त्येष्टिन्तु समारभेत् ।। ३० ।।
षड्विधाध्वानमार्गस्य यद्रौच्येत वरानने ।
एवं संहारयोगेन हुनेच्चैव यथाक्रमम् ।। ३१ ।।
एकैकामाहुतिं जुहुयादन्ते पूर्णाहुतिं ददेत् ।
समयाचारदोषस्य प्रमादात्स्खलितस्य च ।। ३२ ।।
अन्त्येष्टिस्तु शिवेनैका प्रायश्चित्तं विशुद्धये ।
अथवा मातृकाध्वानं क्षकारादि समासतः ।। ३३ ।।
अकारान्तैस्तु देवेशि पञ्चपञ्चाहुतिं हुनेत् ।
एकैकेन तु वर्णेन होमयेत विचक्षणः ।। ३४ ।।
समस्तेन तु मन्त्रेण मातृकेण विचक्षणः ।
प्. १०६१)
तेन पूर्णाहुतिं दद्यादन्त्येष्टिन्तु समर्पयेत् ।। ३५ ।।
दीक्षितस्येह **? र्या अन्त्येष्टिर्देशिकेन तु ।
अन्त्येष्टिः शुध्यते चैव प्रायश्चित्ताद्विशुध्यते ।। ३६ ।।
शुद्धान्पूर्वमिवान् पाशान् साधकस्सुसमाहितः ।
सर्वाज्ञा लङ्घने चैव अन्त्येष्टि होमयेत्ततः ।। ३७ ।।
ज्ञानविज्ञानसंपन्नः आचार्यस्तत्वपारगः ।
कालचक्रविधानज्ञः कालज्ञस्स विधीयते ।। ३८ ।।
स वै मोचयतेजन्तु द्वारज्ञो नात्र संशयः ।
इति निश्वासकारिकायां दीक्षोत्तरे षोडशः पटलः ।
१०६२)
देव्युवाच -
भगवन् श्रोतुमिच्छामि कालचक्रमनुत्तमम् ।
कस्मात्प्रवर्तते कालः कथं कालो निगद्यते ।। १ ।।
किमर्थं वर्तते कालः कः कालः प्रेरकस्तु कः ।
येन सञ्चोद्यमानस्तु कालः कलयते प्रभो ।। २ ।।
कस्मिन् कस्मिन् प्रदेशे तु चरते काल ईश्वरः ।
लौकिकाध्यात्मिकञ्चैव कथं विज्ञायते प्रभो ।। ३ ।।
गृहारिक्षास्तथांशाश्च होरादेक्काणधस्तथा ।
विनाविनावयश्चैव मुहूर्तानां तथैव च ।। ४ ।।
वायव्यो नाडयश्चैव स्वराश्चैव कलास्तथा ।
प्. १०६३)
घटिकानां समाख्या हि तत्वानाञ्च यथाक्रमम् ।। ५ ।।
दक्षिणोत्तरसङ्क्रान्त्यो अयनं विषुवं तथा ।
लौकिकाध्यात्मिकञ्चैव कथयस्व प्रसादतः ।। ६ ।।
शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् ।
तदहं संप्रवक्ष्यामि यत्सुरैरपि दुर्लभम् ।। ७ ।।
लौकिकाध्यात्मिकञ्चैव यथा वै कालसञ्चरः ।
यथा वै ज्ञायते देवि लौकिकं कालमुत्तमम् ।। ८ ।।
आध्यात्मिकं यथा कालं कथयामि विशेषतः ।
एतत्कालविधानज्ञो लभते शाश्वतं पदम् ।। ९ ।।
सिध्यते नात्र सन्देहः कालज्ञस्तु महामते ।
प्. १०६४)
लौकिकाध्यात्मिकं कालं यो वेत्ति निखिलेन तु ।। १० ।।
स कालज्ञस्मृतो देवि लौकिके ख्यातिं च गच्छति ।
शुभाशुभञ्च देवेशे लोकस्यैव हिताहितम् ।। ११ ।।
कथयेत्सर्ववृत्तान्त आश्चर्य अनेकधा ।
कालचक्रं समाख्यातमादित्यात् संप्रवर्तते ।। १२ ।।
मुहूर्ता तिथयश्चैव अहोरात्रायनानि च ।
ऋतुर्मासस्तथा पक्षो गृहऋक्षाथराशयः ।। १३ ।।
सर्वमेतन्महादेवि आदित्यात् संप्रवर्तते ।
अंशास्सन्ध्यस्तथा तारा होराद्द्रेक्काणयस्तथा ।। १४ ।।
उदिते भास्करे चैव सर्वमेतत्प्रवर्तेते ।
प्. १०६५)
स एष कथितः कालः लौकिकः परमेश्वरि ।। १५ ।।
लौकिकेन तु कालेन यथा नाम व्यवस्थितम् ।
तथा ते कथयिष्यामि शृणुष्वायतलोचने ।। १६ ।।
भास्करे उदिते चैव गृहचक्रं प्रवर्तते ।
भास्करेण समास्सर्वे राशयश्च न संशयः ।। १७ ।।
भास्करः प्रथमः प्रोक्तः केतुरन्ते व्यवस्थितः ।
ग्रहान् पत्रेषु संस्थाप्य पूर्वादिदलसंस्थितान् ।। १८ ।।
सोममादिक्रमेणैव केतुरन्ते वरानने ।
गृहचक्रं स्मृतो ह्येष ज्ञातव्यं कालवेदिना ।। १९ ।।
सोमस्तु पूर्वदिग्भागे भौममाग्नेयदिग्दले ।
प्. १०६६)
रजपुत्रं न्यसेद्देवि दक्षिणे सुसमाहितः ।। २० ।।
शनैश्चरन्तु नैऋत्यां विन्यसेत यथाक्रमम् ।
बृहस्पतिं न्यसेन्नित्यं पश्चिमे सुसमाहितः ।। २१ ।।
राहुं वायव्यतस्थाप्य शुक्रमुत्तरतो न्यसेत् ।
केतुमीशानस्थाप्य ततो मन्त्राः प्रकल्पयेत् ।। २२ ।।
ब्रह्मस्थानन्तु यत्प्रोक्तं भास्करं तत्र विन्यसेत् ।
सकलं निष्कलञ्चैव शून्यतत्वं तथैव च ।। २३ ।।
कलाढ्यं खमलञ्चैव क्षपणं क्षयमन्तकम् ।
कण्ठोष्ठ्यञ्चैव देवेशे गृहाह्येते प्रकीर्तिताः ।। २४ ।।
सकलञ्चादितः कृत्वा यो जप्यानि वरानने ।
प्. १०६७)
पराक्षरं परं देवं ब्रह्मस्थानेन विन्यसेत् ।। २५ ।।
ब्रह्मस्थाने स्थितो नित्यं भास्करं सुरसुन्दरि ।
कर्णिके देवतान्यासं कर्तव्यं कालवेदिना ।। २६ ।।
एवं गृहाणि विन्यस्य तत्र चारं समभ्यसेत् ।
सकलादिक्रमेणैव कथयामि समासतः ।। २७ ।।
अयुते द्वे सहस्रञ्च षट्शतानि यथाक्रमम् ।
एते प्राणा स्मृता देवि विभजेत यथाक्रमम् ।। २८ ।।
एकैकस्य तु कालज्ञस्सहस्रद्वयमेव च ।
शतानि सप्तविज्ञेयमेकैकस्य वरानने ।। २९ ।।
गृहचारं समाख्यातं संक्षेपान्न तु विस्तरात् ।
प्. १०६८)
पत्रे पत्रे तु संस्थाप्य गृहान् सर्वान् वरानने ।। ३० ।।
तत्क्रमानि तथा देवि कालज्ञः प्रविचारयेत् ।
दीप्ताङ्गारिणि धूमा च स्थानत्रयमुदाहृतम् ।। ३१ ।।
कर्णिकास्थस्थितस्सूर्यः त्रीणि पत्राणि लोकयेत् ।
आत्मना सह संयुक्तः कर्णिकास्थः प्रभु स्मृतः ।। ३२ ।।
पूर्वे होमं विजानीयात् सौम्यं कर्म समारभेत् ।
रौद्रमाग्नेयदिग्भागे शान्तिं वै दक्षिणेन तु ।। ३३ ।।
नैऋत्योच्चाटनार्थाय श्रीकामः पश्चिमेन तु ।
वायव्यां क्षिप्रनाशाय धनलाभाय चोत्तरे ।। ३४ ।।
ईशान्यां ज्ञानलाभाय कथितं कालवेदिना ।
प्. १०६९)
शान्तिके पौष्टिके चैव एवमादिक्रमेण तु ।। ३५ ।।
ये च रन्ध्रोपरन्ध्राश्च पत्रान्ते च व्यवस्थिताः ।
अशुभमेकतः प्रोक्तं द्वितीयस्मिन् शुभं वदेत् ।। ३६ ।।
यद्विरोधायते देवि साधकस्य गृहोत्तमः ।
तद्गृहं पूजयेन्नित्यं कर्णिकास्थं यदा बुधः ।। ३७ ।।
तदा सौनुग्रहं याति स गृहो नात्र संशयः ।
एकैकस्य गृहो देवि होरात्राणि प्रकीर्तिताः ।। ३८ ।।
तत्राऽपि चरते ह्यात्मा कथयामि समासतः ।
एकैकस्य तु होरायां शतानि नवसंख्यया ।। ३९ ।।
प्राणानां देवदेवेशि ज्ञातव्यं कालवेदिना ।
प्. १०७०)
एतत्ते चारमाख्यातं शिवेन परमात्मना ।। ४० ।।
एतच्चारविधानज्ञः कालज्ञो नावसीदति ।
गृहहोरबलेनैव वक्तव्यन्तु शुभाशुभम् ।। ४१ ।।
पापे पापमतिं विद्यात् शुभेन शुभमादिशेत् ।
एवं बलाबलं ज्ञात्वा आत्मनस्य परस्य वा ।। ४२ ।।
कथनात्पुण्यमाप्नोति कालज्ञो नात्र संशयः ।
देहस्थं कथितं देवि होरचारमनुत्तमम् ।। ४३ ।।
अतः परतरं वक्ष्ये राशिसञ्चारमुत्तमम् ।
राशौ राशौ यदाह्यात्मा चरते कथयाम्यहम् ।। ४४ ।।
संवत्सरमयञ्चेति द्वादशारं सुशोभने ।
प्. १०७१)
अकारः प्रथमो देवि मेषराशिः प्रकीर्तितः ।। ४५ ।।
