सामग्री पर जाएँ

दर्शनोपनिषत्

विकिस्रोतः तः
दर्शनोपनिषत्
[[लेखकः :|]]

दर्शनोपनिषत्

आप्यायन्तु- इति शान्तिः

प्रथम खण्डः

जीवन्मुक्तिसाधनम् अष्टाङ्गयोगः

दत्तात्रेयो महायोगी भगवान् भूतभावनः ।
चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः ।। १ ।।

तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् ।
पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ।। २ ।।

भगवन् ब्रूउहि मे योगं साष्टाङ्गं सप्रपञ्चकम् ।
येन विज्ञानमात्रेण जीवन्मुक्तो भवाम्यहम् ।। ३ ।।

सांकृते शृणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् ।

विवरणम्

यमाद्यष्टाङ्गयोगेद्धब्रह्ममात्रप्रबोधतः ।
योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ।।

इह खलु समावेदप्रविभक्तेयं दर्शनोपनिषत्
निर्विशेषब्रह्मज्ञानसहकृतयमाद्यष्टाङ्गयोगप्रकटनव्यग्रा
निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना विजृम्भते । अस्याः स्वल्पग्रन्थतो
विवरणमारभ्यते ।
सांकृतिदत्तात्रेयप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था ।
आख्यायिकामवतारयति- दत्तात्रेय इति ।। १-२ ।। किमिति ? भगवन्
इत्यादि ।। ३ ।। सांकृतिना एवं पृष्टो भगवानाह- सांकृत इति ।।

प्. १५३) अष्टाङ्गोद्देशः

यमश्च नियमश्चैव तथैवासनमेव च ।। ४ ।।

प्राणायामस्तथा ब्रह्मन् प्रत्याहारस्ततः परम् ।
धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ।। ५ ।।

अष्टाङ्गानि कानीयत आह- यमश्चेति ।। ४-५ ।।

दशविधयमः

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ।। ६ ।।

दशधा भिन्नयमावयवमाह- अहिंसेति ।। ६ ।।

अहिंसा

वेदोक्तेन प्रकारेण विना सत्यं तपोधन ।
कायेन मनसा वाचा हिंसा हिंसा न चान्यथा ।। ७ ।।

आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति या मतिः ।
सा चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः ।। ८ ।।

उपायोपेयभेदेन अहिंसादिदशयमलक्षणमाह- वेदेति ।
वेदोक्तयज्ञीयपश्चादिहिंसा अहिंसैवेत्यर्थः ।। ७ ।। यद्वा-
आत्मेत्यादि ।। ८ ।।

सत्यम्

चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर ।
तस्यैवोक्तिर्भवेत् सत्यं विप्र तन्नान्यथा भवेत् ।। ९ ।।

प्. १५४) सर्वं सत्यं वरं ब्रह्म न चान्यादिति या मतिः ।
तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ।। १० ।।

उपायोपेयसत्यलक्षणं तु- चक्षुरित्यादि ।। ९-२५ ।।

अस्तेयम्

अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च ।
मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः ।। ११ ।।

आत्मन्यनात्मभावेन व्यवहारविवर्जितम् ।
यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामुने ।। १२ ।।

ब्रह्मचर्यम्

कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् ।
ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते ।। १३ ।।

ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परंतप ।

दया

स्वात्मवत् सर्वभूतेषु कायेन मनसा गिरा ।। १४ ।।

अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ।

आर्जवम्

पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि संततम् ।। १५ ।।

एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ।

प्. १५५) क्षमा

कायेन मनसा वाचा शत्रुभिः परिपीडिते ।। १६ ।।

बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुंगव ।

धृतिः

वेदावेद विनिर्मोक्षः संसारस्य न चान्यथा ।। १७ ।।

इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः ।
अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः ।। १८ ।।

मिताहारः

अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् ।
तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ।। १९ ।।

शौचम्

स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने ।
यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः ।। २० ।।

अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ।
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।। २१ ।।

उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ।
ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ।। २२ ।।

स मूढः काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत ।

प्. १५६) ब्रह्मात्मवेदनविधिः

ज्ञानमृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।। २३ ।।

न चास्ति किंचित् कर्तव्यमस्ति चेन्न स तत्त्ववित् ।
लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ।। २४ ।।

तस्मात् सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः ।
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ।। २५ ।।

इति प्रथमः खण्डः

द्वितीयः खण्डः

दशविधनियमः

तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ।। १ ।।

एते च नियमाः प्रोक्तास्तान् वक्ष्यामि क्रमाछृणु ।

दशधा भिन्ननियमावयवानाह- तप इति ।। १ ।।

तपः

वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः ।। २ ।।

शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ।
को वा मोक्षः कथं केन संसारं प्रतिपन्नवान् ।। ३ ।।

इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः ।

उपायोपेयभेदेन तप आदिनियमलक्षणमाह- वेदेति ।। २-१०
।।

प्. १५७) संतोषः

यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ।। ४ ।।

तत् संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ।
ब्रह्मावलोकपर्यन्ताद्विरक्त्या यल्लभेत् प्रियम् ।। ५ ।।

सर्वत्र विगतस्नेहः संतोषं परमं विदुः ।

आस्तिक्यम्

श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ।। ६ ।।

दानम्

न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने ।
अन्यद्वा यत् प्रदीयन्ते तद्दानं प्रोच्यते मया ।। ७ ।।

ईश्वरपूजनम्

रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ।। ८ ।।

सिद्धान्तश्रवणम्

सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् ।
प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधः ।। ९ ।।

प्. १५८) ह्रीः

वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ।
तस्मिन् भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता ।। १० ।।

मतिः

वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ।
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः ।। ११ ।।

वेदविरुद्धमार्गः गुरुणा उपदिष्टोऽपि तत्र सम्बन्धवर्जितः सन्
वेदोक्तानुष्ठानमेव कुर्यादित्यर्थः ।। ११- १६ ।।

जपः

वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ।
कल्पसूत्रे यथा वेदे धर्मशास्त्रे पुराणके ।। १२ ।।

इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ।
जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ।। १३ ।।

वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ।
मानसो मननध्यानभेदात् द्वैविध्यमाश्रितः ।। १४ ।।

उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।
मानसश्च तथोपांशोः सहस्रगुणमुच्यते ।। १५ ।।

प्. १५९) उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् ।
नीचैः श्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ।। १६ ।।

इति द्वितीयः खण्डः

तृतीयः खण्डः

आसनानि नव

स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा ।
भद्रं मुक्तासनं चैव मयूरासनमेव च ।। १ ।।

सुखासनसमाख्यं च नवमं मुनिपुंगव ।

यमनियमलक्षणमुक्त्वा आसनलक्षणमाह- स्वस्तिकमिति ।।
१-१४ ।।

स्वस्तिकम्

जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ।। २ ।।

समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् ।

गोमुखम्

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।। ३ ।।

दक्षिणेऽपि तथा सव्यं गोमुखं तत् प्रचक्षते ।

पद्मम्

अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ।। ४ ।।

ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् ।
पद्मासनं भवेत् प्राञ सर्वरोगभयापहम् ।। ५ ।।

प्. १६०) वीरासनम्

गुल्फौ च वृषणस्याधः सीविन्याः पार्श्वयोः क्षिपेत् ।
दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरत् ।। ६-१ ।।

हस्तौ जानौ समास्थाप्य स्वाङ्गुलींश्च प्रसार्य च ।
व्यक्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ।। ६-२ ।।

सिंहासनं भवेदेतत् पूजितं योगिभिः सदा ।। ६-३ ।।

भद्रासनम्

गुल्फौ तु वृषणस्याधः सीविन्याः पार्श्वयोः क्षिपेत् ।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।। ७ ।।

भद्रासनं भवेदेतद्विषरोगविनाशनम् ।

मुक्तासनम्

निपीड्य सीविनीं सूक्ष्मां दक्षिणेतरगुल्फतः ।। ८ ।।

वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ।
मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि ।। ९ ।।

गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ।

प्. १६१) मयूरासनम्

कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः ।। १० ।।

भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ।
समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः ।। ११ ।।

मयूरासनमेतत् स्यात् सर्वपापप्रणासनम् ।

सुखासनम्

येन केन प्रकारेण सुखं धैर्यं च जायते ।। १२ ।।

तत् सुखासनमित्युक्तमशक्तस्तत् समाश्रयेत् ।

आसनजयफलम्

आसनं विजितं येन जितं तेन जगत्त्रयम् ।। १३ ।।

अनेन विधिना युक्तः प्राणायामं सदा कुरु ।।

इति तृतीयः खण्डः

चतुर्थः खण्डः

देहप्रमाणम्

शरीरं तावदेव स्यात् षण्णवत्यङ्गुलात्मकम् ।
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ।। १ ।।

त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते ।
गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ।। २ ।।

प्. १६२) देहमध्यं विजानीहि मनुजानां तु सांकृते ।
कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ।। ३ ।।

चतुरङ्गुलमायामविस्तारं मुनिपुंगव ।
कुक्कुटाण्डवदाकारं भूषितं तु त्वगादिभिः ।। ४ ।।

तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुंगव ।

प्राणायामस्य नाडीपुञ्जदेहप्राणनिर्वर्त्यत्वेन
देहतत्कार्येयत्तापरिज्ञानं विना प्राणायामसिद्धिः न स्यादिति
देहनाडीप्राणेयत्तां प्रपञ्चयति- शरीरमिति । शिखिस्थानम्
अग्निस्थानम् ।। १-१० ।।

नाडीपरिगणनम्

कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता ।। ५ ।।

तिष्ठन्ति परितस्तस्य नाडयो मुनिपुंगव ।
द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ।। ६ ।।

सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती ।
पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी ।। ७ ।।

