दाशरथीयतन्त्रम्/अध्यायः ०७
| ← अध्यायः ०६ | दाशरथीयतन्त्रम् अध्यायः ७ [[लेखकः :|]] |
अध्यायः ०८ → |
प्. १८अ)
श्रीभगवानुवाच
भूयोपि संप्रवक्ष्यामि श्रौताचारं यशस्करं ।
यत्कृत्वा मनुजोलोके श्रेयो महदवाप्नुयात् ।। १ ।।
निषेकादि श्मशानं तद्विजानां वैदिकी क्रिया ।
वैदिकाचारहीनोयोजीवन्नेव स पंचमः ।। २ ।।
जापे पुत्रे द्विजस्यादौ स चैलं स्नानमुच्यते ।
हिरण्याभ्युदयश्राद्धं कुर्यादाचम्य यत्नतः ।। ३ ।।
गोदानानि हिरण्यं च दद्यात्यझ फलानि च ।
तांवूलगंधमाल्यानिभूषणान्यपि सुव्रतः ।। ४ ।।
अपवित्रो दशाहं स्यात् यजेत्कर्माथ वैदिकं ।
जातके मृतके चापि संध्याकर्म न संत्यजेत् ।। ५ ।।
मनसोच्चारयेन्मंत्रान् प्राणायाममृते द्विजः ।
एकादशेह्नि कुर्वीतनाम कर्म ततःपरं ।। ६ ।।
तृतीयाद्वेततश्चौलं कुर्याद्ब्राह्मणभोजनं ।
गर्भाष्टमेमाव्देवाब्राह्मणस्योयनाथनं ।। ७ ।।
एकादशाब्देराज्ञां स्याद्विशां द्वादशवत्सरे ।
ब्रह्मचारी तदारम्य वेदाध्यन सिद्धये ।। ८ ।।
गत्वा गुरुकुलं नित्यं वेदाध्ययनमाचरेत् ।
आज्ञांनोल्लंघये तस्य समित्पुष्पकुशादिकान् ।। ९ ।।
आहरेत् सततं भिक्षाचर्यां कुर्यान्महामतिः ।
कृत्वा भिक्षादनं नित्यं गुरवे विनिवेदयेत् ।। १० ।।
तस्याज्ञयेवर्भुजीयात्तच्छिष्टान्नं समाहितः ।
तत्पूशून्यालयेन्नित्यं तद्गृहं मार्जयेत् सदा ।। ११ ।।
प्. १८ब्)
वस्त्रप्रक्षालनं कुर्यात्पादसंवाहनादिकं ।
वेदानधीत्यवेदौ वा वेदं वा शक्तितो द्विजः ।। १२ ।।
अविप्लुत ब्रह्मचर्यौल्लक्ष्यण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां सुप्तां निष्क्रांतांरुदतीमपि ।। १३ ।।
वाचादतामथान्यस्मैमुंडांरोगि कुलोद्भवां ।
रक्तकेशश्मशुमतींपिंगाक्षीं विकृतस्तवीं ।। १४ ।।
लंवोदरीं दीर्घगलां व्याधि वाहुल्यसंयुतां ।
वर्जयेद्वरणे कन्याराताराजन्महामते ।। १५ ।।
अरोगिणीं भ्रातृमतीं सुंदरीं लक्षणान्वितां ।
श्रोत्रियान्वय संभूतां गृहार्चनरतां सदा ।। १६ ।।
नित्यंगृहीसुखं भुंक्ते स्त्रीलक्षणवतीयदि ।
गृहसौख्यसमृध्यर्थं लक्षण्यां स्त्रियमुद्वहेत् ।। १७ ।।
अनुकूलं कलत्रं चेत्त्रिदिवे किं सुखं नृपं ।
प्रतिकूलं कलत्रं चेत्किंदुःखं नरकोभवेत् ।। १८ ।।
वश्याः सुतावृत्तकरी च विद्याभार्यानुकूला च पतिव्रताश्च ।
धर्मेरतिः सज्जनसंगतिश्चदुःस्वस्य मूलोद्धरणानि पंच ।। १९ ।।
षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
च तस्रो रात्रयः स्त्याज्या विषमासुन संविशेत् ।। २० ।।
एकादशगते चंद्रे चंद्रतारावलान्विते ।
