सामग्री पर जाएँ

दक्षिणकालिकापूजापद्धतिः

विकिस्रोतः तः
दक्षिणकालिकापूजापद्धतिः
[[लेखकः :|]]

श्रीगणेशाय नमः ।

अथ श्रीदक्षिणकालीकापूजाप्रयोगः ।

जलपात्रं करे कृत्वा पूजा द्वारि गत्वा । ओं वज्रोदके हूं फट् स्वाहा । इत्यनेन
जलमधिष्ठाय तत्रासनमास्तीर्य फट् इत्यासनमभ्युक्ष तत्रोपविश्य ।
ओं ह्रीं विशुद्धसर्वपापनिशमया शेषविकल्पमपनय हूं । इत्यनेन हस्तौ
पादौ च प्रक्षाल्य ह्रीं आचमेन ओं ह्रीं स्वाहा । इति त्रिर्जलं पीत्वा । ओं इति
ओष्ठौ द्विरुन्मृज्य ह्रीं इति हस्तौ प्रक्षाल्य ह्रीं इत्यनेन मुखनासिकाद्वय
कर्णद्वय नाभिहृदय शिरः स्कन्धद्वयेषु तत्वमुद्रया स्पृशेदिति
द्विराचम्य । ओं मणिधरि वज्रिणि महाप्रतिसरे रक्ष रक्ष हूं फट् स्वाहा ।
इत्येन शिखां वध्नीयात् । वस्त्रांचले वा ग्रंथि वध्नियात् । ततो
मन्त्राचमनं कुर्यात् । क्लीं स्वाहा । इति त्रिजलं पिबेत् । क्रीं काल्यै नमः । क्रीं
कपालिन्यै नमः । इति दौष्टौ द्विरुन्मृजेत् । क्रीं कुल्लायै नमः । इति हस्तौ
क्षालयेत् । ओं रक्ष २ हूं फट् स्वाहा । इति भूमि संशोध्य ।

प्. १ब्)
ओं पवित्रवज्रभूमे हूं हूं फट् स्वाहा । इति वामपादेन भूमिं संताड्य
चतुर्दिक्षु मंडलं पूजयेत् । ओं वास्त्वीशाय नमः । ओं ब्रह्मणे नमः । ओं
सर्वविघ्नानुत्सारय हूं फट् स्वाहा । ततः मंत्रं जपेत् । ओं ग्लूं स्लूं प्लूं
गां गणपतये नमः । ततः संवित्साधनं कुर्यात् ।

अथ संवित्सोधनं ।

ओं आसुरेखे वज्ररेखे हूं फट् स्वाहा । इत्यनेन चतुर्दिक्षुमंडलं कृत्वा ।
ततः विनियोगं कुर्यात् ।

ओं अस्य श्रीसंविदोऽस्य मंत्रस्य दक्षिणामूर्ति ऋषिपंक्तिछन्दः सदाशिवो
देवता संवित्सान्निध्यारोपणे विनियोगः ।

अथ ध्याने तु ।

सिद्धाद्यां शिवमोहिनीं करलसत्पाशांकुशां भैरवीं
भक्ताभीष्टफलप्रदासु कुशलां संसारवंध छिदा ।।
पीयूषाम्बुधिमन्थनोद्भवरसां संविद्विलासास्पदं
वीराराधितपादुकां सुविजयां ध्यायेज्जगन्मोहिनीं ।।।

इति ध्यात्वा प्रत्येकं शोधयेद्यथा ।

ओं संविदे ब्रह्मसंभूते ब्रह्मपुत्रि सदानघे ।
भैरवानां च तृप्त्यर्थं पवित्री भव सर्वदा ।।

प्. २अ)
ओं ब्राह्मण्यै नमः स्वाहा ।। १ ।।

ओं सिद्धिमूलिक्रिये देवि हीनबोध प्रबोधिनि ।
राजप्रजावशकरि शत्रुकण्ठत्रिशूलिनि ।।

ऐं क्षत्रियायै नमः स्वाहा ।। २ ।।

ओं अज्ञानेन्धन दीप्ताग्ने ज्ञानाग्ने ज्ञानरूपिणी ।
आनन्दस्याहुतिं मत्वा सम्यग् ज्ञानं प्रयच्छ मे ।।

ह्रीं वैश्यायै नमः स्वाहा ।। ३ ।।

ओं नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि ।
त्रैलोक्य विजये मातः समाधिकूलदा भव ।।

