दाशरथीयतन्त्रम्/अध्यायः २१
| ← अध्यायः २० | दाशरथीयतन्त्रम् अध्यायः २१ [[लेखकः :|]] |
अध्यायः २२ → |
प्. ६५ब्)
श्रीरामाय नमः
त्रषय ऊचुः
ऋष्य शृंग महाभागभगवन्योगिनांवरं ।
वेदोदितं सदाचारं मन्वाद्यैरप्युदीरितं ।। १ ।।
श्लत्वन्मुखाच्छ्येतु मिच्छायः परं कौतूहलं हिनः ।
यथाश्रियथतिस्तुषो भक्तानां सतं भवेत् ।। २ ।।
यथाचित्स्युशुद्धिः स्याद्यथा शुद्धं कलेवरं ।
श्रीमदष्टाक्षरी विद्यारश्मिमालासमन्विता ।। ३ ।।
यथानायासतः सिध्येतत्यंरं कहिनो मुने ।
श्रीक्रथ शृंप्र उवाच
पुरा भगवता प्रोकं रुद्राय परिपृच्छते ।। ४ ।।
प्. ६६अ)
जानकीपतिना श्रौतं सदाचारं वदाम्यहं ।
साध्य नारायणे नादावुक्तं राज्ञे महात्मने ।। ५ ।।
पुनर्दाशरथिः प्राहशंभवे जानकीपतिः ।
ब्रह्मचर्यं वगाहम्स्थ्यं वनवासश्चतिक्षुता ।। ६ ।।
चत्वार आश्रमाराते द्विजातीनां नहामते ।
श्रीमदष्टाक्षरीविद्या समस्ताश्रमिणामपि ।। ७ ।।
जप्त्वाभीशित संसिद्धिं हृद्यान्मुक्ति च शाश्वतीं ।
सदाचारवतानित्यं समस्तन्याससंयुता ।। ८ ।।
श्रीमदष्टाक्षरीविद्या दद्यान्सिद्धिं च दुर्लभां ।
संक्षेयाददित्तं पूर्वं सदाचारं महामते ।। ९ ।।
पुनर्विशेषतो वक्ष्ये सावधानमुनाः शृणु ।
श्रीभगवानुवाच
शृणु राजन्प्रवक्ष्यामि सदाचारं महामते ।। १० ।।
यच्छ्रुत्वापि नरोधीमान्नाज्ञानतिमिरविशेत् ।
ब्राह्मणाक्षतियावैश्यास्त्रयोवर्णाद्विजाः स्मृता ।। ११ ।।
प्रथमं मातृंतोजन्मद्वितीयंवोयनापुनात् ।
येषां क्रियाभिषेकादि श्मशानांता च वैहिकी ।। १२ ।।
आदधीत सुधीर्गर्भमृर्तोमूलयर्मांस्मजं ।
तस्यंदनात्याक्युं सवनं सीमंतीन्नयनं ततः ।। १३ ।।
मासिषष्टोष्टमेवापिजातेथो जातकर्म च ।
नामह्येकादशेगेहाञ्चतुर्थेमासिनिक्षमः ।। १४ ।।
मासेन्न प्राशनं षष्टे ऋगद्वेवा यथाकुलं ।
शममेनी व्रजत्येव वीजगर्भजमेव च ।। १५ ।।
स्त्रीणामेताः क्रियास्तूष्णीपाणिग्राहस्तु मंत्रवान् ।
सममेवाष्टमे देवा सावित्रीं ब्राह्मणोहंति ।। १६ ।।
नृपुस्त्वैकादशेवैरयोद्वादशेवायथाकुलं ।
ब्रह्मतेजोभिवृध्यर्थं विप्रोब्देयं वमेर्हति ।। १७ ।।
षष्टेवलाथीनृप्रतिमौंजीवैश्योःष्टमेधिये ।
महाव्याहृति पूर्वचिवेदमध्याययेद्गुरुः ।। १८ ।।
उपनीय ततः शिष्यं शौचरि च शिक्षयेत् ।
धूर्वोक्तविधिना शौचं कुर्यादा च मनसदा ।। १९ ।।