एवमादिक्रमेणैव वेदितव्यं प्रयत्नतः ।
तत्रस्थश्चरते ह्यात्मा यथावत्तन्निबोधमे ।। ४६ ।।
एकैकस्य तु देवेशि शतान्यष्टादश क्रमात् ।
एष चारः समाख्यातः राशौ राशौ न संशयः ।। ४७ ।।
योगमुत्पद्यते तस्य कालयोगविदस्य तु ।
यत्पत्रे पश्यते दोषं तन्मासे दोषमादिशेत् ।। ४८ ।।
शस्त्रापातसुभिक्षञ्च दुर्भिक्षं नरकं तथा ।
क्षेममारोग्यार्थलाभं वदते कालयोगवित् ।। ४९ ।।
राशौ राशौ पुनस्सर्वं द्रेक्काणन्तु समासतः ।
प्. १०७२)
तद्रेक्काणे नवे राशौ चारं तेषां ददाम्यहम् ।। ५० ।।
एकैकस्य तु द्रेक्काणे शतानि षट् प्रकीर्तिताः ।
एकैकोदयस्थावज्ञः सिध्यते नात्र संशयः ।। ५१ ।।
योगमुत्पद्यते तस्य अचिरादेव योगिने ।
उत्तिष्ठे चादधाने च पादलेपेऽञ्जने तथा ।। ५२ ।।
सिध्यते नात्र सन्देहः कालज्ञानविदस्य तु ।
गृहोपरागवन्मासे हृत्पद्मे तु स पश्यति ।। ५३ ।।
चन्द्रसूर्योपरागे च सर्वं पश्यति योगिनः ।
शुभाशुभन्तु द्रेक्काणैः कथयेत वरानने ।। ५४ ।।
अंशस्त्रयस्तु पञ्चैक एकैकस्य समासतः ।
प्. १०७३)
अंशाद्रेक्काणहोरैश्च एकैकस्य समासतः ।। ५५ ।।
अंशाद्रेक्काणहोरैश्च ग्रहराश्यादयो नव ।
तारचन्द्रबलेनैव शुभाशुभं न संशयः ।। ५६ ।।
ताराचन्द्रबलेनैव शुभाशुभं न संशयः ।
वदते योगिनः श्रीमान् लोकस्यैव हिताहितम् ।। ५७ ।।
एतेषु चरतेह्यात्मा तन्मे निगदतः शृणु ।
सहस्रद्वयं विज्ञेयं शतानि चतुरेव तु ।। ५८ ।।
ताराणाञ्चारमाख्यातमंशानान्तु यथा शृणु ।
ताराणां यावती संख्या अंशानां तावती स्मृताः ।। ५९ ।।
एष ते चारमाख्यातं चक्रे संवत्सरात्मिके ।
प्. १०७४)
ज्ञानेन मुच्यते देवि नात्र कार्या विचारणा ।। ६० ।।
एवं वै यो न जानाति कालज्ञानीत्थं भवेत् ।
आत्मा तु कथितः काल ईश्वरस्स तु कथ्यते ।। ६१ ।।
तेन ज्ञातेन देवेशि कालज्ञो नावसीदति ।
अतः परं प्रवक्ष्यामि कालचक्रमनुत्तमम् ।। ६२ ।।
नाडीवायुकलैस्सार्धं स्वरैश्चरससंयुतम् ।
तदहं संप्रवक्ष्यामि याथातथ्येन मे शृणु ।। ६३ ।।
द्वात्रिंशमंशकां कृत्वा लिखेच्चक्रं समासतः ।
कला तु देवदेवेशे षोडशैव तु विन्यसेत् ।। ६४ ।।
पूषा यशा च सुमना प्रीतितुष्टिरिति धृतिः ।
प्. १०७५)
तथा चक्रधृतिकरी सौमरी चिच्छुभं तथा ।। ६५ ।।
शशिनीत्वङ्गिरा चैव छाया संपूर्णमण्डला ।
दशपञ्च कला ज्ञेया अमृता चैव षोडशी ।। ६६ ।।
कलाह्येतास्समाख्याता नाड्यो वै शृणु सांपृतम् ।
ज्वालिनी तु शमा धूम्रा कामदा विजया तथा ।। ६७ ।।
अमृता य हुला पक्षित्वचवाहात्यलंबुषा ।
तालुजिह्वोपजिह्वा च तथा जिह्वावहा च या ।। ६८ ।।
बुद्धिवाहा प्राणवाहा तथा चामृतवाहिनी ।
षोडशैतास्समाख्याताः मरुतादिरलङ्कृता ।। ६९ ।।
कृकरो देवदत्तश्च पौण्डरीको धनञ्जयः ।
प्. १०७६)
वेपथुस्संभ्रमश्चैव विभ्रमो भ्रम एव च ।। ७० ।।
प्राणोपानसमानश्च उदानो व्यान एव च ।
ऋषयो नागकूर्मश्च षोडशैते महानिलाः ।। ७१ ।।
अकाराद्या स्वरा देवि ते त्वया विदिताः पुरा ।
बिभज्य कथयेत्प्राणान् कलादीनां यथाक्रमम् ।। ७२ ।।
सहस्रैकं समाख्यातमेकैकस्य वरानने ।
शतत्रयञ्च ज्ञातव्यं प्राणाः पञ्चाशदेव तु ।। ७३ ।।
कलाध्वरं तथा वायुः नाडयश्च समासतः ।
एकोदयेन ज्ञातव्यं देशिकेन महात्मना ।। ७४ ।।
नाडीवायुकलैस्सार्धं कथितं तव शोभने ।
प्. १०७७)
अतः परं प्रवक्ष्यामि ऋक्षेषु चमरे यथा ।। ७५ ।।
तथा ते कथयिष्यामि तन्मे निगदतः शृणु ।
शतानि सप्त विज्ञेयाः * *? प्राणास्तथैव च ।। ७६ ।।
प्राणमेकादशश्चैव निमेषैकं तथैव च ।
लवमेकञ्च ज्ञातव्यं कालज्ञेन महात्मना ।। ७७ ।।
तृटिश्च सप्तभागेन नक्षत्रे कथितं तव ।
अंशाध्वा दशमाख्याता ऋक्षाणां वरवर्णिनी ।। ७८ ।।
शतमेकञ्च ज्ञातव्यं कालज्ञेन महात्मना ।
एभ्यश्चरति आत्मा तु कथयामि समासतः ।। ७९ ।।
ऋक्षे ऋक्षे वरारोहे अंशाश्चत्वारि कीर्तिताः ।
प्. १०७८)
यथा चरति विश्वात्मा शृणुष्व कथयामि ते ।। ८० ।।
प्राणाश्शतं समाख्यातं प्राणायतिस्तथैव च ।
प्राणा द्वादश विज्ञेया निमेषद्वय संयुतम् ।। ८१ ।।
लवद्वयं तथैवोक्तं शिवेन परमात्मना ।
द्वा नवति शतैकन्तु प्राणसंख्या प्रकीर्तिताः ।। ८२ ।।
निमेषत्रयञ्च विख्यातं त्रिभागेन तृटिद्वयम् ।
तृटे शृङ्गाग्रमाख्यातं ज्ञातव्यं सुसमाहितैः ।। ८३ ।।
सप्तविंशति नक्षत्रां शाह्यष्टोत्तरं शतम् ।
अशीति चतुरंशन्तु सर्वत्र परिकीर्तितम् ।। ८४ ।।
कालं मध्यन्दिने देवि अवीची परिकीर्तिताः ।
प्. १०७९)
कृत्तिकादिषु रत्नेषु ज्ञातव्यं कालवेदिना ।। ८५ ।।
सर्वेषु सिद्धिदा देवी ची **? परिकीर्तिता ।
यस्यै तच्छुभऋक्षेण वीचायां व्रजते नरः ।। ८६ ।।
सर्वसिद्धिमवाप्नोति धनिको नात्र संशयः ।
न तस्य अशुभं किञ्चित् व्याभीच्यां व्रजते तु यः ।। ८७ ।।
एष ते चारमाख्यातं कालचक्रमुपासिनाम् ।
अहोरात्रेण ज्ञातव्यं कालज्ञेन महात्मना ।। ८८ ।।
एतच्चारविभागज्ञो लभते शाश्वतं पदम् ।
दिने दिने स्थिरेद्यस्तु इदं चक्रं समाधिना ।। ८९ ।।
स लोके पूज्यतां याति परत्र च शिवान्तिकम् ।
प्. १०८०)
नैव पुण्यं भवेत्तस्य नैव पापं कथञ्चन ।। ९० ।।
दर्शनात्तस्य कर्तव्यं ये केचित्पापकर्मिणः ।
अतः परं प्रवक्ष्यामि फलसंख्या यथैव च ।। ९१ ।।
तत्परा कथिता षष्टिं विदुषः परिकीर्तिताः ।
विदुषाणि तथा षष्टिं बिन्दुरेकं प्रचक्षते ।। ९२ ।।
षष्टिबिन्दुफलं प्रोक्तं कथितं तव शोभने ।
फलस्य एषा संख्योक्ता कालं वै लौकिकस्य तु ।। ९३ ।।
पुनरेव प्रवक्ष्यामि अध्यात्मेन वरानने ।
तरुणस्य प्रधानस्य निरुद्धः प्राणिनः स तु ।। ९४ ।।
षट् प्राणास्तु समाख्याता विना प्रीतिं समादिशेत् ।
प्. १०८१)
षष्टिमिर्वी नाड्येका घटिका कथिता तु सा ।। ९५ ।।
घटिकास्तु तथा षष्टि अहोरात्रं प्रचक्षते ।
मुहूर्ता स्त्रिंशदाख्याता अहोरात्रविदो विदुः ।। ९६ ।।
अहोरात्रेण मर्त्यानां मुहूर्तास्त्रिंशत्कीर्तिताः ।
एतान्येकैव संख्यातं मातस्य सुरसुन्दरि ।। ९७ ।।
मुहूर्ता नवशता ज्ञेयं कालज्ञेन महात्मना ।
द्वादशे गणितं मासं संवत्सरमिहोच्यते ।। ९८ ।।
संवत्सरे मुहूर्तानि यावन्ति कथयामि ते ।
सहस्राणि दशप्रोक्ता स्तथाह्यष्टशतानि तु ।। ९९ ।।
मुहूर्तानि वरारोहे मया ते कथितानि तु ।
प्. १०८२)
मुहूर्ते नवये देवि तथैव कथयामि ते ।। १०० ।।
शतानि सप्तदेवेशे विंशतिश्च न संशयः ।
एषचारं मया प्रोक्तं वेदितव्यं हितैषिभिः ।। १०१ ।।