एकादशीपर्ववर्जं स्त्रीषु संगममाचरेत् ।। २१ ।।
न दिवामंगमं कुर्यात्तद्योनिं न निरीक्षपेत् ।
अनृतं मद्यगंध च दिवाह्या पंचमैथुनं ।। २२ ।।
पुनाति वृषलस्यान्नं सायं संध्या वहिष्कृता ।
देवाश्चपितरोनित्यं गृहस्थ मृषयोपि च ।। २३ ।।
हव्यार्थमाश्रमंयंतीहकृमिकीटादयोपिश्च ।
सर्वाश्रम वरिष्ठोयं गृस्थाश्रम उच्यते ।। २४ ।।
न्यायार्जित धनस्तत्वज्ञाननिष्ठो तिथिप्रियः ।
श्राद्धकृत्सद्यवादी च गृहस्थोमुक्तमुच्यते ।। २५ ।।
वेदपारायणं कुर्वन्वेदस्यार्थं विचार*(?) ।। १५ ।।
अरोगिणीं भ्रातृमंती सुंदरीं लक्षणान्वितां ।
श्रोत्रियान्वयसंभूतां गृहार्चनरतां सदा ।। १६ ।।
नित्यं गृहीसुखं भुंक्ते स्त्रीलक्षणवित्तीयदि ।
गृहसौख्यसमृध्यर्थं लक्षण्यां स्त्रियमुद्वहेत् ।। १७ ।।
प्. १९अ)
अनुकूलं कलत्रं चेन्निदिवेकिं सुखं नृपं ।
प्रतिकूलं कलत्रं चेत्किंदुःखं नरके भवेत् ।। १८ ।।
वश्याः सुतावृतकरी च विद्याभार्यानुकूला च पतिव्रता च ।
धर्मेरतिः सज्जनसंगतिश्च दुःखस्य मूलोद्धरणानि पंच ।। १९ ।।
षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
चतस्रोरात्रयः स्त्याज्या विषमासुनसंविशेत् ।। २० ।।
एकादशागते चंद्रे चंद्रतारावलान्विते ।
एकादशीपर्ववर्जं स्त्रीषु संगममाचरेत् ।। २१ ।।
नदि वा संगमं कुर्यातद्योनिंक् न निरीक्षपेत् ।
अनृतं मद्यगंधं च दिवास्वायं पंचमैथुनं ।। २२ ।।
पुनाति वृषलस्यान्नं सायं संध्यावहिष्कृता ।
देवाश्चपितरोनित्यं गृहस्थमृषयोपि च ।। २३ ।।
हव्यार्थमाश्रयंतीहकृमिकीटादयोपि च ।
सर्वाश्रमवरिष्ठोयं गृस्थाश्रम उच्यते ।। २४ ।।
न्यायार्जितधनस्तत्वज्ञाननिष्ठोतिथिप्रियः ।
श्राद्धकृत्सद्यवादी च गृहस्थो मुक्त उच्यते ।। २५ ।।
वेदपारायणं कुर्वन्वेदस्यार्थं विचारयन् ।
विप्रजन्मशतेनासौ ब्रह्मलोके महीयते ।। २६ ।।
प्रतिजन्मशरीरांते भुंक्ते क्षयसुखं दिवि ।
कल्यांतं सत्यलोकेपि भुक्त्वा भोगान्मनोहरान् ।। २७ ।।
भूतलं पुनरागत्य श्रोत्रियान्वय संभवः ।
सदाचाररतोनित्यं वेदपारायणेरतः ।। २८ ।।
कलेवरांते कैलासं प्राप्यरुद्रसमोभवेत् भुक्त्वा ।
क्षयं महत्सौख्यं कल्पसहस्रमादरात् ।। २९ ।।
पुनर्भूतलमासाद्य वेदवित्कुलसंभवः ।
आचार्यचरणांभोज शुश्रूषणरतः शुचिः ।। ३० ।।
ब्रह्मविद्यां च भगवद्रश्मिविद्या समन्वितां ।
श्रीमद्दष्टाक्षरीं विद्यां समस्तन्या संयुतां ।। ३१ ।।
उपास्ते तच्छरीरांते शाश्वतं भगवत्पदं ।
पुनरारतिरहितं प्राप्नोत्यत्र न संशयः ।। ३२ ।।
परब्रह्मात्मकं तेजो यच्छरीरे न तिष्ठति ।
न तेन प्राप्यते विद्या श्रीमद्दष्टाक्षरी शुभा ।। ३३ ।।