क्लीं शूद्रायै नमः स्वाहा ।। ४ ।।

ततो ह्रीं श्रीं ऐं अमृते अमृतोद्भवे अमृतवर्षिणि महत्प्रकाशयुक्ते अमृतं
श्रावय २ श्रीमद्दक्षिणकालिकां मे वशमानय स्वाहा । फट् इति संप्रोक्ष
। हूं इति अवगुंठ्य । वं धेनुमुद्रयाऽमृतीकृत्य । मूलेन योनिमुद्रया
सन्दीप्य षडंग मंत्रैः सकलीकृत्य मत्स्यमुद्रया आछाद्य । तत्र
मूलमंत्रं दशधा जपेदिति । जातिभेदो ज्ञानेन ह्रीं श्रीं ऐं अमृते
अमृतोद्भवे इत्यादि मंत्रेण शोधयेत् । ततस्तर्पणं कुर्यात् । ऐं ह्रीं

प्. २ब्)
श्रीं अमुकानन्दनाथ अमुकी देव्यंबा श्रीपादुकां तर्पयामि नमः । इति
शिरसि त्रिवारं संतर्प्य । ऐं श्रीं गुरूंस्तर्पयामि नमः । ऐं
परमगुरूंस्तर्पयामि नमः । ऐं परापर गुरूंस्तर्पयामि नमः ।
ओं परमेष्ठिगुरूंस्तर्पयामि नमः । इति शिरसि सकृत्सकृत् तर्पयित्वा ततो हृदि
मूलमुच्चार्यय । श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति त्रिःसंतर्प्य
महाकालमन्त्रमुच्चार्यय श्रीमन्महाकालभैरवं तर्पयामि नमः । इति
त्रिः संतर्प्यमूलमुच्चार्य सायुधा सवाहनां सपरिवारां
श्रीमन्महाकालभैरवसहितां श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा ।
इति त्रिः संतर्प्य वामहस्त तत्वमुद्रया विजया पात्रं धृत्वा । दक्षिणेन
जलं गृहीत्वा मूलमुच्चार्य । एष विजया श्रीमद्दक्षिणकालिकायै
निवेदयामि । इति निवेद्य । यथाशक्ति मूलमंत्रं जप्त्वा समर्प्य प्रणम्य
तत्रस्थ शक्तिवीरेभ्य परिवेश्य स्वीयपात्रे नीत्वा ध्यात्वा स्तुत्वा नमस्कृत्य ।
कुं

FOḻईO ण्O. ३ ईष् ंईष्षीण्ङ्

प्. ४अ)
फट् इति अर्घपात्रं प्रक्षाल नमः । इति आधारोपरिसंस्थाप्य । अं
अर्कमंडलाय द्वादशकलात्मने नमः । इत्यर्घपात्रं संपूज्य नमः ।
इति जलेनापूर्य । उं सोममंडलाय षोडशकलात्मने नमः । इति जलं
संपूज्य ।

ओं गंगे च यमुने चैव गोडावरी सरस्वती ।
नर्मदे सिन्धु कावेरि जलेस्मिन् सन्निधिं कुरु ।।

एहि गंगे नमस्तुभ्यं सर्वतीर्थसमन्विते ।
ब्रह्माण्डोदर तीर्थानि करपृष्ठानि ते रवे ।।

तेन सत्येन ते देवि तीर्थं देहि दिवाकर ।

इत्यनेनांकुशमुद्रया तत्र तीर्थान्याबाह्य । ओं इति
गन्धपुष्पबिल्वपत्रदुर्वाक्षतान् दत्वा हूं इत्यवगुंठ्य वं धेनुमुद्रया
अमृतीकृत्य मत्स्यमुद्रया आछाद्य । तत्र ओं इति दशधा जपेदिति
सामान्यार्घ्यं । तेनोदकेन द्वारमभ्युक्ष्य द्वारदेवताः पूजयेत् । यथा
द्वारोर्द्धे एते गंधपुष्पे गां गणेशाय नमः । वामे क्षां
क्षेत्रपालाय नमः । दक्षिणे वां वटुकाय नमः । अधो यां योगिनीभ्यो
नमः । वामोर्द्धकोणे गां गंगायै नमः । तथा दक्षिणे यां
यमुनायै नमः ।

प्. ४ब्)
वामाधः कोणे श्रीलक्ष्म्यै नमः । तथा दक्षिणे ऐं सरस्वत्यै नमः ।
देहल्यां ओं अस्त्राय नमः । इति गन्धपुष्पवारिभिः सर्वत्र पूजयेत् । ततो
वामांगं संकोचयन दक्षिणपाद पुरःसरं दक्षिणशाखां स्पृशन्
मण्डपान्तः प्रविश्य । नै-ऋत्या

अपसर्वंतु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारस्ते नश्यं तु शिवाज्ञया ।।

