सामग्री पर जाएँ

दाशरथीयतन्त्रम्/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ दाशरथीयतन्त्रम्
अध्यायः ८
[[लेखकः :|]]
अध्यायः ०९ →

प्. २३ब्)

राजोवाच

भगवन्देवदेवेशनारायण जगत्पते ।
वेदोदितः सदाचारः श्रुत्तस्तवमुखांवुजात् ।। १ ।।

ब्रह्मापरोक्षविज्ञानसिद्ध्यर्थं सततं नृभिः ।
ब्राह्मं समयमारभ्य किं वा कर्तव्यमादरात् ।। २ ।।

एकेन जन्मैवेह कथं मुक्तिर्नृणां भवेत् ।
रश्मिमाला प्रजप्येति त्वयोक्तं भगवन्मम ।। ३ ।।

भगवद्रश्मि सूक्तं मे वददेव कृपानिधे ।

श्रीभगवानुवाच

शृणु राजन्प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।। ४ ।।

श्रवणादपि यस्या शुपातकौद्योविनश्यति ।
उत्थाय समये ब्राह्मे सावधानमनाद्विजः ।। ५ ।।

आचार्यपादुकाविद्यां जपेदादौ दिने दिने ।
प्रणवं चित्कलावीजमुच्चार्यादौ समाहितः ।। ६ ।।

विंदुहीनं श्रियोवीजं भगवच्छदमप्यथ ।
रूपाचार्यपदं पश्चाछ्री पूर्वाचार्य नाम च ।। ७ ।।

श्रीपादुकां पूजयामीत्यष्टाक्षरमतः परं ।
आचार्यपादुकाविद्यागुप्ततराशुभा ।। ८ ।।

मयेरिता महाराजमहासिद्धिप्रदायिनी ।
महापातकं संहर्त्रीविद्यानां सिद्धिदायिनी ।। ९ ।।

आचार्यपादुका विद्यामुनिरस्म्यहमेवहि ।
छंदोगायत्रमित्यक्तमाचार्यो भगवन्मयः ।। १० ।।

देवतासद्गुरुः स्वामीसर्वज्ञः करुणाविधिः ।
आचार्यकरुणासिद्धै विनियोग उदाहृतः ।। ११ ।।

सहस्रदलपंकजेसक**(?)शीतरश्मिप्रभवं वमरापकरांवुजं
सकलदेवतारूपिणं ।
समस्तमनुसुद्धिदं सकलतेजसामालयंभजेशिरसिहंसकं
तदभिधानपूर्वं गुरुं ।। १२ ।।

ब्रह्मरंध्रे सहस्रारे पूर्णचंरा पुनप्रभं ।
करुणापूर्णनेत्रांतं प्रसन्नमुखपंकजं ।। १३ ।।

प्. २४अ)

वराभयकरं शुक्लगंधमाल्यादिभूषितं ।
शुक्लवस्त्रपरिधानं दिव्यभूषणभूषितं ।। १४ ।।

स्वशक्तिसहितं वीरासनासीनं कृपानिधिं ।
दातारं सर्वविद्यानां शरणागतवत्सलं ।। १५ ।।

भजे सर्वज्ञमाचार्य*(?)क्षाद्भगवदाकृतिं ।
ध्यात्वेत्थं समये ब्राह्मे जपेदाचार्यपादुकां ।। १६ ।।

अष्टाविंशतिधा नित्यं जपेद्वादशधापि वा ।
जपहोमार्हता सर्वविद्यानामस्य जायते ।। १७ ।।

अनेनाचार्य मंत्रेणपादुकाद्वयमादरात् ।
पंचोपचारैरभ्यर्च्य पुष्पैर्द्वादशधार्चयन् ।। १८ ।।

आचार्यपादुकायुग्मे यत्किंचिद्दक्षिणामथ ।
समर्प्याचार्यपादाब्जे प्रदत्वाथ दिने दिने ।। १९ ।।

मासिमासि प्रदत्वा वा वर्षे वर्षेपि वा नृप ।
अपिशाकघृतादीनि समर्प्य प्रत्यहं भुवि ।। २० ।।

विदितानां वेदितव्यं विधानामपि संततं ।
जपादावधिकारीस्याद्रुपदेशं विनापि च ।। २१ ।।

आचार्यपादुकायुग्मं पुष्ठौः स्वर्णविनिर्मितैः ।
अर्चयित्वा पुरश्चर्यां विना सिद्धो भवत्यसौ ।। २२ ।।

आचार्यपादुकायुग्मं संप्राप्ते शुभपर्वणि ।
अभ्यर्च्यगं पुष्पाद्यैर्वर्षाशनमितं धनं ।। २३ ।।

पादुकोपरिनिक्षिप्य समर्प्याचार्यपादयोः ।
प्रदत्वा तदभावे तु तस्य पुत्राय वार्पयेत् ।। २४ ।।

समर्प्य तस्य पत्न्यै वा मेरुं नियुतयोजनं ।
दत्वा यत्फलमाप्नोति ततोधिकफलं लभेत् ।। २५ ।।