अश्वमेधादिभिर्यागैरिष्ट्वा संपूर्णदक्षिणैः ।
महेंद्रलोकेमादंते कल्पांतं दिव्यभोगिनः ।। ३४ ।।
प्. १९ब्)
पुनर्भूतलमासाद्यचित्कुले मानुषीं योनिमागताः ।
कृत्वा सुकृतकर्माणि पुनःस्वर्गसुखान्विताः ।। ३५ ।।
भूयोपि मानुषी योनिं प्राप्नुवंति महीपते ।
पुनर्जन्म पुनर्मृत्युः पुनर्दुःखं पुनस्सुखं ।। ३६ ।।
कलेवरेस्मिन्मर्त्यानां सुखम एवपि नास्ति हि ।
पापे नरकेदुःखं पुण्ये न त्रिदिवे सुखं ।। ३७ ।।
क्षीणे पुण्ये स्वर्गलोके पातयंत्यपि देवताः ।
स्वर्गेपि दुःखसंमितंश्रं विषयुक्तान्नवत्सुखं ।। ३८ ।।
यत्सौख्यं परमेधान्नितदनंतं हि शाश्वतं ।
ब्रह्मानंदाभिधं प्राहुर्ब्रह्मतत्वविदोमलाः ।। ३९ ।।
दिने दिने सदाचार्य पादाब्ज द्वंद्वसेवया ।
ब्रह्मविद्यानुसंधानाच्छीमदष्टाक्षरी जपात् ।। ४० ।।
ब्रह्मानंदसुखं प्राप्यमोदते परमेपदे ।
आचार्यचरणांभोजदक्षिणारहितं दिनं ।। ४१ ।।
मध्यं दिनमिति प्राहुर्ब्रह्मतत्वविदोमलाः ।
यद्येकजन्मना ब्रह्मतादात्म्यपदमिच्छति ।। ४२ ।।
कृत्वाचार्यस्य शुश्रूषां प्राणैरथैर्धियापि च ।
ब्रह्मविद्या समायुक्तां रश्मिविद्यासमन्वितां ।। ४३ ।।
श्रीमदष्टाक्षरोपास्तिं सरहस्यां समाचरेत् ।
गृहस्थ एव सर्वेषामाश्रमाणांवर स्मृतः ।। ४४ ।।
नान्यमाश्रममासाद्य ब्रह्मानंदसुखी भवेत् ।
गृहस्थाश्रममासाद्य सदाचारेण संयुतं ।। ४५ ।।
देवतानामृषीणां च पितृणां तृप्तिमाचरन् ।
देवर्षि पितृसंतोषातत्प्रासादाप्त वैभवः ।। ४६ ।।
आचार्यतोषणात् साक्षान्नारायणकृपान्नितः ।
मोदते अप्रमेधाम्नि दशपूर्वैर्दशापरैः ।। ४७ ।।
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिवेत् ।
सत्यपूतं वदेद्वाक्यं न्यायपूतं धनं ग्रहेत् ।। ४८ ।।
आपत्काले चतुर्वर्णभिक्षाभावे तु साधकः ।
अंत्यजानपिभिक्षित्वा दद्यादाचार्य दक्षिणां ।। ४९ ।।
अश्वमेधादि यागेषु कोटीशतसहस्रकं ।
सुवर्णदक्षिणां दत्वा यागस्य फलमश्नुते ।। ५० ।।
अत्यल्पदक्षिणोयागोय जमा**(?)नाशयेत् ।
वहुशो दक्षिणादेयातस्माद्यागसमृद्धये ।। ५१ ।।
प्. २०अ)
वर्षाशनमितं द्रव्यमथवाचार्य पादयोः ।
दत्वाश्वमेधसाहस्रदक्षिणाफलामश्रु*(?) ।। ५२ ।।
सत्येन वायुरावाति सत्येनदिविभास्करः ।
रोचते चंद्रभौमाद्या अहापि दिविस्थिताः ।। ५३ ।।
सत्येनैव महेंद्रोपि त्रैलोक्यैश्वर्यवानभूत् ।
सत्येन लोकान् जयति मुक्तिः सत्येन प्रतिष्ठिता ।। ५४ ।।
श्रुतिस्मृनातनीसत्यंभगवद्वदनोद्भवा ।
योगिनः सनकाद्याश्च वशिष्ठाद्या महर्षयः ।। ५५ ।।
देवर्षयोनाराअद्यास्मिद्धाश्च कपिलादयः ।