अनेन क्रमयोगेन जपसिद्धिमवाप्नुयात् ।
त्रिकालविषयं तस्य जायते जापिनस्य तु ।। १०२ ।।
घटिका पञ्चदेवेशे राशौ राशौ न संशयः ।
घटिका पञ्चदेवेशे अकारस्योदयस्मृतः ।। १०३ ।।
एवमादिक्रमेणैव वेदितव्यं प्रयत्नतः ।
लौकिकं प्रहरञ्चैव षट्भागं परिकीर्तितम् ।। १०४ ।।
षण्मासास्तु समाख्याता उत्तरस्तु प्रचक्षते ।
प्. १०८३)
दक्षिणे तावती ज्ञेया कालज्ञेन महात्मना ।। १०५ ।।
यद्राशौ वर्तते कालः तस्यैव कथयामि ते ।
उदयं प्रथमो देवि राशिभिः कथितस्तव ।। १०६ ।।
यस्मिन् राशौ स्थितो ह्यात्मा मासमादि करोति सः ।
मकरः कुंभमीनञ्च मेषञ्च वृषभस्तथा ।। १०७ ।।
मिथुनः कथितो षष्ठो राश्यः षण्मासकीर्तिताः ।
कर्कटस्सिंह कन्यश्च तुलावृश्चिकमेव च ।। १०८ ।।
धनुषी च समाख्यातो दक्षिणे ऋतवास्त्रियः ।
मासि मासि समाख्यातो यथावच्छृणु सुव्रते ।। १०९ ।।
शतानि चैव चत्वारि प्राणाः पञ्चदशैव तु ।
प्. १०८४)
मासि मासि समाख्यातो यथावत्तव शोभने ।। ११० ।।
उत्तरे वर्तमानस्तु यदा दक्षिणतो व्रजेत् ।
यावन्तं क्रमते देवि मध्ये तु विषुवं स्मृतम् ।। १११ ।।
एषा सङ्क्रान्तिराख्याता दक्षिणोत्तरतस्थिता ।
इन्द्रियार्थं परित्यज्य व्योमावस्थो भवेद्यदा ।। ११२ ।।
विषुवन्तं विनिर्दिष्टं वेदितव्यं हितैषिभिः ।
यदा ऊर्ध्वत्वमायाति देवदेवो जगद्गुरुः ।। ११३ ।।
अह एवं विनिर्दिष्टं सर्वतन्त्रेषु भाषितम् ।
अधोभागे स्मृता रात्रिः मध्ये तु अयनं भवेत् ।। ११४ ।।
निश्चलोर्ध्वमधश्चैव मध्यस्थन्तु विजृंभिभिः ।
प्. १०८५)
हिक्कामुदाहृता चिक्का अष्टधा तु क्रमेण तु ।। ११५ ।।
ऊनरात्रं भवेद्धिक्का अधिमास्यो विजृंभिका ।
ऋणस्तु भवते कस्सो निश्वासो धन उच्यते ।। ११६ ।।
एष चारः समाख्यातः कालचक्रमुपासिनाम् ।
एवञ्चारविधानज्ञो लभते शाश्वतं पदम् ।। ११७ ।।
प्रेरितः शक्तिना देवि नाना चेष्टानि कारयेत् ।
चारसंयोगयोगेन आत्मानमुपचर्यते ।। ११८ ।।
एतच्चारमिति प्रोक्तं शिवेन परमात्मना ।
सकालं कल्पनामन्तु शक्तिनां परमेश्वरि ।। ११९ ।।
विकारित्वमुपायाति स चारैरुपचर्यते ।
प्. १०८६)
अकालकलमित्युक्तं वादिनोऽपि द्विधोद्धृतम् ।। १२० ।।
स्वयं साक्षात् स्मृतः कालो देवदेवस्सदाशिवः ।
नित्यावस्थमिदं कालं ब्रह्मादीनां वरानने ।। १२१ ।।
तदेव चारयोगेन सञ्चारैरुपचर्यते ।
नित्यावस्थोऽन्यथा कालः केन तदुपचर्यते ।। १२२ ।।
अनेन उपचारेण कालमेवमुपास्यते ।
चारेण ज्ञायते कालं चारात् सिद्धिर्न संशयः ।। १२३ ।।
चारे भुक्तिश्च मुक्तिश्च चारज्ञो नावसीदति ।
तस्माच्चारमिदं देवि वेदितव्यं प्रयत्नतः ।। १२४ ।।
स बाह्याभ्यन्तरं कालं यो विजानाति कालवित् ।
प्. १०८७)
न कालज्ञस्स विज्ञेयो भवेन्नक्षत्र सूचकः ।। १२५ ।।
ज्योतिर्ज्ञानमिदं देवि मया ख्यातं समासतः ।
वेदितव्यं प्रयत्नेन कालज्ञैस्स तु वेदिभिः ।। १२६ ।।
अहर्वृद्धिक्षयं रात्रौ रात्रौ वृद्धिक्षयेऽहनि ।
अनेन उपचारेण लौकिकमुपचर्यते ।। १२७ ।।
न रात्रिर्न दिवा यस्य अयनं विषुवं तथा ।
नित्यं नित्यस्थितो देवि स्वयं साक्षान्महेश्वरः ।। १२८ ।।
इच्छा तस्य महादेवि उपचारैरुपचर्यते ।
एवं कालमिति प्रोक्तं सर्वतः संप्रवर्तते ।। १२९ ।।
इति निश्वासकारिकायां दीक्षोत्तरे कालचक्रप्रकरणं नाम सप्तदशः
पटलः ।
प्. १०८८)
देव्युवाच -
भगवन् श्रोतुमिच्छामि प्रसादात्कथयस्व मे ।
त्वन्मुखामृतसारन्तु पीतं ज्ञानामृतं मया ।। १ ।।
कलाकलितसन्तानं जगज्जन्मलयोद्भवम् ।
श्रुतमेतन्मया सर्वं त्वत्प्रसादात् सुदुर्लभम् ।। २ ।।
अधुना श्रोतुमिच्छामि प्रसादं कुरु शङ्कर ।
आयुः प्रमाणं यद्भोगं मनुजानां महेश्वर ।। ३ ।।
विज्ञानं मरणं तेषां कथं ज्ञास्यन्ति मोहिताः ।
उत्पन्नस्य विनाशोऽस्ति कृतिरेषा तु कीर्तिताः ।। ४ ।।
तद्विनाशे तु किं रूपं छिन्नं कालक्रमं यतः ।
प्. १०८९)
अत्र मृत्युसमीपस्थं कथं विज्ञायते प्रभो ।। ४ ।।
एतत्सर्वं समासेन कथयस्व प्रसादतः ।
ईश्वरः -
साधु साधु पुनस्साधु प्रश्नमेतत्सुदुर्लभम् ।। ५ ।।
पृष्टोस्मित्वत्प्रसन्नार्थं श्रूयतान्तु वरानने ।
यथा चासन्नमृत्युस्तु जायते तु परस्य तु ।। ६ ।।
दिवसमुदासिदाद्वन्तु मुहूर्तं सद्य एव च ।
येन येन च चिह्नेन लक्ष्यते तु शृणुष्व मे ।। ७ ।।
स च वै द्विविधो लक्ष्यो बहिरभ्यन्तरे नृणाम् ।
ऋक्षाचक्रं गृहैश्चैव अङ्गारिष्टा विपर्ययात् ।। ८ ।।
प्. १०९०)
बहिर्लिङ्गन्तु विज्ञेयं अन्तर्लिङ्गन्तु नादजम् ।
बहिर्लिङ्गानि वक्ष्यामि समासात्तु वरानने ।। ९ ।।
नवकोष्ठं कृतं चक्रं कृत्वा तु गणयेद्बुधः ।
तत्रैव कोष्ठे कोष्ठे तु लिखेन्नक्षत्रमण्डलम् ।। १० ।।
कृत्तिकादि भरण्यन्तं लक्षयेत गृहा हितम् ।
रिक्षात्रयस्मृतो जन्म तथा संपद्विपर्ययौ ।। ११ ।।
क्षेमञ्च प्रत्यरञ्चैव साधनं नैधनं तथा ।
मैत्रं परममैत्रञ्च ताराचक्रं शुभाशुभम् ।। १२ ।।
तं वै क्रूरग्रहाक्रान्तं जन्मादौ लक्षयेद्बुधः ।
आधानं कर्म जन्मैस्तु भौमादित्यशनैश्चरैः ।। १३ ।।
प्. १०९१)
एते क्रूरग्रहा देवि यस्य तिष्ठन्ति सो हतः ।
एते ग्रहा विरुद्धास्तु स नरो हि हतोद्धृवम् ।। १४ ।।
एकोऽपि सौम्यसंपृक्तो भवते कृच्छ्रजीवनः ।
सौम्यद्वये कपालस्थ संपदस्तु पदे पदे ।। १५ ।।
सौम्यत्रयेऽपि सुमना नित्यतुष्टो भवेन्नरः ।
यथा जन्मत्रये देवि क्रूरास्सौम्यशुभाशुभाः ।। १६ ।।
वदन्त्येवं तथान्येऽपि वद्यन्तां तारसङ्गमम् ।
पापघ्नास्संपदस्थास्स्युपीपत्स्था पदकारकाः ।। १७ ।।
क्षेमघ्ना क्षेमदाश्चैव प्रत्यरे बहुदोषजाः ।
विद्यासिद्धिञ्च कार्यञ्च साधकस्य भवन्ति ते ।। १८ ।।
प्. १०९२)
देहनाशं प्रकुर्वन्ति निधनस्थान संस्थिताः ।
मैत्रे तु मैत्रतां कुर्युः यद्यस्यान्यापि क्रौर्यता ।। १९ ।।
गृहा हिंसन्ति भार्याञ्च गृहाः परममैत्रगाः ।
सौम्याः शुभं प्रयच्छन्ति एकद्वित्रिगुणोदयाः ।। २० ।।
गुणक्रमाच्छुभं क्रूरा प्रयच्छन्ति गृहा यदा ।
एवं गृहगतिं बुध्वा आत्मनश्च परस्य वा ।। २१ ।।
प्रबुध्यन्ति नरा देवि आत्मनश्च शुभाशुभम् ।
अङ्गारिष्टं प्रवक्ष्यामि शृणु देवि यथा स्फुटम् ।। २२ ।।
शुष्ककण्ठोष्ठतालुश्च अकस्माद्रुधिरच्छविः ।
स्कन्धोऽपि वक्रतामेति विनाशं वत्सरान्तिके ।। २३ ।।
प्. १०९३)
अग्निलमण्डलं व्योम्नि पश्यते च दिने दिने ।
सितं हरितकृष्णञ्च वत्सरार्धायुषो हि सः ।। २४ ।।
