सामग्री पर जाएँ

दाशरथीयतन्त्रम्/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ दाशरथीयतन्त्रम्
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

श्रीभगवानुवाच

साधनं ब्रह्मविद्यायाः शृणु राज प्रवक्ष्यते ।
यस्य विज्ञानमात्रेण ब्रह्मविद्याशु सिद्ध्यति ।। १ ।।

वेदवेदांतशास्त्रेद्यसारंना सनातनी ।
ब्रह्मविद्याद्विदैवत्योश्रीशद्वादशाक्षरी ।। २ ।।

अनयामदशाविद्या न च दष्टान च श्रुता ।
साधनं ब्रह्मविद्यायाः शृणु वक्ष्यापि नृपते ।। ३ ।।

आचार्यपादुकाविद्यां ब्राह्मेसमय उत्थितः ।
शिरस्यं जलिमाधाय दशदष्ट्वाद्वादशधापिरा ।। ४ ।।

प्रजप्त्वाचार्यपादाब्जारूढश्रीपादुकाद्वयं ।
आनन्यदर्शनौ दृष्ट्वा संपूज्यापि स्वशक्तितः ।। ५ ।।

यत्किंचिद्दक्षिणां नित्यं समर्प्य नियतव्रतः ।
ब्रह्मविद्यांजपंत्यश्वाभश्रीश्रीशद्वादशक्षरीं ।। ६ ।।

अथवा प्रातरुत्थाय प्रजप्त्वाचार्य पादुकां ।
आचार्यपादुकाविद्याभावेपि स्वस्य मूर्द्धनि ।। ७ ।।

आचार्यचरणांजद्वायं ध्यात्वा प्रसन्नधीः ।
मानसैः स्वर्णपुष्पाद्यैः समभ्यर्च्योपचारकैः ।। ८ ।।

ब्रह्मविद्यां जपेन्नित्यं श्रीश्रीशद्वादशाक्षरीं ।
ऋषिरस्यमहायोगीमाध्योनारायणो विभुः ।। ९० ।।

 ऋषिर्ब्रह्माथवोद्दिष्टाःथंदोजागतमुच्यते ।
लक्ष्मीनारायणो सर्वजगतः पितरौ विभू ।। १० ।।

द्विदेवतात्वाद्विधाया देवतेत्युते नृपः ।
स्वापिनौ सर्वगं जगतां पुवानावतिमुंदरौ ।। ११ ।।

चित्कलापरमात्मानौ देवता प्रोच्यते नृपः ।
त्रयी वीजं च विद्वाजं वीजमत्रनृपोनम ।। १२ ।।

शक्तिर्नतिः समुद्दिष्टा लक्ष्मीलक्ष्मीशपोरथ ।
प्रीत्यर्थं विनियोगोत्र समुदाहृत इष्टदः ।। १३ ।।

षड्दीर्घप्रणदाद्येन चिद्वीजेन षडंगकं ।
चिन्यस्य पनमान्मानं ध्यायेच्चित्कलयान्वितं ।। १४ ।।

अयोध्यानगरेनंतकोटियोजनविस्तृते ।
कल्पवाटी समायुक्तेसंतानारामशोभिते ।। १५ ।।

हरिवंदनवृक्षौधारामसाहस्रशोभिते ।
मंरारवाटी महिते पारिजातवनाहृते ।। १६ ।।

पुष्पराममहारत्नप्राकारेण विराजिते ।
पद्मगगाख्यमाणिक्यप्राकारेणाथ शोभिते ।। १७ ।।

प्. ३५अ)