अलम्बुसा कुहूश्चैव विश्वोदारा पयस्विनी ।
शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ।। ८ ।।

आसां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा ।
ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ।। ९ ।।

पृष्ठमध्यस्थितेनास्थ्ना विणादण्डेन सुव्रत ।
सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ।। १० ।।

प्. १६३) कुण्डल्याः स्थानं स्वरूपं च

नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने ।
अष्टप्रकृतिरूपा स कुण्डली मुनिसत्तमः ।। ११ ।।

यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः ।
परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता ।। १२ ।।

स्वमुखेन सदावेष्ट्य ब्रह्मरन्ध्रमुखं मुने ।

कुण्डलिनीस्थानं तत्स्वरूपं चाह- नाभीति ।
पृथिव्यप्तेजोवायवाकाशमनोबुद्ध्यहंकाररूपिण्यः अष्टौ
प्रकृतयः ।। ११- १२ ।।

नाडीस्थानानि

सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता ।। १३ ।।

सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते ।
गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपूर्वयोः ।। १४ ।।

पूषा यशस्विनी चैव पिङ्गलापृष्ठपूर्वयोः ।
कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरा स्थिता ।। १५ ।।

यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता ।
पूषायाश्च सरस्वत्या मध्ये प्रोक्ता यशस्विनी ।। १६ ।।

गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी ।
अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ।। १७ ।।

पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः ।
अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते ।। १८ ।।

प्. १६४) इडा तु सव्यनासान्तं संस्थिता मुनिपुंगव ।
यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते ।। १९ ।।

पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः ।
पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः ।। २० ।।

सरस्वती तथा चोर्ध्वं गता जिह्वा तथा मुने ।
हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ।। २१ ।।

शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते ।
गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः ।। २२ ।।

विश्वोदराभिधा नाडी कन्धमध्ये व्यवस्थिता ।

सुषुम्नानाडीपरितः प्रधाननाड्यः तिष्ठन्तीत्याह-
सुषुम्नाया इति ।। १३-२२ ।।

नाडीषु वायुसंचारः

प्राणोऽपानस्तथा व्यानः समानोदान एव च ।। २३ ।।

नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ।
एते नाडीषु सर्वासु चरन्ति दश वायवः ।। २४ ।।

तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत ।
प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने ।। २५ ।।

आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि ।
प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ।। २६ ।।

प्. १६५) अपानो वर्तते नित्यं गुदमध्योरुजानुषु ।
उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ।। २७ ।।

व्यानः श्रोत्राक्षिमध्ये च ककुद्भ्यां गुल्फयोरपि ।
प्राणस्थाने गले चैव वर्तते मुनिपुंगव ।। २८ ।।

उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि ।
समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ।। २९ ।।

नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः ।

एवमुक्तासु नाडीषु प्राणादयश्चरन्तीत्याह- प्राण इति ।। २३##-

वायुव्यापाराः

निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ।। ३० ।।

अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् ।
समानः सर्वसामीप्यं करोति मुनिपुंगव ।। ३१ ।।

उदान ऊर्ध्वगमनं करोत्येव न संशयः ।
व्यानो विवादकृत् प्रोक्तो मुने वेदान्तवेदिभिः ।। ३२ ।।

उद्गारादिगुणः प्रोक्तो नागाख्यस्य महामुने ।
धनंजयस्य शोभादि कर्म प्रोक्तं हि सांकृते ।। ३३ ।।

निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च ।
देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ।। ३४ ।।

प्राणादिदशवायुव्यापारानाह- निःश्वासेति ।। ३०-३४ ।।

प्. १६६) नाडीदेवताः

सुषुम्नायाः शिवो देव इडया देवता हरिः ।
पिङ्गलाया विरिच्चः स्यात् सरस्वत्या विराण्मुने ।। ३५ ।।

पूषाधिदेवता प्रोक्तो वरुणा वायुदेवता ।
हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ।। ३६ ।।

यशस्विन्या मुनिश्रेष्ठ भगवान् भास्करस्तथा ।
अलम्बुसाया अबात्मा वरुणः परिकीर्तितः ।। ३७ ।।

कुहो क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता ।
शङ्खिन्याश्चन्द्रमास्तद्वत् पयस्विन्याः प्रजापतिः ।। ३८ ।।

विश्वोदराभिधायास्तु भगवान् पावकः पतिः ।

सुषुम्नादिचतुर्दशनाडीदेवताभेदमाह- सुषुम्नाया इति ।।
३५-३८ ।।

नाडीषु चन्द्रसूर्यसंचारः

इडायां चन्द्रमा नित्यं चरत्येव महामुने ।। ३९ ।।

पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर ।

सदेडापिङ्गलयोश्चन्द्रसूर्यौ चरत इत्याह- इडायामिति ।। ३९ ।।

नाडीषु संवत्सरात्मकप्राणसूर्यसंचारः

पिङ्गलाया इडायां तु वायोः संक्रमणं तु यत् ।। ४० ।।

तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः ।
इडायाः पिङ्गलायां तु प्राणसंक्रमणं मुने ।। ४१ ।।