महेंद्राद्याश्च दिक्पालाः पूर्वभूतपतयोपि च ।। ५६ ।।
सत्येन परमामृद्धिंगताः परमधार्मिकाः ।
भगवद्वचनं सत्यं सत्यं वेदोदितं तथा ।। ५७ ।।
ब्रह्मर्षीणां वचः सत्यं सत्यं देववचोपि च ।
ब्रह्मतत्वविदोनित्यं वेदवेदांतपारणाः ।। ५८ ।।
गहवासिभिरज्यर्च्या ब्रह्मदर्शनसिद्धये ।
एतन्नारायणीयाख्यं सत्यमेवोच्यते मया ।। ५९ ।।
वेदार्थसंग्रहं तंत्रं वेदवेदांतसस्मितं ।
अहंदाशरथिर्भूत्वा रुद्राय परिपृच्छते ।। ६० ।।
वक्तास्म्ये तन्महच्छास्त्रं ब्रह्मर्षीणां च सन्निधौ ।
तंत्रं दाशरथीयाख्यं तदारभ्य महर्षयः ।। ६१ ।।
वेदार्थसंग्रहं नाम्ना प्राहुरे तन्महीपते ।
अस्मिन्दाशरथीयाख्ये तंत्रे यद्यदुदीरितं ।। ६२ ।।
तत्सर्वं वेदवद्ग्राह्यमाचार्यवदनांवुजात् ।
तस्माद्गृहस्थः सततं देवानां तृप्तिःमाचरन् ।। ६३ ।।
वैदिकाचारसहितोवेदाध्ययन तत्परः ।
ब्रह्मविद्यानुसंधाता श्रीमद्दष्टाक्षरीरतः ।। ६४ ।।
ब्रह्मापरोक्षं चक्षुर्भ्यां दृष्ट्वा नारायणाभिधं ।
नारायणमयो भूत्वा मोदते परमेपदे ।। ६५ ।।
रविसंक्रमे पुण्ये रवींदुग्रहणादिषु ।
प्राप्तेष्व लभ्ययोगेषु नवरात्राप्रतेपि च ।। ६६ ।।
आचार्यचरणांभोजद्वितयेवहुलंधनं ।
दातव्यं च महीदानं गोदानं चावशेषतः ।। ६७ ।।
सालग्राम शिलादानं ब्रह्मदर्शनसिद्धये ।
आचार्यकर्णयोर्द्देवमवश्यं कुंडलद्वयं ।। ६८ ।।
प्. २०ब्)
वित्तशाठ्यं परित्यज्य नवरात्रवृतं शुभं ।
वासरे भार्गवेवश्यं कर्तव्यं श्रीसमृद्धये ।। ६९ ।।
सुवासिन्यस्समभ्यर्च्याभूषणाच्छादनाशनैः ।
त्र्याचार्यपत्नीसततं वहुलं करणादिभिः ।। ७० ।।
विशेषेण समभ्यर्च्या समस्तेषु व्रतेष्वपि ।
महालक्ष्मीधिया शिष्यैश्चतुर्वर्गफलाप्तये ।। ७१ ।।
पर्वकालेषु दातव्यं पात्रेभ्योपि धनादिकं ।
आचार्य एव पात्राणामुत्तमं पात्रमुच्यते ।। ७२ ।।
वेदाध्ययनवान्नित्यं सदाचार समन्वितः ।
पात्रमित्युच्यते वेदेशास्त्रेषु च महीपते ।। ७३ ।।
अपात्रमुच्यते वेदवाह्य एव द्विजाधमः ।
षण्मासे वत्सरे वापि देहसंशुद्धि हेतवे ।। ७४ ।।
आचार्यमंदिरे भुक्तशिष्टं भोज्यं महीपते ।
आचार्यदक्षिणाद्रव्यं याचयेन्नापि तत्कुले ।। ७५ ।।
आचार्यचरणांभोजद्वये संपाद्ययस्वतः ।
दत्वा यागधनं साक्षात्तद्दर्षे ब्रह्म पश्यति ।। ७६ ।।
कुलानामपि साहस्रं तारयेन्नरकस्थितं ।
पठनं धर्मशास्त्राणामितिहासपुराणयोः ।। ७७ ।।
आचार्यवदने नैव श्रोतव्यं प्रत्यहं नृभिः ।
आचार्यदक्षिणाहीनं वंध्यमित्युच्यते दिनं ।। ७८ ।।
यत्किंचिदपि वा देयं नित्यमाचार्यपादयोः ।
समस्तविद्या सिध्यर्थं ब्रह्मज्ञा फलाप्तये ।। ७९ ।।
