सामग्री पर जाएँ

दाशरथीयतन्त्रम्/अध्यायः ०१

विकिस्रोतः तः
दाशरथीयतन्त्रम्
अध्यायः ०१
[[लेखकः :|]]
अध्यायः ०२ →

प्. १)

रीशीलवृत्तफलं श्रुतं ।। १५ ।।

क्वच्चिद्धो गुरु शुश्रूषा स फलामुनि पुंगवाः ।
कच्चिद्वः स फलंतपूंतपश्चांद्रापणादिकं ।। १६ ।।

भवद्भिरपि सर्वज्ञैः किं प्रष्टव्योस्म्यहं द्विजाः ।
यथामति प्रवक्ष्यामि वदं तु मुनिपुंगवाः ।। १७ ।।

शतानंदादयो विप्राः इत्थमुक्तास्तपोधनाः ।
कृतांजलि पुरा ऊर्चुर्नत्त्वा साष्टांअगमादरात् ।। १८ ।।

ऋषय ऊचुः

भगवन्योगीनां श्रेष्ठं सर्वशास्त्रविशारदः ।
कथं ब्रह्मविजिज्ञास्यं कीदृशैर्नियत व्रतैः ।। १९ ।।

कथं स्याद्ब्रह्मतादात्म्यं कालमृत्योश्चवंचनं कथं ।
कालस्वरूपं दादिभिर्द्विजैः विभांडकसुतः प्राहनामृषीन्शंसितव्रतान् ।। २२ ।।

 ऋष्यशृंग उवाश्च

यथामति प्रवक्ष्यामि भवद्भिः पृष्टमादरात् ।
श्रोतव्यं योगिनां श्रेष्ठेः सावधानैः समाहितैः ।। २३ ।।

नराणामक्षि यक्ष्मामुन्मीलननिमीलनात् ।
निमेषकाल इत्युक्तः काष्ठातेत्रिंशदीदिताः ।। २३ ।।

त्रिंशत्काष्ठाः कलाः प्रोक्ताताः षष्टिर्नाडिकाः स्मृताः ।
गडीरूपं मुहूर्तः स्याद्यामस्तेषां चतुष्टयं ।। २४ ।।

नाड्यस्त्रिंशदहः प्रोक्तं त्रिंशन्नाड्योनिशास्मृता ।
षष्टिनाड्यो दिनं प्रोक्त महोरात्रं तदेवहि ।। २६ ।।

तैः पंचदशभिः यक्षाज्ञत् द्वयं मास उच्यते ।
पक्षे पक्षे पौर्णमासी पुण्यातिथिरमापि वा ।। २७ ।।

यामद्वयं ऋतुः प्रोक्तमयनं स्याद् तु त्रयं ।
मासैर्द्वादशभिर्विप्राः संवत्सर इति स्मृतः ।। २८ ।।

  • (?) नुषोवत्सरो दिव्यं दिनमेकमुदीरितं ।

चत्वार्याहुः सहस्राणि वत्सराणां कृतं युगे ।। २९ ।।

तस्य तावच्छ्रती संध्या देवमानेन ***(?) ।

    • (?) वर्ष सहस्राणि त्रेतायुगमिति स्मृतं ।। ३० ।।


तस्य तावच्छती संध्या देवमानेन गण्यते ।
सहस्रद्वयमन्दानां द्वापरं युगमीरितं ।। ३१ ।।

तस्य तावच्छती सं***(?) मानेन गण्यते ।। ३२ ।।

प्. २अ)

तिथयुगवत्सराणां सहस्रमिति कीर्त्यत ।
तस्य तावच्छतीसंख्या देवमानेन गण्यते ।।

इत्थं द्वादशसाहस्रम**(?)देवयुगं स्मृतं ।। ३३ ।।

मन्वंतरं तु दिव्यानां युगानामेकसप्ततिः ।
चतुर्युगानां साहस्रं ब्रह्मणो हतदीरितं ।। ३४ ।।

तद्व*****(?)स्रं निशा ब्रह्मण ईरिता ।
चतुर्युगानां साहस्रं द्वयं ब्राह्मं दिनं स्मृतं ।। ३५ ।।