प्. १६७) दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः ।
इडापिङ्गलयोः संधिं यदा प्राणः समागतः ।। ४२ ।।

अमावस्या तदा प्रोक्ता देहे देहभृतां वर ।
मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम ।। ४३ ।।

तदाद्यं विषुवं प्रोक्तं तापसैस्तापसोत्तम ।
प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ।। ४४ ।।

तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः ।
निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ।। ४५ ।।

इडया कुण्डलीस्थानं यदा प्राणः समागतः ।
सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर ।। ४६ ।।

यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।
तदा तदा भवेत् सूर्यग्रहणं मुनिपुङ्गव ।। ४७ ।।

संवत्सरात्मकप्राणसूर्यस्य नाडीराशिसंचारतो
दिनपक्षमासायनादिग्रहणादिः भवतीत्याह- पिङ्गलाया इति ।। ४०##-

अन्तस्तीर्थप्राशस्त्यम्

श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके ।
वाराणसीं महाप्राज्ञ भ्रूवोर्घ्राणस्य मध्यमे ।। ४८ ।।

कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे ।
चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ।। ४९ ।।

प्. १६८) आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् ।
करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते ।। ५० ।।

भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु ।
अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ।। ५१ ।।

तीर्थानि तोयपूर्णानि देवान् काष्ठादिनिर्मितान् ।
योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारणात् ।। ५२ ।।

बहिस्तीर्थात् परं तीर्थमन्तस्तीर्थं महामुने ।
आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् ।। ५३ ।।

चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति ।
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ।। ५४ ।।

विषुवायनकालेषु ग्रहणे चान्तरे सदा ।
वारणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ।। ५५ ।।

ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् ।
भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ।। ५६ ।।

मस्तकाद्याधारान्तं श्रीशैलादिपुण्यस्थलं भवतीत्याह-
श्रीपर्वतमिति ।। ४८-४९ ।। एवं भावनामयमात्मतीर्थं तदेव
मुमुक्षुभिः सेव्यम् इति स्तौति- आत्मतीर्थमिति । काचं- काचमणिम्
।। ५० ।। देहादिनिर्वर्त्यसर्वकर्मसु तीर्थबुद्धिः गरीयसीत्यर्थः । तत्र
दृष्टान्तस्तु- अन्यथेति ।। ५१ ।। अत एवं तीर्थानीति ।। ५२ ।। तदेव
आत्मतीर्थम् ।। ५३ ।। बाह्यतीर्थस्नानेन कोऽपि न शुध्यतीति
सदृष्टान्तमाह- चित्तमिति ।। ५४ ।। न तथा भावतीर्थस्नानेनेत्याह##-

प्. १६९) भ्रूमध्यादिस्थानेषु स्वात्मलक्ष्यानुसंधानतः
शुद्धात्मैव भवतीत्यर्थः ।। ५५ ।।
एवात्मतीर्थस्नानानधिकारो[री] तीर्थपादचरणोदकस्पर्शतः
शुद्धो भवतीत्याह- ज्ञानेति ।। ५६ ।।

आत्मनि शिवदृष्टिः

तीर्थे दाने जपे यज्ञे काष्ठे पाषाणके सदा ।
शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते ।। ५७ ।।

अन्तःस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते ।
हस्तस्थं पिण्डमुत्सृज्य लिहेत् कूर्परमात्मनः ।। ५८ ।।

शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ।
अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ।। ५९ ।।

स्वाज्ञाः स्वातिरिक्तात्मानं द्रष्टुमिच्छन्ति, स्वज्ञाः
स्वामात्मानं पश्यन्तीत्याह- तीर्थ इति ।। ५७-५८ ।। अत एव शिवमिति ।
अयोगिजनानुकम्पया प्रतिमापि विकल्पितेत्याह- अज्ञानामिति ।। ५९ ।।

ब्रह्मदर्शनेन ब्रह्मभावः

अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् ।
प्रज्ञानघनमानन्दं यः पश्यति स पश्यति ।। ६० ।।

नाडीपुञ्जं सदासारं नरभावं महामुने ।
समुत्सृज्यात्मनात्मानमहमित्यवधारय ।। ६१ ।।

अशरीरं शरीरेषु महान्तं विभुमीश्वरम् ।
आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ।। ६२ ।।

प्. १७०) विभेदजनकेऽज्ञाने नष्टे ज्ञानबलात्मुने ।
आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ।। ६३ ।।