पुस्तकं धर्मशास्त्राणामिति हासस्यपुस्तकं ।
पुराणपुस्तकं वापि दधान्मुक्तिफलाप्तये ।। ८० ।।
दानमावश्यकं देयं संपाद्य यत्नतः ।
अवियोगवतीमृद्धिंपत्नीपुत्रादितिस्सदा ।। ८१ ।।
भार्गवे वासरे कार्यं व्रतं साधकं पुंगवैः ।
पंचयज्ञाः सदाकार्या ब्राह्मणैः शंसितव्रतैः ।। ८२ ।।
देवयज्ञः पितृयज्ञो भूतयज्ञस्ततः परं ।
ततो मनुष्ययज्ञः स्याद्ब्रह्मयज्ञस्ततः परं ।। ८३ ।।
समिद्भिरपि होमोयं सायं प्रात**(?)दिने ।
देवयज्ञ इति प्रोक्तः स्वर्गः साधन ईरितः ।। ८४ ।।
तर्पयेद्यस्तिलैर्नित्यं पितॄनथपितामहान् ।
पितृयज्ञ इति प्रोक्तः कालवाधानिवारकः ।। ८५ ।।
भूतेभ्यो यो वलिर्हतो भूतयज्ञरहोच्यते ।
यद्विजेभ्योन्नदानं स्यान्नरयज्ञं स उच्यते ।। ८६ ।।
प्. २१अ)
ऋचमेकां यजुर्वापि सामैकथा चानृप ।
योधीते ब्रह्मयज्ञोयं स उक्तो ब्रह्मवित्तमैः ।। ८७ ।।
श्रीमद्दष्ठाक्षरीविद्या जपहोम समृद्धये ।
आचार्यदक्षिणां किंचिद्यथा शक्त*(?)मर्पयेत् ।। ८८ ।।
यागोवैष्णुवनामप्रत्यहं कार्यं आदसत् ।
सद्गुणैश्वर्यसंपतिः पतिः पद्भिर्यागैः प्राजायते ।। ८९ ।।
षड्यागकर्ता सततं भगवन्मयतां व्रजेत् ।
देवर्षिपितृपीत्यर्थं पचयज्ञाः प्रकीर्तिताः ।। ९० ।।
कर्तव्यो वैष्णवोयागो मोक्षलक्ष्मीममृद्धये ।
मध्याह्नकाले संप्राप्ते दत्वा भूतवलिं भुवि ।। ९१ ।।
ततो गोदाहेमात्रवैकालंतिष्णेद्रहांगणे ।
अतिथिं तत्र संप्राप्तं पूजयेत् स्वगतादिना ।। ९२ ।।
तथासनम्रदानेन पारप्रक्षालनेन च ।
श्रद्धयान्न प्रदानेन प्रियमश्रोतरेण च ।। ९३ ।।
गच्छत्तश्चानुयानेन प्रीतिमुत्यादयेद्गृही ।
अज्ञातकुलनामाचदूरदेशाद्दुमागतः ।। ९४ ।।
अतिथिर्न्नायविज्ञेयोनैकग्रामस्थितोद्विजः ।
स्वाध्यायंगोत्रचरणमपृष्टां च तथाकुलं ।। ९५ ।।
हिरण्यगर्भवीथ्यांतपन्येतातिथिमागते ।
अतिथिनां सहस्राणि यस्य भुक्तानिमंदिरे ।। ९६ ।।
आचार्यं भोजयेत्वेकमवश्यं तत्फल लभेत् ।
आर्चाचरणांभोजद्वयप्रक्षालितं जलं ।। ९७ ।।
पीत्वांतः शुद्धिमाप्नोति वहिः शिरसि धारणात् ।
समस्ततीर्थस्नानस्य फलसिद्धन् महीपते ।। ९८ ।।
आचार्यचरणांभोज प्रवक्ष्यामि तजलं पिवेत् ।
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।। ९९ ।।
तयोरन्नमद्दत्वा तु मुत्वा चांद्रायणं चरेत् ।
यतिहस्ते जलं दद्यात् भैक्ष्यं दद्यात्युभर्जलं ।। १०० ।।
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपमं ।
आचार्यो विमुखो गृह्णान्गृहान्प्रतिनिवर्तते ।। १ ।।
प्. २१ब्)
तनैव यांति स्मरते देवताः पितृभिस्सह ।
आचार्यपत्निपुत्राणामवश्यं पोषणं वुधैः ।। २ ।।