यदादित्यं विरश्मिञ्च चन्द्रं लाञ्च्छनवर्जितम् ।
सुषुम्णान्तारकाज्योति सोऽपि षाण्मासिकायुषः ।। २५ ।।
हिरण्यवर्णं पुरुषं स्वप्ने वा कृष्णपिङ्गलम् ।
पश्यते वा शिरच्छायां ऋतुत्रयं स जीवति ।। २६ ।।
तैलपानं तथाऽभ्यङ्गरक्तमाल्यांवरस्रजा ।
खरोष्ट्रयानमासीनगृध्रकाकशिवादिभिः ।। २७ ।।
पश्येत्प्रेतपिशाचांश्च उद्वाहञ्चाङ्गभक्षणम् ।
स्वप्ने च लप्स्यते चैव सो दैकं यदि जीवति ।। २८ ।।
प्. १०९४)
शङ्खावर्तभुजे नृत्तज्जोममेधा गुल्फसन्धिषु ।
यदा निष्पन्दतां याति सोऽवश्यं वधमाप्नुयात् ।। २९ ।।
अरुन्धतिधृवञ्चैव सोमार्कज्योतिमण्डलम् ।
न पश्य* * *? धानं सोऽवश्यं म्रियते नरः ।। ३० ।।
अरुन्धती भवेज्जिह्वा न पश्येद्वर्षायुषः ।
अल्पायुर्नैव पश्येत नासिकाग्रन्थि वा स्मृतम् ।। ३१ ।।
दु**? पाणिजैः कान्तै वक्ष्यले ज्योतिमण्डले ।
पश्येदर्कसोममण्डलं चतुर्मासायुषो हि सः ।। ३२ ।।
तालुरन्ध्रगतं धूमं तन्म **? न मुच्यते ।
न तु पश्यति मूढात्मा ऋतुमेकं स जीवति ।। ३३ ।।
प्. १०९५)
अकस्माज्जायते स्थूलो अकस्माच्च कृशो भवेत् ।
अतिभीतोऽति सं* * *? र्षमेकायुषो हि सः ।। ३४ ।।
लोहदण्डेन पाणिं कृष्णं कृष्णांबरच्छदम् ।
पुरुषञ्चाभिमुखं स्वप्ने ऋतुध्या * * * *? ।। ३५ ।।
- ? र्य वै स्नातमात्रस्य हृदयञ्चैव शुष्यति ।
अनुष्णञ्च भवेद्गात्रं द्वौमासायुर्गतायुषः ।। ३६ ।।
अमेघविद्युदं पश्येद्दि * * * *? नुर्निशि ।
दृष्टे देशेऽपि दिग्दाहो मासत्रयपरायुषः ।। ३७ ।।
न शृणोति स्फुटं शब्दं चक्षुषी श्रूयते सकृत् ।
गन्धमाघ्राति चाण्धान्य * * *? विगतायुषः ।। ३८ ।।
प्. १०९६)
पश्य जिह्वा भवेत्कृष्णा रक्तपद्मोत्पलं मुखम् ।
वर्णञ्च विविधाङ्गेषु उदयं रुदते सकृत् ।। ३९ ।।
नाभिकंपो **? शोश्च सोऽर्धमासाद्विपद्यते ।
नाभिज्ञाय श्रीजिह्वं दीपमाघ्रानि पाषिषा *? ।। ४० ।।
काकैश्च कृतमासीन चतुर्मासायुषो नरः ।
हिक्का * * *? ते नित्यं वक्त्ररन्ध्रानुगो मरुत् ।। ४१ ।।
लंबकर्णैव पश्येत मासार्धे विगतायुषः ।
एवं विधैर्बहुलिङ्गैः बोद्धव्यं मृत्युचोदितैः ।। ४२ ।।
अधुनाऽन्तर्गता देवि योगिनां नादजं शृणु ।
इदं त्रिनेत्र संप्रोक्तं योगिनो भास्करोदये ।। ४३ ।।
प्. १०९७)
तत्काले चात्मनो मृत्युं जीवितव्यं विचारयेत् ।
ततो योगी शुचिर्भूत्वा धीरो योगासने स्थितः ।। ४४ ।।
बुध्यमानोत्मजन्नादं सुषुम्नान्तर्गतं बुधः ।
अप्रमत्तस्सदा तिष्ठेत् युक्तो नादैकतां गतः ।। ४५ ।।
एकैकस्य तु नाड्यायाः प्राणान्नव शतं वहेत् ।
नवशक्तीति सङ्क्रान्ति काले वै कलयेत्सदा ।। ४६ ।।
नाड्यावस्थः स्थितोह्यात्मा प्रकृत्या वहतीश्वरः ।
ये तु सङ्क्रान्तिके प्राणा सुषुम्ना तु स्थितो वहेत् ।। ४७ ।।
विषु *? प्रवहे नाथ बुध्वा कालं समादिशेत् ।
अहोरात्रेण चाब्दैकं योगी जीवितुमिच्छमि ।। ४८ ।।
प्. १०९८)
अहोरात्रद्वयेनैव जीवेत्संवत्सरद्वयम् ।
- ? रब्दन्तु विज्ञेयञ्चतुर्भिश्चतुरब्दिकम् ।। ४९ ।।
- ? रब्दन्तु विज्ञेयञ्चतुर्भिश्चतुरब्दिकम् ।। ४९ ।।
भवेत् पञ्चाब्दिकं मृत्युर्यस्य पञ्चाहनिर्गमम् ।
षट्सप्ताष्टदिने व्यूढे तावद्वर्षाणि जीवति ।। ५० ।।
अहोरात्रेणैव कालः कलयतेश्वरः * *? ।
कदाचिच्छकलेशानः सप्तप्रहरनिर्गमम् ।। ५१ ।।
षण्मासायुर्भवेद्देवि त्रिमासं षट्प्रहारिकम् ।
पञ्चकोह्यर्ध * * *? चतुर्भिर्मासजीविनः ।। ५२ ।।
अर्धमासायुषो मन्त्री प्रहरत्रयनिर्गमम् ।
प्रहरद्वयं तथा व्यूढं दिनान्यष्टौ स जीवति ।। ५३ ।।
प्. १०९९)
व्युढं प्रहरमेकन्तु जीवेत् * *? चतुष्टयम् ।
प्रहरार्धं वहेद्यस्य स जीवति दिनद्वयम् ।। ५४ ।।
सद्यो मृत्युमवाप्नोति यस्य द्वित्रिपथं गतः ।
यं वा कालं समारुह्य प्रवहेत् * * * * ? यम् ।। ५५ ।।
मासार्धाह्नसमालक्ष्येत्तत्काले निश्चयो भवेत् ।
उत्तरायणजे काले कथितं तव शोभने ।। ५६ ।।
अथवाऽन्योऽपि देवेशि * * * ? योगिभिस्सदा ।
श्रोत्रमार्गकृताङ्गुष्ठौ घोषं न शृणुते नरः ।। ५७ ।।
षण्मासाभ्यन्तरे देवि मारणं तस्य निर्दिशेत् ।
घोरमध्ये * * * * * * * *? न
कारवम् ।। ५८ ।।
प्. ११००)
न शृणोति सदा तस्य प्राप्यमासं म्रियेत सः ।
उत्पाद्यञ्च तथाकर्ण्य मृत्युयोगं तथैव च ।। ५९ ।।
लक्ष्येत्सततयुक्तन्तु यो * * *? स्य चिन्तकः ।
योगी वक्त्रान्तनिवहं कालसङ्क्रान्तिपञ्चकम् ।। ६० ।।
उत्पाद्यमानमपर * * * * * ? रन्नयेत् ।
द्रव्यहानिर्मनोद्वेगं कुर्याद्रोगविवर्धनम् ।। ६१ ।।
गृहभेदं सुहृन्नाशं तेजोहानिर्विवर्धनम् ।
नासिकादक्षिणपुटे दक्षिणायनजीविते ।। ६२ ।।
सङ्क्रान्त्यष्टौ यदा याति करणयोगोदयो हि सः ।
कानल * * * * * * ? न ग्रन्थिभङ्गन्दरम् ।।
६३ ।।
प्. ११०१)
स्फोटिका शूलरोगांश्च उरो दोषः प्रकोपनम् ।
वामघ्राणपुटान्तस्थं सङ्क्रान्त्याह्यष्टपञ्चकम् ।। ६४ ।।
ज्वररोगशिरोर्तिं वा शूलसंस्तंभनोरिषा ।
नीरोग प्रमेहञ्च मूत्रकृच्छ्रकापयेत् ।। ६५ ।।
श्रेष्मलाव्याधिमर्धासंस्थो महेश्वरः * * *? ।
यत्काले वहते वायुः तत्काले दिवसे परे ।। ६६ ।।
व्याधिभिः पीड्यते जन्तुर्वामयामे त *? नरे ।
अतोर्ध्वस्पर्शभं लक्षं नासाधस्तात्तु **? रि ।। ६७ ।।
ऊर्ध्वेन ऊर्ध्वं विशशे तरुदोषाः पूर्वचोदिताः ।
दक्षिणे दक्षिणे स्पर्शि वा *? क्रोशपराभवम् ।। ६८ ।।
प्. ११०२)
मध्ये मध्यस्फुटस्पर्शि पराभिभवनं ययुः ।
साङ्क्रान्त्येको बहुधा प्रवहन्ते इतस्ततः ।। ६९ ।।
तस्य ला * * * * * * * * * ? पू
जनितम् ।
यदा तु मन्दं चारिस्यान्निबीजस्था समाश्रितः ।। ७० ।।
धर्मैश्वर्याभिलाभं कुर्यात्प्रियसमागमम् ।
यदा द्वादश * * * * * * * * *?
द्वये ।। ७१ ।।
संवत्सरेण म **? प्राप्तवान्योगिनस्सदा ।
- *? रकविच्छेदान्मासैकैकन्तु छन्द * * ? ।। ७२ ।।
नवशीति तु * * * * * ? प्राणक्षयो भवेत् ।
दिवसैकैकविच्छेदाद्यावत्त्रिंशत्समागताः ।। ७३ ।।
प्. ११०३)
यदा पूर्वेद्यु वेलायां मृत्युः प्रवर * * *? ।
- * * * * * * * * ? लमृत्युं
समादिशेत् ।। ७४ ।।
इडा सुषुम्नगेत्येवं बोद्धव्यं कालसञ्चरम् ।
दक्षिणायनजं कालं क* * * * * * * ? ।।
७५ ।।
- ? नां योगकाले तु शुद्धस्सप्राणगश्शिवः ।
- ? नां योगकाले तु शुद्धस्सप्राणगश्शिवः ।
सुषम्ना दक्षिणे प्राणे तद्वहे चैव * * *? ।। ७६ ।।
- * * * * * * * * * * ?