निर्विशेषं ब्रह्म यः पश्यति स तदेव भवतीत्याह-
अपूर्वमिति । यस्मात् पूर्वं कारणं परं कार्यं वा न विद्यते तत्
कार्यकारणकलनाशून्यं ब्रह्म स्वमात्रमिति यः पश्यति स
तन्मात्रमवशिष्यत इत्यर्थः ।। ६० ।। यावच्चित्तशुद्धिः तावत्
नरभावनया योगं युञ्जीत, ततः शुद्धावुदितायां नरभावं
विहाय ब्रह्मभावेन वर्तस्वेत्याह- नाडीति ।। ६१ ।। यः
कोऽप्येवमात्मानं जानाति स कृतकृत्यो भवतीत्याह- अशरीरमिति ।।
६२ ।। स्वज्ञानजभेददृष्ट्यपाये निर्भेदं ब्रह्म प्रसीदतीत्याह-
विभेदेति । वस्तुतः कालत्रयेऽप्यसंभवभेदः किं करिष्यति ? स्वस्य
लब्धात्मकत्वान्निर्भेदं ब्रह्मावशिष्यते इत्यर्थः ।। ६३ ।।

इति चतुर्थःखण्डः

पञ्चमः खण्डः

नाडीशोधनम्

सम्यक्कथय मे ब्रह्मन् नाडीशुद्धिं समासतः ।
यया शुद्ध्या सदा ध्यायन् जीवन्मुक्तो भवाम्यहम् ।। १ ।।

सांकृते शृणु वक्ष्यामि नाडीशुद्धिं समासतः ।
विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ।। २ ।।

यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः ।
स्वात्ममन्यवस्थितः सम्यक् ज्ञानिभिश्च सुशिक्षितः ।। ३ ।।

प्. १७१) पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
मनोरमे शुचौ देशे मठं कृत्वा समाहितः ।। ४ ।।

आरभ्य चासनं पश्चात् प्राङ्मुखोदङ्मुखोऽपि वा ।
समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ।। ५ ।।

नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् ।
स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ।। ६ ।।

इडया प्राणमाकृष्य पूरयित्वोदरस्थितम् ।
ततोऽग्निं देहमध्यस्थं ध्यायन् ज्वालावलीयुतम् ।। ७ ।।

बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् ।
पश्चाविरेचयेत् सम्यक् प्राणं पिङ्गलया बुधः ।। ८ ।।

पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् ।
पुनर्विरेचयेद्धीमानिडयैव शनैः शनैः ।। ९ ।।

त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च ।
षट्कृत्वो विचरेन्नित्यं रहस्येवं त्रिसंधिषु ।। १० ।।

नरभावभावितनाडीशुद्धिबुभुत्सया पृच्छतीत्याह-
सम्यगिति ।। १ ।। प्रश्नोत्तरं भगवानाह- सांकृत इति ।।
कस्तत्प्रकारः इत्यत्र- विध्युक्तेति ।। २-५ ।।
स्रवदमृतचन्द्रबिम्बं नासाग्रे अवलोकयन् योगं समारभेदित्यर्थः
।। ६-७ ।। रामिति अग्निबीजं ।। ८-९ ।। प्रतिदिनं त्रिचतुर्वारम् ।। १०-१४
।।

प्. १७२) नाडीशुद्धिचिह्नानि

नाडीशुद्धिमवाप्नोति पृथक्चिह्नोपलक्षितः ।
शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ।। ११ ।।

नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् ।
यावदेतानि संपश्येत् तावदेवं समाचरेत् ।। १२ ।।

स्वात्मशुद्धिः

अथवैतत् परित्यज्य स्वात्मशुद्धिं समाचरेत् ।
आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ।। १३ ।।

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो विभात्ययम् ।
अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतोयतः ।
स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ।। १४ ।।

इति पञ्चमः खण्डः

षष्ठः खण्डः

प्राणायामलक्षणम्

प्राणायामक्रमं वक्ष्ये सांकृते शृणु सादरम् ।
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ।। १ ।।

वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः ।
स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ।। २ ।।

प्. १७३) इडया वायुमाकृष्य पूरयित्वोदरस्थितम् ।
शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ।। ३ ।।

पूरितं धारयेत् पश्चाच्चतुःषष्ट्या तु मात्रया ।
उकारमूर्तिमत्रापि संस्मरन् प्रणवं जपेत् ।। ४ ।।

यावद्वा शक्यते तावद्धारयेज्जपतत्परः ।
पूरितं रेचयेत् पश्चान्मकारेणानिलं बुधः ।। ५ ।।

शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः ।
प्राणायामो भवेदेष ततश्चैवं समभ्यसेत् ।। ६ ।।

पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ।
अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः ।। ७ ।।

धारयेत् पूरितं विद्वान् प्रणवं संजपन् वशी ।
उकारमूर्तिं स ध्यायन् चतुःषष्ट्या तु मात्रया ।। ८ ।।

मकारं तु स्मरन् पश्चाद्रेचयेदिडयानिलम् ।
एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ।। ९ ।।

एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर ।
एवमभ्यासतो नित्यं षण्मासाद् ज्ञानवान् भवेत् ।। १० ।।

वत्सराद्ब्रह्मविद्वान् स्यात् तस्मान्नित्यं समभ्यसेत् ।
योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ।। ११ ।।