गोमेधरत्नप्राकारवज्रप्राकारशोभिते ।
वैडूर्यरत्नप्राकारशोभितेनरमेविते ।। १८ ।।

इदनीलमहारत्नप्राकारेण च शोभिते ।
मुक्ताफलमहारत्नप्राकारेणाथवेष्टिते ।। १९ ।।

तथा मरकताभिख्यमणिमाकारसंवृते ।
ह्रस्व विद्गुमरलोद्यपाकारेण च वेष्टिते ।। २० ।।

नवरत्नमये तत्र मंडये सुमनोहरे ।
तस्मिन्मणिमयत्नंभ साहस्रायुतशांभिवे ।। २१ ।।

वालसूर्यसहस्राभवितानेदिव्यवर्चमि ।
तत्र चाधारशक्त्यादि धृतेहीरहिरण्ययं ।। २२ ।।

नानरलमयेरिव्ये नानामंत्रमद्येशुभे ।
तस्मिन्नष्टदलेयग्ने मंत्राक्षरपयेशुभे ।। २३ ।।

कर्णिकायां सुरम्यायां लक्ष्मीवीनेन्मुभाक्षरे ।
तस्मिन्वालार्कसाहस्रकोटिनुल्यमभान्विते ।। २४ ।।

देवोनारायणः श्रीमानासीनः पंकतासने ।
ईश्वर्या सहविश्वे शा वासुदेवः मनाननः ।। २५ ।।

नरभकेतकीजातीकवरीकृतवेषवान् ।
स्रिग्धविंवफलाभोष्टः मुस्मितानन पंकजः ।। २६ ।।

अनर्घ्यमौक्तिकाभासदंता वलिविगजितः ।
हरिचंदन लिप्तांगः कस्तूरीतिलकांचितः ।। २७ ।।

मोन्नतांस भुजैदीर्घैश्चतुर्भिरूपशोभितः ।
जपाकुसुपसंकाशकरपल्लवशोभिनः ।। २८ ।।

स्फुरत्केयूरकटकैणंलीयैश्चशोभितः ।
श्रीभत्सकौस्तुभाभ्यां च शोभितः पृथुक्क्षमा ।। २९ ।।

मुक्ताहारैः सुशोभभाद्व्यैर्दिव्यमालौरलंकृतः ।
वालार्कमदशज्योत्स्रपीतांवरपुगाहृतः ।। ३० ।।

माणिमनपुरोपेतपरघुग्मविरातितः ।
अकलंकितचंद्राभननखपंक्तिविभूषितः ।। ३१ ।।

रक्तोत्पलदशश्लक्ष्णशुभांप्रिपुगपंकजः ।
पांचतन्परथांगाभ्यां विगजितकरद्वयः ।। ३२ ।।

इजगभ्यां श्रियंगाढमा श्लिष्टा जगदंविकां ।
स्फुरद्विद्युल्लताक्रांतासितासिभ्र इवराजने ।। ३३ ।।

तप्तजांकृनदश्लक्ष्णकांसालक्ष्म्यानिरंतरं ।
गदे च परमेक्री उत्पन्न साक्षाज्जगत्पतिः ।। ३४ ।।

प्. ३५ब्)

तस्य कांचनसंकाशा सर्वाभरणभूषिता ।
दिव्यचेदंनलीसांगीकनकांवरभूषणा ।। ३५ ।।

सुस्निग्धनीलकुरिलकचभारविराजिता ।
मंरारपारिजातादि दिव्यपुष्पस्रगन्विता ।। ३६ ।।

मणिरत्नसीमंताकस्तूरी तिलकांचिता ।
रत्नावतं स शोभाद्याचिकुरांतेलिमन्निभे ।। ३७ ।।

पीनोभुंगलनाभ्यां च सुखयंती हरे हरः ।
केयूरांगदहाराद्यैर्भूषणै एते शोभिता ।। ३८ ।।

आरूढयौवनानित्यं सर्वलोकैकरक्षिणी ।
अन्योन्या श्लिष्टहृद्वाहूदिव्याभरणशोभिनौ ।। ३९ ।।

दिव्यस्रगवस्त्रसंछभौयुवानावतिसुंदरौ ।
शरण्यो सर्वलोक्यनांशरणामनवत्मलौ ।। ४० ।।

पितरौ सर्वजगतीनिद्यावंदसवन्वितौ ।
कर्तारौमर्वजगतां विश्वरश्वरक्षण तत्परौ ।। ४१ ।।

