दाशरथीयतन्त्रम्/अध्यायः ०४
| ← अध्यायः ०३ | दाशरथीयतन्त्रम् अध्यायः ४ [[लेखकः :|]] |
अध्यायः ०५ → |
प्. ९ब्)
ऋषय ऊचुः
ऋष्यशृंगमहाभागविभांडकसुतप्रभो ।
जानकीपतिनासाकंरामेण परमात्मना ।। १ ।।
कथं मयागमो गौरीपत्तेरासीन्महात्मनः ।
किमर्थमुक्तवानेत्त तंत्रं वेदार्थसंग्रहं ।। २ ।।
रुद्राय गौरीपतयेवदास्माकं महामते ।
श्रीऋष्यशृंग उवाच
शृणुध्वमृषयः सर्वे रहस्यमपि वक्ष्यते ।। ३ ।।
यत्तदाशरपि प्रोक्तं ब्रह्मतत्वं पुरातनं ।
पुलस्त्यवंशसंभूतदुरात्मानं महाबलं ।। ४ ।।
सर्वरक्षोगणाधीशं रावणं रजनीचरं ।
साक्षात्परब्रह्ममयः श्रीरामोजगतीपतिः ।। ५ ।।
सेतुनासागरं तीर्त्वावा पुत्रीदिभिर्वृतः ।
रणेहत्वादुराधर्षं वीरं त्रैलोक्यरावणं ।। ६ ।।
राज्येभिषिक्तः श्रीरामः साक्षान्नारायणो विभुः ।
भ्रातृभिः सहितोरायो वशिष्ठाधैर्महर्षिभिः ।। ७ ।।
जा**(?)माहितो देव्यातिष्ठन् सिंहासने शुभे ।
अयोध्यानगरे रम्ये पालयामासमेदिनीं ।। ८ ।।
तंद्रष्टुपागता अष्टौशक्राद्यालोकपालान् ।
सर्वदेवगणैर्युक्तास्सिद्धविद्या धरान्विताः ।। ९ ।।
प्. १०अ)
साष्टांगदंडवन्नत्वा रामं त्रिजगतीपतिं ।
तदाज्ञया समासीनाः सुशुभेषासनेषु*(?) ।। १० ।।
मूर्तिमद्भिश्चतुर्वेदैस्सेवितः सनकादिभिः ।
नराकृतिधरं साक्षान्नारायणमजं हरिं ।। ११ ।।
कौशल्यागर्भसंभूतं रामं दाशरथिं विभुं ।
द्रष्टुमभ्याययौ देवं ब्रह्मापि चतुराननः ।। १२ ।।
जैगीषव्यो महायोगीशतानंदोथगौतमः ।
दत्तात्रेयोपि भगवानगस्त्यः क एव एव च ।। १३ ।।
मेधातितिर्भारद्वाजो विश्वामित्रो महातपाः ।
एकनश्चद्वितश्चैवयवक्रीतोथगालवः ।। १४ ।।
महिर्षिः कपिलाचार्यः सुतीक्ष्णोमुनिसत्तमः ।
जामदग्न्यस्ततोराम्येदेवरातो महातपाः ।। १५ ।।
नारदः पर्वतोत्रिश्चमार्कंडेयो महातपाः ।
योगाचार्योथ वाल्मीकिरममन्युस्तपोनिधिः ।। १६ ।।
एतेचान्ये च वहवो नराकृतिधरं हरिं ।
श्रीरामं परमात्मानं नारायणमजं विभुं ।। १७ ।।
राजीवापतनेत्रांतं प्रसन्नमुखपंकजं ।
अभ्याययुस्तयोनिष्ठा ऋषयोदीप्ततेजसः ।। १८ ।।
अभ्याययौ महादेवः कैलासाद्गिरिजापतिः ।
तंदुनंदीशभृंगीशवीरभद्रगणेश्वरैः ।। १९ ।।
सहितः प्रमथाधीशैः कोटिश्ये मातृभिर्वृतः ।
द्रष्टुमिंदीपरश्यामं प्रसन्नं जानकीपतिं ।। २० ।।
तेषामर्धं चयाद्यं च निवेधरघुनंदनः ।
