दत्तात्रेयबोधः
| दत्तात्रेयबोधः [[लेखकः :|]] |
- * * * * * त्मान स्थिरो देह जीवकः ।
बहुकालसमाभ्यासात् स्थिरो भवति शाश्वते ।।
पश्चान्नास्ति रुजो देहे वार्धक्यं नैव दृश्यते ।
सिद्धः सर्वगुणोपेतो नानाछ्नैरुपस्थितः ।
गुप्तलिङ्गी सदाकाले वर्तते वनमध्यतः ।।
सुतनुर्वितनुः क्वापि प्राणिनां प्रविभासते ।
अतर्क्यमहिमा यस्मात्तस्मात्तं नावमानयेत् ।।
अश्रद्धधानः पापात्मा नास्तिको भिन्नसंशयः ।
हेतुको बकवृत्तिश्च तेषां योगी न गोचरः ।।
तस्य लीलां न जानन्ति निन्दां कुर्वन्ति येऽधमाः ।
योगीश्वरस्य पापिष्ठाः पतन्ति नरके ध्रुवम् ।।
जनोऽपि योगिनां देहे वितर्कं नैव कारयेत् ।
क्रीडन्ति लोकमध्ये तु यथा वै प्राकृतो नरः ।।
योगीश्वरस्य योगस्य योगशास्त्रस्य पार्वति ।
निन्दां च ये प्रकुर्वन्ति राक्षसास्तेन राक्षसः ।।
पाषण्डिनः पापरताः स्वधर्मविमुखास्तुते ।
यैश्चावमानितोयोगी तेषां त्राता न भूतले ।।
आयुः कान्तिर्यशः पुण्यं नश्यन्ते तस्य सुव्रते ।
यस्य योगे मतिर्दृष्टा जायते मोक्षरूपिणी ।।
स्वधर्मप्रतिकूलोयो योगस्तस्य न रोचते ।
सोऽपि गर्भो भवेद्दुःखं भुंजते च निरन्तरम् ।। १० ।।
- * * * * * * * * * * * *
- * * * ।
- * * * * * * * * * * * *
संकृते ।।
प्. ३)
चतुराशीति लक्षे तु आसनेषूत्तमा शृणु ।
आदिनाथेन संप्रोक्तं पद्मासनमिहोच्यते ।।
उत्तानौ चरणौ कृत्वा ऊरू संस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ।।
नासाग्रे विन्यसेत्प्राज्ञः दन्तमूलञ्च जिह्वया ।
उत्तभ्य चुबुकं वक्षे संस्थाप्य पवनं शनैः ।।
इदं पद्मासनं प्रोक्त सर्वव्याधि विनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि ।।
सांकृते शृणु तत्वज्ञ योगाभ्यासक्रमं मया ।
वक्ष्यमाणं प्रयत्नेन योगानाञ्च सलक्षणैः ।।
युवा वाप्यति वृद्धो वा व्याधितो वा शनैः शनैः ।
अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः ।।
ब्रह्मणा श्रमणोवापि बौद्धो वा पतितोऽपि वा ।
कापालिको वा चार्वाकः श्रद्धया सहितः सुधीः ।।
योगाभ्यासरसोनित्यं सर्वसिद्धिमवाप्नुयात् ।
क्रिया युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् ।।
न शास्त्र पाठमात्रेण योगसिद्धिः प्रजायते ।।
मुण्डी वा मण्डधारी वा काषाय वसनोऽपि वा ।
नारायण परो वापि जटिलो भस्म लेपनः ।।
नमः शिवाय वाक्यो वा बाह्यार्चा पूजकोऽपि वा ।
स्थान द्वादश पूराक्षमाला बहु विभूषितः ।।