सर्वसंपन्मदातार सर्वविद्याधिनायकौ ।
नीलादेव्या च भूरेव्यावामदक्षिणशोभितौ ।। ४२ ।।

नवनिर्विमलाद्याभिः शाक्तिभिः परिवेष्टितौ ।
ब्रह्मरुद्र महेंद्रादिशिगेमाणिक्यकांतिभिः ।। ४३ ।।

विराजितपदद्वंद्वौनक्तत्राणपरायणौ ।
रलर्तिहासनासीनौराजिताविलभूषणौ ।। ४४ ।।

परस्यरतयोराशिफलभूतौजगत्पती ।
योगिहृत्पद्मसंपूज्यौ नित्यदैवनसेवितौ ।। ४५ ।।

सिद्धैः साध्यैः पराध्येयौ भक्तानामिष्टसिद्धिदौ ।
लक्ष्मीनारायणौ नित्यंभजामि प्रत्यहं विभू ।। ४६ ।।

लक्ष्मीनारायणावित्थं ध्यात्वा हृत्पद्ममध्यगौ ।
प्रजपेत् समये ब्रह्मे श्रीश्रीशद्वादशाक्षरीं ।। ४७ ।।

ब्रह्मविद्याप्रदाचार्यमथवा हृदयांवुजे ।
ध्यात्वा नारायणां साक्षात् सर्वभूषणभूषिते ।। ४८ ।।

तस्य पत्रां श्रियं ध्यात्वा सर्वानंकारशोभितां ।
आचार्यपलीमायं लक्ष्मीनारायणै विभू ।। ४९ ।।

अभेदेनैव सततं ध्यात्वा विद्यामिमां जपेत् ।
आचार्यनां विजानीहि तत् पत्नीमपिधश्चियं ।। ५० ।।

प्. ३६अ)

भेदो नास्त्येव नास्त्येव स्वाचार्यस्य श्रियः पतेः ।
अथवा सच्चिदानंदस्वरूपस्थमव्ययं ।। ५१ ।।

रवींदुकोटि सदृष्टं मनोवाचामगोचरं ।
निष्कलंके निरुपमंतेजोरूपेपरात्परं ।। ५२ ।।

ध्यात्वा जप्त्वा ब्रह्मविद्यां साक्षात् ब्रह्ममयो भवेत् ।
एकैवेयं द्विदैवत्या लक्ष्मीनारायणीशुभा ।। ५३ ।।

अनयास विद्यानास्रिनास्त्यधिकापि वा ।
यां विद्यांजपतोनित्यंकल्याणं सकलभवत् ।। ५४ ।।

अमुत्रापी जयादस्यजायते शुभमक्षयं ।
शुभेमासि शुभेलग्ने दिवसे च शुभे नृप ।। ५५ ।।

ब्रह्मविद्यादिद्यानां कुर्यादध्ययनं नृप ।
सद्गुरुः शुभदः प्रोक्तः सन्मासः शुभदः स्मृतः ।। ५६ ।।

स द्विद्याशु भदाज्ञेयासल्लग्नं शुभदायकं ।
मधुमासे महदुःखं साधकस्य प्रजायते ।। ५७ ।।

माधवेमासिलरभतेरलसंपद्दमक्षयां ।
ज्येष्ठमरणमाप्रोतिविद्योमप्रपिवंधुभिः ।। ५८ ।।

आषाढे पुत्रमित्रादि वियोगं प्राप्नुयादुवं ।
श्रावणे महतो लक्ष्मीं संप्राप्तोत्य च लोशुभां ।। ५९ ।।

मासि भाद्रपदे देहपीडां प्राप्नोति दारुणां ।
मुक्तामाणिक्यसंपूर्णामाश्विने लभतेथियं ।। ६० ।।

वागैऽऽवर्यं कार्त्तिकेस्यादाचार्यकरुणावतः ।
मार्गशीर्षे भवेल्लक्ष्मीर्धनहान्यादिसंकुला ।। ६१ ।।