प्रातःप्रातस्समुस्थायचिंतनीं विचक्षणैः ।
प्रतिज्ञातं मनोवाग्भ्यां दरिद्राय कुटुंविने ।। ३ ।।
अणादप्यधिकं तत्स्यात् परलोकभयंकरं ।
शीघ्रमेव प्रदातव्यं तदृणं स्वर्गसौख्यदं ।। ४ ।।
संकल्पिता सदाचार्य दक्षिणानिष्कसस्मिता ।
अपि मेरुसमाज्ञेयामासादूर्ध्वमृणं महत् ।। ५ ।।
संकल्पदिनमारभ्य तद्द्रव्यं वृद्धि संयुतं ।
मासाभ्यंतरत्तोदेयं द्विमासाभ्यंतरेपिवा ।। ६ ।।
श्रोत्रियाणां सहस्रेभ्यो दत्वा कोटिशतं धनं ।
यत्फलं समवाप्नोति सदाचार्यस्य पादयोः ।। ७ ।।
निष्कमेकं प्रदत्वापि ततोधिकफलं लभेत् ।
त्रीण्याहुरतिदानानि कन्यापृथ्वीसरस्वती ।। ८ ।।
कन्यां सालं कृतां दत्वा दरिद्राय महीपते ।
ब्रह्मलोकं व्रजत्यंते पितरः स्वर्गभागिनः ।। ९ ।।
कन्याद्रव्यं द्विजातीनां परत्रनरकपदं ।
विप्रं विवाहपित्वैकं दरिद्रं वेदपारगं ।। १० ।।
अवश्यमेतद्देहांते नरकस्थान्पितृनपि ।
कछृत्युपुष्पकं दिव्यमारुह्य पितृभिस्सह ।। १११ ।।
अवश्यं भगवद्वाम प्राप्नोत्यत्र न संशयः ।
गण्यं तेपांशवोभूमेर्गण्यंते दिवितारकाः ।। १२ ।।
नगण्यते विधात्रापि ब्रह्मसंस्थापने फलं ।
विप्राय वेदविदुषे दरिद्राय महीपतेः ।। १३ ।।
विवाहायधनं दत्वा वंशवृद्धिमिहाक्षयां ।
आंचंद्रतारकं प्राप्य ब्रह्मलोकेवसत्यसौ ।। १४ ।।
महींसस्य समायुक्तां वहुदक्षिणयान्वितां ।
श्रोत्रियाथ दरिद्राय चतुर्वृषयुतां ददन् ।। १५ ।।
भगवन्सन्निधावंते पितृभिस्सहमोदते ।
पक्वसस्ययुतां पृथ्वी चतुःपुंगवसंयुतां ।। १६ ।।
आचार्यचरणां**(?)द्वये दत्वा सदक्षिणां ।
पितृणामपि साहस्रं निमग्नं नरकार्णवे ।। १७ ।।
उद्धृत्य पुष्पकं दिव्यमारुह्य पितृभिस्सह।
भगवत्सदृशाकारोमोदते भगवत्पदे ।। १८ ।।
प्. २२अ)
ब्राह्मणेभ्यो वेदविद्यां प्रदत्वा सरहस्यकं ।
ब्राह्मणः पूज्यतां प्राप्य ब्रह्मणा सहमोदते ।। १९ ।।
इतिहासपुराणानासथ रामायणस्य वा ।
प्रदत्त्वा पुस्तकं सर्वविद्यानां पारगो भवेत् ।। १२० ।।
एतच्छरीरपातांते सत्यलोकमवाप्नुयात् ।
शालग्रामशिलादानवमीवमहंदंतरं ।। २१ ।।
शुद्धचक्रसमायुक्तां वज्वकीटाविनिर्मितां ।
शालग्राम शिलामेकामपि दक्षिदायान्वितां ।। २२ ।।
अलंकृत्य प्रदत्वां भगवन्सन्निधिं व्रजेत् ।
ब्रह्मांडकोटिदानेन यत्फलं लभते नरः ।। २३ ।।
शालग्रामशिलादानातत्फलं समवाप्नुयात् ।
अन्नं नित्यं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः ।। २४ ।।
अन्नद्विगुणमामंस्याद्वैश्वदेवादिकं यतः ।
पयस्विनीं सवत्सांगांकांस्यरोहसमन्वितां ।। २५ ।।
सुवर्णखुरशृंगाग्रांमाल्यस्वर्णयुतां तु वा ।