इति मंत्राभ्यां दिग्विदिक्षु विकीर्य फट् इति उर्द्ध्वोर्द्ध तालत्रयं दत्वा
मूलमुच्चार्य अस्त्राय फट् इति जलेनांतरीक्ष तान् विघ्नानुत्सार्य फट् इति
वामपादपार्ष्णिर्घातत्रयेन भौमान् विघानुत्सार्य । तत्र
त्रिकोणमंडलं विलिख्य । एते गंधपुष्पे । ह्रीं आधारशक्तये नमः । इति
मंडलं संपूज्य । तत्र विहितासनमास्तीर्य । तत्र ह्सौः बीजं विलिख्य । तत्र
दूर्वा त्रयं दत्वासनं शोधयेत् । कृतांजलिः आसनं धृत्वा अस्यासन
मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मोदेवता आसनारोपणे
विनियोगः ।

ओं पृथ्वि त्वया धृता लोका देवित्वं विष्णुना धृता ।
प्. ५अ)
त्वं च धारय मां नित्यं पवित्रं कुरु चासनं ।।

इति पठित्वा एते गन्धपुष्पे ह्सौंः आधारशक्ति कमलासनाय नमः ।
इत्यासनं संपूज्य ।

तत्र कुशपत्रत्रयं दत्वा सामान्यार्घ्यं संस्थाप्य तेनोदकेनात्मानं
पूजोपकरणान्यभ्युक्ष्य पुनर्मूलेन पूजाद्रव्याणि संप्रोक्ष्य पुष्पाणि
शोधयेत् । शताभिषेक समय प्रिये समाश्रये शताभिषेक हूं फट् स्वाहा ।
इत्यनेन पुष्पमधिष्ठाय । ओं पुष्पकेतु राजार्हते शताय सम्यक्
संबन्धाय हूं पुष्पे २ महापुष्पे सुपुष्पे पुष्पसंभवे
पुष्पसंचयावसंकीर्णे हूं फट् स्वाहा । इति पुष्पमभिमंत्रमूलान्ते
फट् । इति पूजाद्रव्याणि संप्रोक्ष्य । वं धेनुमुद्रया अमृती कुर्यात् । ततो
गन्धपुष्पाक्षताभ्यां करौ संशोध्य हूं फट् स्वाहा । इति तत्
पुष्पनै-ऋत्यां निक्षिप्य फट् इति । उर्द्ध्वोर्द्धतालत्रयं दत्वा फट् इति
छोटिकाभिर्दशदिग्बंधनं कृत्वा । रं इति दिग्विदिक्षु जलधारां
वेष्टयित्वा वह्नेः प्राकारं विचिन्त्य प्राणायामं कुर्याद् यथा
दक्षिणांगुष्ठेन

प्. ५ब्)
दक्षनासिकां धृत्वा । क्रीं इति षोडशवारं जपन् वामनासया
वायुमापूर्यय अंगुष्ठानामाकनिष्ठाभिः उभय नासिकां धृत्वा ।
तस्य चतुःषष्ठिवारं जपन् वायुं कुंभकं कृत्वा । तस्य
द्वात्रिंशद्वारं जपन् दक्षनासाया वायुं रेचयेत् । पुनः
पूर्ववद्दक्षनासाया वायुमापूर्य कुंभकं कृत्वा । वामनासाया
वायुं रेचयेत् । पुनः पूर्ववद्वामनासया वायुमापूर्यकुंभकं
कृत्वा दक्षनासया वायुं रेचयेत् । एतदशक्तश्चेत् चतुर्वार जपेन
वायुमापूर्य षोडशवारजपेन कुंभकं कृत्वा अष्टवारजपेन वायुं
रेचयेत् । इति प्राणायामः ।

अत भूतशुद्धिं कुर्यात् । स्वांके उत्तान करौ कृत्वा नयननिमील्यमन्त्रेण
हृदयादीपकलिकारं जीवात्मानं मूलाधारस्थ कुंडलिन्या सह
मूलाधार स्वाधिष्ठानमणिपूर अनाहत विशुद्धाज्ञाख्य षट्चक्राणि
भित्वा शिरःस्थ सहस्रदलकमले यस्य शिवे संयोज्य तत्रैव पृथिव्यप्तेजो
वायवाकाशरूपरसगन्धस्पर्शशब्दानासिकाजिह्वाचक्षुस्त्वक्श्रोत्र
वाक्पाणिपादपायुपश्च

प्. ६अ)
प्रकृति मनोबुद्धि अहंकाररूप चतुर्विंशति तत्वानि लीनानि विभाव्य शुद्ध
सच्चिन्मयो भूत्वा ।।

वामकुक्षि स्थितं पापमंगुष्ठपरिमानकं ।
ब्रह्महत्या शिरस्कं च स्वर्णस्तेय भुजद्वयं ।।