दंतान् जिह्वां स विशोध्यत्वामत विशोधनं ।
स्रात्वांवुदेतैर्मंत्रैः प्राणानायम्ययस्रतः ।। २० ।।
उपस्थानं स्वेः कृत्वा संध्ययोहभयोरपि ।
अग्निकार्ये ततः कृत्वा श्रीमददष्टाक्षरीरतः ।। २२ ।।
आचार्यमभिवाद्याथविप्राग्र्यांश्चाभिवादयेत् ।
वुवश्चसावहमितिस्वुपाप्तीत ततो गुरुं ।। २३ ।।
अभिवादनशीलस्य वृद्धसेवारतस्य च ।
आपुर्वलं यशोकृद्धिर्वर्द्धेतहेरहर्निशं ।। २४ ।।
प्. ६६ब्)
अधीते गुरुणाह्रतः प्रात्यं तस्मै निवेदयेत् ।
कर्मणामनसावाचाहितंतस्यत्वरेत् सदा ।। २५ ।।
उध्याप्याधर्मतोन्वथंत्साध्वात्यज्ञानवतथा ।
शक्ता कृतज्ञाःश्चचयोद्रीहिकल्यानसूयकाः ।। २६ ।।
कुर्वंतः सदुसेराज्ञां पालनं धर्ममासुयुः ।
श्रीमदःष्टाक्षरीं सांगां ज्ञातुंजसु च संततं ।। २७ ।।
आश्रयेहह्यचर्येपि ब्राह्मणोमुक्तिसिद्धये ।
वेदीध्ययनसिध्यर्थं प्रात्ययेष्टाक्षरस्थ च ।। २८ ।।
आश्रयेत् सहृरूंधीमान् गुरुद्वयमथापि वा ।
धारयेन्मेखिलादंडेय वीलाजिनमेव च ।। २९ ।।
अनिद्येषु चरेवैक्ष्यं ब्राह्मणेधालवृतये ।
ब्राह्मणक्षत्रियविशामादिमध्यावसा ततः ।। ३० ।।
भैक्ष्यचर्याक्रमेणस्थाभ्दृवछह्वोपलक्षिता ।
वाग्यतो गुर्वनुज्ञातीभुंजीतान्नमकुत्सयन् ।। ३१ ।।
एकान्नं न समश्रीयाच्छाद्धेष्णीया तथा यदि ।
अनायुरोग्यमनायुष्यमसुर्ग्यं चाति भोजनं ।। ३२ ।।
अपुरायं लोकविद्विष्टं तस्मातत्परिवर्जर्यत् ।
न द्विर्भुजीतचैकस्मिन् दिवाक्वापि द्विजोत्तमः ।। ३३ ।।
सायं प्रातद्विजीष्णीयादग्रहोत्र विधानवत् ।
मधुमांसं प्राणिहिंसांभास्करालोकंनांजमे ।। ३४ ।।
स्त्रियं ययुषितीच्छीष्टं वस्विदेववज्जेयेत् ।
औपनायनिकःकासो ब्रह्मक्षत्रविशांपरः ।। ३५ ।।
आषोडशात् द्वार्विशादा चतुर्विंशतिदब्दतः ।
इतोथ्यूर्वेन संस्कार्याः पतिताधर्मवर्जिताः ।। ३६ ।।
ब्राह्मर्स्तामेन यज्ञेन तत्पति संपरिसजेत् ।
सावित्रीयतितैः सार्धं संसार्गंनि समावरेत् ।। ३७ ।।
वैणं च रौरवं चास्तं क्रमाच्चर्मद्विजन्मनां ।
उपवीतं क्रमेणस्यात्कार्यासंशाणमाविकं ।। ३८ ।।
त्रिवृद्वर्ध्रुव्रतं तच्च भवत्यायुर्विवृद्धये ।
विल्वयालाशयोर्द्वंगे ब्राह्मणस्थनृयस्थतुं ।। ३९ ।।
न्यग्रेध वालदलयोवांदरोदुंवरौविशः ।
आमौलित्वाललाटं वा नासिकोद्धे प्रमाणतः ।। ४० ।।
ब्राह्मक्षत्रविशादं श्रुत्वगाव्यीनाग्निभूषितः ।
प्रदक्षिणं परीसाग्निमुयस्यापदिवाकदं ।। ४१ ।।