शिवस्य ब्रह्मणोन्येषामासनानि समादिशत् ।। २१ ।।
विधिरुद्रादयो देवा आसीना आसनेषुते ।
इदमूचुर्वचोत्यंतरामं राजीवलोचनं ।। २२ ।।
जहोभाग्यमहोभाग्यमघास्माकं जगत्पते ।
यतदक्षयमव्यक्तं पश्यामस्त्वां जगत्पते ।। २३ ।।
तपः फलितमस्माकं बहुजन्मार्जिनं विभो ।
अघनः सफला यज्ञा वहुशो दक्षिणान्विताः ।। २४ ।।
देवं नारायणं साक्षात्पश्यामस्त्वां नराकृतिं ।
वेदा अपि च वेदांता स्वामेव ब्रह्मरूपिणं ।। २५ ।।
संस्तुवंति यथानित्यं वंदिन परमेश्वरं ।
यतो वाचो निवर्ततेप्यप्राप्यमनसासह ।। २६ ।।
प्. १०ब्)
सत्यानंदचिदाकारं त्वमेव भगवन् विभो ।
त्रैलोक्यकंटकं वीरं दुर्धर्ष ममरैरपि ।। २७ ।।
त्रिजगद्रावणं हत्वा जगन्निष्कंटकं कृतं ।
पालयित्वा गजदिदं पुनरागच्छ तत्पदं ।। २८ ।।
इति स्तुत्वा सुरास्तूष्णीमासीना आसनेषुते ।
राजीवलोचनं रामं पश्यंतस्समुपासते ।। २९ ।।
सत्यानंदचिदाकारं दृष्ट्वी श्रीराममच्युतं ।
सुप्रसन्नसुखं शातं गौरीसहित आदरात् ।। ३० ।।
दृष्ट्वाहर्ष समायुक्तः राजीवलोचनं रामं ।
पश्यंती कृतांजलि पुटो विभुः उवाच परमात्मानं रघुनंदनमीश्वरं ।। ३१
।।
ईश्वर उवाच
भगवन् देवदेवेश नारायण जगत्पते ।
रामचंद्रकृपासिंधोशरणागतवत्सल ।। ३२ ।।
किंचिद्विजप्तुकामोहमागतस्त्वांदिदृक्षया ।
इमे ब्राह्मादयो देवाः शक्राद्याश्चदिगीश्वराः ।। ३३ ।।
ब्रह्मर्षयो वशिष्ठाद्यास्सनकाद्याश्च योगिनः ।
कपिलाद्या महासिद्धा दत्तात्रे पादयोपि च ।। ३४ ।।
एतेषां सन्निधौ देवत्वामहं जगतीपते ।
किंचिद्विजप्तुमिच्छामिदेदानुज्ञां मम प्रभो ।। ३५ ।।
इत्युक्तो भगवान्मस्तथेति करुणानिधिः ।
आज्ञाययामास तथा ब्रूहीति गिरिजापतिं ।। ३६ ।।
ईश्वर उवाच
भगवन् देवदेवेश लोकनाथ जगत्पते ।
हिताय सर्वलोकानां महर्षीणां च नित्यशः ।। ३७ ।।
ब्रह्मतत्वविजिज्ञासां द्रष्टुमिच्छामि सांप्रतं ।
नारायणात्मनः साक्षात् परब्रह्ममयस्पते ।। ३८ ।।
विज्ञातव्यं परं तत्वं कथं विप्रैस्समाहितैः ।
संसारसागरेमग्नाः कथं त्वां ब्रह्मरूपिणं ।। ३९ ।।
प्राप्नुवंति द्विजास्तीर्त्वा कथंत्वद्दर्शनं भवेत् ।
सत्यानंद चिदाकारस्त्वमेव ब्रह्मरूपभृत् ।। ।।
कथं तुष्टः परंधाम प्रयच्छसि जगत्पते ।। ३८ ।।
त्यद्रहस्यं समावक्ष्यमेनमुक्तिं प्रयांत्यमी ।
दानं वाथ व्रतवाथमंत्रस्तोत्र जपोथवा ।। ।।