क्रियाहीनोऽथवा क्रूरः कथं सिद्धिमवाप्नुयात् ।
सवेष धारणं सिद्धि कारणं तञ्च तत्कथम् ।
क्रियैव कारणं सिद्धेस्सत्यमेच्च सांकृते ।।
शिश्नोदरार्थ योगश्च कथयं योगधारणः ।
अनुष्ठान विहीनास्तु वञ्चयन्ति जनाः किल ।।
प्. ४)
उच्चावचा विप्रलंभामूढा योगपरायणाः ।
शनैस्तान् तद्विधाज्ञात्वा योगाभ्यास विवर्जितान् ।।
कृत्वार्थ वञ्चने नैव वर्जयेद्वेषधारिणः ।
यदस्ति विघ्न भूतानि योगाभ्यासस्य सर्वदा ।।
वर्जयेत् तद्विशेषेण ईदृशान् सिद्धिजाः क्रियाः ।
प्रथमाभ्यासकाले तु प्रमादा विविधा मुने ।। १६ ।।
आलस्यं प्रथमो विघ्नो द्वितीयस्तु प्रकथ्यते ।
पूर्वोक्तधूर्त गोष्ठी च तृतीयोमन्त्रसाधनम् ।।
चतुर्थो धातु वादश्च कक्ष्यावादस्तु पञ्चमः ।
इत्येवं बहवो विघ्नाः मृगतृष्णा समामुने ।।
स्थिरासनस्य जायन्ते तान् ज्ञात्वा सन्त्यजेत् सुधीः ।
प्राणायामं ततः कुर्यात् पद्मासनगतः स्वयम् ।
सुशोभनं मठं कुर्यात् सूक्ष्मद्वारञ्च निर्ब्रणम् ।।
सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः ।
मत्कुणैः मशकैर्लूतैर्वर्जितञ्च दिने दिने ।।
संमृष्टं संमार्जन्या * * * * * न तन्द्रितः ।
वासितञ्च सुगन्धेन धूपितं गुग्गुलादिभिः ।
मलमूत्रादिभिर्वेगैरष्टादशभिरेव च ।।
वर्जितश्चान्न सम्पन्नं कबलादिन संयुतम् ।
नात्युन्नतं नातिनी चं परसङ्ग विवर्जितम् ।।
तस्मिन् मठे समास्तीर्य ह्यासनं निस्तरङ्गकम् ।
तत्रोपविश्यमेधावी पद्मासन समन्वितः ।
ऋजु कायः प्राञ्जलिश्च प्रणम्याभीष्ट देवताः ।।
ततो दक्षिणहस्तस्याङ्गुष्ठे नैव पिङ्गलाम् ।
निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः ।।
यथा शक्त्या निरोधेन ततः कुर्याच्च कुम्भकम् ।।
प्. ५)
पुनस्त्यजेत् पिङ्गलया शनैरेव न वेगतः ।
पुनः पिङ्गल्या पूर्य पूरयेदुदरं शनैः ।।
धारयित्वा यथा शक्तिरेचयेदिड्या शनैः ।
यथा त्यजेत् यथा पूर्य धारयेदनिरोधनः ।।
एवं प्रातः प्रकूर्वीत शक्त्या विंशति संख्यया ।
कुम्भकः सहितो नाम सर्वग्रह विवर्जितः ।।
एवमेवार्ध रात्रेऽपि पुनर्विंशति कुम्भकान् ।
कुर्वीत रेचपूराभ्यां सहितं प्रति वासरम् ।।
सहितो रेचपूराभ्यां तस्मात्सहित कुम्भकः ।
एवं मासत्रयं कुर्यान्नाडीशुद्धिस्ततो भवेत् ।।
यदा तु नाडिशुद्धिः स्यात् तदा चिह्नानि बाह्यतः ।
जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः ।।
शरीर लघुतादीप्तिर्वह्नेर्जठर वर्तिनः ।