जानक्षयोभवेसुष्येकषसंक्रमणं विना ।
साक्षाद्भगवता लक्ष्म्या अपि संदर्शनं नृप ।। ६२ ।।

जायते माघमाएक्ष किंच सिध्यंति सिद्धयः ।
फाल्गुनेमासि सिद्धिः स्यात् त्रिदशैरपि दुर्लभा ।। ६३ ।।

द्वितीया च तृतीया च पंचमी सप्तमीशुभा ।
दशम्येकादशी शुक्लाद्वादशी च त्रयोदशी ।। ६४ ।।

पौर्णमास्यपि विद्यानां सिद्धिदास्तिथयः शुभाः ।
सिद्धिदां केचिदप्यहुः शुक्लपक्षाष्टमीं शुभां ।। ६५ ।।

आदित्यसोम्यानां जीवभार्गवयोस्तथा वाराः ।
शुभप्रदाज्ञेया हानिदौ भौमभानुजौ ।। ६६ ।।

प्. ३६ब्)

एवेषु शुभकालेषु ब्राह्मः समय उत्तमः ।
शुभग्नहाणां दष्ट्वान्ये मुहूर्त्ता अपि सिद्धिदाः ।। ६७ ।।

तस्मादवश्यं सर्वज्ञं श्रोत्रियं वेदपारगं ।
सर्वागमरहस्यतमाचार्यं वृणुया द्विभुं ।। ६८ ।।

 देशकालावज्ञाययंत्रपूजादिकानपि ।
रहस्यमपि विद्यानामविज्ञाय महीपते ।। ६९ ।।

यः प्रयच्छति सिद्धिधां यो गृह्णाति महीतले ।
तावुभावपिदुःखौयैरिहापि सहितौ शृप ।। ७० ।।

गच्छतोंधं तम पश्चाद्यावदाचंद्रतारकं ।
भूयोप्यवश्यं वेदेषु धर्मशास्त्रेषु पारगं ।। ७१ ।।

सर्वागमरहस्यंज्ञ वैदिकाचार तत्परं ।
बहुयोजन साहस्रमपि गत्वा महीतले ।। ७२ ।।

आचार्यमाश्रयेद्धीमानपि प्राणधनादिकं ।
दत्वा रहस्यं विद्यानां सांगमाचार्यवक्त्रनः ।। ७३ ।।

विज्ञायाथ महाविद्यां गृहीत्वा तन्मुखादुजात् ।
तमेव तोषयेन्नित्यमाचार्यं भवावन्मयं ।। ७४ ।।

गुरून्पूर्वोपदेष्टंश्चकाले स्वगृहमागतान् ।
यथाक्त्यार्च्चये तत्र नियमोनास्ति भूपते ।। ७५ ।।

भगवद्रश्मिसहितां ब्रह्मविद्यापुरस्मरां ।
श्रीमद्दष्टाक्षरीं विद्यां समस्तन्यास संयुतां ।। ७६ ।।

योददातिस आचार्यस्साक्षाभारायणान्मकः ।
समद्वीयवतीं पृथ्वीं धनधान्यौय संकुलां ।। ७७ ।।

आचार्याय समर्प्यापि ऋणवोनेव संततं ।
तस्माद्येगं च कालं च सरहस्यान्मनूनपि ।। ७८ ।।

विज्ञायैव प्रदातव्या विद्याः सकलसिद्धिदाः ।
सर्वज्ञस्यैव सान्निध्ये गृह्णीयात् सकलान्यनून् ।। ७९ ।।

गृहीत्वानज्ञ सान्निध्ये मनूनप्य वलान्नृप ।
अवश्यमपि गृह्णीयाद्भूयः सर्वज्ञ सन्निधौ ।। ८० ।।

नियमेन तथाचार्य पादाब्जपुरालेशुने ।
अर्पयेद्दक्षिणां सांगा जपहोमादिकर्मसु ।। ८१ ।।

आश्वमेधादियागारानित्यं सुकृतमिच्छता ।
आवार्यदक्षिरमादेयायत्किंचिदपि भूपते ।। ८२ ।।