अलंकृत्य दरिद्रा ययो ददाति कुटुंविने ।। २६ ।।
गोलोकें समवाप्नोति दिव्यभोग समन्वितं ।
पत्रक्षीरवहानद्यो यत्र पाप सकर्द्दमाः ।। २७ ।।
भूरुहाः परिजाताद्या यत्र तत्र वसत्यसौ ।
आचार्याय विशेषेण सवत्सांगां पयस्विनीं ।। २८ ।।
एकधा वा द्विधात्रेधा वहुदक्षिणयान्वितां ।
समर्प्य भगवद्धाम्नि पितृभिः सहमोदते ।। २९ ।।
यस्याः क्षीरंदधिघृतं पिवेदाचार्य आदरात् ।
तद्दातापितृसाहस्रसहितो भगवत्यदे ।। ३० ।।
मोदते दिव्यभोगाढ्योभगवत्सदृशाकृतिः ।
गवांविक्रयकृद्विप्राः गृहीतानां महीपते ।। ३१ ।।
पितृभिस्सहकल्यांतं नरकेषु निमज्जति ।
त्र्यलंकारेषु सर्वेषु पद्मराग समन्वितं ।। ३२ ।।
संतप्तहेमरुचिरं कुंडलद्वितयं शुभं ।
दिव्यां लंकरणं प्रोक्तं तदत्वाचार्यकर्णयोः ।। ३३ ।।
तुलापुरुषदानादि महादानफलं लभेत् ।
भगवत्सदृशाकारो वैकुंठेव सति ध्रुवं ।। ३४ ।।
मोदते शक्रनगरे सूक्ष्मवस्त्रपदायकः ।
अश्वदानाकुवेरेण साम्यं प्राप्नोति तत्पदे ।। ३५ ।।
प्. २२ब्)
कैलासे गजदोदिव्यभोगभाग्भवति ध्रुवं ।
आंदोलिकां प्रदद्याद्य आचार्याय विशेषतः ।। ३६ ।।
तज्जीवनधनोपेतामथक्षेत्रधुतांतु वा ।
गरुडध्वजमारुह्यविमानं दिव्यभोगयुक् ।। ३७ ।।
भगवत्सन्निधावंते भृत्यानामग्रगण्यतां ।
प्राप्नोति पितृभिः साकं नारायणससाकृतिः ।। ३८ ।।
आचार्या यदिशेषेणयो दद्याच्छिधिकां शुभां ।
नित्यसंपूजितो ब्रह्मपदे सरमते ध्रुवं ।। ३८ ।।
शुद्धं सुवर्णरसानिवासोलंकरणादिकं ।
ब्राह्मणेभ्यः समर्प्यार्थ स्वाचार्याय विशेषतः ।। ४० ।।
पितृभिस्सहदेहांते सत्यलोकेवसत्यस्यै ।
शाकरूप घृतादीनियोदद्याद्गुरवेन्वहं ।। ४१ ।।
विन्नमृतमाप्नोति देहांते स्वर्गभक्षयं ।
अन्नं निवेदितं विष्णोर्हविः शेषेण संयुतं ।। ४२ ।।
आचार्यभुक्तशेषान्नसहितां यासिमास्यपि ।
भुक्त्वा सकृतैः पापैस्तत्क्षणादेवमुच्यते ।। ४३ ।।
अनिद्यं भक्ष्येदन्नं वाग्यतोन्नमकुत्सयन् ।
पंचग्रासंमहामौनं प्राणाद्याप्यायनं यतः ।। ४४ ।।
नेक्षतोद्यंतमादित्यंनास्तंयांतं दिवाकरं ।
नोपरक्तं नवारिस्थं न नग्नां च परस्त्रियं ।। ४५ ।।
कदाचिदपिनोतिष्ठेदाचार्येण सहामने ।
नोच्चासने च निवसेन्नशम्यायां गुरोः स्वपेत् ।। ४६ ।।
नाचार्यपादुका युग्ममारोहेदपि च क्वचित् ।
दिवापादुकमारुह्य न चोद्ग्राम मध्यमै ।। ४७ ।।
पर्वस्वभिगमः स्त्रीषु महामर कटुः खदः दिवापाप ।
प्रदां पुंसां दिवापापप्रदां पुंसां तद्योनिं न निरीक्षपेत् ।। ४८ ।।
दिनांत संध्यां सूर्येण पूर्वामृक्षेः समन्वितां ।
उपतिष्ठेद्यथान्यायं सम्यगा चम्पक्पार्थिव ।। ४९ ।।