मदिरापानहृदयं गुरुतल्पकटिद्वयं ।
पापसंगपदद्वन्द्वमुपपातकलोम किं ।।

खड्गचर्मधरंक्रुद्धमधो वक्त्रांसु दुःसहं ।

एवं पापपुरुषं ध्यात्वा । दक्षांगुष्ठेन दक्षिणनासिकां धृत्वा ।
यं इति वायुबीज धूम्रवर्ण विचिन्त्य । तस्य षोडशवारं जपन् वामनासया
वायुमापूर्य पापपुरुषेण सहदेहं संशोष्य उभयनासिकां धृत्वा ।
रं इति वह्निबीजं रक्तवर्णं विचिन्त्य कुंभकं कृत्वा । तस्य
चतुःषष्ठिवारं जपन् । जातवह्निना पापेन सहदेहं संदह्य वं इति
वरुणबीजं शुक्लवर्णविचिन्त्य । तस्य द्वात्रिंशद्वारजपेन ललाटचन्द्रादलित
सुधयामातृकावर्णात्मिकया तथा तद्भस्मराशिं
प्रक्षाल्यदक्षिणनासया वायुं रेचयेत् । ततः सोहमिति आत्मानं देवता
मयं

प्. ६ब्)
उत्पन्नं नवीनदेहं विचिन्त्य जलं इति पृथिवीजं पीतवर्णं विचिन्त्य । तेन
शरीरं सुदृढं विभाव्य जीवात्मानं कुंडलिनीं चतुर्विंशति तत्वैः
सह यथास्थानमानयेदिति । भूतशुद्धिः ।

ततो जीवन्यासं कुर्यात् । लेलिहान मुद्रया हृदिहस्तं दत्वा । आं ह्रीं क्रीं हं
सः श्रीमद्दक्षिणकालिकायाः प्राणा इह प्राणाः । ओं आं ह्रीं क्रीं हं सः
श्रीमद्दक्षिणकालिकायाः जीव इह स्थितः । आं ह्रीं क्रीं हं सः
श्रीमद्दक्षिणकालिकाया सर्वेन्द्रियाणि । पुनः आं ह्रीं क्रीं हं सः
श्रीमद्दक्षिणकालिकाया वाङ्मनोनयनश्रोत्रघ्राणप्राणा इहागत्य
सुखं चिरं तिष्ठन्तु स्वाहा । इति जीवन्यासः ।

ततः ओं आं हूं फट् स्वाहा । इति व्यापकेन कायवाक्चित्तशोधनं कुर्यात् ।
ओं रक्ष २ हूं फट् स्वाहा इति हृदि हस्तं दत्वा आत्मरक्षां कुर्यात् ।
तत ऋष्यादि न्यासं कुर्यत् ।

अस्य श्रीमद्दक्षिणकालिकामन्त्रस्य भैरव ऋषिरुष्णिक्छन्दः
श्रीमद्दक्षिणकालिका देवता ह्रीं बीजं हूं शक्तिः क्लीं कीलकं

प्. ७अ)
धर्मार्थकाममोक्ष चतुर्वर्गसिद्धये विनियोगः ।।

इति कृतांजलिः पठित्वा जलं त्यक्त्वा न्यसेत् ।

शिरसि भैरव ऋषये नमः । मुखेरुष्णिक्छन्दसे नमः । हृदि
श्रीमद्दक्षिणकालिका देवतायै नमः । गुह्ये ह्रीं बीजाय नमः । पादयोः
हूं शक्तये नमः । सर्वांगे क्लीं कीलकाय नमः । धर्मार्थकाममोक्ष
चतुर्वर्गसिद्धये विनियोगः ।

ततः करांगन्यासौ कुर्यात् ।

ओं क्रीं अंगुष्ठाभ्यां नमः । ओं क्रीं तर्जनीभ्यां नमः । ओं क्रूं
मध्यमाभ्यां वषट् । ओं क्रैं अनामिकाभ्यां हूं । ओं क्रौं
कनिष्ठिकाभ्यां वौषट् । ओं क्रः करतलकरपृष्ठाभ्यां फट् । ओं क्रीं
हृदयाय नमः । ओं क्रीं शिरसे स्वाहा । ओं क्रूं शिखायै वषट् । ओं क्रैं
कवचाय हूं । ओं क्रौं नेत्रत्रयाय वौषट् । ओं क्रः अस्त्राय फट् । फट् इति
ऊर्द्ध्वोर्द्ध तालत्रयं दत्वा छुटिकाभिर्दशदिग्बंधनं कुर्यात् ।

ततो वर्णन्यासं कुर्यात् ।
अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं नमः हृदि । दक्षहस्ते । एं ऐं ओं औं अं अःं कं खं गं
घं नमः । वामहस्ते । ङं चं छं

प्. ७ब्)
जं झं ञं टं ठं डं ढं नमः । दक्षपादे । णं तं थं दं धं नं पं फं बं
भं नमः । वामपादे । मं यं रं लं वं शं षं सं हं क्षं नमः ।