कृशत्वं च शरीरस्य तदा जायेत निश्चितम् ।। १७ ।।
तथा भोज्यानि वक्ष्यामि क्षिप्रं योग प्रसिद्धये ।
क्षीरं घृतञ्च मिष्टान्नं मिताहारञ्च शस्यते ।।
पूर्वोक्त काले कुर्याच्च पवनाभ्यासमेव च ।
ततः परं यथेष्ठं तु शक्तिः स्याद्वायुधारणे ।।
यथेष्ठ धारणाद्वायोः सिद्ध्येत् केवल कुम्भकः ।
केवले कुम्भके सिद्धे रेचपूर विवर्जिते ।।
न तत्र दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ।
प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् ।।
ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः ।
क पा भवति देहस्य आसने तस्य योगिनः ।।
ततोऽधिकतराभ्यासाद्दुर्दरो जायते ध्रुवम् ।
यथा च ददद्रुरोद्घोषमुत्पत्योत्पत्य भूतले ।।
प्. ६)
पद्मासन स्थितो योगी तथा च गति भूतले ।
ततोधिकतराभ्यासाद्भूमिस्त्यागश्च जायते ।।
पद्मासनस्थ एवासौ भूमिमस्पृश्य वर्तते ।
निराधारो विचित्रं हि तथा सामर्थ्यमाप्नुयात् ।।
अभुक्त्वा यदि वा भुक्त्वा योगी न व्यथते तथा ।
अल्पमूत्र पुरीषः स्यात् स्वल्पनिद्रा च जायते ।
कीटका दूषिता लाला स्वेदो दुर्गन्धतानने ।।
एतानि सर्वदा तस्य न जायन्ते ततः परम् ।
ततोधिक तराभ्यासात् बलमुत्पद्यते भृशम् ।।
येन भूचरसिद्धिस्स्याद्भूचरणां जये क्षमः ।
व्याघ्रो लुलायो वन्यो वा गवयो गज एव वा ।।
सिंहो वा योगिना तेन म्रियते नात्र संशयः ।
- * र्पस्य समोरूपः तदा तस्यैव योगिनः ।।
तस्मिन् काले महाविघ्नो योगिनः स्यात् प्रमादतः ।
तद्रूप वशगानार्य कासृ?क्षन्ते तस्य सङ्गमम् ।
यदि सङ्गं करोत्येव बिन्दुस्तस्य विनश्यति ।।
आयुः क्षयो बिन्दु हानि रसामर्थ्यञ्च जायते ।
तस्मात् स्त्रीणां वर्ज्य सङ्गं कुर्यादभ्यासमादरात् ।।
योगिनोऽङ्गे सुगन्धः स्यात् सततं बिन्दुधारणात् ।
तस्मात् सर्व प्रयत्नेन बिन्दुरक्षा हि योगिनः ।
ततो रहस्युपाविष्टः प्रणवं प्लुतं मात्रया ।।
जपेत् पूर्वार्जितानाञ्च पापानां नाशहतवे ।
सर्व विघ्न हरश्चायं प्रणवस्सर्व दोषहा ।।
एवमभ्यास योगेन सिद्धिरारंभ संभवा ।
भवेत्ततो घटावस्था पवनाभ्यासतस्सदा ।।
प्राणापानो मनोवायुर्जीवात्म परमात्मनोः ।
अन्योन्यस्या विशुद्धेनैकतां घटे यतः ।
तस्माद् घटाख्यायावस्था प्रसिद्धा योगिनः स्मृता ।।
तत्र चिह्नानि यानि स्युस्तानि वक्ष्याम्यशेषतः ।
पूर्वं चत्कथिताभ्यास चतुर्थात्संपरित्यजेत् ।।
दिवा वा यदि वा रात्रौ याम मात्रं समभ्यसेत् ।
