सामग्री पर जाएँ

दाशरथीयतन्त्रम्/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ दाशरथीयतन्त्रम्
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →

ऋष्यशृंग उवाच

भूयोपि भगवान्साक्षाज्जानकीरमणोहरिः ।
साधनं ब्रह्मविद्यायाः कथयामास शभवे ।। १ ।।

पुराराजषिऽचर्यायजनकायमहात्मने ।
नारायणो महायोगी कथयामास यत्परं ।। २ ।।

श्रीभगवानुवाच

शृणु राजन्महीपालनिमिवंश समुद्भव ।
साधनं ब्रह्मविद्यायानवाच्यमपि कुत्रचित् ।। ३ ।।

नास्त्यस्यान्या सजालं वानप्नुरश्चरणादिकं ।
नहोमस्तर्पणं वापि सिद्धविद्येयमिष्टदा ।। ४ ।।

गुह्याद्गुह्यतराविद्यासारात्सारतराशुभा ।
परस्य ब्रह्मणः साक्षादाशुदर्शनसिद्धिदा ।। ५ ।।

ब्रह्मानंदरसावाप्रिकरी सर्वफलप्रदा ।
अवश्यं सवये ब्राह्मेज सव्यासिद्धिमिच्छता ।। ६ ।।

श्रेयः परंपरापिच्छन्कल्याणानि दिने दिने ।
पूजयेत् समये ब्राह्मे ब्रह्मविद्यामिमां शुचिः ।। ७ ।।

सहस्रं प्रजपेन्नित्यमथ पंचशतं तु वा ।
चतुःशतं जपेद्यद्वात्रिशतेशतमेव वा ।। ८ ।।

पंचधानात्रिधा स्मृत्वा भगवद्रश्मिमालिकां ।
मंसिद्धिं महतीमिष्टां प्राप्नोत्याश्रुनसंशयः ।। ९ ।।

सवितुर्ग्रहणेप्राप्ते चंद्रस्यग्रहणेपि वा ।
एव भक्ताशनोनित्यं तत्पूर्वदिवसत्रयं ।। १० ।।

स्पर्शकालेनतः प्राप्तेस्तात्वातीर्थतले शुभे ।
संकल्प्यकेशवादीनिमतशोच्चरन् ।। ११ ।।

चतुर्विशति संख्यानि स्नात्वा मौनेन साधकः ।
महापातककोटिभ्यस्सद्य एव विमुत्यते ।। १२ ।।

 आचार्यचरणांभोजयुग्मप्रक्षालनोदेकं ।
पीत्वांतरपि शुद्धः स्यात् सद्यो निष्कल्मषो भवेत् ।। १३ ।।

स्नात्वा चम्पपरीधाय शुभ्रं वासो युगं ततः ।
त्रिराचम्प सदाचार्य सन्निधौशंसित व्रतः ।। १४ ।।

स्पर्शमारभ्यमोक्षांतं ब्रह्मविद्यामिमां जपेत् ।
आचार्यपत्नीमाचीर्यांत्रात्वा श्रीश्रीशरूपिणौ ।। १५ ।।

जपांते भूषणैस्त्रैरलंकृत्य ससमाहितः ।
पद्मराग समायुक्ते तप्तहेम विनिर्मितं ।। १६ ।।

प्. ४०अ)

आचार्यकर्णयोर्दत्वात्कुंडल द्वितयं शुभं ।
मुक्तारत्नमयं वापितसत्या अपि भूषणं ।। १७ ।।

दत्वाचार्यपदांभोजे वहुसस्य समन्वितां ।
मंहीदक्षिणयुक्तां गोद्वयं च तमर्पयेत् ।। १८ ।।

अथवा भास्करस्येंदोः प्राप्तेपर्वणि भूपते ।
सर्वावरणसंयुक्तौ लक्ष्मीनारायणौ विभु ।। १९ ।।

वैल्वैर्वातुलसीपत्रैः कमलैहसलेस्तुवा ।
स्पर्शकालं समारभ्यमोक्षकालांतमादरात् ।। २० ।।

अर्चयेत्ययतो विद्वान् श्रीश्रीशब्रह्मविद्यया ।
सुवर्णपुष्पलक्षेणवर्षकोद्यर्चनात्फलं ।। २१ ।।