प्. ३७अ)

अश्वमेधादियागेपुधनं कोरि सहस्रशः ।
दत्वायत्फलमुद्दिष्टं धर्मशास्त्र श्रुतिष्वपि ।। ८३ ।।

आचार्यदक्षिणादाना तत्फलं प्रत्यहं स्मृतं ।
अश्वमेधादि यागेषु दत्वा कोटि सहस्रशः ।। ८४ ।।

शक्रलोकेक्षयान्भोगान् प्राप्नुवंति वुधोत्तमाः ।
नष्टे पुण्ये मर्त्यलोकं भूयोपि प्राप्नुवंति हि ।। ८५ ।।

आचार्यदक्षिणादानाज्जापहोमादिकर्मसु ।
पुनरावृत्तिरहितं शाश्वतं पदमश्रुते ।। ८६ ।।

आचार्यचरणांभोजद्वयार्चनरतास्सदा ।
ब्रह्मविद्याजयासक्तारश्मिमालानुचिंतकः ।। ८७ ।।

समस्तन्या ससहित श्रीमदष्टार्णचिंतकाः ।
समानरूपाः श्रीविष्णोर्दिव्यालंकारभूषिताः ।। ८८ ।।

दिव्यस्रग्वस्त्रसंछन्नादिव्यचंदनचर्चिताः ।
अयोध्यानगरे साक्षात्यदे भगवतः शुभे ।। ८९ ।।

ब्रह्मतादात्म्यनापन्नामोदंते तस्य सन्निधौ ।
गत्वात्रननिवर्जंते विष्णुनासहसस्थिताः ।। ९० ।।

अविच्छिन्नसदातेषां विष्णुनासंगतिः शुभा ।
तत्समानसुखं नित्यं प्राप्नुवंति मनीषिणः ।। ९१ ।।

यत्र हरेर्लोकमाप्नुवंति मनीषिणः ।
नामुवं निपुनः सर्गं सर्गस्था इव जंतवः ।। ९२ ।।

यथासौमित्रिभरतौ यथा संकर्षणादयः ।
तथा तेनैव जायंते मुर्त्यलोकेयथेच्छया ।। ९३ ।।

पुनस्ते नैव यांतिस्मतत्यंदशाश्वतं परं ।
न कर्पवंधनं जन्मब्रह्मविद्यारतात्मनां ।। ९४ ।।

भगवत्किंकरत्वं वै मोक्षनाहुः पुरातनाः ।
नदास्यं वै परेशस्यवंधनं परिकीर्तितं ।। ९५ ।।

सर्ववंधविनिर्मुक्ता हरिदासानिरामया ।
आब्रह्मभुवनाल्लोकाः पुनरावृत्तिलक्षणाः ।। ९६ ।।

कर्मवंधभयादुःखमिश्रसौख्यभयप्रदाः ।
वह्वायासफलादुःखजन्मकाणूहेतवः ।। ९७ ।।

प्. ३७ब्)

स्वर्गोपभोगास्तुनृणां विषमिश्राशना इव ।
स्वर्गमंस्थान्नरान् दृष्ट्वा क्षीणे कर्मणि देवताः ।। ९८ ।।

कुपिताः पातयंत्ये च संहते कर्मवधने ।
तस्मात् स्वर्गसुखं भूपवहुयत्नैकसाधनं ।। ९९ ।।

अनित्यकुरिलंदुःखमिश्रं योगी परित्यजेत् ।
यज्ञ न तपोरूपं कर्मवेदेसु चोदित ।। १०० ।।

ब्रह्मार्पणाधिया कुर्वन्कर्मवंधैर्ननिष्पते ।
आचार्यपत्नीपुत्रादीनभ्यर्च्य प्रत्यहं ततः ।। १ ।।

वेदमार्गरतोनिव्यं ब्राह्मविद्याजपेरतः ।
रश्मिमालामनुस्पृत्य श्रीमदष्टाक्षरीं जपन् ।। २ ।।