क्रतुस्तयो वा भगवन् तव प्रीतिकरं वद ।
वेदा अपि च वेदांतास्तवरू***(?) महत् ।। ४० ।।
नारायणात्मकं तत्वं न जानंति हि तत्वतः ।
मां प्रेरयंति ब्रह्माद्या अमी च परमर्षयः ।। ४१ ।।
प्. ११अ)
विज्ञप्तुं तव पादाब्जयुगले जगतीप*(?) ।
- (?)त्युक्तो भगवांस्तत्र श्रीरामोजगतीपतिः ।। ४२ ।।
चतुर्मुखादि देवानां महर्षीणां च सन्निधौ ।
प्रसन्नवदनः प्राहशंकरं लोकशंकरं ।। ४३ ।।
श्रीभगवानुवाच गौरीपते प्रवक्ष्यामि तत्वं ।
भगवतो मम रहस्यमपि वेदांतसारभूतार्थसंग्रहं ।। ४४ ।।
संत्यं विज्ञानमानंदरूपमक्षरमच्युतं ।
गुहायां निहितं ज्योतिरचलं शाश्वतं ध्रुवं ।। ।।
तदेव मे परब्रह्मरूपं नारायणाभिधं ।। ४५ ।।
वेदांतवोधोस्मि तथैव पदैः स्तुल्योस्मि नित्यं परिपूर्णकामः ।
ध्येयोस्मि योगेश्वर सिद्धसंघैः पूज्योस्मि नित्यं भुवनेषु सर्वैः ।। ४६ ।।
वेदां रूपोस्म्यहमेव वेदेरूपोस्मि कालोस्मि चतुर्मुखात्मा ।
नारायणोहं नररूपधारी रुद्रोस्मि कालोकाधिपतिश्च शक्रः ।। ४७ ।।
यत्तद्ब्रह्ममयं धामपरं ज्योतिस्सनातनं ।
सत्यानंदचिदाकारं नित्यं शाश्वतमक्षयं ।। ४८ ।।
अक्षयं परमं दिव्यं शुद्धं सदसदात्मकं ।
नारायणाभिधं साक्षात्तमःपारे प्रतिष्टितं ।। ४९ ।।
तदेव मे परं रूपं मनोवाचामगोचरं ।
न व्रतैर्नमहादानैर्नयागैर्बहुवक्षिणैः ।। ५० ।।
न तीर्थयात्रासाहसैर्नेष्टार्पूर्तशतैरपि ।
अशक्यं मम तद्रूपं प्राप्तुं गौरीपते विभो ।। ५१ ।।
आचार्यपादुकासेवानिरतैः शंसितल्लतैः ।
श्रीमदष्टाक्षरीविद्याजपहोमादि तत्परैः ।। ५२ ।।
वेदपारायणरतैर्ब्रह्मविद्यानुचिंतकैः ।
रश्मिमालालापकैस्तद्रूपं प्राप्तुं हि शक्यते ।। ५३ ।।
मम शक्तिरभिन्नेयं जानकी श्रीश्चिदात्मिका ।
भिन्नेवभाति लोकेस्मिन्ममायादुरत्यया ।। ५४ ।।
आस्या एवांश संभूतापया विश्वं विमोहितं।
श्रुतिर्मद्वदनादाविर्भूतासांगासनातनी ।। ५५ ।।
अयं मे दक्षिणे वाहुः सृष्टिकर्ता पितामहः ।
वामवाहुर्मदीपस्त्वं विष्णुर्हृदयमेवमे ।। ५६ ।।
प्. ११ब्)
इहं विपाप्मं वरवेश्मभूतं यत्पुंडरीकंपुरमध्यसंस्थं ।
तत्रापि दहूं गगनं विशोकस्तस्मिन्पदं तस्वदुपासितव्यं ।। ५७ ।।
यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः ।
तेन वाच्योस्मि सत्यात्मा परमब्रह्म शब्दभाक् ।। ५८ ।।
श्रीनारायणनामाहमस्मित्रैलोक्यनायकः ।