अवाप्य लक्ष्मीशौ साक्षादेव प्रपश्यति ।
आचार्यदक्षिणां दद्यात् पूर्वमुक्तां ततः परं ।। २२ ।।

सालग्नामशिलामेकामपि दक्षिणयान्वितां ।
तस्मिन्काले गुरोर्दत्वा मासात्र्यागेवसाधकः ।। २३ ।।

नत्यत्या अपि वा सांसिभूषणानि सवर्पयेत् ।
विंशाढकमितान्मुद्रानथ वा द्वादशाठकान् ।। ३४ ।।

आठकार्धवाशर्करां वा गुडंतु वा ।
प्रस्थं चाथ तदर्थं वा घृतं धेनु समुद्भवं ।। ३५ ।।

पंचधिशांठकान् यद्वातंडुलान् द्वादशाठकान् ।
पलीपुत्र समेतायस्वाचार्याय समर्पयेत् ।। ३६ ।।

ब्राह्मणान्भोजयेन्पश्चाद्वादशाथ सुवासितीः ।
द्वादशार्णागहातिद्यामद्यः सिद्ध्यति भूपते ।। ३७ ।।

भगवदुवियाश्च सद्यः सिध्यंतितस्थ हि ।
श्रीश्रीशयोः प्रसादेन तस्मिचर्ये महीपते ।। ३८ ।।

प्राप्नोति महतीं लक्ष्मीमचलां रलसंकुलां ।
धनधान्य समायुक्तां संतति व्यापिनीं ध्रुवं ।। ३९ ।।

प्राप्नोति महतीं वाचां सिद्धिमप्यतुलप्रभां ।
महदारोग्यम्मसाद्यदीर्घमायुरनुत्तमं ।। ४० ।।

भुक्त्वेहसकलान्भोगान्दंते ब्रह्मणि लीयते ।
शुक्ला तृतीयो वैशाखे भृगुत्वासरं संयुता ।। ४१ ।।

प्. ४०ब्)

रोहिणीतारसहिता संतताक्षयसिद्धा ।
त्रेताद्या सा तिथिर्जन्मतिथिवालमहात्मनः ।। ४२ ।।

श्रीगौरीयोगनायं लक्ष्मीनारायणाभिधः ।
उमाशंकरयोगश्च कथ्यतैतद्दिने वुधैः ।। ४३ ।।

एतत्यं वकयोगोयं दुर्लभस्त्रिदशैरपि ।
अत्र दत्तं जप्तनित्या क्षयफलप्रदं ।। ४४ ।।

अक्षयाक्यांनृतीयायामक्षयैश्चर्यवर्द्धनं ।
आचार्याज्ञां समासाद्य प्रातस्नात्वा विशुद्धधीः ।। ४५ ।।

नित्यकर्मसमाप्याथमल्लिकापुष्पमिश्रितैः ।
विल्वपत्र समायुक्तैः कोमलैस्तु स सीदलैः ।।
अन्यर्च्य कुसुमैर्यावत्फलं प्राप्ते भूतले ।। ४५ ।।

तावदेकैकतुलसीदलमोत्रेणसाधकः ।
प्राप्ययुस्म्यं विशुद्धात्मा ।। ४६ ।।

तत आचार्यपादाब्जयुगलं दंडवन्नभेत् ।
फलचित्तयमादायपानसंसुमनोहरं ।। ५० ।।

अर्कनिष्कमुवर्णेन तदर्धार्धेन वा पुनः ।
निष्कद्वययुतं वापि दद्यादाचार्यपादयोः ।। ५१ ।।

कुंडलद्वितयंरम्पमर्प्ययेत्तस्यकार्णयोः ।
दद्यादाचार्ययन्मैव वह्वालंकरणादिकं ।। ५२ ।।

एकं वासोपि दद्याद्दरिद्रश्चेन्महीपते ।
गव्यं दद्यध्यर्ययेत्पश्चादाढकं वा तदर्धकं ।। ५३ ।।

दद्याद्वहूनि चान्यानि फलान्यावार्यपादयोः ।
अक्षयायां तृतीयायामित्थं कृत्वा द्विजोत्तमः ।। ५४ ।।

अक्षयं सुमहत्युण्यं त्रिदशैरपि दुर्लभं ।
असाध्यमंत्रसंसिद्धिमक्षयां प्राप्य भूतले ।। ५५ ।।