प्राणसंयमनेनैव ज्ञानमुक्तो भविष्यति ।

विशेषतः प्राणायामेति ।। १-११ ।।

प्. १७४) पूरकादिलक्षणम्

बाह्यदापूरणं वायोरुदरे पूरको हि सः ।। १२ ।।

संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ।
बहिर्विरेचनं वायोरुदराद्रेचकः स्मृतः ।। १३ ।।

पूरकादिलक्षणमाह- बाह्यादिति ।। १२-१३ ।।

प्राणायामसिद्धयः

प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ।
कम्पनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः ।। १४ ।।

पूर्वपूर्वं प्रकुर्वीत यावदुत्थानसंभवः ।
संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ।। १५ ।।

प्राणायामेन चित्तं तु शुद्धं भवति सुव्रत ।
चित्ते शुद्धे शुचिः साक्षात् प्रत्यग्ज्योतिर्व्यवस्थितः ।। १६ ।।

प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति ।
प्राणायामपरस्यास्य पुरुषस्य महात्मनः ।। १७ ।।

देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता ।
रेचकं पूरकं मुक्त्वा कुम्भकं चित्यमभ्यसेत् ।। १८ ।।

सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ।
मनोजवत्वमाप्नोति पलितादि च नश्यति ।। १९ ।।

प्. १७५) प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् ।
तस्मात् सर्वप्रयत्नेन प्राणायामान् समभ्यसेत् ।। २० ।।

स्वेदादिसिद्धिमाह- प्रस्वेदेति ।। १४-१७ ।। उत्तिष्ठते भूतलात् ।।
१८-२० ।।

रोगनिवर्तकप्राणायामभेदाः

विनियोगान् प्रवक्ष्यामि प्राणायामस्य सुव्रत ।
संध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा ।। २१ ।।

बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च ।
नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारणात् ।। २२ ।।

सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ।
नासाग्रधारणाद्वापि जितो भवति सुव्रत ।। २३ ।।

सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् ।
शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ।। २४ ।।

जिह्वया वायुमाकृष्य यः पिबेत् सततं नरः ।
श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ।। २५ ।।

जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् ।
पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ।। २६ ।।

इडया वायुमाकृष्य भ्रूवोर्मध्ये निरोधयेत् ।
यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ।। २७ ।।

प्. १७६) योगोपनिषदः

इडया वेदतत्त्वज्ञ तथा पिङ्गलयैव च ।
नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ।। २८ ।।

मासमात्रं त्रिसंध्यायां जिह्वयारोप्य मारुतम् ।
अमृतं च पिबन्नाभौ मन्दं मन्दं निरोधयेत् ।। २९ ।।

वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः ।
नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् ।। ३० ।।

नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् ।
तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् ।। ३१ ।।

शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते ।

योगसिद्ध्यन्तरायरोगनिरासकान् धारणाभेदानाह-
विनियोगानिति । ब्रह्मकाले ब्राह्मे मुहूर्ते ।। २१-३५ ।।

षण्मुखीमुद्राभ्यासादिना वायुजयः

स्वस्तिकासनमास्थाय समाहितमनास्तथा ।। ३२ ।।

अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः ।
हस्ताभ्यां धारयेत् सम्यक् करणादिकरणानि च ।। ३३ ।।

अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी ।
नासापुटावस्थान्याभ्यां प्रच्छाद्य करणानि वै ।। ३४ ।।

आनन्दाविर्भवो यावत् तावन्मूर्धनि धारयेत् ।
प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने ।। ३५ ।।

प्. १७७) ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ ।
शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा ।। ३६ ।।

शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा ।
पश्चात् प्रीतो महाप्राज्ञ साक्षादात्मोन्मुखो भवेत् ।। ३७ ।।

पुनस्तज्ज्ञाननिष्पत्तिर्योगात् संसारनिह्नुतिः ।
दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत् स्थिराम् ।। ३८ ।।

सव्येतरेण गुल्फेन पीडयेद् ब्द्धिमान् नरः ।
जान्वोरधः स्थितां संधिं स्मृत्वा देवं त्रियम्बकम् ।। ३९ ।।

विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः ।
लिङ्गनालात् समाकृष्य वायुमप्यग्रतो मुने ।। ४० ।।

प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् ।
मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ।। ४१ ।।

निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् ।
पुनः सुषुम्नया वायुर्वह्निना सह गच्छति ।। ४२ ।।

एवमभ्यसतस्तस्य जितो वायुर्भवेद् भृशम् ।

एवं षण्मुखीमुद्राभ्यासतः ब्रह्मरन्ध्रमिति ।। ३६ ।। यथा तथा
चन्द्रमण्डलगिरितः अमृतप्रवाहो जायते । तेन
भ्रूमध्यस्थज्योतिर्लिङ्गमभिषिच्य तदमृतास्वादनतो योगी विमृत्युः
भवति । ततः पश्चात् ।। ३७-३८ ।। दक्षिणेतरगुल्फाभ्यां सीविनीं
मेढ्रगुदान्तरालस्थनाडीं संपीडयन् जान्वोरधः- स्थितसंधिं
शिवलिङ्गं स्मृत्वा विनायकं वागीश्वरीं च ध्यात्वा ततो
लिङ्गनालादित्यादि ।। ३९-४२ ।।