विद्यानामपि सर्वासां त्रिदशैरपि दुर्लभां ।
महतीं सिद्धिमाप्नोति तस्मिन् वर्षेन संशयः ।। २६ ।।

आचार्यपादुकाविद्यां प्रातः प्रातराथापि वा ।
जप्त्वादौ महतीं सिद्धिं विद्यानां लभते नृप ।। २७ ।।

समस्तविद्या संसिद्धिं कल्याणानि दिने दिने ।
इच्छता महतीं लक्ष्मीं जप्तव्याचार्यपादुका ।। २८ ।।

आचार्यापादुकाविद्यामजप्त्वा प्रत्यहं नृप ।
कोटि सहस्रं जप्त्वापि विद्या सिद्धि न विंदति ।। २९ ।।

रश्मिमालाक्रमं वक्ष्ये शृणु राजन्महामते ।
यस्य स्मरणमात्रेण नित्यं पापैर्विमुच्यते ।। ३१ ।।

प्. २४ब्)

गायत्र्यादौ महाविद्या वेदमाता फलप्रदा ।
ह्यावित्र्यष्टाक्षरी विद्या सर्वाधिव्याधिभंजनी ।। ३२ ।।

दत्तात्रेय द्वादशार्ण महाविद्या द्वयं ततः ।
चतुर्दशाक्षरी विद्याद्वैपाय नम महामुनेः ।। ३३ ।।

सर्वविद्यामयी साक्षाच्छी श्रीशद्वादशाक्षरी ।
ब्रह्मविद्या त्रिजगतां स्मर्तव्या सर्वसिद्धिदा ।। ३४ ।।

पंचाशदक्षरमयी मातृका च ततः परं ।
श्रीमद्दष्टाक्षरी विद्या स्मरणी पतितः परं ।। ३५ ।।

अष्टाक्षरी महालक्ष्मी विद्या सकलसिद्धिदा ।
श्रीषडर्ण महाविद्या द्वादशार्णं ततः श्रियः ।
समस्तसंपत्साम्राज्य महासिंहासनेश्वरी ।। ३६ ।।

सप्तविंशाक्षरी विद्याभोगमोक्षप्रदाततः ।
ततो वसुंधरा विद्यामोक्षात्कल्पलताभिधा ।। ३७ ।।

अष्टादशाक्षरी पश्चाद्दर्धं पाश्रीपतेरथ ।
द्वादशार्णा महाविद्या ततो नारायणीशुभा ।। ३८ ।।

आद्यंत प्रणवोपेता ब्रह्मनारायणी ततः ।
हंसनारायणी विद्यास्मरणीया ततः परं ।। ३९ ।।

श्रीषदुर्णेनसहिता विद्यानारायणी पुनः ।
अष्टाक्षर महालक्ष्मीसहितापि ततः परं ।। ४० ।।

आवहंति समायुक्ता विद्यानारायणीशुभा ।
आनुष्टुभाख्यविद्याथहयग्रीवय भूपते ।। ४१ ।।

ततो मत्स्यस्वरूपस्य विद्याभगवतः शुभा ।
ततः कूर्म महाविद्यावराहस्य ततः परं ।। ४२ ।।

नृसिंहानुष्टुभाख्या च यामनस्य ततो नृप ।
ततो भार्गवरामस्य विद्यादाशरथेस्ततः ।। ४३ ।।

ततः श्रीकृष्णविद्या चतुद्धविद्या ततःपरं ।
विद्याथकल्किरूपस्य श्रीपतेः परमात्मनः ।। ४४ ।।

नामत्रय महाविद्या ततः सर्वफलप्रदा ।
सुदर्शनमहाविद्या समस्तभयनाशिनी ।। ४५ ।।

ततो गरुडविद्या च ततो हनुमतः शुभा ।
भगवद्रश्मि मालेपं प्रोक्ता सकलसिद्धिदा ।। ४६ ।।

सर्वाधिव्याधि संहंर्त्री पातकौद्याविभेदीनी ।
आदौ मयैव कथित ब्रह्मणे परमेष्टिने ।। ४७ ।।

प्. २५अ)

रुद्राय गौरिपतये पुनः श्रीरामरूपिणा ।
वक्ष्यते सर्वदेवानां महर्षीणां च सन्निधौ ।। ४८ ।।

इयं प्रजप्यते कैश्चिदावहंति मनोः परं ।
अर्द्धांग श्रीपतेभिर्विघाषोडशार्णा तपोनिधे ।। ४५ ।।

विनैव जप्यते कैश्चिदांजनेयगरुत्मतोः ।
विना वसुंधरा विद्यां जप्यते कैश्चिदप्यथः ।। ४६ ।।

 सपैवग्नथितामालारश्मिनाम्नीदिरापतेः ।
विद्यामेतां विजानी हि संपूर्णां रश्मिमालिकां ।। ४७ ।।

एकैकापि महाविद्या रश्मिमालांतरस्थिता ।
एकैकस्याश्च विद्यायावर्णितुं फलमुत्तमं ।। ४८ ।।

न शक्तः परमेष्टी च किमुत्तरश्मिस्रजोनृप ।
रश्मिस्रजमिमां विद्यां समस्तफलसिद्धिदां ।। ४९ ।।