लक्ष्मीनारायणौ साक्षाद्वर्ष मध्ये प्रपश्यति ।
मंदभाग्योपि संमाप्यश्रियमष्टगुणान्वितां ।। ५६ ।।

श्रियाधनदसंकाशो विद्ययाजीवसन्निभः ।
साक्षात्कश्यपवन्पुत्रपौत्रसंपतिसंयुतः ।। ५७ ।।

भुक्त्वे सकलान्भोगान् त्रिदशैरपि दुर्लभान् ।
अंते वैकुंडमाप्नोति दशपूर्वेर्दशापरैः ।। ५८ ।।

प्. ४१अ)

अक्षयायां तृतीयां यद्यदाचार्यपादयोः ।
वस्त्वर्पयति शुद्धात्मात्रसरेणुमितं तु वा ।। ५९ ।।

तत दक्षयमेवास्मैभगवानिंदिरापतिः ।
प्रददाति न संदेहस्मस्मिन्नेव हि वत्सरे ।। ६० ।।

इच्छन्नक्षयं ससिद्धिमक्षयब्रह्मदर्शनं ।
अक्षयायां तृतीयायामित्थं कुर्यान्महीपते ।। ६१ ।।

आश्विनेमासि संमाप्ते वर्ष मध्यमणौ नृप ।
नवरात्रभिधं पर्वरत्नं सकलसिद्धिदं ।। ६२ ।।

अयावहं जयेत्सूनां दरिद्राणांधनावहं ।
भाग्यवहमभापानां साक्षाद्ब्रह्मत्वहेतुकं ।। ६३ ।।

तस्मिन्नेकैकदिवसं रविग्रहणेसन्निभं ।
या महानवमी तत्र समस्तफलसिद्धिदा ।। ६४ ।।

रविपर्वशतप्रख्यां विजयाश्रीफलप्रदा ।
महानवम्यासदृशी न पुण्यतिथिरुच्यते ।। ६५ ।।

महानवम्यासदृशं पर्वांस्तिन हि भूतले ।
यद्यत्केराति कर्मेष्टंतन्महानवमीदिने ।। ६६ ।।

तत्तन्मेरु समंविद्याज्जपहोमार्चनादिकं ।
नक्षत्रमुतराषाडाभार्गवोवासरो यै ।। ६७ ।।

परेयु वैष्णवं तारं सा तिथिस्सर्वदुर्लभा ।
स्वायंभु वाख्यमन्वादिसहिता सा महातिथिः ।। ६८ ।।

 साम्राज्यलक्ष्मीयोगोयंततिथौदुर्लभोनृप ।
अलभ्योनामयोगोयं दुर्लभस्त्रिदशैरपि ।। ६९ ।।

मंदभाग्यादरिदोवापि सवलद्वागत्म्यबुद्धिमान् ।
नवरात्रव्रतं कुर्यादवश्यं सर्वसिद्धिदं ।। ७० ।।

नवरात्रव्रते चीर्णे यत्फलं जायते नृणां ।
कोटिणोवि व्रतैरन्यैं कृतैर्नाप्रोति तत्फलं ।। ७१ ।।

साम्राज्यलक्ष्मीयोगीत्र प्राप्ते तन्नवमीतिथौ ।
दतमिष्टं हुतं जप्तमनंत फलसिद्धिदं ।। ७२ ।।

साम्राज्यलक्ष्मीयोगेन समोयोगोस्तिनापरः ।
कृतं कमर्मात्र साम्राज्य श्रियमेवददात्फलं ।। ७३ ।।

प्रतिप्रतिथिमारभ्यनवग्यंतमथादरात् ।
लक्ष्मीनारायणौ नित्यमर्चयेद्ब्रह्मविद्यया ।। ७४ ।।

प्. ४१ब्)

सालग्रामशिलायां वा श्रीपदष्टार्णयंत्रके ।
एकभक्ताशनस्तत्रसहस्रं वार्चयेद्धीमान् ।। ७५ ।।

पत्रैः पुष्पधिमिश्रितैः महाभवम्यां प्राप्तायां ।
सहस्रं त्रिशतायिकं ।। ७६ ।।

अर्चयेतुलसीपत्रैर्विल्यैः पुस्पविमिश्रितैः ।
तत आचार्यपादाब्जं नत्वा साष्टांगमादरात् ।। ७७ ।।