इहापि ब्रह्मभूतोसौ शाश्वतं पदमाप्नुयात् ।
आचार्याचरणांभोज द्वयमेव मदास्मरेत् ।। ३ ।।

शुचिना संप्रजप्तव्या श्रीश्रीशद्वादशाक्षरी ।
आद्यं वीजद्वयंत्यत्का श्रीश्रीपतिदशाक्षरीं ।। ४ ।।

सततं संरमरेद्धीमान्यदीच्छेच्छ्रेय आत्मनः ।
अरण्ये वानरण्ये वास्वगृहेवानदीतटे ।। ५ ।।

चंडालवाटिकायां वा राजविद्वत्सभामुवा ।
आसीनोवाशयानोश्रिवातिष्ठन् गच्छनथापि वा ।। ६ ।।

शुचिरप्य शुचिर्वेमां श्रीश्रीपतिदक्षाक्षरीं ।
आचार्यानुग्रहं प्राप्य सभतं मस्मरन्नप ।। १०७ ।।

महापापोपपापौद्यैरपि मुक्तः सुदाणैः ।
व्रतकोटि तपस्तीथ महायागफलान्वितः ।। १०८ ।।

व्रजत्यंते भगवतः पदं शाश्वतमक्षयं ।
दशार्णविद्यामात्रं वा सदाचार्या कृपान्वितः ।। १०९ ।।

संस्मृत्य प्रत्यहं भूमाडूतापि श्रियमक्षया ।
समाप्य सर्वविद्यानामाधिपत्यं च दुर्लभं ।। ११० ।।

पुत्रपौत्रवृत्तीमृद्धिं प्राप्य भ्गाननेकशः ।
देहांते तत्परंधाम व्रजत्येव श्रियः पतेः ।। १११ ।।

वेदेषु विहितं कर्मयज्ञदानतषोमयं ।
तन्निष्टस्सततं भूत्वा भगवंतमनुस्सरेत् ।। ११२ ।।

श्रुतिस्मृतीहणेज्ञा लोकानां हितकारिणी ।
श्रीशाज्ञोल्लंघकः सर्वजगदोही महीपते ।। १३ ।।

अध्ये तव्याः सदावेदाः कार्यायागास्सदक्षिणाः ।
दातव्यान्यपिरानाति सत्पात्रेभ्योविशेषतः ।। १४ ।।

प्. ३८अ)

न विद्यया केवलयातपसा वापि पात्रता ।
यत्रवृतमिमेवोभे तत्पात्रं प्रचक्ष्यते ।। १५ ।।

वेदानधीत्यसततं वेदस्यार्थं विचारयन् ।
कुर्वन् वैदिकमाचारेपात्रभूतोभवेद्द्विजः ।। १६ ।।

वेदाध्ययनहीनश्च वेदाचारविवर्जितः ।
जीवन्नेव स शूद्रः स्यातन्मुखं नावलोकयेत् ।। १७ ।।

वेदहीनस्य विप्रय न वाक्यं श्राव्य परावपि ।
अपात्रदानान्नरकं पात्रदानात् परं पदं ।। १८ ।।

सत्पात्राणां सहस्रेभ्यो दत्वा कोटिसहस्रशः ।
धनं यत्फलमुद्दिष्टं तदाचार्यत्य पादयोः ।। १९ ।।

निष्कमात्रसुवर्णं वा दत्वा तत्फलमश्रुते ।
रहस्य मन्यद्वक्ष्यामि शृणु राजन्महीपते ।। २० ।।

न वाच्यं यत्र कुत्रापि पुत्राय प्राणदाय वा ।
भगवद्रश्मिमालाख्याविद्यापेयेमयेरिता ।। २१ ।।

आचार्यानुग्रहादेनामनुस्मृत्यान्वहं शुचिः ।
ब्रह्मविद्याजयास सक्तो वेदोक्ताचार तत्परः ।। २२ ।।

स रहस्यो महाविद्यां श्रीमदष्टाक्षरीं जपन् ।
पात्राणामुतमं पात्र मयमेवोच्यते बुधे ।। २३ ।।