एकवारं पृ कुर्यात् केवल कुम्भकम् ।
प्रत्याहारो यमेनस्या देव कर्तुं हि योगिनः ।।
इन्द्रियाणीन्द्रियार्थेभ्यो यः प्रत्याहरति स्वयम् ।
योगीकुम्भकमास्थाय प्रत्याहारः स उच्यते ।।
यद्यत् पश्यति चक्षुर्भ्यां तंतमात्मेति भावयेत् ।
यद्यच्छ्रुणोति कर्णाभ्यातंतमात्मेति भावयेत् ।।
यद्यज्जिघ्रति नासायां तंतमात्मेति भावयेत् ।
जिह्वया यद्रसयतितंतमात्मेति भावयेत् ।।
त्वचा यत् स्पृश्यते योगी तंतमात्मेति भावयेत् ।।
एवं ज्ञानेन्द्रियाणाञ्च तत्तत्संख्याञ्च भावयेत् ।
याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ।।
ततो विचित्रसामर्थ्यं जायते योगिनो भृशम् ।
दूरदृष्टिर्दूरश्रुतिः क्षणाद्दूरा गमस्तथा ।
खेचरत्वं हि जायेत सन्तताभ्यास योगतः ।।
तथा बुद्धिमतां भाव्यं योगिनां योगसिद्धये ।
एते विघ्ना महासिद्धेर्नरमेत्तेषु बुद्धिमान् ।।
न दर्शयेच्च लोकाय स्वसामर्थ्यं हि सर्वदा ।
कदाचिद्दर्शयेत् प्रीत्या भक्ति युक्ताय वा पुनः ।।
यथा मुक्तो यथा मूढो यथा बधिर एव वा ।
तथा वर्तेत लोकेषु स्वसामर्थ्यस्य गुप्तये ।।
प्. ८)
नोचेच्छिष्य बहवो भवन्त्येव प्रियङ्कराः ।
स्वस्वकार्येषु योगीन्द्रं प्रार्थयन्ति न संशयः ।।
तत्कर्मकारणात्युग्र स्वाभ्यासो विस्मृतो भवेत् ।
अभ्यासेन विहीनस्तु ततो लौकिकतां व्रजेत् ।।
अविस्मृत्य गुरोर्वाक्यमभ्यसेत् तदहर्निशम् ।
एवं भवेद् घटावस्था सतताभ्यासयोगतः ।।
अनभ्यासेन तच्चैव वृथा गोष्ठ्यो न सिद्ध्यति ।
तस्मात् सर्व प्रयत्नेन योगमेव समभ्यसेत् ।
ततः परिचयावस्था जायते भ्यास योगतः ।।
वायुः परिचितो यस्मात् अग्निना सहकुण्डलीम् ।
बोधयित्वा सुषुम्नायां प्रविशेदविरोधतः ।।
वायुना सह चित्तञ्च प्रविशेच्च महापथम् ।
महापथ श्मशानं च सुषुम्नाप्येकमेव हि ।
नाम्ना मंतान्तरे भेदः फलभेदेन विद्यते ।।
वर्तमानं भविष्यञ्च भूतासन्नैव वेष्ठियम् ।
यस्य चित्रं सवपनं सुषुम्नं प्रविशेदिह ।।
भाव्यान्यर्थानि विज्ञेया योगोरहस्ति यत्नतः ।
पञ्चवाधारणं कुर्यात् तत्तद्भूत भयापहाम् ।।
नाभेरधो गुदस्योर्ध्वं घुटिका पञ्चधारयेत् ।
वायवो लभते पृथ्वी धारणात् तद्भयापहा ।।
पृथिवी संभवो मृत्युर्न भवेदस्य योगिनः ।
इति पृथ्वी धारणा ।।
नाभिस्थान ततो वायुः धारयेत् पञ्च नाडिकाः ।।
अग्नि यथा विधन्न मृत्युस्तस्य वह्निना ।
नदह्यतश्शरीरञ्च प्रतिष्ठेदग्नि मण्डल इत्यग्नि धारणम् ।।