देहाजिनीपवीताक्य श्लोद्भक्षं यथोहितं
मातृमातृद्यसूपितृपितृष्णसृपुरस्मराः ।। ४२ ।।
प्रथमं भिक्षणीयाः स्युर्वंधुनार्थस्ततःपरं ।
औपनाद्य निकेकालेततो विप्राग्र्यमंदिर ।। ४३ ।।
भिक्षचर्यं चरेद्धीमाननिधेवसुधापते ।
यावद्वेदमधीतेसौचरेद्वेदतानित्र ।। ४४ ।।
प्. ६७अ)
ब्रह्मचारी भवेता वहूर्द्ध्वं स्नानोगृही भवेत् ।
उपकुर्वन् गुरोर्नित्यं तदक्तेषु नैष्टिकः ।। ४५ ।।
तिष्णेतावद्वरुकुले यावत्स्याहायुषःक्षयः ।
गृहाश्रमं समाश्रिसयः पुनर्ब्रह्मचर्यभाक् ।। ४६ ।।
नासौयतिवं नस्थौवास्यात् सर्वाश्रमवर्जितः ।
अनाश्रमी न तिष्ठेत दिनमेकमपिद्विजः ।। ४७ ।।
आश्रमं तु विनातिष्ठन्प्रायश्चित्तीयते हिस्यः ।
जयं हीमं व्रतंदानं स्वाध्यायं पितृर्यणं ।। ४८ ।।
विनाश्रमं प्रकुर्वाणो नासौ तत्फलमश्रूते ।
मेखलाजिनदंडाश्चलिंगं स्याद्ब्रह्मचारिणः ।। ४९ ।।
गृहिणो वेदयल्ल्याद्दिनखरोमविहीनता ।
त्रिदंडादियतेरुक्तमुपलक्षणमत्रवै ।। ५० ।।
एतल्लक्षणहीनस्तु प्रायऽऽचित्ती दिने दिने ।
जीर्णं कमंडलं दंडमयवीतादिने अपि ।। ५१ ।।
अश्रुचैतानि निक्षिप्य गृह्णीयान्य च मंत्रवत् ।
विदृध्यास्षोडशेवर्षेकेशांतं कर्म चक्रमात् ।। ५२ ।।
द्वाविंशेवा चतुर्विंशेगाहंस्थ्यस्य प्रवृतये ।
तपोमज्ञ व्रतेभ्यश्च सवेस्माच्छ्रुभकर्मणः ।। ५३ ।।
श्रुतिरेकोद्वितातीनां हेतुर्नि श्रेयस श्रियः ।
वेदारंभे विसर्गेव विदद्यास्त्रणवं सदा ।। ५४ ।।
अफलोनोंकृत्तो चस्मायस्मात्यटितीपिन सिद्धये ।
वेदस्यवदनं प्रोक्तं गायत्रीन्नियद्दापरा ।। ५५ ।।
तिसृभिः प्रणवाधाभिर्महीव्या हृतिभिस्सदाः ।
सहस्रंसाधिकं किंचित्त्रिकमेतज्जयंत्यमी ।। ५६ ।।
मासं वहिः प्रतिदिनं महीवादृपिमुच्यते ।
आत्र्यव्दृमेतधोभ्यस्थे स्रुतिद्यस्त्रमनन्यधीः ।। ५७ ।।
सव्योममूर्तिः शुद्धात्मायां ब्रह्मोधि गच्छति ।
त्रिवर्णमयमोंकारं भूर्भुवः स्वामितित्रयं ।। ५८ ।।
पदत्रयं तु गायत्र्यास्त्रयोवेदानददृहतरात् ।
दक्ष्रमेताश्चजयः व्याहृति पूर्वकं पूर्वकं ।। ५९ ।।
ध्ययोर्वेदविद्धि प्रोवेध्युरायेन युज्यते ।
विःधिक्रतोर्दशगुणो जपक्रतुरुदीरित् ।। ६० ।।
वेष्मात्जंयोवि संश्रीमदष्टासरीजयः ।
अश्वमेधादियागेभ्यो द्वावुक्तावंधिकौक्रत् ।। ६१ ।।
आचार्यदक्षिणादानं महादानशतादपि ।
अधिकं प्रोक्तमाचार्यैवेदवेदांतचेद्दिभिः ।। ६२ ।।