वेदविद्याविहीनोपियागहीनोपि वा सहा ।
उक्ताचाररतो नित्यमाचार्यचरणार्च्चक ।। २४ ।।

चतुर्णामपि वेदानां नित्य अध्ययनात्पालं ।
अवाप्य सर्वयागानां फलं प्रत्यहमश्रुतं ।। २५ ।।

ब्रह्मार्यणधियानित्यं कृत्वा कर्मश्रुतीरितं ।
ब्रह्मणः पदमाद्यनोदतेकालमक्षेयं ।। २६ ।।

आचार्यपत्नीमांचार्यं श्रीश्रीपतिधियार्च्चयन् ।
ब्रह्मविद्याजपेद्यस्तु श्रीश्रीशद्वादशाक्षरी ।। २७ ।।

तंपालपति देव्येनं महालक्ष्मी स्वपुत्रवत् ।
भगवानपित्तं नित्यं पितृवद्क्षति ध्रुवं ।। २८ ।।

यस्याचार्यपदांभोजारूढं श्रीपादुकाद्वयं ।
समर्चयति हस्ताभ्या तद्धस्तं शंखक्रवत् ।। २९ ।।

यस्ये नेत्र द्वयं नित्यं पादुकाद्वितयं शुभं ।
अनन्यदर्शनः प्रातः प्रातरुत्थाय पश्यति ।। ३० ।।

तभेत्रयुगलं साक्षात्परब्रह्मेह पश्यति आचार्यदुकायुग्मं नमेद्यस्य शिरो
नृपसंघार्य मुकुटं तेन शिरसा रत्न निर्मितं ।
आचार्यकर्णयेयो निर्मितं कुंडलद्वयं ध्रियनेदातृवद्दनं भगवत्
कलयानितं ।। ३२ ।।

प्. ३८ब्)

वशिष्टाद्या महाभागा जपहोम परायणाः ।
ब्रह्मविद्यानुसंधानाद्ब्रह्मर्षित्वमुपागताः ।। ३३ ।।

रुद्रकोयाग्निनादग्धोदक्षः पूर्वं प्रजापतिः ।
पुनः प्राचेतसो भूत्वा ब्रह्मविद्यानु चिंतनात् ।। ३६ ।।

ब्रह्मत्वमाप्त वा सर्वजगत्कर्तृत्वमप्यथ ।
पुलहाद्या महाभागा ब्रह्मपुत्रा महीपते ।। ३५ ।।

ब्रह्मविद्या जपादेव ब्रह्मत्वं समुपागताः ।
ब्रह्मविद्यानुसंधानमाचार्यचरणार्चनं ।। ३६ ।।

दुर्लभ त्रिषुलोकेषु मुनीनामपियोगिनां ।
तस्माच्छुभेषुमासेषुसुश्रुभेष्वपि ।। ३७ ।।

संप्राप्तव्या महाविद्यानान्यथा सिद्धिरुच्यते ।
नवारमासदोषः स्याद्गदुर्ब्रह्मणे चंद्रसूर्ययोः ।। ३८ ।।

जपहोमादिकं तत्र स्वत्य मध्यवनीपते ।
अक्षयं जपहोमादिफलं स्यात्तत्र संततं ।। ३९ ।।

स्त्रींदुग्रहणेदत्तयत्किंचिदपिकांचनं ।
मेरुशैलसमं विद्धितत्स्वर्णं नात्रसंशयः ।। ४० ।।

समूम्नान्यपिदानानिरवींदुग्रहणेनय ।
दातव्यानिमयतेन वित्तलोभविवर्जिनीं ।। ४१ ।।

ग्रहणेषु पुरश्चर्यां सांगदक्षिणयान्वितां ।
आचार्यसन्निधौ कृत्वा महालक्ष्मी समन्वितं ।। ४२ ।।

नारायणं जगन्नाथं साक्षादेव प्रपश्यति ।
पूर्वोपदिष्टा विद्याश्चरवीदुग्रहणे शुभे ।। ४३ ।।