ततो मातृकान्यासं कुर्यात् ।

अस्य श्रीमातृकामन्त्रस्य ब्रह्मा ऋषिर्गायत्रीछंदो मातृका सरस्वतीदेवता
हलो बीजानि स्वराः शक्तयः सर्गः कीलकं मातृकान्यासे विनियोगः । शिरसि ।
ब्रह्म ऋषये नमः । मुखे । गायत्रीछंदसे नमः । हृदि ।
श्रीमातृकासरस्वती देवतायै नमः । गुह्ये । हलोभ्यो बीजेभ्यो नमः ।
पादयोः स्वरेभ्यः शक्तिभ्यो नमः । सर्वांगे । गर्गाय कीलकाय नमः
मातृकान्यासे विनियोगः ।

मातृका करांगन्यासौ यथा ।

अं कं खं गं घं ङं आं अंगुष्ठाभ्यां नमः । इं चं छं
जं झं ञं ईं तर्जनीभ्यां स्वाहा । उं टं ठं डं ढं णं
ऊं मध्यमाभ्यां वषट् । एं तं थं दं धं नं ऐं
अनामिकाभ्यां हूं । ओं पं फं बं भं मं औं कनिष्ठकाभ्यां
वौषट् । अं यं रं लं वं शं षं सं हं लं क्षं अः
करकलकरपृष्ठाभ्यां फट् । अं कं खं गं घं ङं आं हृदयाय
नमः । इं चं छं जं झं ञं ईं शिरसे स्वाहा ।

प्. ८अ)
उं टं ठं डं ढं णं ऊं शिखायै वषट् । एं तं थं दं धं
नं ऐं कवचाय हूं । ओं पं फं बं भं मं औं नेत्रत्रयाय
वौषट् । अं यं रं लं वं शं षं सं हं लं क्षं अंः अस्त्राय
फट् ।

अथान्तर्मातृका ध्यानं ।

आदिक्षान्तमयीं नवारुणरुचिं षट्पद्मपत्रासनां
नीलांभोरुहलोचनत्रययुतांराकाब्जरूपाननां पीयूषां शुसमां
शुगुष्ठमुकुटां वक्षोजभारालसांमालाटंककुरंगपुस्तकधरां
ध्यायेन्तरणेश्वरीं ।

एवं ध्यात्वा मानसोपचारैः संपूज्य अन्तर्मातृकां न्यसेत् । कंठे ।
विशुद्धचक्रे षोडशदले अं नमः आं नमः इं नमः ईं नमः उं
नमः ऊं नमः ऋं नमः ॠं नमः ऌं नमः ॡं नमः एं नमः ऐं
नमः ओं नमः औं नमः अं नमः अः नमः । हृदये अनाहतचक्रे
द्वादशकले कं नमः खं नमः गं नमः घं नमः ङं नमः
चं नमः छं नमः जं नमः झं नमः ञं नमः टं नमः ठं
नमः । नाभौ मणिपूरचक्रे दशदले डं नमः ढं नमः णं नमः
तं नमः थं नमः दं नमः धं नमः नं नमः पं नमः फं
नमः । लिङ्गे स्वाधिष्ठानचक्रे

प्. ८ब्)
षट्दले बं नमः भं नमः मं नमः यं नमः रं नमः लं नमः
। मूलाधारे चतुर्दले वं नमः शं नमः षं नमः सं नमः
भ्रुवोर्मध्ये आज्ञाचक्रे द्विदले हं नमः क्षं नमः । शिरोवस्थित
सहस्रदलकमलकर्णिकान्तर्गत अकथादि त्रिकोणमंडले वामरेखादि
प्रादक्षिण्येन अं नमः आं नमः इं नमः ईं नमः उं नमः ऊं
नमः ऋं नमः ॠं नमः ऌं नमः ॡं नमः एं नमः ऐं नमः ओं
नमः औं नमः अं नमः अः नमः ऊर्ध्वरेखायां कं नमः खं
नमः गं नमः घं नमः ङं नमः चं नमः छं नमः जं
नमः झं नमः ञं नमः टं नमः ठं नमः डं नमः ढं
नमः णं नमः तं नमः थं नमः दं नमः धं नमः नं
नमः पं नमः फं नमः बं नमः भं नमः मं नमः यं
नमः रं नमः लं नमः वं नमः शं नमः षं नमः सं नमः ।
अधःकोणे हं नमः वामकोणे लं नमः दक्षकोणे क्षं नमः ।

तन्मध्ये परबिन्दुं च सृष्टिस्थिलयात्मकं ।
तेनामृतेन दिव्येन तर्पयेत् परमेश्वरीं ।।

एवं समाहित मनाध्यायेन्न्यासो यमान्तरः ।

प्. ९अ)
अथ बहिर्मातृकासृष्टिध्यानम् ।

पंचाशल्लिपिभिर्विभक्तसुखदोः यन्मध्यवक्षस्थलां
भास्वन्मौलिनि वद्धचन्द्रसकलामापीनतुंगस्तनीं ।
मुद्रामक्षगुणं सुधाढ्य कलशं विद्या च हस्तांबुजैर्
विभ्राणाविशदप्रभां त्रिनयनां वाग्देवतामाश्रये ।।