संतप्तहाटककृतं पद्मरागसमन्वितं ।
कुंडलद्वितयांरम्यं मदत्वाचार्यकर्णयोः ।। ७८ ।।

बहुसस्यसमायुक्तां सांगदक्षिणयान्वितां ।
दद्यादाचार्य पादाब्ज चरणाय वसुंधरा ।। ७९ ।।

सालग्रामशिलामेकीग्रामेकांचपयस्विनीं ।
अलंकारान् वहूनन्यानपितस्मै समर्पयेत् ।। ८० ।।

सुसूक्ष्मीण्यपि वासांसिनत्यल्या अपि भूषणं ।
दद्याद्वासोयुगं क्षौमं कार्या संवासुसूक्ष्मीकं ।। ८१ ।।

सुवासिनीनामन्यासामपि वस्त्रण्यर्थार्पयेत् ।
सहानवम्यां वसुधाचार्याय समर्पयेत् ।। ८२ ।।

सप्तद्वीपवतीं पृथ्वीं धनधान्यादि संकुलां ।
दत्वा सहस्वशः पुण्यं लभते नात्र संशयः ।। ८३ ।।

सालग्रामशिलां शुद्धां दत्वा दक्षिणयान्वितां ।
ब्रह्मांडकोटिदानस्य फलमत्यंत मश्रुते ।। ८४ ।।

आचार्यकर्णयोर्दत्वा कुंडलद्वितयं शुभं ।
पितृणामपि साहस्रंतारयेत्तिस्थितं ।। ८५ ।।

किं चास्यवंश संभूतास्सर्वेपि मंगवत्प्रियाः ।
दिव्यभोगसमायुक्ता जीवन्युक्ता भवेत्यपि ।। ८६ ।।

रत्वागोमि पुनंतत्रगामेकां वा पयस्विती ।
सांगदक्षिणयायुक्तगोसहसरप्रदानज ।। ८७ ।।

फलं प्राप्य विशुद्धात्मा ब्रह्मसाक्षात्प्रपश्यति ।
कर्णालंकरणं हेमताटंक द्वितयं शुभं ।। ८८ ।।

कर्षस्वर्णमितं त्रिंशच्चिह्वुकस्वर्णमेव ए ।
मुक्ताजाले समायुक्तवालीयुगलमेव वा ।। ८९ ।।

प्. ४२अ)

गुरुपत्न्यैसमव्यार्थनासिकानरणं तु वा ।
साक्षालक्ष्मीनिवासोस्मैभगवत्पत्र न संशयः ।। ९० ।।

आचार्यायाथ तत्पत्न्यै दत्वाधासो युगं शुभं ।
दिव्यां वरधरो दिव्यरत्नाभरणभूषितः ।। ९१ ।।

दिव्यकन्याशनयुतं विमानधिशेहति ।
भूदानदक्षिणों प्रोक्ता सर्वस्तं अंदिरस्थितं ।। ९२ ।।

वषोशनमिनं द्रव्यमथचोत्तमदक्षिणा ।
चतुर्विशति निष्कंवानदभावेतदर्धकं ।। ९३ ।।

तदलाभेतदर्थें वा वितलोभं विवर्जयेत् ।
महीप्रतिनिधि द्रव्यमथवा दक्षिणान्वितं ।। ९४ ।।

आचार्यपादयोर्देवं भूदानफलकांक्षिणा ।
वत्वारोनडुहोदेया भूदानेराजवल्लभ ।। ९५ ।।

निष्कंनिष्कार्धमेकं स्यान्मौल्यं चानडुहोनृप ।
चतुर्णामप्यनडुहां चतुर्निष्कमथापिचा ।। ९६ ।।

इत्थमाचरतः पुंसः एकवारमपि प्रभुः ।
प्रसीदति हरिः साक्षान्महालक्ष्मीसमन्वितः ।। ९७ ।।

किमसाध्यं भवेतस्य प्रसन्ने कलापतौ ।
शुक्लातृतीयावैशाखीं या प्रोक्ता क्षयतिज्ञिता ।। ९८ ।।

आश्वयुक् शुक्लनवमीतिथिद्ववपिदं शुभं ।
अस्मिन् दिनद्वयेनित्यं सर्वमक्षयसिद्धिदं ।। ९९ ।।