पूर्वोक्तविधिना पक्षमासादि परिकल्पना ।
चतुर्वक्तस्य तस्यामसर्गकृत्परमेष्टिनः ।। ३६ ।।

तस्यापि स्वेनमानेन शतायुः कीर्तितं वुधैः ।
ब्रह्मणः परमायुः स्याद्दिवसं विष्णुरुद्रवोः ।। ३७ ।।

ईश्वरस्य विभोः साक्षान्नारायणमयस्य तु ।
नैवाहस्तस्य न निशा नित्यस्य परमात्मनः ।। ३७ ।।

कालः सृजति भूतानि कालः पालयति प्रजाः ।
कालः संहरते विश्वं कालाधीतमिदं जगत् ।। ३८ ।।

लयंगता असंख्याता ब्रह्माणो हरयोपि च ।
लयंगता असंख्याता रुद्रा अपि तपोधनाः ।। ३९ ।।

संख्यातुं नैव शक्यः स्याच्छक्रादीनां हि संक्षयः ।
नराणामपि तिर्यश्चाका कथापिप्र पुंगवाः ।। ४० ।।

तस्याकालं दुराधर्षं सृष्टिसंहारकारकं ।
भक्षयंतं जगत्सर्वं सृजंतमखिलं जगत् ।। ४१ ।।

पालयंतं जगत्सर्वं शक्तोजेतुं न कश्चन ।
ब्रह्मतत्वमविज्ञाय प्रजया कर्मणापि वा ।। ४२ ।।

न धनेन न दानैर्वाजेतुं कालो हि शक्यते ।
अश्रुत्वाचार्य शुश्रूषामविज्ञाय चिदात्मकं ।। ४३ ।।

ब्रह्मतत्वं महद्गुप्तं कालोजेतुं न शक्यते ।
कालस्यापि पितासाक्षाद्ब्रह्मरूपी श्रियः पतिः ।। ४४ ।।

नारायणो महायोगी सत्यानंदो चिदात्मकः ।
परस्य ब्रह्मतत्वं साक्षान्नारायणात्मनः ।। ४५ ।।

संसारसागरान्मुनि रविज्ञातुर्नविद्यते ।
आचर्यस्य कृपा मूर्तेः साक्षान्नारायणात्मनः ।। ४६ ।।

प्. २ब्)

विजिज्ञास्यं ब्रह्मतत्वं वहुकालेन सेवया ।
तस्नानैर्न तपोभिर्वा न भस्मस्नानतोपि वा ।। ४७ ।।

ना हिंसयामुक्तिस्याद्ब्रह्मानंदसुखात्मिका ।
गंगादि सर्वतीर्तेषु मत्स्याश्च मकरादयः ।। ४८ ।।

मज्जमाना हि तिष्ठंति किं मुक्तास्ते तपोधनाः ।
वकामौनेन तिष्ठंति मीना उदकपायिनः ।। ४९ ।।

व्रतैरनशनाद्यैस्ते मुक्ताः किन्तु तपोधनाः ।
रासभात्र्याधिचश्चानो भस्माहषितविग्रहाः ।। ५० ।।

सततं मुक्तिभाजः किंश्चाघास्ते ब्राह्मणोत्तमाः ।
संचरंतो मृगानित्यमहिंसाधर्म तत्पराः ।। ५१ ।।

मृगाः किं मुक्तिभाजः स्युर्वदं तु मुनिपुम्गवाः ।
तस्मादाचार्य शुश्रूषां कृत्वा नित्यं चिरं द्विजाः ।। ५२ ।।

विज्ञाया ब्रह्मणस्तत्वं ब्रह्मानंदमवाप्नुयात् परस्य ब्रमणो
भीत्यावानां वाति हसं ततं ।। ५३ ।।

उदेति भानुस्ताद्भीत्या ज्वलत्यग्निर्भयाततः ।
तदाज्ञषैवकालोपि विश्वं सृजति हंति च ।। ५४ ।।