मयनस्मृतम् ।
त्रिरुच्छ्वासव *? ताभ्यां ते चैव विषुवायनम् ।। ७७ ।।
मकरं कुंभमीनञ्च मेषञ्च मिथुनं तथा ।
सुषुम्ना * * * * * * *? यचोत्तरायणा ।। ७८
।।
प्. ११०४)
कर्कसिंहकन्या च तुलावृश्चिर्धनुस्तथा ।
इडयान्तर्महादेवि राशयो दि * * * * ? ।। ७९ ।।
- ? नाड्योदये देवि तत्कर्कपरिकीर्तितः ।
- ? नाड्योदये देवि तत्कर्कपरिकीर्तितः ।
मकरमादिसङ्क्रान्त्यै कैकेया बुधः ।। ८० ।।
आदित्यादि भवे * * * * * * ? चतुर्दश ।
विज्ञेयः प्राणविक्षेपः प्रबुध्यन्ते च ते क्रमात् ।। ८१ ।।
दिवाचारो भवेद्यस्य वेत्ता तस्य द्वयं भवेत् ।
प्र* * * ? मतिकालं समीपरार्धकल्पितम् ।। ८२ ।।
पूर्वोदयात्समारभ्य प्राणसप्तदश क्रमात् ।
प्राणाष्षष्टिस्समाख्याता प्राणाश्चैकादशं पुनः ।। ८३ ।।
प्. ११०५)
निमेषैकं लवं ह्येकं तृटिमेकादश न्यूनकम् ।
कृत्तिकाद्या भवेच्चारं भरण्यान्तानि मोदिताः ।। ८४ ।।
एवं शरीरजञ्चाररिक्षेषु कथितं तव ।
ज्ञात्वा योगी जपेन्मृत्युं ध्यात्वा दे* *? लक्षरम् ।। ८५ ।।
स एव भगवान् काल अजयः कृष्णपिङ्गलः ।
नाडिकाग्रहसंस्थो हि कालः कलयते प्रभुः ।। ८६ ।।
तत्र चित्तं समाधाय कालबीजं विचिन्तयेत् ।
शंभुमम्बुजपादञ्च बीजं कालेश्वरं स्थितम् ।। ८७ ।।
नाडिकाग्रहसंस्थाने वृध्या तन्तु जपेत्कलम् ।
तदा प्रवर्तते तस्य त्रिकालज्ञानमुत्तमम् ।। ८८ ।।
प्. ११०६)
भूतं कथयते योगी भविष्यद्वर्तमानकम् ।
षण्मासाभ्यन्तरे युक्तः कालज्ञानं प्रवर्तते ।। ८९ ।।
त्रिकालज्ञानसंसिद्धिः जायते योगिनस्य तु ।
कालात्मा जपतो देवि यतो वा वा महेश्वरि ।। ९० ।।
न तस्य कलयते कालः काले स्वच्छां वृजेत् *? ।
हतमृत्युजरारोहि सर्वरोगविवर्जितः ।। ९१ ।।
दूराच्छ्रवणविज्ञानं मननञ्चावलोकनम् ।
जायते नात्र सन्देहो योगी कालजयेषिणः ।। ९२ ।।
एकचित्तस्समापन्नो नासिकारन्ध्रमाश्रितः ।
जायते योगिनस्सर्वं कालमृत्युर्महद्भयम् ।। ९३ ।।
प्. ११०७)
जपते ध्यायते योगी नात्र कुर्याद्विचारणाम् ।
मन्त्रं वा जपते यस्तु पञ्चाक्षरं महामतिः ।। ९४ ।।
शतञ्च विंशतिं वाऽपि पञ्चाष्टकशतानि च ।
जपतो मन्त्रराजानः ओं जृंसश्शिवाय नमः ।। ९५ ।।
एतन्मृत्युजयं श्रेष्ठं सर्वदुःखापहं परम् ।
नानेन सदृशो मन्त्रः त्रिषु लोकेषु विद्यते ।। ९६ ।।
इदं पञ्चाक्षरं मन्त्रं सर्वदेवनमस्कृतम् ।
पूजितं त्रिदशैह्येतं मन्त्रराजं सुदुर्लभम् ।। ९७ ।।
तस्यादौ तु त्रयो देवाश्चतुर्थमीश्वरं परम् ।
पञ्चमं देवदेवेशं सदाशिवं परं पदम् ।। ९८ ।।
प्. ११०८)
एतत्पञ्चात्मकं देवं जपितं सर्वदेवतैः ।
हुतञ्च सततं तैस्तु मृत्युजित् स तु ते सुराः ।। ९९ ।।
अस्य मन्त्रप्रसादेन देवैर्मृत्युर्जितः पुरा ।
जरारोगविनिर्मुक्ताः परमैश्वर्यसमन्विताः ।। १०० ।।
सर्वकामसमृद्धास्तु पाशानुग्रहकारकाः ।
निर्द्वन्द्वा निरहंकाराः प्रलये भिन्नदेहजाः ।। १०१ ।।
न तेषां पुनरावृत्तिः गतास्तु परमां गतिम् ।
एतन्मन्त्रवरं प्राप्यात्मानं पठते सदा ।। १०२ ।।
त्रिधा चैव बहुधा चैव पशुज्ञानाभिमानिनः ।
आत्मानं प्राकृतं तत्वं अन्तरात्मा तु पौरुषम् ।। १०३ ।।
प्. ११०९)
परमात्मा भवेद्विष्णुः योगी नारायणेश्वरः ।
आत्मा तु कर्मणः कर्ताऽन्तरात्मा तु कारकः ।। १०४ ।।
परमात्मेत्वुदासीनं धृवं ते गुणयोगिनः ।
अणिमादिगुणैर्युक्तः परमात्मा महेश्वरः ।। १०५ ।।
ध्यायन्ति नित्ययुक्ता वै सनकाद्यास्तु योगिनः ।
मोक्षं जानन्ति योगीनां व्याख्यातं तव शोभने ।। १०६ ।।
वेदवादिनमप्येवं सकलस्यमुपासिनः ।
ओङ्कारवाक्यरूपेण ब्रह्मविद्यावदन्ति हि ।। १०७ ।।
ब्रह्मविष्णुस्तथा रुद्रः त्रयो देवास्समेकतः ।
सत्वं रजस्तमश्चैव गुणत्रयमुदाहृतम् ।। १०८ ।।
प्. १११०)
जाग्रत्स्वप्नसुषुप्तञ्च पदत्रयमुदाहृतम् ।
ऋग्यजुस्सामवेदाश्च त्रयो वेदास्स एव तु ।। १०९ ।।
एष वै परमोङ्कारस्सर्वदेवमयं विदुः ।
आनन्दं परमं ब्रह्म साम्यावस्थं तमोमयम् ।। ११० ।।
अग्निरग्नौ यदा क्षिप्तं तोये तोयमिव स्थितम् ।
मृत्पिण्डदण्डपाषाणन्निस्सुखं निष्प्रचेतनम् ।। १११ ।।
निर्वाणं परमानन्दमेवं वेदविदो धृवम् ।
अधुना संप्रवक्ष्यामि सादरं शृणु सुवृते ।। ११२ ।।
उपास्यते यथा देवं सकलं सर्वतो मुखम् ।
प्रद्युम्नमनिरुद्धञ्च तथा सङ्कर्षणो महान् ।। ११३ ।।
प्. ११११)
वासुदेवेति भगवान् सर्वावासो नरो हरिः ।
प्रद्युम्नकारको नाम कामो वै कामरूपिणः ।। ११४ ।।
अनिरुद्धो निरुद्धा अहङ्कारः प्रपठ्यते ।
सङ्कर्षणो भवेद्बुद्धिः प्राणापानमयी पुरी ।। ११५ ।।
वासुदेवेति प्रकृतिः गुणसाम्ये तमोमयी ।
गुणसाम्ये स्थिता यस्मात् निर्विकल्पे निरामयः ।। ११६ ।।
- * * *? क्षेत्रज्ञानां तत्परं वास उच्यते ।
प्रधानकिमहोरात्रमुषित्वा प्राणिनस्तथा ।। ११७ ।।
भूय एव व्रजन्त्ययं सृष्टिसंहारचोदिताः ।
वसन्ते सर्वभूतेषु स्वभावगुणवासना ।। ११८ ।।
प्. १११२)
वासनाद्वासना चैव वासुदेवेति गीयते ।
नासौ देवदेवेति पठ्यते पाञ्चरात्रके ।। ११९ ।।
अकारोकारभेदेन मकारं माररूपिणम् ।
जाग्रत्स्वप्नसुषुप्ताख्यैः सत्वराजसतामसैः ।। १२० ।।
रूपैरेतैस्समाख्याता वेदयोगमनीषिणः ।
तेषां यस्तुर्यनामानं तस्याधः प्रकृतिस्थिता ।। १२१ ।।
सांख्यानां पुरुषस्यैव प्रागेवोक्तं मयानघे ।
एतत्ते कथितं सर्वं किं भूयः परिपृच्छसि ।। १२२ ।।
वैमलाकारकाश्चैव तथा पाशुपता च ये ।
वैमलानां ध्रुवं देवं कारकाणां ततोपरि ।। १२३ ।।
प्. १११३)
ग्रन्थिध्रुवं मायीनां शिवसृष्टेरवस्थिता ।
तेषां तत्परमं स्थानं दीक्षाध्वानविशोधितम् ।। १२४ ।।
ईश्वरं पाशुपत्यानां स्थानञ्चैवमुदाहृतम् ।
चर्याध्वानविशुद्धात्मा गच्छते नात्र संशयः ।। १२५ ।।
अस्ति नास्ति तथास्तीति अर्हन्ता पुद्गलेति च ।
जीवाख्ये नियतं देवमुपास्यन्ते नात्र संशयः ।। १२६ ।।
एष देवि समाख्यातं साक्याच्चारहतैस्सह ।
न्यायवैशेषिकाश्चैव नैश्रेयपदवादिनः ।। १२७ ।।
पुराणपुरुषेत्येवमितिहासेषु गीयते ।
पुराणे कविरित्येवं पुरुषं परमेश्वरम् ।। १२८ ।।
प्. १११४)
देवं विश्वपतिं शुद्धमीश्वरं विश्वतोमुखम् ।
एकधा बहुधा चैव तथा शतसहस्रधा ।। १२९ ।।
गीयते येऽतितत्वज्ञा देवदेवं महेश्वरम् ।
बहुभिर्नामभेदैस्तु ऋषिभिः परिगीयते ।। १३० ।।
जीवं केचिद्वदन्त्येवं पुरुषेति तथा परे ।
प्राणिनः केचिदित्येवं पुद्गलं पशुरेव हि ।। १३१ ।।
सूक्ष्मं सर्वगतेत्येवमजमन्ये मनीषिणः ।
आत्मानमन्तरात्मानं परमात्मा तथा परे ।। १३२ ।।
- * * * * * * ? नमनन्ये धृतिकीर्तिताः ।
अतः परतरेणैव पातालानि यथाक्रमम् ।। १३३ ।।
प्. १११५)
कथयामि समासेन तन्निबोध वरानने ।
आभासतालसुतालञ्च श्रीतालञ्चगभस्तिकम् ।। १३४ ।।
शिलोच्चयं समाख्यातं पातालं हेमसंज्ञकम् ।
एतेषामुपरिष्टात्तु भुवनास्सप्त कीर्तिताः ।। १३५ ।।
भूलोकः प्रथमः प्रोक्तः यस्मिन् संस्कारमिष्यते ।
चतुर्दशविधश्चैव यस्मिन् संसारमण्डलम् ।। १३६ ।।
उद्धरेत वरारोहे तथैव कथयामि ते ।
ब्रह्माणमादितः कृत्वा पैशाचान्तन्तु शोभने ।। १३७ ।।
पशुस्तु प्रथमः प्रोक्तो मृगश्च तदनन्तरम् ।
पक्षिणश्च तथा प्रोक्ता तथा चैव सरीसृपः ।। १३८ ।।
प्. १११६)
स्थावरं पञ्चमं प्रोक्तं मानुष्यञ्च तथा पुनः ।
चतुर्दशविधं देवि ज्ञेयं संसारमण्डलम् ।। १३९ ।।
एभ्यस्संसारतोह्यात्मा संसारी तेन स स्मृतः ।
मानुष्येषु पुनः पश्चात् जातिरुद्धरणं स्मृतः ।। १४० ।।
अन्त्यजः प्रथमः प्रोक्तः शूद्रत्वं तदनन्तरम् ।
वैश्यक्षत्रं तथा ब्रह्मजातिरुद्धरणं कुरु ।। १४१ ।।
ब्रह्मत्वे तु तथा योज्य कुर्यात् संस्कारकर्मणि ।
गर्भाधानादितः कृत्वा अन्त्येष्टिन्तु पश्चिमम् ।। १४२ ।।
पूर्वमेव मया प्रोक्तं भूलोके चैव कारयेत् ।
क्रतुभिश्शुद्धदेहे तु भूलोके तु नियोजयेत् ।। १४३ ।।
प्. १११७)
भूलोकोऽथ भुवर्लोको स्वर्लोकोऽथ महत्तथा ।
