दाशरथीयतन्त्रम्/अध्यायः ०५
| ← अध्यायः ०४ | दाशरथीयतन्त्रम् अध्यायः ५ [[लेखकः :|]] |
अध्यायः ०६ → |
प्. १२अ)
ऋष्यशृंग उवाच
इति श्रियः पतेर्वक्त्राच्छ्रुत्वा गौरीपतिर्शिवः ।
भूयोपि जानकीनाथं प्राह लोकहितं वचः ।। १ ।।
ईश्वर उवाच
भगवन् जानकीनाथ नारायणदयानिधे ।
एते ब्रह्मर्षयः सिद्धास्त्वत्प्रसादाप्तवैभवाः ।। २ ।।
मामे वचोदयंतीहप्रष्टुं ब्रह्मरहस्यकं ।
मन्वादि मुनिभिप्रोक्तमप्याचारं श्रुतीरितं ।। ३ ।।
कौतूहलयुताः श्रोतुं भवद्वदनपंकजात् ।
लक्षणं गुरुभक्तस्परश्मिसूक्तं श्रियः पतेः ।। ४ ।।
श्रीमदष्टार्ण माहात्म्यं सरहस्यं विशेषतः ।
माहात्म्यं ब्रह्मविद्यायाः श्रोतुं कौतूहलान्विताः ।। ५ ।।
ब्रह्मापरोक्षविज्ञानं कथमेकेन जन्मना ।
भवतीहद्विजातीनां सर्वमेतद्वदस्वनः ।। ६ ।।
श्रीभगवानुवाच
शृणु रुद्रमहाभाग चतुर्वक्त्रपितामह ।
ब्रह्मर्षयोपिशृ एवं तु सिद्धाये च तपोधनाः ।। ७ ।।
अत्रार्थे संप्रवक्ष्यामि इति हासं पुरातनं ।
यच्छ्रुत्वाचार्य वदना ब्रह्मभूतो भवेदिह ।। ८ ।।
मथित्वा ज्ञानमंथेन वेदागम महार्णवं ।
सारज्ञेन मया गुह्यं ब्रह्मदर्शनमुद्धृतं ।। ९ ।।
श्वसुरोजनकोस्माकं सर्वधर्मपरायणः ।
मेदिनीं पालयामासः वेदाध्ययन तत्परः ।। १० ।।
अश्वमेधादिभिर्यागे रिषूविपुलदक्षिणीः ।
तुलाहिरण्यगर्भाद्यैर्यजन् देवं श्रियः पतिं ।। ११ ।।
प्. १२ब्)
ब्रह्मा परोक्ष्य विज्ञान सिध्यर्थं गिरिजापते ।
आराधयामासमुनिंगौतमं ब्रह्मतत्परं ।। १२ ।।
पद्मराग समायुक्त तप्तस्वर्णविनिर्मितं ।
कुंडलद्वितयं नित्यं ददात्याचार्य कर्णयोः ।। १३ ।।
नवरत्न समायुक्तं सुवर्णेन विनिर्मितं ।
पादुकाद्वितयं कृत्वा मुक्तालविभूषितं ।। १४ ।।
गुरुपादांवुज द्वंद्वारूढं तत्पादुका द्वयं ।
आचायं पादुकाविद्यामुच्चरन्प्रत्यहं शुचिः ।। १५ ।।
गंधाक्षतैश्र कुसुमैश्छत्र व्यजनचामरैः ।
पादुकाद्वितयस्याथ कृत्वा शुश्रूषणं नमः ।। १६ ।।
एकैककर्षमानेन सुवर्णेन विनिर्मितैः ।
आचार्यदुपादुकायुग्ममर्चयित्वान्वहं शुचिः ।। १७ ।।
आचार्यचरणांभोजयुग्मेर्ययति चान्वहं ।
इत्थं द्वादशवर्षाणि पादुकाद्वयपूजनं ।। १८ ।।
पादुकाद्वयपूजने विद्यया कृत्वा ब्रह्मदर्शन ।
सिद्धये ब्रह्मविद्यामवाप्यादौ भगवद्रश्मि संयुतां ।। १९ ।।