एवं ध्यात्वा मानसोपचारैः संपूज्य न्यसेत् ।

ललाटमुखवृत्तदक्षवामनेत्रद्वय कर्णद्वय नासिकाद्वय गंडद्वय
ओष्ठाधर ऊर्द्ध्वोधो दन्तपंक्ति ब्रह्मरन्ध्रजिह्वाकासु । अं नमः आं
नमः इं नमः ईं नमः उं नमः ऊं नमः ऋं नमः ॠं नमः ऌं
नमः ॡं नमः एं नमः ऐं नमः ओं नमः औं नमः अं नमः अः
नमः । दक्षिणबाहुमूलकूर्परमणिबन्ध अंगुलिमूलाग्रेषु । चं नमः
छं नमः जं नमः झं नमः ञं नमः । दक्षिण
ऊरुमूलजानुसन्धिगुल्फांगुलिमूलाग्रेषु । टं नमः ठं नमः डं
नमः ढं नमः णं नमः ।
वामोरुमूलजानुसन्धिगुल्फांगुलिमूलाग्रेषु । तं नमः थं नमः दं
नमः धं नमः नं नमः ।

प्. ९ब्)
दक्षवामपार्श्वयोः । पं नमः फं नमः पृष्ठे वं नमः नाभौ
भं नमः जठरे मं नमः हृदि यं त्वगात्मने नमः । दक्षस्कंधे
रं असृगात्मने नमः । ककुदि लं मांसात्मने नमः । वामस्कन्धे वं
मेद आत्मने नमः । हृदयादि दक्षहस्ते शं अस्थ्यात्मने नमः । हृदयादि
वामहस्ते षं मज्जात्मने नमः । हृदयादि दक्षपादे सं शुक्रात्मने
नमः । हृदयादि वामपादे हं जीवात्मने नमः । हृदयादि जठरे लं
प्राणात्मने नमः । हृदयादि मुखे क्षं परमात्मने नमः । इति
सृष्टिन्यासः ।

अथ स्थितिमातृकाध्यानं ।

सिन्दूरकान्तिममिताभरणं त्रिनेत्रं
विद्याक्षसूत्र मृगपोतवरान्दधानं ।
पार्श्वस्थितां भगवतीमपि कांचनांगीं
ध्यायेत् कराब्जधृतपुस्तकवर्णमालां ।।

एवं ध्यात्वा मानसोपचारैः संपूज्य । दक्षगुल्फादि दक्षजानुपर्यन्तं
। डकारादि वकारान्तान् वर्णान् मातृकास्थाने न्यसेत् तद्यथा । दक्षगुल्फे
। डं नमः तदंगुलिमूलाग्रयोः

प्. १०अ)
ढं नमः णं नमः वामोरुजानुसन्धि गुल्फापादांगुलिमूलाग्रेषु ।
तं नमः थं नमः दं नमः धं नमः नं नमः ।
दक्षवामपार्श्वयोः । पं नमः फं नमः पृष्ठे वं नमः ।
नाभिजठरयोः । भं नमः मं नमः । हृदयं त्वगात्मने नमः ।
दक्षस्कंधे रं असृगात्मने नमः । ककुदि लं मांसात्मने नमः ।
वामस्कंधे वं मेद आत्मने नमः । हृदादिदक्षहस्ते शं अस्थ्यात्मने
नमः । हृदादि वामहस्ते षं मज्जात्मने नमः । हृदादि दक्षपादे शं
शुक्रात्मने नमः । हृदादि वामपादे हं जीवात्मने नमः । हृदादि जठरे
लं प्राणात्मने नमः । हृदादि मुखे क्षं परमात्मने नमः ।
ललाटमुखवृत्तदक्षवामनेत्र तथा कर्णद्वय नासिकाद्वय गंडद्वय
ओष्ठाधर ऊर्द्धाधो दंतपंक्ति ब्रह्मरंध्र जिह्वासु । अं नमः आं
नमः इं नमः ईं नमः उं नमः ऊं नमः ऋं नमः ॠं नमः ऌं
नमः ॡं नमः एं नमः ऐं नमः ओं नमः औं नमः अं नमः अः
नमः दक्षवाहुमूलकूर्परमणिबंध हस्तांगुलिमूलाग्रेषु । कं
नमः खं नमः गं नमः घं नमः ङं नमः ।
वामबाहुमूलकूर्परमणिबंधकराङ्गुलिमूलाग्रेषु ।

प्. १०ब्)
चं नमः छं नमः जं नमः झं नमः ञं नमः ।
दक्षोरुमूलजानुनोः । टं नमः ठं नमः । इति स्थितिमातृकान्यासः ।।