जनस्तपस्तथा सत्यं क्रमेण पुनरुद्धरेत् ।। १४४ ।।
लोकैश्शुद्धैस्तथा देवि ब्रह्मविष्ण्वासने तथा ।
रुद्रासनं तथा प्रोक्तं ब्रह्माण्डाभ्यन्तरे तथा ।। १४५ ।।
नागाश्च गरुडाश्चैव सुराः किं पुरुषास्तथा ।
अग्निकुमारकाश्चैव मयश्चैव बलिस्तथा ।। १४६ ।।
सप्तैते कथिता देवि पातालेषु व्यवस्थिताः ।
बलोह्यतिबलश्चैव बलवान् बलविक्रमः ।। १४७ ।।
बलश्च बलनन्तश्च बलोग्रश्चैव कीर्तिताः ।
एतैस्सप्त समाख्याताः भुवनीशा महाबलाः ।। १४८ ।।
प्. १११८)
एतैश्शुद्धैरिमे शुद्धाः पातालास्सप्त एव तु ।
शर्वो रुद्रस्तथा भीमो भव उग्रस्तथैव च ।। १४९ ।।
महादेवस्तथैशानो रुद्रलोकाधिपास्त्विमे ।
कापालीशोप्यजो बुद्धो वज्रदेहप्रमर्दनः ।। १५० ।।
विभूतिख्ययः शास्ता पिनाकी त्रिदशाधिपः ।
दशरुद्रास्समाख्याता पूर्वायाः दिशि संस्थिताः ।। १५१ ।।
अग्निरुद्रो हुताशी च पिङ्गलो खादको हरः ।
ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ।। १५२ ।।
आग्नेययां दिशि रुद्रास्तु कथितास्तव शोभने ।
यो धूम्रहरो धाता विधाता कर्त एव च ।। १५३ ।।
प्. १११९)
कालरुद्रश्च विख्यातो धर्मो धर्मपतिस्तथा ।
संयोक्ता च वियोक्ता च इत्येते कथिता मया ।। १५४ ।।
याम्यायां दशरुद्रास्तु कथिताह्यनुपूर्वशः ।
नैऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः ।। १५५ ।।
ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदृष्टवान् ।
नैऋते दशरुद्रास्तु कथिताह्यनुपूर्वशः ।। १५६ ।।
बलोह्यति बलश्चैव पाशहस्तो महाबलः ।
श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ।। १५७ ।।
बडवामुखो भीषणेशो वरुणराज्ञा सुपूजिताः ।
वारुण्यां दशरुद्रास्तु कथिता ह्यनुपूर्वशः ।। १५८ ।।
प्. ११२०)
शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः ।
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।। १५९ ।।
वायव्यां दशरुद्रास्तु कथिताह्यनुपूर्वशः ।
निधीशो रूपवान्धन्यः सौम्यदेहो जटाधरः ।। १६० ।।
लक्ष्मीधृक् रत्नधृक् श्रीधृक् प्रसादश्च प्रकाशनः ।
उत्तरां दिशमाश्रित्य दशरुद्रा महाबलाः ।। १६१ ।।
विद्याधिपोऽथ सर्वज्ञो ज्ञानभुक् वेदपारगः ।
सुरेश्वरश्च सर्वेशो भूतपालो बलिप्रियः ।। १६२ ।।
सर्वविद्या विधाता च सुखदुःखकरस्तथा ।
ईशान्यां दशरुद्रास्तु कथिता ह्यनुपूर्वशः ।। १६३ ।।
प्. ११२१)
वृषो वृषधरोऽनन्तो क्रोधनो मरुताशनः ।
उग्रसेनोऽधिवीरश्च फणीन्द्रो वज्रदंष्ट्रवान् ।। १६४ ।।
अधस्ताद्दशरुद्रास्तु कथिताह्यनुपूर्वशः ।
शंभुर्विभुर्गुणाध्यक्षः स्त्र्यक्षस्त्रिदशवन्दितः ।। १६५ ।।
संवाहश्च विवाहश्च नभोलिप्सुर्विचक्षणः ।
ऊर्ध्वां दिशं समाश्रित्य दशरुद्रा महाबलाः ।। १६६ ।।
भूर्लोके तु यदा प्राप्य कुर्यात् संस्कारकर्मणि ।
स्थावरं प्रथमं शोध्यं ततश्शेध्यं सरीसृपम् ।। १६७ ।।
पक्षिणश्च मृगाश्चैव पशवश्चेत्यनुक्रमात् ।
देवयोनिर्पुनश्शोध्य एवमेव विपश्चितैः ।। १६८ ।।
प्. ११२२)
संसारोद्धरणं कृत्वा जातिरुद्धरणं कुरु ।
अन्त्यजः प्रथमं प्रोक्तश्शूद्रश्च तदनन्तरम् ।। १६९ ।।
वैश्यक्षत्रक्रमेणैव ब्रह्मान्तमुद्धरेत् क्रमात् ।
सद्यादिवक्त्रपर्यन्तैश्शोधयेत यथाक्रमम् ।। १७० ।।
अन्त्यजस्थमीशमन्त्रेण गायत्र्या देवयोनयः ।
ध्येयञ्च विविधं यत्तद्विद्याङ्गैश्शोधयेत् क्रमात् ।। १७१ ।।
ब्रह्मत्वे योजयित्वा तु कुर्यात् संस्कारकर्मणि ।
गर्भाधानं पुंसवनं सीमन्तं जातकर्मणि ।। १७२ ।।
नामनिष्क्रमणञ्चैवान्नप्राशनमेव च ।
चूडोपनयनञ्चैव वृतबन्धं तथैव च ।। १७३ ।।
प्. ११२३)
मेखलादन्तकाष्ठञ्च अजिनञ्च त्रियायुषम् ।
- ? मग्निरुपासञ्च व्रतानि पुनरेव तु ।। १७४ ।।
- ? मग्निरुपासञ्च व्रतानि पुनरेव तु ।। १७४ ।।
भूतेशं पाशुपत्यञ्च गणञ्चैव तृतीयकम् ।
गणेश्वरं चतुर्थन्तु उत्तमञ्चाधिसाककम् ।। १७५ ।।
सप्तं * * * * * *? अपूर्वेण प्रकीर्तिताः ।
ऐष्टिकं दार्थकञ्चैव भौतिकं सौमिकं तथा ।। १७६ ।।
देवव्रतास्समाख्याताश्चत्वारोह्यनुपूर्वशः ।
गोदानन्तु ततः कृत्वा पत्नीसंयोजनं तथा ।। १७७ ।।
अष्टकापर्वणि श्राद्धं श्रावण्याश्रयणी तथा ।
चैत्री चाश्वयुजी चैव पाकयज्ञाः प्रकीर्तिताः ।। १७८ ।।
प्. ११२४)
आधेयञ्चाग्निहोत्रञ्च दर्शञ्चैव ततः पुनः ।
पौर्णमासीति विज्ञेया सौत्रामणी ततः परम् ।। १७९ ।।
हविर्यज्ञा स्मृता ह्येते ज्ञातव्यास्तु यथाक्रमम् ।
अग्निष्टोमोत्यग्निष्टोममुथ्ययज्ञक्तृतीयकः ।। १८० ।।
चतुर्थी षोडशी ज्ञेया वाजपेयोऽथ पञ्चमः ।
त्रिरात्रं षष्टमित्युक्तं अप्तोर्यामञ्च सप्तमः ।। १८१ ।।
सोमसंस्थास्समाख्याताः सप्तचैव क्रमेण तु ।
हिरण्यपादः प्रथमो हिरण्यगुह्यमतः परम् ।। १८२ ।।
हिरण्यमेढ्रं तृतीयन्तु हिरण्यपाणिश्चतुर्थकम् ।
हिरण्यगर्भस्तथा प्रोक्ता पञ्चमः परमेश्वरि ।। १८३ ।।
प्. ११२५)
हिरण्यश्रोत्रं तथा देवि षष्ठमेतत् प्रकीर्तितम् ।
हिरण्यत्वक् समाख्यातं हिरण्याक्षं तथाऽष्टमम् ।। १८४ ।।
हिरण्यजिह्वो नवमो दशमोऽथ हिरण्यधृक् ।
आसहस्रस्य यज्ञस्य दशयज्ञाः परः स्मृताः ।। १८५ ।।
एकैस्तु परिवारास्तु शतेन परिवारिताः ।
दशयज्ञोपरिष्टात्तु अश्वमेधन्तु होमयेत् ।। १८६ ।।
एवं गृहस्थो भवति वानप्रस्थं तथा पुनः ।
पारिव्राज्यं ततो योज्य अन्त्येष्टिन्तु ततो हुनेत् ।। १८७ ।।
अन्त्येष्टिन्तु ततो हुत्वा ऊर्ध्वं कृत्वा तु योजयेत् ।
पुर्यष्टकसमायुक्तं पश्चात्तत्वेषु योजयेत् ।। १८८ ।।
प्. ११२६)
जलानलानिलव्योम अहङ्कारं तथैव च ।
बुद्धिर्गुणस्तथाऽव्यक्तं क्रमशः कथयामिते ।। १८९ ।।
अमरेशं प्रभासञ्च नैमिषं पुष्कलं तथा ।
अषडिञ्चैव दण्डिञ्च भारभूतिञ्च लाकुलम् ।। १९० ।।
गुह्याष्टकमिदं प्रोक्तं शिवेन परमात्मना ।
हरिश्चन्द्रश्श्रीशैलं जल्पेश्वरमतः परम् ।। १९१ ।।
आम्रातिकेशं महाकालं तथा मध्यमकेश्वरम् ।
केदारं भैरवञ्च अतिगुह्याष्टकं स्मृतम् ।। १९२ ।।
गयाञ्चैव कुरुक्षेत्रं खलं नाखलं तथा ।
विमलञ्चाट्टहासञ्च महेन्द्रं भीममष्टमम् ।। १९३ ।।
प्. ११२७)
गुह्याद्गुह्यतरं ह्येतत् कथितन्तु मया तव ।
वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम् ।। १९४ ।।
गोकर्णं भद्रकर्णञ्च स्वर्णाक्षं स्थाणुमष्टकम् ।
पवित्राष्टकमेतद्धि कथितं ह्यनुपूर्वशः ।। १९५ ।।
फटलञ्च द्विरण्डञ्च माकोटं मण्डलेश्वरम् ।
कालञ्जरवनञ्चैव शङ्कुकर्णं स्थलेश्वरम् ।। १९६ ।।
स्थूलेश्वरं तथा प्रोक्तं सर्वेषामुपरि स्थितम् ।
स्थानाष्टकमिदं ज्ञेयं अहङ्कारे व्यवस्थितम् ।। १९७ ।।
पैशाचं राक्षसं याक्षं गान्धर्वञ्चैन्द्रमेव च ।
सौम्यन्त्वथ प्रजेशञ्च ब्राह्मञ्चैवाष्टमं स्मृतम् ।। १९८ ।।
प्. ११२८)
देवयोन्यष्टकं ह्येतत् बुध्यावरणमाश्रितम् ।
संवर्त एकवीरश्च कृतान्तो जननाशनः ।। १९९ ।।
मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः ।
एते क्रोधेश्वराः प्रोक्ताः अनुपूर्वं यथाक्रमम् ।। २०० ।।
तेजोष्टकं पुनर्वक्ष्ये कथ्यमानं मया शृणु ।
लोकाध्यक्षगणाध्यक्षं त्रिदशे त्रिपुरान्तकम् ।। २०१ ।।
सर्वरूपश्च शान्तश्च निमेषो मेषणस्तथा ।
तेजोष्टकं समाख्यातं अनुपूर्वेण ते मया ।। २०२ ।।
तेजोष्टकोपरिष्टात्तु स्थितं योगाष्टकं पुनः ।
अकृतञ्च कृतञ्चैव भैरवं ब्राह्ममेव च ।। २०३ ।।
प्. ११२९)
वैष्णवन्त्वथ कौमारभौमं श्रैकण्ट्यमेव च ।
योगिनः कथिता ह्येते यथावदनुपूर्वशः ।। २०४ ।।
एतेषामुपरिष्टात्तु सु शिवा द्वादश स्मृताः ।
वामो भीमस्तथा रुद्र भवे * * * * * *? ।। २०५
।।
- ? व एक विराट् चैव प्रचण्डश्च तथैव च ।
ईश्वरोऽथ अजेशश्च अनन्तैकशिवस्तथा ।। २०६ ।।
सुशिवा द्वादशा ह्येते अनुपूर्वेण कीर्तिताः ।
सुशिवादुपरिष्टात्तु वीरभद्रः प्रकीर्तितः ।। २०७ ।।
मण्डलाधिपतिश्चैव * * * * * * * * ?