समस्तन्यास सहितां यंत्रपूजापुरःसरां ।
श्रीमद्दष्टाक्षरीं विद्यां प्राप्तवान् गौतमाद्गुरोः ।। २० ।।
शरीरमर्थं प्राणाश्चनिवेद्य गुरुपादयोः ।
कृतवान्नियमं घोरं ब्रह्मदर्शनसिद्धये ।। २१ ।।
आचार्यपादुकायुग्मर्चयित्वैव संतंतं ।
सौवर्णपुष्पसाहस्रैर्भोक्ष्याम्यहमतः परं ।। २२ ।।
स इत्थं नियमं कृत्वा स्वगुरोः पादुकाद्वयं ।
प्रातः समुत्थाय समभ्यर्च्योपचारकैः ।। २३ ।।
ब्राह्मणैः सहभुंक्तेन्नमित्थं द्वादशवत्सरं ।
जाति स्मरत्त्वं प्राप्तो सौपादुका द्वितयार्चनात् ।। २४ ।।
एकदापादुकायुग्मंतिरोभूतं स्वमंदिरे ।
अनश्नन्नेव भूपोसौ जपन्नाचार्य पादुकां ।। २५ ।।
ब्रह्मविधां रश्मिमालां श्रीमद्दष्टाक्षरीं जपन् ।
प्रार्थितः पितृमातृभ्यामपि ब्रह्मर्षि पुंगवैः ।। २६ ।।
प्रार्थिगौतमेनापि स्वाचार्येण महामतिः ।
अनश्नन्नेव भूपालो भगवन्यर्पिताशयः ।। २७ ।।
तुष्टोस्य गौतमस्तस्मै जनकाय महात्मने ।
प्रादादष्टाक्षरीं सिद्धिं **(?) दर्शनसिद्धिदां ।। २८ ।।
प्. १३अ)
तथापि न हि भुंक्ते सौ पादुकाभावतो नृपः ।
अथाजगामतं संभूयं द्रष्टुमुन्मत्तवेषभृत् ।। २९ ।।
जटाकलापसहितो**(?)लांवरसंवृतः ।
कृष्णाजिनोत्तरीयश्च शिष्येणैकेन संयुतः ।। ३० ।।
यो सौवदरीकावासी त्रिजगत्परिपालकैः ।
भूत्वा परमहं सोयं साक्षान्नारायणाविभुः ।। ३१ ।।
ज्ञात्वा परमहं संतसागतं स्वस्वमंदिरं ।
पादुका द्वितयारूढं शिष्येणैकेन संयुतं ।। ३२ ।।
प्रायुग्म्याभिवाद्याथ जनकोमिथिलापतिः ।
ददर्शपादुकायुग्मं तेनारूढं महात्मना ।। ३३ ।।
ब्रह्मानंदयुतो भूत्वा दृष्ट्वा तत्पादुकाद्वयं ।
भूयो भूयोनमस्कृत्यस्वर्णपुष्पैरपूजयत् ।। ३४ ।।
पुष्पजालं हेममयं पादुकाद्वितयेर्पितं ।
तन्मस्तकेथ दृष्ट्वासौ विस्मयं प्रापसादरं ।। ३५ ।।
आचार्यगौतमं पश्चात्तदा कृति समन्वितं ।
दृष्ट्वा न मामसाष्टांगंधन्योस्मीति मुहुर्वदन् ।। ३६ ।।
आचार्यरूपिणस्तस्यतेजः कोद्यर्कसन्निभं ।
दृष्ट्वा निमीलिताक्षौसौ पादयुग्मे यमाहतह ।। ३७ ।।
तमुत्थाप्य ददौ दिव्यं चक्षुरस्मै जगत्पतिः ।
अथायश्मच्छरीरेस्य सर्वमेतच्चराचरं ।। ३८ ।।
ब्रह्माणं भास्करं शेषं त्वां च गौरी समन्वितं ।
शक्रादीनिष्ट दिक्पालान्साध्यांश्च समरुद्गणान् ।। ३९ ।।
मित्रादीन्द्वादशादित्यान् रुद्रानेकादशाप्यथ ।