अध्येतव्याः पुनरपि स्वाचार्यवदनांवुजात् ।
साक्षादयं पर्वकालो महानुक्तो महर्षिभिः ।। ४४ ।।

परोक्षकाला अन्येस्युरत्नभ्या अपि भूयते ।
यहणे सर्वविद्यानामुक्तमामेषु संततं ।। ४५ ।।

माघामासो महानुक्तो माध्यादिसहितो यदि ।
स्र्वासामपि वियानामाचार्यवदनांदुजात् ।। ४६ ।।

कार्यमध्ययनं तत्र देवता दर्शनप्रदं ।
पाद्यमासेप्रदेयानि सर्वदानानि भूपते ।। ४७ ।।

ब्रह्मतादात्म्यसंसिद्धिप्रदातृणि न संशयः ।
यस्योपनयनार्थं वा माद्यमासि प्रयच्छति ।। ४१ ।।

प्. ३९अ)

ब्रह्मर्षित्वमवाप्नोति सोन्यस्मिन् जन्मनि ध्रुवं ।
माघमासे दरिद्राय विवाहधनमुत्तमं ।। ४२ ।।

दत्वा विवाहपित्वाथ पितृनाथ सहस्रशः ।
नरकस्थान् समुद्धृत्य ब्रह्मलोके महीपते ।। ५० ।।

क्षीयंते सालिलेन्यच्चे भौमोश्चत्र सरेणवः ।
क्षयोन नस्यपुरायस्य तद्विस्योः परमे पदे ।। ५१ ।।

 यावद्मंडलमिंदसशैलवनकननं ।
तावद्वंशाभिवृद्धिः स्यादिह लोके महीपते ।। ५२ ।।

एकैकदिवसंमाघेमासिपर्वसमं स्मृतं ।
पद्यानक्षेत्र संयुक्ता पौर्णिमा तत्र पास्मृता ।। ५३ ।।

महापाधीति सा प्रोक्ता पौर्णमासी फलप्रदा ।
वैशाखश्रावणादीनि माघमास समानिहि ।। ५४ ।।

चैत्रपुष्पादिमामाः स्युः पूर्वोक्ता अशुभाः स्मृताः ।
अशुभेष्वपिमरसेषु रवींदुग्रहणं नृप ।। ५५ ।।

सर्वसिद्धिप्रदं ज्ञेयं सर्वदोष विवर्जितं ।
अलभ्या अपि योगास्युः शुभातशुभमास्यपि ।। ५६ ।।

तस्माद्देशं च कालं च परीक्ष्यांचार्य आदरात् ।
विद्योपदेशं कुर्वीत नान्यथा सिद्धि रुच्यते ।। ५७ ।।

अज्ञात्वा शुभमासादि रहस्यं मागमप्यथ ।
नदद्यात्र च गृह्णीयाद्विद्याजात महीपते ।। ५८ ।।

वहुनात्र किमुक्तेन सारभूतववः शृणु ।
आचार्यचरणद्वंद्वभजनीयं दिने दिने ।। ५९ ।।

ब्रह्मविद्यानुसंधानं रश्मिमालापुरस्सरं ।
आदौ कृत्वा प्रयत्नेन समस्तन्यास संयुतां ।। ६० ।।

श्रीमदृष्ट्वाक्षरीविद्यां जपेद्धह्मत्वसिद्धये ।
एतदेव परंतत्वं वेदांतेषु श्रुतिष्वपि ।। ६१ ।।

नैतस्मादपरंवेदरहस्यं तत्वमीसितं ।
इति दाशरथीयेस्मिन्नं वेदार्थसंग्रहे ।। ६२ ।।

इक्तोयं द्वादशोध्यायो ब्रह्मतत्वार्थसाधनः ।। ६३ ।।

इति श्रीमदनुतरब्रह्मनत्वरहस्ये दाशरथीये तंत्रे वेदार्थसंग्रहे
द्वादशोध्यायः ।।