अधीत्यवेदान् वेदौ वा वेदं वा शक्तितो द्विजः ।
संपूर्णधान्यधरणीद्दानस्यकलमश्रुते ।। ६३ ।।
प्. ६७ब्)
श्रुतिमेवः सदाभ्यस्येतपस्तप्यन् द्विजोत्तमः ।
श्रुत्यभ्यासोहि विप्रस्य परमं तप उच्यते ।। ६४ ।।
हित्वा श्रुतेरध्ययनंयोन्यसहितुमिच्छति ।
सदोग्धीं धेनुमुत्सृज्यग्रामकोडं दधुक्षति ।। ६५ ।।
उपनीयतुयःशिथं वेदमध्याययेद्विजः ।
सुकल्यं सरद्वस्यं च तमाचार्यां विदुर्वधाः ।। ६६ ।।
भगवद्रश्मिसहितासमस्तन्यासंसयुता ।
श्रीमदष्टाक्षरीसांगालभ्यतेयन्मुखांवुजात् ।। ६७ ।।
आचार्योयं शतगुणेधिकः पूर्वगुरोरपि ।
योध्याय वेदेकदेशं श्रुते रंगान्यथापि वा ।। ६८ ।।
वृत्यर्थं सु उयाध्यायोविद्वद्भिः परिपठ्यते ।
यथाविधि निषंकादियः कर्म कुरुते द्विजः ।। ६९ ।।
संभावये तथान्येन गुरुस्स इह कीर्त्यते ।
अथाधानात्याकयज्ञादग्रीयोमादिकान्मख्यात् ।। ७० ।।
सहस्रशः पितामातागौरवेणातिरिच्यते ।
पितुर्मातुरूपाध्यायाऽहरोराचार्यतोपि च ।। ७१ ।।
भगवद्रश्मिसहितश्रीमदष्टाक्षरीप्रदः ।
सहस्रशोधिकः प्रोक्त आचार्योभगवानसौ ।। ७२ ।।
ब्रह्मनारायणीविवाहं सभारायणाभिधा ।
षोडशार्णादिविद्याश्च नृसिंहानुष्टुभादयःशु ।। ७३ ।।
शुद्धाष्टस्यर विद्यायाः कलांनांहंतषोडशीं ।
स स कोरियन्नूनांवशास्त्राणामपि संतंतं ।। ७४ ।।
चतुर्णामपि भूवेदानां पुराणनां च भूयते ।
शुद्धैव श्रीमदष्टार्णा राज्ञीनातोधिकापरा ।। ७५ ।।
श्रीमदष्टाक्षरीं विद्यां सांगां रश्मिसमन्वितां ।
यः प्रयच्छति विप्रोसौ साधकाय महीयते ।। ७६ ।।
पितुर्मातुरूपाध्याद्वरोवाचार्यतोप्यसौ ।
ब्रह्मविष्णूमहेशेभ्योप्यधिकः शतशोनृप ।। ७७ ।।
विज्ञायेत्थं सदाचार्य तत्वं गुसमपिश्रुतौ ।
आचार्यचरणंभोजे भक्तस्सदा भवेत् ।। ७८ ।।
विप्राणां ज्ञानतोत्यैत्थं वाहुत्तानां च वीर्यतः ।
वैश्यानांधान्यधेनतश्चतुर्थानां तु जन्मतः ।। ७९ ।।
यथादारूमयोहस्ती यथा च ममयोगः ।
तथा विप्रोनधीयामस्त्रयोमीनामधारिणः ।। ८० ।।
स्वकर्मनिरतांनां च वेदयज्ञाक्रियावतां ।
ब्रह्मचारीवरेदैक्ष्यं वेश्यसुप्रयतीन्वहं ।। ८१ ।।
यथेष्टचेष्टोनभवेहृदोर्नयनगोचरे ।
न नाम प्रतिगृह्णीयात्परोक्षेप्यवहं न ।। ८२ ।।
गुरुनिंदाभवेद्यत्र परिवादस्तु यत्र च ।
कर्णौपिधाववास्थेयं यातव्यं वाततोन्यक्तः ।। ८३ ।।
खरोरोःपरीवादात् श्वाभवेहुरुनिदृकः ।