अस्यां नवम्यां साम्राज्यलंक्ष्मायोगः सुदुर्लभः ।
लभ्यते वहुभिर्वर्षैर्दुर्लभं स्त्रिदशैरपि ।। १०० ।।

अनेन सदृशो योगोनास्त्यलभ्वो जगत्त्रये ।
परे घुर्विजयानामदशमी श्रवणान्विता ।। १ ।।

तत्रापि पुष्पैः पत्रैश्चै श्रीश्रीशद्वादशार्णया ।
श्रीश्रीशावर्चयेद्वीमान्सहस्रं साधकोनृपः ।। २ ।।

तत्राप्याचार्य पादाब्जै गोयुग्मं दक्षिणान्वितं ।
निघद्वयसुवर्णां वा निष्कंमेकमथापि वा ।। ३ ।।

विजयश्री समन्विछ यदद्यादादरान्नृप ।
समाश्रुराज सान्निध्ये विवोदेपि महाद्रणे ।। ४ ।।

करण्ये गिरि दुर्गे वा सततं विजयी भवेत् ।
इत्थमाचरतः पुंसो भाग्याराशिन्यदेपदे ।। ५ ।।

प्. ४२ब्)

भवत्पत्र न संदेहस्सत्यं वदाम्यहं ।
अनकुर्द्धं प्रवक्ष्यामि पत्रपुष्पार्चनात् फलं ।। ६ ।।

यत्कृत्वा मनुजोलेके साक्षाद्ब्रह्ममयो भवेत् ।
विल्वपत्रैस्समभ्यर्च्यत्य सहस्रकं ।। ७ ।।

महापातककोइटिभ्यो मासस्यारेण मुच्यते ।
अचलां महतीं लक्ष्मीसंततिव्यापिनीं भवेत् ।। ८ ।।

मल्लिका कुसुमैर्लक्ष्मीलक्ष्मीशौनित्यमर्च्चयन् ।
सहस्रं मासमात्रेण शतजन्मसमुद्भवैः ।। ९ ।।

विमुक्तः पापसंघैश्च धनदेनसमःश्रिया ।
महाकविर्महावाग्मी भवत्येव नत्येन न संशयः ।। १० ।।

नीलोत्पलैस्समभ्यर्च्य नित्यं साहस्रमादरात् ।
महापापोपवापोद्यैरपि मासाद्विमुच्यते ।। १११ ।।

मदने समः कांत्यावशी कुर्याज्जगत्त्रयं ।
केतकी कुसुमैर्नित्यमभ्यर्च्य ब्रह्मविद्यमा ।। १२ ।।

सहस्रं मासमात्रेण विमुक्तस्सर्वपातकैः ।
मददायुष्यमारोग्यमैश्चर्यमचलं लभेत् ।। १३ ।।

नंद्यावर्तैस्समभ्यर्च्य नित्यं साहस्रमादरात् ।
महापातकोद्यापि मासमात्रेण मुच्यते ।। १४ ।।

विद्ययाजीवसदृशो भूत्वा लक्ष्मीमवंचलां ।
संप्राप्य पुत्रपौत्रादि समृद्धिं महतीं लभेत् ।। १५ ।।

नमालीकुसुमैर्नित्यं सहस्रं पूजयन् शुचिः ।
संभयत्यरिसंघातानचलां च श्रियं लभेत् ।। १६ ।।

चंपकैर्वकुलैर्वापि पुन्नागैर्वा सहस्रकं ।
अभ्यभ्यर्च्य लक्ष्मी लक्ष्मीशौ मासमात्रेण पातकैः ।। १७ ।।

विमुक्तोष्टांगसहितं योगमाप्नोतिसाधकः ।
जकृतहसमुद्भूतेः कोमलैः पल्लवैः शुभैः ।। १८ ।।

लक्ष्मीनारायणा विष्वासहस्रं ब्रह्मविद्यया ।
अनेककोटिजन्मोत्थैरपि पापैर्विमुच्यते ।। १९ ।।

आश्रयः सर्वभाम्यानामाधारस्सर्वसंपदां ।
आलयस्सर्वभोगानां भवत्येव न संशयः ।। २० ।।

कोमलैस्तुलसीपत्रैः सहस्रं ब्रह्मविद्यया ।
अभ्यर्च्य मासमात्रेण महापापैश्च दारुणैः ।। २१ ।।