नाभि भ्रूघ्राण मध्ये तु प्रदेश त्रयसंमिते ।
धारयत् पञ्चघटिकां वायुशेषा हि वायवि ।।
प्. ९)
धारणान्न तु वायवोस्तु भयं भवतु योगिनः ।। इति वायु धारणा ।।
भ्रुमध्यादुपरि तु धारयेत् पञ्चनाडिकाः । वायुं योगी प्रयत्नेन
व्ययमाकाश धारणा ।। आकाशधारणं कुर्वन् मृत्युं जयति अद्भुतम् ।
यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते ।। इति पञ्च विधां भूतां
भूतधारणां यः समभ्यसेत् । ब्रह्मणः प्रलयेद्यापि तस्य मृत्युर्न
विद्यते ।। समभ्यसेत् तदा ध्यानं घटिका षष्टिमेव च । वायुमारुध्य
चाकारादेवतामिष्टदायिनीम् ।। सगुण ध्यानमेतस्य दणिमादि गुण प्रदम् ।
निर्गुणं खमिव ध्यात्वा मोक्षमार्गं प्रपद्यते ।। निर्गुणध्यानमेतञ्च
समाधिञ्च ततो भ्यसेत् । दिनद्वादशकेनैव समाधिं समवाप्नुयात् ।। वायुं
निरुध्य मेधावी जीवन्मुक्तो भवेद् दृढम् । समाधिः समतावस्था जीवात्म
परमात्मनोः ।।
यदि स्वदेहमुत्सृष्टमिच्छेच्छेदुद्व्रजेत् स्वयम् ।
पर ब्रह्मणि लीयन्ते त्यक्त्वा कर्म शुभाशुभम् ।।
अचनोचेत् समुत्स्रष्टुं स्वशरीरं यदि प्रियम् ।
सर्वलोकेषु विचरेत् दक्षिणमादि गुणान्वितः ।।
कदाचित्स्वेच्छया देहो भूत्वा स्वर्गेऽपि संभवे ।
मनुष्यो वापि योषा वा स्वेच्छया पेक्षणाद्भवेत् ।।
सिंहो व्याघ्र गजो वा स्यात् इच्छया जन्तुनां व्रजेत् ।
यदीष्टमेव धत्ते तु योगी यद्यन्महेश्वरः ।
कपि मार्गोऽयमुक्तस्ते सांस्कृतेष्टांग योगतः ।।
ततो भवेद्राज योगोनानान्तरा भवति ध्रुवम् ।
न चिन्मात्रेण सिद्धिः स्यात् दभ्यासादेव जायते ।।
राज योगपदं प्राप्य सर्वसत्ववशंकर ।
सर्वं कुर्यान्नवा कुर्याद्यथा रुचिविशेषयेत् ।।
यथा तु राजयोगेन निष्पन्ना योगिनः क्रिय ।
तदा वस्था दिनिष्पन्ना उन्मन्या नन्दरूपिणी ।।
संसिद्धा योगिनश्चास्य भुक्तिमुक्ति प्रदापयेत् ।
सर्वं तु कलितं ब्रह्मन् संस्मृतं योगमाचरेत् ।। १६ ।।
सर्वसिद्धिमवाप्यास्मद्दत्तात्रेय प्रसादतः ।
यस्तदित्थं पठेन्नित्यं साधुभ्यः कथयेदिति ।
तस्य योग क्रमेणैव सिध्यत्येव न संशयः ।।
प्. १०)
योगिनोभ्यास संसक्ता अरण्येषु गृहेषु वा ।
बहुकालं रमन्त्येव जनसंघविवर्जिताः ।।
तस्मात्सर्वप्रयत्नेन सांगमेव समभ्यसेत् ।।
योगाभ्यासो जन्म फलं निष्फला इतराः क्रियाः ।
महामाया प्रभावेण सर्वेषामस्तु चित्सुखम् ।
यत्नस्सर्वस्तदायत्तत्तामेवा राधयेत् ततः ।।
इति दत्तात्रेयबोधः समाप्तः ।।
।। हरिः ओं ।।
शुभमस्तु ।।