विश्वमेतदशेषेण दृष्ट्वा मच्छशुरोन्याः ।। ४० ।।
आचार्यापादयोर्दतव्यजालमथाक्षयं ।
दृष्ट्वा विस्मयमापन्नष्युनस्तत्पादुकाद्वयं ।। ४१ ।।
निक्षिप्यमस्तके स्वस्य तत्पादांभोरुहद्वयं ।
साष्टांगं दंडवन्नत्वा श्रुति सूक्तैरनेकशः ।। ४२ ।।
स्तुत्वा कृतांजलि पुटोहंसवेषधरं विभुं ।
अपश्यत् पूर्ववद्विप्रं जटावल्क्यलसंयुतं ।। ४३ ।।
एकीभूतं स्वगुरूणा भूयोप्याश्चर्य साप्तवान् ।
आचार्य पादुकायुग्मपूजनाद्गुरुतोषणात् ।। ४४ ।।
जन्ममे सफलं जातं जातं मे ब्रह्मदर्शनं ।
साक्षान्नारायणास्येदं दर्शनं परमात्मनः ।। ४५ ।।
प्. १३ब्)
गौतमानुग्रहाज्जातमितिमत्त्वा स भूपतिः ।
आसनं कल्पयामासयोगिवेषधरस्यहि ।। ४६ ।।
शिष्येणसहितो योगीसमुपाविशदासने ।
अर्घ्यपाद्यादिभिर्दिव्यगंधैश्च कुसुमैः शुभैः ।। ४७ ।।
अर्चयामास तत्पादौ स शिष्यणसा महामतिः ।
आचार्यपादुकायुग्ममग्नेभ्यर्च्यैव शंकर ।। ४८ ।।
तस्य तुष्टस्ततस्साध्यो देवो नारायणो विभुः ।
उवाच वचनं भूयं कृतांजलिपुरं स्थितं ।। ४९ ।।
श्रीभगवानुवाच
प्रीतोहंते महीयालयद्यदिष्टतमं तव ।
तत्तद्दास्यामि भूयोपि प्रार्थितादधिकं फलं ।। ५० ।।
राजोवाच
त्वत्पाददर्शनं जातं त्वद्रूपं दृष्टमद्भुतं ।
किमन्यद्वरयेभीष्टं सकलं प्राप्तमद्य मे ।। ५१ ।।
आचार्यचरणांभोजे नित्यं भक्तिर्दृढास्तुमे ।
आचार्यपादुकायुग्मपूजाप्रत्यहमस्तुमे ।। ५२ ।।
रतिर्मेवैदिकाचारे भक्तिराचार्यपादयोः ।
त्वद्विद्याभजनेमेस्तुदृढाभक्तिस्सदा मम ।। ५३ ।।
इत्युक्तो भगवांस्तत्रमिथिलाधिपतिं नृपं ।
प्राहनारायणोयोगीनरेणसहितो विभुः ।। ५४ ।।
तुष्टोहं मिथिलाधीशयद्यते फलमीप्सितं ।
ततदस्तु महीपाल नित्यमाचार्यसेवया ।। ५५ ।।
आचार्यतोषणान्नित्यं यथातुष्टो भवाम्यहं ।
त्वतयः फलतः सर्वेत्वदन्यप स मुक्त्वाः ।। ५६ ।।
सर्वेपि मम सायुज्यं प्राश्यंत्यत्र न संशयः ।
अहं दाशरथिर्भूत्वालक्ष्मणानुचरो भुवि ।। ५७ ।।
जामाताते भविष्यामि राम इत्यबिविश्रुतः ।
श्रीर्याचिद्रूपिणी शक्तिर्ममवेदेषु विश्रुता ।। ५८ ।।
भविष्यतीयंते पुत्रीमत्प्रसादन्महीपते ।
अवाप्त सर्वभाग्यस्त्वं भूत्वा विगतकल्मषः ।। ५९ ।।
मत्प्रदात्परंधाम प्राश्यसे पितृमिस्सह ।
इत्युक्त्वा भगवांस्तूष्णीमासीनः सम्यगासने ।। ६० ।।
प्रसादाभिमुखस्तस्य जनकस्यगहे भवत् ।