नारायणाभिधं ब्रह्मरूपं यत्त्सच्चिदात्मकं ।। ५९ ।।
तदेव मे परं तत्वं त्रिगुणातीतमक्षयं ।
विश्वतः परमं नित्यं विश्वनारायणात्मकं ।। ६० ।।
सहस्रशीर्षे विश्वस्य सर्गस्थित्यकारणं ।
अक्षयं शाश्वतं दिव्यं वेदांतैरप्यगोचरं ।। ६१ ।।
आदिमध्यावसानेषु पतत्सदितिकीर्त्यते ।
तदेव मे महद्गुप्तं रूपं ज्योतिरथाक्षयं ।। ६२ ।।
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।
पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतं ।। ६३ ।।
नारायणाभिधं ज्ञेयं महद्विश्वात्मकं शिवं ।
नारायणाभिधं ज्योतिस्तत्वं नारायणात्मकं शिवं ।। ६४ ।।
ममैतन्महद्रूपं नित्यं नारायणाभिधं ।
नारायण परंब्रह्मतत्वं नारायणः परा ।। ६५ ।।
नारायणः परंज्योतिरात्मानारायणः परः ।
यच्च किंचिज्जगत्यस्मिन्ददृश्यते श्रूयतेपि वा ।। ६६ ।।
अंतर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।
नारायणोपनिषदायदेतेत्प्रतिपाद्यते ।। ६७ ।।
नारायणाभिधं रूपतदेव परमं मम ।
नारायणेति मन्नामयेस्मरं त्यपि संततं ।। ६८ ।।
चतुर्वर्गफलावाप्तिस्तेषां सिद्धिः पदे पदे ।
मत्स्वरूप परिज्ञाने यदि वांछा प्रजापते ।। ६९ ।।
आचार्यपादुकायुग्ममर्चयित्वा दिने दिने ।
शुश्रूषण परोभूत्वा प्राणैरर्थैर्धियापि च ।। ७० ।।
आचार्यपादकमलमाश्रित्यान्वहमादरात् ।
ब्रह्मविद्यानुसंधानं कृत्वा मम दिने दिने ।। ७१ ।।
श्रीमदष्टाक्षरीं विद्यां ममगुप्तश्रियान्वितां ।
मद्रश्मि विद्यासहितां समस्तन्या स संयुतां ।। ७२ ।।
आचार्यानुग्रहात्प्राप्य तस्य शुश्रूषणे रतः ।
प्रजप्त्वा सततं भक्त्या मम सायुज्य मश्नुते ।। ७३ ।।
न व्रतैर्नतपोभिर्वानवेदैर्नागमैरपि ।
मम विद्यानुसंधेयास्वाचार्यानुग्रहंविना ।। ७४ ।।
प्. १२अ)
बहुजन्मार्जितैः पुण्यैर्मयिभक्तिः प्रजापति ।
मद्विद्या जपहोमादि कर्मानुष्ठानमुत्तमं ।। ७५ ।।
बहुजन्मार्जितैः पुण्यराशिभिः प्राप्यते फलं ।
तत्राप्याचार्य पादाब्ज शुश्रूषणमनुत्तमं ।। ७६ ।।
लभ्यते यदि गौरीश प्रत्यहं विप्रपुंगवैः ।
एकेन जन्मनोवासौ मद्रूपं सोष्णुते ध्रुवं ।। ७७ ।।
इति शंकरसर्वज्ञ किंचिदुक्तं मया तव ।
मत्स्वरूपरिज्ञाने किं भूयः श्रोतुमिच्छासि ।। ७८ ।।
इति श्रीमदनुत्तरब्रह्मतत्वरहस्ये दाशरथीये तंत्रे वेदार्थसंग्रहे
चतुर्थोध्यायः ।।
प्. १२अ)