मत्सक्षरीक्षद्रकीरः स्याति रस्काराद्भावेत् क्रिमिः ।। ८४ ।।
प्. ६८अ)
श्रीमदष्टाक्षराचार्यं निदां श्रुत्वापि वा सकृत् ।
पुष्टिर्वष सहस्राणिवष्टासुकृमितां व्रजेत् ।। ८५ ।।
नामिवाद्या गुरौःपत्नी स्पृष्टा स्त्रीपुवतिः सती ।
कृपिविंशतिवर्षेणज्ञाणागुरुदोषयोः ।। ८६ ।।
स्वभावश्चं वलस्त्रीदीर्षः पुंसामतः स्मृताः ।
प्रमदासप्रभावंति कृचिन्नैवविपश्चितः ।। ८७ ।।
विद्वां समप्यविद्धां संस्त्रियस्ताधर्षवत्सलं ।
स्ववशं चापि कुर्वंति सूत्रवद्धशकुंतवत् ।। ८८ ।।
नमात्रानदहित्रावानस्वस्रैकांतशीलता ।
वलवंतीद्रियाण्पत्रमोहयंत्यपिकोविद ।। ८९ ।।
गुरुशुश्रूषयानित्यं प्राणैरर्थैश्च पुष्कलैः ।
विद्यासिध्यतितल्पश्चाद्ब्रह्मपश्यतिकेवलं ।। ९० ।।
सूतस्य संभवक्लेशं सहंति पितरौचयं ।
शक्त्या वर्षशतेनापिनोकर्तुत्तस्य निष्णुतिः ।। ९१ ।।
अतस्तयोः प्रियकुर्योदाचार्यस्य वसंततं ।
श्रीमदष्टाक्षरीसांगा भगवद्रश्मिसंवुता ।। ९२ ।।
यस्य वक्त्रां वुजाल्लब्धाभोगस्वर्गोपवर्गद्री ।
तस्योयकर्तं केनापि न शक्यं कल्पकोटिभिः ।। ९३ ।।
तमवश्यं यजेद्धीमान् नारायणमिवायां ।
जनकेमातरिगुणैरुषुतुष्टेषु संतत ।। ९४ ।।
ततयः परमप्राहुब्रह्मसायुज्यसिद्धिदं ।
त्रीन्युस्समतिक्रम्य त्रिकल्पं नियतत्यथ ।। ९५ ।।
त्रीनेवासून्समाराध्यत्रोल्फ्रौकात्सजयेत्सुधी ।
पीतामाता च वेद्दानायुयदेष्टा ततः परं ।। ९६ ।।
श्रीमदष्टाक्षरीदाता चतुर्थोगुरुरुच्यते ।
चतुर्वर्गफलं प्रोक्तं चतुर्गुरुसमर्चनात् ।। ९७ ।।
पितरं मातरं वापि त्यजेद्वेदगुरुतपि ।
ब्रह्मविद्याप्रदाचार्यं प्राणांतेपिनः संत्यजेत् ।। ९८ ।।
एकैकापि महाविद्याय सवत्रे लभ्यते ।
तंप्तक्तानरकेघोरेतिष्ठसाचंद्रतारकं ।। ९९ ।।
रश्मिमालाप्रदाचार्य सागे वक्तुं न शक्यते ।
सर्वा अपि मक्षविद्या यत्रा तिष्ठंति सिद्धिदः ।। १०० ।।
तस्माद्भगवतो रश्मिविद्यादातागुरुर्महान् ।
स एव साक्षाद्भागवान्भोगस्वर्गायवर्गदः ।। १ ।।
नंतसतेच्चप्राणांतसरावकुलदैवतं ।
रश्मिविद्याप्रदावार्योस्वसमीपस्थिते परं ।। २ ।।
तंहात्कायोर्चयेदर्थैराकल्पं नरके वसेत् ।
रत्नजातैस्सूवह्निभिस्मतोष्याचार्यमन्वहं ।। ३ ।।
अपि ब्रह्मविदेन्यस्मैददानुनददातु वा ।
निर्वाणार्यप्रक्तोयं सदाचारश्चधीमतां ।। ४ ।।
प्. ६८ब्)
सदाचारो गृहे यद्वन्मतथास्त्याश्रमांतरे ।