प्रसादाभिमुखं वीक्ष्य ****(?) सनातनं ।। ६१ ।।
प्. १४अ)
नारायणं नरसख महायोगिश्वरं विभुं ।
उवाच जनकोराजा कृतांजलिरिदं वचः ।। ६२ ।।
राजोवाच
भगवन् देवदेवेश नारायण जयत्पते ।
हिताय सर्वलोकानां किंचिद्विज्ञप्तुमुद्यतः ।। ६३ ।।
ब्रह्मापरोक्षविज्ञानं कथ मे केन जन्मना ।
गुरुपादाब्ज शुश्रूषा कर्तव्या कथमादरात् ।। ६४ ।।
कथं वै वेदिकाचारः कर्तव्योगहवाप्तिभिः ।
विधिना केन कर्तव्यं त्वद्विद्याभजनं विभो ।। ६५ ।।
एतदन्याच्च सफलं ब्रूहि मे भगवन् विभो ।
श्रीभगवानुवाच
पृष्टमेतत्त्रिजगतामुपकारकमादरात् ।। ६६ ।।
तुभ्यं जनक वक्ष्यामि गुरुभक्तायधीमते ।
यतत्सत्यचिआनंदमखंडं ब्रह्मनिर्गुणं ।। ६७ ।।
अवलं शाश्वतं दिव्यं वेदवेद्यं परात्परं ।
सगुणं निर्गुणं चेति रूपद्वितयमुत्तमं ।। ६८ ।।
विद्यते ब्रह्मणस्तस्य तेजोरूपं हि निर्गुणं ।
सच्चिदानंदमद्वैतं ज्योतिरूपं परात्परं ।। ६९ ।।
निर्गुणं ब्रह्मणो रूपं विश्वातीतं ममैव तत् ।
सगुणं सृष्टिसंहार स्थितिकारणमद्भुतं ।। ७० ।।
ब्रह्मविष्णुमहेशानां कारणं त्रिगुणान्वितं ।
सगुणस्य ममोद्भूतावदनाच्छुतिराशयः ।। ७१ ।।
नारायणाज्ञालोकानां श्रुतिरेवसनातनी ।
अज्ञाछेदी ममद्रोहीदेहांते नरकालयः ।। ७२ ।।
वेदाध्ययन कृन्नित्यं वैदिकाचारसंयुतः ।
नारायणपदं नित्यं देहांते प्रविशत्यसौ ।। ७३ ।।
स्वकर्मनिष्ठःशतजन्मभिर्द्विजोविरंचितामेति ततः परं शिवं ।
आचार्यपादांवुजसेवमाथनारायणानुग्रहभागसौ भवेत् ।। ७४ ।।
नारायणमुखोद्भूतावेदास्सांगासनातनाः ।
तेषुनिष्ठस्सदाचारयुतोमद्भजनेरतः ।। ७५ ।।
प्राप्नोति परमंधामयतन्नारायणाभिधं ।
आचार्यपादुकासेवापुरस्सरमथादरात् ।। ७६ ।।
कुर्वन्वैदिकमाचारं ब्रह्मविद्यां जपन्सदा ।
समस्तन्याससहितश्रीमदृष्टासरीं जपन् ।। ७७ ।।
प्. १४ब्)
प्राप्नोत्यवश्यं कैवल्यमेके नैव हि जन्मना ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोपि संततं ।। ७८ ।।
कृत्वैव वेदाध्ययनं ब्रह्मणो भव्ति ध्रुवं ।
देवतां मंत्ररूपिण्यो मंत्रावेदेषु संस्थिताः ।। ७९ ।।
तस्माद् वेदमयाविप्रा वेदाध्ययनसंयुताः ।
सर्ववेदमया विप्राः सर्वदेवमयो हरिः ।। ८० ।।
देवो नारायणः साक्षात् परमात्मासनातनः ।
इति श्रीमदनुत्तरब्रह्मतत्वरहस्ये दाशरथीये तंत्रे वेदार्थसंग्रहे
पंचमोध्यायः ।।