अथ संहारमातृकाध्यानं ।

अक्षस्रजं हरिणपोतमुदग्रटंकं विद्यां करैरविरतं दधतीं
त्रिनेत्रां ।
अर्धेन्दु मौलिमरुणामरविन्दरामावर्णेश्वरीं
प्रणमतस्तनभारनम्रां ।।

इति ध्यात्वा मानसोपचारैः संपूज्य न्यसेत् ।

क्षकारादि अकारांतान् वर्णान्मुखादि ललाटान्त स्थानेषु न्यसेत् तद्यथा ।
हृदादिमुखे क्षं परमात्मने नमः । हृदादिजठरे लं प्राणात्मने
नमः । हृदादिवामपादे हं जीवात्मने नमः । हृदादिदक्षपादे सं
शुक्रात्मने नमः । हृदादिवामहस्ते षं मज्जात्मने नमः । हृदादि
दक्षहस्ते शं अस्थ्यात्मने नमः । वामस्कन्धे वं मेदात्मने नमः ।
ककुदि लं मांसात्मने नमः । दक्षस्कंधे रं असृगात्मने नमः ।
हृदयं त्वगात्मने नमः । जठरनाभिपृष्ठवामदक्षिणपार्श्वेषु मं
नमः भं नमः वं नमः फं नमः पं नमः ।
वामपादांगुल्यग्रमूलगुल्फजानुसन्धि उरुमूलेषु । नं नमः धं
नमः दं नमः थं नमः तं नमः ।
दक्षपादांगुल्यग्रमूलगुल्फजानुसन्धि

प्. ११अ)
उरुमूलेषु । णं नमः ढं नमः डं नमः ठं नमः टं नमः ।
वामहस्तांगुल्यग्रमूलमणिबन्धबाहुमूलेषु । ञं नमः झं नमः
जं नमः छं नमः चं नमः ।
दक्षहस्तांगुल्यग्रमूलमणिबंधकूर्परबाहुमूलेषु । ङं नमः
घं नमः गं नमः खं नमः कं नमः । जिह्वा ब्रह्मरंध्र अध
उर्द्ध्वदन्तपंक्ति अधरौष्ठवामदक्षगंडद्वय तथा नासिकाद्वय
कर्णद्वय नेत्रद्वय मुखवृत्तललाटेषु । अः नमः अं नमः औं नमः ओं
नमः ऐं नमः एं नमः ॡं नमः ऌं नमः ॠं नमः ऋं नमः ऊं
नमः उं नमः ईं नमः इं नमः आं नमः अं नमः । इति
संहारमातृकान्यासः ।।

गृहस्थः पुनः सृष्टिस्थितीन्यासौ कुर्ययात् । प्रणामन्तन्त्रान्तरे पंचधा
मातृका न्यासः । सृष्टिस्थितिश्च संहृति । पुनः सृष्टिस्थिती कुर्यादेवं
पंचविधः स्मृतः गौतमीयेपि ।

संहृतिर्दोष संहानां हारिणी परिकीर्तिता ।
विद्याप्रदश्च सृष्ट्यन्तो वर्णिनां शुद्ध चेतसां ।।

स्थित्यन्तःस्यागृहस्थानां त्रयं काम्यानुरूपतः ।
सहजानौ वानप्रस्थे स्थित्यन्तः कश्चिदिच्छति ।।

संहारान्तो मुनीनां च विरक्तस्य च सर्वशः ।
प्. ११ब्)
न्यासत्रयं सदाकार्यमशक्तामेकमेव हि ।।

केचित् तु सर्ववर्णाश्रमेषु । पंचधा विन्यसेद्वापि त्रिधावापि च विन्यसेदिति ।
काम्यादि पूजायामत्र श्रीकंठादि मातृकान्यासः । षोढान्यासौ
विधेयौ किन्तु बाहुल्य भयादन्नं न लिखितौ ।

अथ सामान्यबीजषोढान्यासौ ।

यथा । शिरसि ओं नमः भ्रुवोर्मध्ये । ओं ह्रीं स्त्रीं हूं फट् नमः कण्ठे । एं
नमः । हृदि क्लीं नमः । नाभौ ऐं नमः । लिंगे क्लीं नमः । गुह्ये सौं
नमः । दक्षहस्ते हूं नमः । वामहस्ते श्रीं नमः । दक्षपादे ह्रीं नमः ।
वामपादे क्लीं नमः । पृष्ठे क्रीं नमः । इति ततः सकलायां विद्यायां
तत्वन्यास बीजन्यासौ कर्त्तव्यौ तद्यथा । नाभ्यादि हृदयान्नं दक्षिणे
कालिके ओंं विद्यातत्वाय नमः । हृदादि ब्रह्मरंध्रान्तं । क्रीं क्रीं क्रीं हूं
हूं ह्रीं ह्रीं कुर्यात् । ब्रह्मरन्ध्रे क्रीं नमः । भ्रुवोर्मध्ये क्रीं नमः ।
ललाटे क्रीं नमः । नाभौ हूं नमः । गुह्ये हूं नमः । मुखे ह्रीं नमः ।
सर्वांगे ह्रीं नमः । इति बीजन्यासः ।।