परस्य ब्रह्मणस्त समाचार्यात् करुणामयात् ।
विज्ञाय वंचयित्वा सौकालं सर्वभयासूरां ।। ५५ ।।

ब्रह्मानंदमयीं मुक्तिं प्राप्नोत्येव तपोधनाः ।
सैषानंदस्य मीमांसा वक्ष्यते विप्र पुंगवाः ।। ५६ ।।

युवासकलविद्यानां पारगोवलं संयुतः ।
अरोगी पक्वभुग्नित्यं सर्वधर्मपरायणः ।। ५७ ।।

साध्वीपत्यनुकूला च पुत्र**(?) समृद्धिमान् ।
सार्वभौमत्वमासाद्यमानुषानंदमश्नुते ।। ५८ ।।

मानुषानंदशतकं यत्प्रोक्तं शास्त्रवेदिभिः ।
एकोमत्**(?) गंधर्वानंदमुक्तः श्रुतौ स्मृतौ ।। ५९ ।।

आचार्य कृपया ब्रह्मविदोप्ये तत्सुखं द्विजाः ।
शतं मनुष्यगंधर्वानंदानांसतं द्विजप्त ।। ६० ।।

    • (?) को देवगंधर्वानंदो वेदेषु पद्यते ।

तदानंदशतं दिव्यं पितॄणां मुनिपुंगवाः ।। ६१ ।।

आनंद एको विप्रस्य ब्रह्मतत्वविदोपि च ।
आनंदानांशतं प्रोक्त **(?) आजानजामरे ।। ६२ ।।

प्. ३अ)

आजानजामरानंदशतं कर्म सुरेष्वपि ।
आनंद एकः संप्रोक्तस्ततो मुख्यसुरेष्वपि ।। ६३ ।।

तदानंदशतं **(?)प्रानंदः प्रोच्यते बुधैः ।
तदानंदशतं शक्रस्यैक आनंद उच्यते ।। ६४ ।।

गुरोस्तदानंद शतमेक आनंद ईरितः ।
गुर्वानंद*****(?)वस्यानंद उच्यते ।। ६५ ।।

तदानंदशतं त्वेक आनंदः स्यात् प्रजायतेः ।
हिरण्यगर्भानंदानां शतं विष्णोः शिवस्य च ।। ६६ ।।

विराजपुरुषस्यैक आनंदः समुदाहृतः ।
तदानंदशतं साक्षान्नित्यस्य परमात्मनः ।। ६७ ।।

ब्रह्मानंदाभिस्त्वेक आनंदस्या छ्रियःपतेः ।
नारायणस्य नित्यस्य ब्रह्मणः परमात्मनः ।। ६८ ।।

ब्रह्मानंदाभिधं सौख्यं मनोवाचामगोचरं ।
आचार्यपादशुश्रूषा निरतस्य यतात्मनः ।। ६९ ।।

ब्रह्मतत्वविदः साक्षात्कृतनारायणात्मनः ।
जीवन्मुक्तस्य तस्यापि ब्रह्मानंद उदाहृतः ।। ७१ ।।

ब्रह्मानंदाभिधं सौख्यं वेदांतेष्वपि कीर्तितं ।
कोटिजन्म तपोभिर्वा महादानायुतैरपि ।। ७२ ।।

अश्वमेध सहस्रैर्वा लभ्यतेन तपोधनाः ।
तस्माद्ब्रह्मविजिज्ञासा कार्याचार्य मुखांवुजान् ।। ७३ ।।

कालमृत्युमपि प्राप्तमसौ जपति संततं ।
इति काल जपोपायः कथितो ब्रह्मवित्तमाः ।। ७४ ।।

प्रष्टव्यं किमतो विप्रावुवंत्वं सुगोपितं ।
इति दाशरथीये स्मिन् सर्ववेदार्थसंग्रहे ।। ७५ ।।

अथमोध्याय उक्तोयं तंत्रेनुत्तरनामके ।

इति श्रीमदनुत्तरब्रह्मतत्वरहस्ये दाशरथीये वेदार्थसारसङ्ग्रहे तंत्रे
प्रथमोध्यायः ।।