विमुक्तो महदारोग्यमायुष्यं चाचलां श्रियं ।
पुत्रपौत्रादिसंपतिमप्यसौ लभते नृप ।। २२ ।।

प्. ४३अ)

विकसकृमलैर्नित्यं सहस्रं ब्रह्मविद्यया ।
अभ्यर्च्यमासमात्रेण विमुक्तः पापराशिभिः ।। २३ ।।

अधिपस्सर्वविद्यानामाधसूस्सर्वसंपदां ।
दिव्यभोगयुतो भूत्वा पुत्रपौत्रवंती श्रियं ।। ३४ ।।

अवाप्य चिरमायुष्यं महादारोग्यमक्षयं ।
व्रजत्पतेन संदेहो भगवन्सन्निधिं नृप ।। २५ ।।

हौमं कुसुमसाहस्रं कुसुमानां शतं तु वा ।
सौवर्णं पुष्पमेकवा दत्वा भगवाते नृप ।। २६ ।।

श्रियं मासत्रयेणासौ माहेंद्रीं च तृणायते ।
एकं सुवर्णपुष्पं वा दशचिहुकनिर्मितं ।। २७ ।।

नवीनं प्रत्यहं दत्वा तस्या दत्वा गुरवेन्वहं ।
महेंरसदृशो लक्ष्म्याविद्ययाधिषणप्रभः ।। २८ ।।

आधारस्सर्वभाग्यानां भूत्वांते मुक्तिमाप्नुयात् ।
सौ वर्णपुष्पमेकं वा पुष्पमन्यन्सुगंधि वा ।। २९ ।।

एकं विल्वदलं वापि तथैक तुलसीदलं ।
लक्ष्मीलक्ष्मीशयोद्देत्वा प्रत्यहं द्वादशार्णया ।। ३० ।।

प्राप्नोति महतीं सिद्धिं सर्वपापैममुच्यते ।
घृतं हविः फलं वापि मधुरत्रितयंतु वा ।। ३१ ।।

हुत्वा द्वादशधा वह्नौ श्रीश्रीशब्रह्मविद्यया ।
अग्निष्टोमफलं नित्यं प्रोत्यत्र न संशयः ।। ३२ ।।

ब्राह्मेसमय उत्थाय ब्रह्मविद्यामनुस्मरन् ।
रश्मिमालामनुस्मृत्य कल्याणानिदिनेदिने ।। ३३ ।।

प्राप्नोति दृढभक्ताश्चेदार्चार्यचरणानुजे ।
अनेनैव प्रमाणेभ सप्तकोटिमनुष्वपि ।। ३४ ।।

ब्रह्मविद्या समाविद्यानास्तिनास्ति महापते ।
अनेनैव प्रमाणेन ब्रह्मविद्याभदंगुरु ।। ३५ ।।

गुरुणामपि सर्वेवामधिकं विद्धि भूपते ।
ब्रह्मविद्याप्रदाचार्यसदशंवजगत्त्रये ।। ३६ ।।

विद्यतेदैधतमपियानसेषु तु काकथा ।
तस्मादवश्यमाचार्यपादुकायुगमादरात् ।। ३७ ।।

अनन्यदर्शनोदृष्ट्वा ब्राह्मेसमय उत्थितः ।
नमाकृत्यापि संपूज्यश्रेयसांराशिमश्नुते ।। ३८ ।।

आचार्यपादुकाभावे तुलसीविल्वमेव वा ।
महानदीं श्रोत्रियं कमणि रत्नमथापि वा ।। ३९ ।।

अनन्यदशर्नोदृष्ट्वा ब्राह्मेसमय उथितः ।
सर्वापद्मोविमुक्तः स्याच्छ्रेयान्नित्यमवाप्नुयात् ।। ४० ।।

ब्रह्मविद्यां प्रजवैवनित्यकर्मान्वहं शुचिः ।
समाप्य श्रीमदष्टार्णजपादिकमप्यारभेत् ।। ४१ ।।

प्. ४३ब्)

इतिते ब्रह्मविद्याया माहात्म्यमघनाशनं ।
किंचिदुक्तं यया भूपपुनः किं श्रोतुमिच्छसि ।। ४३ ।।

इति श्रीमदनुत्तरब्रह्मतत्वरहस्ये दाशरथीयेतत्रेवेदार्थसंग्रहे
त्रयोदशोध्यायः १३ ।।