।
वामदेवोद्भवश्चैव तथा चैव भवोद्भवः ।। २०८ ।।
प्. ११३०)
एकपिङ्गेक्षणेशान कथिता अनुपूर्वशः ।
अङ्गुष्ठमात्रसहिता महादेवाष्टकं स्मृतम् ।। २०९ ।।
एतेषामुपरिष्टात्तु गुरुपङ्क्तित्रयं स्मृतम् ।
शिवप्रभु * * * * * * * ? व प्रतापनः ।।
२१० ।।
प्राणदः शिवभीमञ्च करालः पिङ्गलस्तथा ।
महेन्द्रो दिनकृच्चैव प्रदोदक्षण एव च ।। २११ ।।
करेवरं तथा प्रोक्तं अनुपूर्वे यथाक्रमम् ।
कण्ठघण्टा बृहन्ता च नादाश्वेत एव च ।। २१२ ।।
यजुर्वेदसमा * * * * * * * * * *
? ।
आचार्यश्शिवरूपश्च ज्येष्ठे नारायणस्तथा ।। २१३ ।।
प्. ११३१)
विप्रगण्डे दरश्चैव मयमाली तथैव च ।
गहनेशः पीडनश्चैव * *? पङ्क्तिरिष्यते ।। २१४ ।।
श्वेतदामस्सुदामश्च लोका * * * * * * ।
अक्षसूत्र एकपादञ्च तथा गृध्रशिवेश्वरः ।। २१५ ।।
- * * * * * * * * * * ?
हुस्तथैव च ।
ऋषभश्चैव गोकर्णः तथा देवो गुहेश्वरः ।। २१६ ।।
गुहावासी शिखण्डी च तथा च जटमायिनः ।
उग्रो भस्मश्शिखी शूली सुगीतिश्च तथैव हि ।। २१७ ।।
सुफलोत् गहासश्च कारको लाङ्गविस्तरः ।
तथा त्रिदण्डी शवनं साज्यं लकुलीशं तथैव च ।। २१८ ।।
प्. ११३२)
द्वितीया पङ्क्तिराख्याता अनुपूर्वं यथाक्रमम् ।
देवा चरणा दीर्घं वा हरिभूश्चैव यथाक्रमम् ।। २१९ ।।
रितिभूतिस्समाख्याता स्थाणुश्चैवमतः परम् ।
सद्योजातस्तथा रुण्डी षण्मुखश्चतुराननः ।। २२० ।।
चक्रपाणिस्तथा कूर्म अर्धनारीश्वरस्तथा ।
मेषसंवर्तकश्चैव भस्मेशः कामनाशनः ।। २२१ ।।
कपाली भूर्भुवश्चैव वषट्कारस्तथैव च ।
बुध्या घ्राणेन्द्रियः प्रोक्तो पृथिव्यान्ते ।। २२२ ।।
- * * * * * * * * * * * ##?
आपे तु रसतन्मात्रं विषयं रसमेव च ।। २२३ ।।
प्. ११३३)
कर्मेन्द्रियं ततः पायु बुध्य जिह्वेन्द्रिय स्मृतः ।
आपे तु शोधनीया तु अनुपूर्वं यथाक्रमम् ।। २२४ ।।
तेजे तु रूपतन्मात्रं विषयं रूपसंज्ञकम् ।
कर्मेन्द्रिय स्मृतः पादः बुध्या चक्षुः प्रकीर्तितः ।। २२५ ।।
तेजोवारणमेतत्तु शोधनीयं यथाक्रमम् ।
वायौ तु स्पर्शतन्मात्रं विषयं स्पर्शसंज्ञितम् ।। २२६ ।।
कर्मेन्द्रियः स्मृतं पाणि बुध्या चैव त्वगीन्द्रियम् ।
वायुतत्वे तु संशोध्या अनुपूर्वेण देशिकः ।। २२७ ।।
आकाशे शब्दतन्मात्रं विषयं शब्दसंज्ञितम् ।
कर्मेन्द्रियं स्मृतो वाचा बध्वा श्रोत्रेन्द्रिय स्मृतः ।। २२८ ।।
प्. ११३४)
आकाशे शोधनीयास्तु अनुपूर्वेण मन्त्रवित् ।
रोमाणि लोहितं मांसं मातृकर्तृक उच्यते ।। २२९ ।।
मज्जास्थिशुक्लसङ्घातं पैतृकं तृक उच्यते ।
अन्नपानं मनश्चैव क्रमेण परिकीर्तिताः ।। २३० ।।
पृथिव्यादिषु तत्वेषु एकैकेषु यथाक्रमम् ।
शोधनीयं यथान्यायं प्रकृत्यायान्तु या विधी ।। २३१ ।।
एवं हुत्वा यथान्यायं हुनेद्योगाष्टकं पुनः ।
गुरुपङ्क्तित्रयं हुत्वा प्रधानन्तु ततो हुनेत् ।। २३२ ।।
अतः परतरञ्चैव श्रूयतां सुरसुन्दरि ।
पौरुषे चैव तत्वे तु कथयाम्यनु पूर्वशः ।। २३३ ।।
प्. ११३५)
अंभा च सलिला चैव तुषावृष्टिस्तथैव च ।
सुतारा च सुपारा च सुनेत्रा च तथैव हि ।। २३४ ।।
सुमारी उत्तमांभा चतुष्टयः परिकीर्तिताः ।
ताराद्या अधुना वक्ष्ये प्राप्यमान निबोधमे ।। २३५ ।।
तारा चैव सुतारा च तरयन्ती तथैव च ।
प्रमोदा प्रमुदिता चैव मोदमाना तथैव च ।। २३६ ।।
रम्यका च समाख्याता सदा प्रमुदिता च या ।
सिद्धिरष्टविधा ख्याता ज्ञातव्या देशिकेन तु ।। २३७ ।।
अणिमा लधिमा चैव महिमा प्राप्तिरेव च ।
प्राकाम्यमीशितत्वञ्च वशित्वञ्च तथैव हि ।। २३८ ।।
प्. ११३६)
सर्वकामावसायित्वमैश्वर्यं कथितं मया ।
एतेषामुपरिष्टात्तु नाड्यो विद्याष्टकं हुनेत् ।। २३९ ।।
इडा च चन्द्रिणी चैव गौरी शान्तिकरी तथा ।
माला च मालिनी चैव स्वहा चैव स्वधा तथा ।। २४० ।।
नाडी विद्या समाख्यातं वेदितव्यं प्रयत्नतः ।
अत एव उपरिष्टात्तु कथितं विग्रहाष्टकं ।। २४१ ।।
अनुग्रहार्थं लोकानां संस्थितं सर्वदेहिषु ।
कार्यञ्च कारणञ्चैव सुखं दुःखं तथैव च ।। २४२ ।।
पुरुषत्वं स्मृता ह्येते ज्ञातव्यास्तु विचक्षणैः ।
अन्ये ये कथिता देवि भुवनाध्वेन ये पुरा ।। २४३ ।।
प्. ११३७)
देहपाशाह्यनेकानि वेदितव्यानि देशिकैः ।
पौरुषस्योपरिष्टात्तु * * * * * * * * ? ।।
२४४ ।।
- * * * ? भवेत्पाशं नियन्तं परमेश्वरि ।
सुखपाशो दुःखपाशन्तु शुक्लकृष्णावुभावपि ।। २४५ ।।
अस्य तत्वे तु ये रुद्रा कथयामि निबोध मे ।
वामदेवोद्भवश्चैव तथा चैव भवोद्भवः ।। २४६ ।।
- * * * * * * * * * * *
- ? व स्मृतः ।
धातारः क्रमशश्चैव विक्रमश्च तथैव च ।। २४७ ।।
प्रभेशानस्समाख्यातस्सुप्रभेशान एव च ।
नियत्यां संस्थिता ह्येते दशरुद्रास्समासतः ।। २४८ ।।
प्. ११३८)
अतोर्ध्वं संस्मृतः काल येस्मि रुद्र * * * *? ।
- * * * * * * * * * * *
रमाक्षरः ? ।। २४९ ।।
शिवश्च सुशिवश्चैव ध्रुवमक्षरमेव च ।
दशैते तु समाख्याता अनुपूर्वं यथाक्रमम् ।। २५० ।।
कालतत्वे स्थिता * * * * * * * * * *
? ।
मातृका प्रक्षेपः विद्यते * * * * * * * ?