विद्याजातंयवित्वा तु गृहाश्रममथाश्रयेत् ।। ५ ।।
गृहाश्रमात्य इं नास्ति यदियत्नोवशंवहा ।
आत्रुकूल्यं हिदंयत्योस्त्रिवर्गफलहेतवे ।। ६ ।।
अनुकूलं कलन्नं चेत्त्रिदिवेनहि किं ततः ।
प्रतिकूलं कलत्रेचेन्नस्केणहि किं सततः ।। ७ ।।
गहाश्रमः सुखार्थाय भार्ग्या मूलं हि तत्सुखं ।
स्वभार्यायं विनीतायां त्रिवर्गोवर्द्धते ध्रुवं च ।। ८ ।।
तलौकयोयमीयंते प्रमदामंदबुद्धिभिः ।
जलौकाकेवलं रक्तमाददानाममस्विनी ।। ९ ।।
प्रगोहशांजलौकानां विचारान्महदंतरं ।
प्रमदा सर्वंमादते चित्तं वित्तंवलं सुखं ।। १० ।।
दक्षीप्रजावती साक्षास्त्रियवाक्यवशंवदो ।
गुर्णेरमीभिस्संयुक्ताज्ञास्त्रीःह्रायनां
विचारान्महदंतरप्रयदासर्षमादतेचितंविलंवलं सुखः श्रीरूपधीरीणी ।।
१११ ।।
गुरोरनुज्ञया स्रात्वाव्रर्तवेहं समाप्य च ।
उद्वहेन ततो भार्यां सवर्णे साहुलक्षणं ।। १२ ।।
रोगहीनाप्राप्तमतीं खस्मात् किं विष्णधीयसीं ।
उद्वहेतद्विजोभार्यांम्यास्यां मृदुभाषिणीं ।। १३ ।।
लक्षणानि परोक्ष्यादौ ततः कन्या समुद्वहेत् ।
सुलक्षणमुचारित्राय सुरायुर्विवर्द्धयेत् ।। १४ ।।
सुलक्षणापिदुःशीलाकुलक्षणशिरोमणीः ।
कुलक्षणापियासाध्वी सर्वलक्षणयूसुसा ।। १५ ।।
सुलक्षणा सुचारि आस्वाधीनायति देवता ।
लक्ष्मीशानुग्रहादेव गृहेयोपि दषवाप्यते ।। १६ ।।
अलंकृताह् सुवासिन्योधाभिः प्राक्तनजन्मनि ।
नानाविधैरलंकारैस्सुरूयास्ताभवंतिहि ।। १७ ।।
सुतीर्थेषु वयुर्यामिः क्षालितं त्याजितंलुवा
तालावरायतरंगिरायो भवंति हि सुलक्षणः ।। १८ ।।
अर्चिताजगतांमाःतापाभिः शिववधूरिह ।
नारायणप्रियाश्रीर्वाशचीवाशक्रवल्लभा ।। १९ ।।
ताभवंति सुचारित्रायोषाअः स्वाधीनभर्तृकाः ।
स्वाधीनयतिकानांचसुशीलानामृगीदशां ।। २० ।।
स्वर्गां यवर्गावत्रैव सुलक्षणफलं हि तत् ।
सुलक्षणैः स्मचारित्रैरपि मंदोयुषंपतिं ।। २१ ।।
दीपोयुषं प्रकुर्वंति प्रमदाह्यं यदास्यद ।
आचार्यपत्नीश्रीवुध्यावासोलंकरणादिभिः ।। २२ ।।
प्. ६९अ)
प्राग्जन्मन्यर्चिताशिष्यैस्तसत्रीभिरेववा ।
ते सर्वभाग्यसहिताः कंदर्पसदृशप्रभाः ।। २३ ।।
पुत्रपौत्रादिसहिताराज्ञराजसमाश्रियः ।
अनुत्तरब्रह्मतत्वरहस्ये श्रुतिसंग्रहे ।। ।।
अध्याय एकविंशोयं तंत्रे दाशरथीरिते ।। १२४ ।।
इति श्रीमदनुतरब्रह्मतत्वरहस्ये दाशरथीये तंत्रे वेदार्थसंग्रहे
एकविंशोध्यायः ।।