जानीप्ताथर्वणीं साक्षाद्ब्रह्मदर्शनसिद्धिदां ।
आचार्यकरुणापूर्णा यस्य विप्रस्य जायते ।। ५० ।।

तस्यैव महतीं सिद्धिं रश्मिमाला ददाति हि ।
वहुसंवत्सरं वापि स्वाचार्यं करुणानिधिं ।। ५१ ।।

प्राणैरर्थैश्च संसेव्यप्राप्तव्या रश्मिमालिका ।
रश्मिमालाप्रदः स्वामीरश्मिमालाप्रदः पिता ।। ५२ ।।

रश्मिमालाप्रदोमातारश्मिमालाप्रदोगुरुः ।
अयमेव सदाचार्यो विज्ञेयः शास्त्रवित्तमैः ।। ५३ ।।

आवेदेपि यजुर्वेद सामवेदेपि भूपते ।
आथर्वण महावेदेसारभूता मनूत्तमाः ।। ५४ ।।

भगवद्रश्मिमालांतरीताये तेन चापरे ।
इमामाथर्वणीं विद्यामाचार्यं बहुवार्षिकं ।। ५५ ।।

अपि संसेव्यसकलैरर्थैः प्राणैर्धियापि च ।
संप्राप्य सततं ब्राह्मे समयेशंसितव्रतः ।। ५६ ।।

एकधा वा द्विधात्रेधाचतुर्धापंचधापि वा ।
प्रज्ञप्त्वा सर्वविद्यानां पुरश्चर्या फलं लभेत् ।। ५७ ।।

समस्तश्रेयसांराशिमिच्छन् सकलसंपदः ।
आचार्यकरुणापूर्णाः प्रजपेद्रश्मिमालिकां ।। ५८ ।।

सर्वविद्यामयः सवेदेवतात्माश्रियः पतिः ।
सर्ववेदेमयस्तस्माद्भगवद्रश्मिमालिकां ।। ५९ ।।

जप्त्वा नित्यं विशुद्धात्मा साक्षाद्ब्रह्ममयो भवेत् ।
येन प्रजप्यते नित्यं भगवद्रश्मिमलिका ।। ६० ।।

प्. २५ब्)

तेनाधीतास्समस्तास्युर्वेदास्सांगा दिने दिने ।
समस्तदेवता अस्य वरदाः स्युर्नसंशयः ।। ६१ ।।

ब्रह्मानंदाभिधं सौख्यं देहांतेवश्यमिच्छता ।
रश्मिमाला प्रजप्तव्या पंचधा वा त्रिधापि वा ।। ६२ ।।

अदत्वा भगवद्रश्मिमालामेतां शुभप्रदां ।
श्रीमद्दष्टाक्षरीविद्यामपिन्यास समन्वितां ।। ६३ ।।

दत्वात्मनश्च शिष्यस्य पंचकोसौ गुरुर्भवेत् ।
एकस्या अपि विद्यायास्सप्तद्वीपवती मही ।। ६४ ।।

आचार्यदक्षिणादेया किमुरश्मिस्रजोनृप ।
तस्मादवश्यमाचार्यं गत्वापि बहुयोजनं ।। ६५ ।।

सर्वज्ञमाश्रयेद्वीमान् तोषयन्सर्ववस्तुभिः ।
संसरसागरं तर्तुमिच्छन्ने केन जन्मना ।। ६६ ।।

आचार्यवदनांभोजाद्वाप्येमां रश्मिमालिकां ।
ब्रह्मविद्या जपांते वा तत्पूर्वमथ वा सदा ।। ६७ ।।

प्रजप्त्वा समये ब्राह्मे स रहस्यामतः परं ।
श्रीमदष्टाक्षरीं जपत्वा ब्रह्मानंदसुखी भवेत् ।। ६८ ।।

संशयं मा कुरुष्वात्र राजन् जनकभूपते ।
इदं दासरथीयाख्यं तंत्रं वेदार्थसम्मितं ।। ६९ ।।

स रहस्यं विजानातिय आचार्यकृपान्वितः ।
संप्राप्य बहुदूरं वातमेवाचार्यमाश्रयेत् ।। ७० ।।

आचार्यं भगवद्दुध्यायेर्चयंति दिने दिने ।
त एव महतीं सिद्धिं व्रजंतीह परत्र च ।। ७१ ।।

किमत्र बहुनोक्तेन सारमेकं वदाम्यहं ।
आचार्यचरणांभोज द्वयमेव दिने दिने ।। ७१ ।।

प्रपन्नाः शरणं ये वैतराव भगवन्मयाः ।
इहापि महतीं सिद्धिं प्राप्यंते मुक्तिमाप्नुयात् ।। ७२ ।।

इति ते रश्मिमालायामाहात्म्यं किंचिदीरितं ।
इतः परं महाराज किं पुनः श्रोतुसिच्छसि ।। ७३ ।।

इति श्रीमदनुत्तरब्रह्मतत्वरहस्ये दाशरथीये तंत्रे वेदार्थंसंग्रहे
अष्टमोध्यायः ।।