प्. १७८) वायुजयचिह्नानि

प्रस्वेदः प्रथमः पश्चात् कम्पनं मुनिपुङ्गव ।। ४३ ।।

उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनिले ।

वायुजयसूचकाचिह्नान्याह- प्रस्वेद इति ।। ४३-४८ ।।

वायुजयेन रोगपापविनाशवैराग्यपूर्विका ज्ञानोत्पत्तिः

एवमभ्यसतस्तस्य मूलरोगो विनश्यति ।। ४४ ।।

भगंधरं च नष्टं स्यात् सर्वरोगाश्च सांकृते ।
पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ।। ४५ ।।

नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् ।
पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जायते हृदि ।। ४६ ।।

विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ।
तेन पाशापहानिः स्यात् ज्ञात्वा देवं सदाशिवम् ।। ४७ ।।

ज्ञानामृतरसो येन सकृदास्वादितो भवेत् ।
स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ।। ४८ ।।

ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः ।
अर्थस्वरूपमज्ञानात् पश्यन्त्यन्ये कुदृष्टयः ।। ४९ ।।

आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः ।
क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः ।। ५० ।।

प्. १७९) रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्शनम् ।
तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते ।। ५१ ।।

विचक्षणाः ज्ञानिनः ।। ४९-५० ।। विमर्शनं विशोधनं
विनाशनमित्यर्थः ।। ५१ ।।

इति षष्ठः खण्डः

सप्तमः खण्डः

प्रत्याहारलक्षणम्, तद्भेदाश्च

अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने ।
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।। १ ।।

बलादाहरणं तेषां प्रत्याहारः स उच्यते ।
यत् पश्यति तु तत् सर्वं ब्रह्म पश्यन् समाहितः ।। २ ।।

प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः ।
यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् ।। ३ ।।

तत् सर्वं ब्रह्मणे कुर्यात् प्रत्याहारः स उच्यते ।
अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ।। ४ ।।

काम्यानि च तथा कुर्यात् प्रत्याहारः स उच्यते ।
अथवा वायुमाकृष्य स्थानात् स्थानं निरोधयेत् ।। ५ ।।

दन्तमूलात् तथा काष्ठे कण्ठादुरसि मारुतम् ।
उरोदेशात् समाकृष्य नाभिदेशे निरोधयेत् ।। ६ ।।

प्. १८०) नाभिदेशात् समाकृष्य कुण्डल्यां तु निरोधयेत् ।
कुण्डलीदेशतो विद्वान् मूलाधारे निरोधयेत् ।। ७ ।।

अथापानात् कटिद्वन्द्वे तथोरौ च सुमध्यमे ।
तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् ।। ८ ।।

प्रत्याहारोऽयमुक्तस्तु प्रत्याहारपरैः पुरा ।

यमनियमासनप्राणायामेयत्तां प्रतिपाद्य ततः
प्रत्याहारस्वरूपमाह- अथेति ।। १-१२ ।।

प्रत्याहारफलम्

एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।। ९ ।।

सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत ।

वायुधारणात्मकप्रत्याहारः

नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ।। १० ।।

पूरयेदनिलं विद्वानापादतलमस्तकम् ।
पश्चात् पादद्वये तद्वत् मूलाधारे तथैव च ।। ११ ।।

नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके ।
भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् ।। १२ ।।

वेदान्तसंमतप्रत्याहारः

देहे त्वात्ममतिं विद्वान् समाकृष्य समाहितः ।
आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् ।। १३ ।।

प्. १८१) प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः ।
एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् ।। १४ ।।

किं बहुना- देहे इति ।। १३-१४ ।।

इति सप्तमः खण्डः

अष्टमः खण्डः

पञ्चभूतेषु धारणा

अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत ।
देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् ।। १ ।।

प्राणे बाह्यानिलं तद्वत् ज्वलने चाग्निमौदरे ।
तोयं तोयांशके भूमिं भूमिभागे महामुने ।। २ ।।

हयरावलकाराख्यं मन्त्रमुच्चारयेत् क्रमात् ।
धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ।। ३ ।।

जान्वन्तं पृथिवी ह्यंशो ह्यपां पायवन्तमुच्यते ।
हृदयांशस्तथाग्न्यंशो भ्रूमध्यान्तोऽनिलांशकः ।। ४ ।।

आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः ।
ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा ।। ५ ।।

अग्न्यंशे च महेशानमीश्वरं चानिलांशके ।
आकाशांशे माहाप्रज्ञ धारयेत्तु सदाशिवम् ।। ६ ।।