।। २५१ ।।
- * * * * * * ? ह्येते ममान्यत्पलालवत् ।
नाडीत्रयमिदं देवि या प्रोक्तास्तत्र योऽक्षराः ।। २५२ ।।
इडा च पिङ्गला चैव सुषुम्ना च त्रय स्मृताः ।
इच्छाज्ञानक्रिया चैव परं शक्तित्रयं स्मृतम् ।। २५३ ।।
प्. ११३९)
वामा ज्येष्ठा च रौद्री च अधिकारात्मिका त्रयः ।
गार्हपत्यो दक्षिणाग्निराहवनीयं तृतीयकम् ।। २५४ ।।
यज्ञाधिकारिका ह्येते अग्नयस्त्रीणि कीर्तिताः ।
गुणत्रयन्तु त्रैरेव पदत्रयमुदाहृतम् ।। २५५ ।।
त्रैलोक्यं व्यापितं तैस्तु ब्रह्मविष्णुमहेश्वरैः ।
ईश्वरं हि चतुर्थन्तु पञ्चमन्तु सदाशिवम् ।। २५६ ।।
नमस्कारं भवेच्छक्तिः सर्वमन्त्रप्रबोधिनी ।
एष सर्वमयो देवि मन्त्रं परमदुर्लभम् ।। २५७ ।।
जपतस्सिद्धिमायाति कालमृत्युजयो भवेत् ।
जपतस्तृप्तिमायाति अमृतीशसमो भवेत् ।। २५८ ।।
प्. ११४०)
एतद्देवि समाख्यातं कालमृत्युजयेषिणः ।
कथितं सरहस्यन्तु कालचक्रं समासतः ।। २५९ ।।
सततं जपमानस्तु न मृत्युवशगो भवेत् ।
ध्यायते सततं यस्तु अमृतं मृत्युनाशनम् ।। २६० ।।
अचिरेणैव कालेन सि मृत्युं विजयिष्यति ।
इति निश्वासकारिकायां दीक्षोत्तरे अष्टादशः पटलः -
ईश्वर उवाच -
प्रक्रियासूत्रमिति देवि उक्तवानस्मि यत्पुरा ।
तदहं संप्रवक्ष्यामि तत्समासेन मे शृणु ।। १ ।।
प्. ११४१)
अनन्तं कालरुद्रञ्च दिक् श्रोत्रं भुवनं तथा ।
तन्नाम पतयश्चैव आवीची रौरवं तथा ।। २ ।।
महारौरवतामिस्रमन्धतामिस्रमेव च ।
शीत उष्णस्तथैवेह सञ्जीवसुजीवनम् ।। ३ ।।
पद्मञ्चैव महापद्मकालसूत्रं तथैव च ।
सूचीमुखं तथा प्रोक्तं ज्वरवरासीपर्वतम् ।। ४ ।।
असितालवनञ्चैव कुंभीपाकस्तथैव च ।
अंबरीषं तथा प्रोक्तं अङ्गारराशिमतः परम् ।। ५ ।।
भुवनं तीक्ष्णायकां तुण्डं वक्रतुण्डं तथैव च ।
स कृमिश्च तथा प्रोक्तं मीनोदरवरोदरः ।। ६ ।।
प्. ११४२)
मशकः काकतुण्डश्च पि* * ? मम मेव च ।
वज्रग्रीवो महाकायो कालं वै वडवामुखम् ।। ७ ।।
विशालञ्च अशालञ्च अस्थिभङ्गं तथैव च ।
तथापूय हृदञ्चैव भ्रमरामशकस्तथा ।। ८ ।।
दंशं महामुखञ्चैव कूर्माढ्यं भीषणं तथा ।
कर्कटं कृकचञ्चैव गर्भं चैव तथापरम् ।। ९ ।।
दीप्तिश्चैव तथा प्रोक्तं त्रिमुखञ्च तथैव हि ।
शताननं पञ्चमुखं जंबूकं पुनरेव हि ।। १० ।।
सुतप्तऋतुपङ्कश्च पूयमांसहृदस्तथा ।
हुनञ्च हुनहस्तञ्च परशुद्धध्वमेव च ।। ११ ।।
प्. ११४३)
उच्छ्वासन निरुच्छ्वासं वंशमावान्तमेव च ।
दावाग्निरपरूपश्च आपको मध्यमेव च ।। १२ ।।
मन्त्रयोणो विरूपञ्च रूपवर्धनमेव च ।
लंबोष्ठः कूपशाखश्च बहुशाखस्तथैव च ।। १३ ।।
विशाखश्च तथा प्रोक्तः गूलशाल्मिमेव च ।
गविहेरस्मरश्या च लोहपञ्चरमेव च ।। १४ ।।
गहनं वृश्चिकश्चैव काककण्टकमेव च ।
कवाटसङ्कुलश्चैव क्रिमिवैतरणी तथा ।। १५ ।।
गृध्रश्च कुररश्चैव दुर्दुरो अलकस्तथा ।
वक्रनाशश्च विविधः खञ्जरीटकमेव च ।। १६ ।।
प्. ११४४)
वसनं तिलकञ्चैव काककङ्कमुखं तथा ।
शिवानादं गजनादं महानादं तथैव च ।। १७ ।।
शिवोग्रवस्त्रजश्चैव कीटवानरमेव च ।
मूषिकं घोररूपञ्च कृष्णवर्तमधः शिरः ।। १८ ।।
चक्रपिण्डालवर्तिश्च वाद्यकुक्षिकमेव च ।
इक्षु यन्त्रञ्च अशनि तथा गण्डोदर स्मृतः ।। १९ ।।
कण्टं क्रदं पुनः प्रोक्तः तथा वै वालुकर्दमः ।
एतेषां भुवना रौद्रा स्त्रिकोणाः परिकीर्तिताः ।। २० ।।
- * * * * * * * ? वेदितव्याः
प्रयत्नतः ।
ऊर्ध्वं समाख्याता रुद्र * * * * * * * *
? ।। २१ ।।
प्. ११४५)
- * * * * * * * ? सुरूपो रूपवर्धनः
।
मनोन्मनस्समाख्यातस्तथा च सुमनोन्मनः ।। २२ ।।
महावीरस्तथा वीरो विरोधश्च तथैव च ।
रागतत्वसमाख्यातश्शोधनीया विदुर्बधैः ।। २३ ।।
अत ऊर्ध्वं समाख्यातं विद्यातत्वं वरानने ।
- * * * * * * * * * ? ण्याद्या
महाबलाः ।। २४ ।।
कल्याणः पिङ्गलश्चैव वभ्रुश्च वरदस्तथा ।
प्रवरो मेधातिथिश्चैवच्छेदको दहनस्तथा ।। २५ ।।
शास्त्रकारी समाख्याता दशैते गुरवस्मृताः ।
विद्यातत्वे समाख्या * * * * * * * *
- ? ।। २६ ।।
प्. ११४६)
अत ऊर्ध्वं समाख्यातं कालतत्वं वरानने ।
वामाज्ज्येष्ठादयस्तत्र शोधनीया विपश्चितैः ।। २७ ।।
वामो ज्येष्ठश्च रुद्रश्च कालश्चैव कलस्तथा ।
कलविकरणो देवो बलप्रमथन * * ? ।। २८ ।।
- * * * * ? क्षेमीश ब्रह्मणोधिपतिस्तथा ।
सुशिवश्च शिवश्चैव कथिता अनुपूर्वशः ।। २९ ।।
अत ऊर्ध्वं अनन्तेशं पाशाश्चैव तु संस्थिताः ।
मदो मोहो महामोहः चोषवैचित्र्यमेव च ।। ३० ।।
- * * * * * * * * * * * ##?
अत ऊर्ध्वन्तु ओङ्कारं वेदितव्यं प्रयत्नतः ।। ३१ ।।
प्. ११४७)
अत ऊर्ध्वं साध्योङ्कारं वा तार उदमनेशकम् ।
ध्यानाहारं समाख्यातं भस्मेशं तदनन्तरम् ।। ३२ ।।
अनुक्रमेण शोध्यायां प्रमाणानि नोबोध मे ।
पञ्चार्थगुह्यकञ्चैव रुद्राङ्कुशमतः परम् ।। ३३ ।।
हृदये लक्षणञ्चैव व्यूहमाकर्षकं तथा ।
आकर्षकस्समाख्यातो मया तत्वस्य मध्यतः ।। ३४ ।।
माया तत्वोपरिष्ठात्तु विद्यातत्वन्तु कीर्तितम् ।
कथितं सर्वविद्यानां योनिभूतं महाधिया ।। ३५ ।।
वामाज्ज्येष्ठा च रौद्री च कालीकलविकारिणी ।
तथा बलविकारणी बलप्रमथिनी * * ? ।। ३६ ।।
प्. ११४८)
- * * * * * * *? वेदितव्याः प्रयत्नतः
।
अतोर्ध्वं ईश्वरं तत्वं वेदितव्यं समाहितः ।। ३७ ।।
अनन्तेशश्च सूक्ष्मश्च तथा चैव शिवोत्तमः ।
एकनेत्रैकरुद्रश्च त्रिमूर्तिश्चानलद्युतिः ।। ३८ ।।
श्रीकण्ठश्च शिखण्डी च * * * * * * *
- ? ।
- * * ? न्तु प्रवक्ष्यामि रूपचतुष्टयं तथा ।। ३९ ।।
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम् ।
अत ऊर्ध्वन्तु देवेशि शक्तयस्त्रीणि कीर्तिताः ।। ४० ।।
वामाज्ज्येष्ठा च रौद्री च शक्तयस्त्रीणि कीर्तिताः ।
पशोर्योजनविशेष उद्धारे च प्रकीर्तिताः ।। ४१ ।।
प्. ११४९)
अतो ज्ञानक्रियाशक्तिः वेदितव्याः प्रयत्नतः ।
उपरिष्टात्तु द्वे विद्ये वेदितव्याः प्रयत्नतः ।। ४२ ।।
तेजीशश्च ध्रुवीशश्च वेदितव्यः * * * * ? ।
- * * * * * * * * * ?
ज्ञानसमन्विताः ।। ४३ ।।
तत्पदं परमं प्रोक्तं तथ्यमेतन्न संशयः ।
एतेषामुपरिष्टात्तु पुनश्च प्रणवस्मृतः ।। ४४ ।।
ब्रह्मविष्णुप्रतोदञ्च मनवं परिकीर्तितम् ।
एतेषामुपरिष्टात्तु सौम्यं रू अनुपूर्वशः ।। ४५ ।।
अत ऊर्ध्वं ध्रुवं प्रोक्तं कथितं तव शोभने ।
ध्रुवञ्चैवोपरिष्टात्तु रुद्रैकादशकं पुनः ।। ४६ ।।
प्. ११५०)
ब्रह्मदर्कोदण्डिमुण्डि सौरभे *? ज्ञ जृंभितम् ।
गुलके संस्थिता ह्येते वेदितव्याः प्रयत्नतः ।। ४७ ।।
तृतीयन्तु पुनर्वक्ष्ये निरञ्जनमतः परम् ।
इच्छाशक्ति ततोर्ध्वे तु ऊर्ध्वं प्रीत्यादयस्मृताः ।। ४८ ।।
प्रीति प्रमुदिताश्चैव प्रणीतस्सुखदुःखिनः ।
कथितं ते समासेन अष्टौ ते भुवनेश्वराः ।। ४९ ।।
ततस्तु समयः क्षुद्रः प्रभवाद्याः प्रकीर्तिताः ।
परतोऽन्यघनो नाम रुद्रोङ्कारमतः परम् ।। ५० ।।
- * * * * * * * * * * *
- ? वस्थितः ।
परिवार्योऽष्टभेदेन मध्ये नादस्तु संस्थितः ।। ५१ ।।
प्. ११५१)
कर्णिकास्थस्थितस्तत्र चतस्रो योगभक्तयः ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।। ५२ ।।
उपरिष्टात्स्थितं नादं निरालंबो ततोपरि ।
कस्मिन् * * *? द्ध ज्ञेयं सर्वं व्याप्य व्यवस्थितम् ।। ६३ ।।
अतः सुषुम्ना विज्ञेया सर्वाध्वानसमाप्तये ।
ततो ब्रह्मबिले लीना पद्मसूत्रनिभा स्थिता ।। ५४ ।।
ध्यातव्यो योगिभिर्नित्यं तुषारकण धूसरः ।
अतो * * * * * * ? निरालंबो ततोपरि ।। ५५ ।।
तस्मिन्युक्तस्समुच्चेन न पुनः पशुतां व्रजेत् ।
तस्मिन् युक्तो यदाह्यात्मा तत्तुल्यसमतां व्रजेत् ।। ५६ ।।
प्. ११५२)
प्रक्रियासूत्रमेतत्तु कथितन्तु यथाक्रमम् ।। ५६ १/२ ।।
इति निश्वासकारिकायां दीक्षोत्तरे प्रकरणे एकोनविंशतिः पटलः ।
।। समाप्तोऽयं संहिता इति ।।
इदं पञ्चसूत्रोज्वलं समुदायेन द्वादशसाहस्रिकं समाप्तं
निश्वासकारिकाख्यं तन्त्रम् ।।
ओं नमो नमः । ओं हुं नमः । ओं हं स । ओं परमशिवेन लिखितम्
निश्वासकारिकाख्यं तन्त्रम् । ओं हरिः ओं । ओं शिव शिव शिव ।