सार्वकालमु*(?)द्यानं संध्ययोः पार्थिवेष्यते ।
अन्यत्र सूतकाशौ च विभ्रमातुरभीतितः ।। ५० ।।
सूर्येणाभ्युद्दितो यस्तुत्यक्तः सूर्येण वास्वपन् ।
प्रायश्चितायते भूमावपि विप्रोत्तयो नृप ।। ५१ ।।
प्. २३अ)
तस्मादनुदिते सूर्ये समुत्थाय महीपते ।
उपतिष्ठेन्नरः संध्याय स्वयंश्चदिनांत्यजां ।। ५२ ।।
उपतिष्ठंति ये संध्यां पूर्वो न च पश्चिमां ।
व्रजम्तिते दुरात्मानस्तामिस्रं नरकं ध्रुवं ।। ५३ ।।
इत्थं गृहाश्रमी भूत्वा एकेनैवहिजन्मना ।
अवश्यं मुक्तिमाप्नोति दशपूर्वैर्दशत्परैः ।। ५४ ।।
नित्यनैमितिकैरेव कुर्वाणोदुरितक्षयं ।
ज्ञानं च विमलीकुर्वन्नभ्यासेननुयाचयेत् ।। ५५ ।।
अभ्यासत्यक्वविज्ञानः कैवल्यं लभते नरः ।
अनाश्रमी न तिष्ठेतक्षणमेकमपि क्वचित् ।। ५६ ।।
ब्रह्मचारी गृहस्थोपि वानप्रस्थोथ भिक्षुकः ।
चत्वार आश्रमा एते द्विजानामवनीपते ।। ५७ ।।
वानप्रस्थाश्रमे बुद्धिर्जाताचेद्गृहमेधिनः ।
पुत्रेषु भार्यां निक्षिप्य कलत्रसहितोपि वा ।। ५८ ।।
तत्राप्याचार्य शुश्रूषां कुर्वन्ने वर्जितेंद्रियः ।
हुत्वा सायं तथा प्रातः कृत्वा चांद्रायणादिकं ।। ५९ ।।
जीर्णपर्णाशनो वापि फलमूलाशनोपि वा ।
देवतानामृषीणां च पितृणां तृप्तिमाचरन् ।। ६० ।।
वेदपारायणं कुर्वन् श्रीमद्दष्टाक्षरीं जपन् ।
स्मरन्नारायणं देवं पदं विष्णोरवाप्नुयात् ।। ६१ ।।
जायते यदि वैराग्यं प्रजेदथ पंडितः ।
विशेषण सदाचार्य शुश्रूषामेव संततं ।। ६२ ।।
कुर्वन्नैकात्रमष्णीयात् प्रणवाभ्या स तत्परः ।
विभूते सन्नमुसलेव्यंगोरेभुक्तवर्तिते ।। ६३ ।।
पंचागारं चरेद्भैक्ष्यं सप्तागारमथापि वा ।
सदानारायणेचित्तं कृत्वाचार्यस्य वंदनं ।। ६४ ।।
अहोरात्रं सदाचार्य शुश्रूषा निरतो पतिः ।
श्रीमद्दष्टाक्षरीं विद्यामवश्यं प्रजपन् शुचिः ।। ६५ ।।
नित्यं त्रिषड्वणस्तायी निःस्पृहोविजितेंद्रियः ।
एकवस्त्र धनोदंड कमंडलु धनस्तथा ।। ६६ ।।
कांचनरजतं लोहमपि नेक्षेत कुत्रवित् ।
अधोमुखः सदास्त्रीषु वेदांतश्रयणेरजः ।। ६७ ।।
सदोपनिषदावृतिं कुर्वन् सिद्धिमत्वाप्नुयात् ।
आचार्य एव सर्वेषां गतिर्नान्यो विधीयते ।। ६८ ।।
प्. २३ब्)
धाताविधाता ब्रह्मापि भगवान् शंकरोपि च ।
रविः सोमो महेन्द्रश्च पितामातागुरुःसखा ।। ६९ ।।
आचार्य एव संसारंगतिस्तर्तुमिहेच्छतां ।
आचार्यचरणांभोजे द्वयमेव सतांगतिः ।। १७० ।।
इदं मुक्तं मया वेदोदितं कर्म शुभप्रदं ।
अतः परं महीपाल किंभूयः श्रोतुमिच्छसि ।। १७१ ।।
इति श्रीमदनुत्तरब्रह्मतत्वरहस्ये दाशरथीये तंत्रे वेदार्थसंग्रहे
सप्तमोध्यायः ।।