प्रत्याहारलक्षणमुक्त्वा धारणालक्षणमाह- अथेति ।। १##-

प्. १८२) आत्मनि धारणा

अथ वा तव वक्ष्यामि धारणां मुनिपुंगव ।
पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् ।। ७ ।।

धारयेद्बुद्धिमान् नित्यं सर्वपापविशुद्धये ।
ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे ।। ८ ।।

सर्वकारणमव्यक्तमनिरूप्यमचेतनम् ।
साक्षादात्मनि संपूर्णे धारयेत् प्रणवे मनः ।
इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ।। ९ ।।

पुरुषे प्रतीचि स्वातिरिक्तसर्वग्रासतया शिवं धारयेत् । यद्वा-
पुरुषे परमात्मनि सर्वशास्तारं प्रत्यञ्चं धारयेत् ।। ७-९ ।।

इत्यष्टमः खण्डः

नवमः खण्डः

सवेशेषब्रह्मध्यानम्

अथातः संप्रवाक्ष्यामि ध्यानं संसारनाशनम् ।
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् ।। १ ।।

ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं महेश्वरम् ।
सोऽहमित्यादरेणैव ध्यायेद्योगीश्वरेश्वरम् ।। २ ।।

धारणामुक्त्वा सविशेषनिर्विशेषब्रह्मध्यानमाह- अथेति ।
ऋतं कर्मफलमपरं ब्रह्म । सत्यं ज्ञानफलं प्रं ब्रह्म ।।
१-२ ।।

प्. १८३) निर्विशेषब्रह्मध्यानम्

अथ वा सत्यमीशानं ज्ञानमानन्दमद्वयम् ।
अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् ।। ३ ।।

तथास्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् ।
न रसं न च गन्धाख्यमप्रमेयमनूपमम् ।। ४ ।।

आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत ।
अहमस्मीत्यभिध्यायेद्देहातीतं विमुक्तये ।। ५ ।।

अर्थजातमतीत्य ज्ञप्तिमात्रतया वर्तते इति अत्यर्थम् ।। ३ ।।
अनाकाशमित्यादिपञ्चविशेषणतः पञ्चभूतवैलक्षण्यमुक्तं
भवति ।। ४-६ ।।

ध्यानफलम्

एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ।
क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः ।। ६ ।।

इति नवमः खण्डः

दशमः खण्डः

समाधिस्वरूपम्

अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् ।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति ।। १ ।।

नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ।
एकः सन् भिद्यते भ्रान्त्या मायया न स्वरूपतः ।। २ ।।

प्. १८४) तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ।
तथाकाशो घटाकाशो मठाकाश इतीरितः ।। ३ ।।

तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ।
नाहं देहो न च प्राणो नेन्द्रियाणि मनो न हि ।। ४ ।।

सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ।
इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते ।। ५ ।।

ध्यानप्रकारमुक्त्वा समाधिप्रकारमाह- अथेति ।। १-२ ।।
यस्मादेवं तस्मात् । यथाकाश एव घटाकाशः ।। ३-६ ।।

ब्रह्ममात्रावशेषः

सोऽहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन ।
यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ।। ६ ।।

समुद्रे लीयते तद्वत् जगन्मययनुलीयते ।
तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि ।। ७ ।।

यस्यैव परमात्मायं प्रत्यग्भूतः प्रकाशितः ।
स तु याति च पुंभावं स्वयं साक्षात् परामृतम् ।। ८ ।।

यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ।। ९ ।।

यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति ।
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ।। १० ।।

प्. १८५) यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।
एकीभूतः परेणासौ तदा भवति केवलः ।। ११ ।।

यदा पश्यति चात्मानं केवलं परमार्थतः ।
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतिः ।। १२ ।।

यस्मादेवं तस्मात् मनः मत्तः पृथक् नास्ति ।। ७ ।।
प्रत्यक्परचितोरेकत्वात् स्वयम् इत्यादि । स्वातिरिक्तप्रपञ्चे मायामात्रपदं
गते स्वयमेव निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते इति
दर्शनोपनिषत्फलितोऽर्थः ।। ८-१२ ।।

उपसंहारः

एवमुक्त्वा स भगवान् दत्तात्रेयो महामुनिः ।
सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः ।। १३ ।।

इति ।।

आख्यायिकामुपसंहरति- एवमिति । इति शब्दो
दर्शनोपनिषट्परिसमाप्त्यर्थः ।। १३ ।।

इति दशमः खण्डः

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
दर्शनोपनिषद्व्याख्या लिखिता ब्रह्ममात्रगा ।।
दर्शनोपनिषद्व्याख्याग्रन्थस्तु द्विशतं स्मृतः ।।

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे
नवतिसंख्यापूरकं दर्शनोपनिषद्विवरणं संपूरणम्

"https://sa.wikisource.org/w/index.php?title=दर्शनोपनिषत्&oldid=409205" इत्यस्माद् प्रतिप्राप्तम्