ततो मूलमंत्रेण शीर्षादि पादपर्यंतं पादादि शिरोन्तं

प्. १२अ)
सप्तधा मुखादि जठरान्तं जठरादिमुखान्तं सप्तधा
व्यस्तहस्ताभ्यां व्यापक न्यासं कुर्यात् ।

ततः ओं ह्रीं मूलं ह्रीं इति सप्तधा सप्तछदां जपेत् । ततः पीठन्यासं
कुर्यात् । हृत्पद्म कर्णिकायां ओं आधारशक्तये नमः । ओं प्रकृत्यै नमः ।
एवं कमठाय शेषाय पृथ्विसुधांबुधये मणिद्वीपाय
चिंतामणिगृहाय श्मशानाय पारिजाताय तन्मूले ओं रत्नवेदिकायै नमः ।
तस्योपरि ओं मणिपीठाय नमः । चतुर्दिक्षु ओं मुनिभ्यो नमः । एवं देवेभ्यो
नमः । शवमुंडेभ्यो नमः । दक्षस्कंधे ओं धर्माय नमः ।
वामस्कंधे ज्ञानाय नमः । वामोरौ ओं वैराग्याय नमः ।
दक्षपार्श्वे ओं अनैश्वर्याय नमः । सर्वत्र प्रणवादि नमोन्तेन न्यसेत् ।
पुनः कर्णिकायां । अं अनंताय नमः । पं पद्माय नमः । आं
आनंदाय नमः । सं संविन्नालाय नमः । पं प्रकृतिमय पत्रेभ्यो
नमः । विं विकारमय केशरेभ्यो नमः । तं तत्वरूपकर्णिकायै नमः ।
अं अर्कमंडलाय द्वादशकलात्मने नमः ।

प्. १२ब्)
ओं सोममंडलाय षोडशकलात्मने नमः । मं वह्निमंडलाय
दशकलात्मने नमः । सं सत्वाय नमः । रं रजसे नमः । तं तमसे
नमः । आं आत्मने नमः । अं अंतरात्मने नमः । पं परमात्मने नमः
। ह्रीं ज्ञानात्मने नमः ।

ततो हृत्पद्मकेशरेषु पूर्वादितः प्रादक्षिण्येन पीठशक्तिर्न्यसेत् ।
ओं इच्छायै नमः । ओं ज्ञानायै नमः । ओं क्रियायै नमः । ओं कामिन्यै
नमः । ओं कामदायिन्यै नमः । ओं रत्यै नमः । ओं रतिप्रियायै नमः । ओं
आनंदायै नमः । मध्ये मं मनोन्मन्यै नमः । तदुपरि ऐं परायै
अपरायै परापरायै ह्सौः सदाशिव महाप्रेतपद्मासनाय नमः । इति
पीठन्यासः ।।

ततः प्राणायामं षडंगन्यासं कृत्वा देवीं ध्यायेत् । ध्यानं यथा


करालवदनां घोरां मुक्तकेशीं चतुर्भुजां ।
कालिकां दक्षिणां दिव्यां मुंडमालाविभूषितां ।।

सद्यश्छिन्नशिरः खड्ग वामाधोर्द्ध्व करांबुजां ।
प्. १३अ)
अभयं वरदं चैव दक्षिणोर्द्ध्वाध पाणिकां ।।

महामेघप्रभां श्यामां तथा चैव दिगंबरां ।
कंठावसक्तमुंडाली गलद्रुधिर चर्चितां ।।

कर्णावतं सतांनीत शवयुग्मभयानकां ।
घोरदंष्ट्रा करालास्यां पीनोन्नत पयोधरां ।।

सर्वालंकारभूषांगी सर्वाशुभ विनाशिनी ।
शवानां करसंघातैः कृत कांची हसन्मुखीं ।।

सृक्कद्वयगलद्रक्त धाराविस्फुरिताननां ।
घोररावां महारौद्रीं श्मशानालयवासिनीं ।।

बालार्कमंडलाकार लोचनत्रितयान्वितां ।
दन्तुरां दक्षिणव्यापि मुक्तालंबिक चोच्चयां ।।

शवरूप महादेव हृदयोपरिसंस्थितां ।
शिवाभिर्घोररावाभिश्चतुर्दिक्षु समन्वितां ।।

मदिराघूर्णनयनां ललज्जिह्वाट्टहासिनीम् ।
महाकालेन च समं विपरीत एतातुरां ।।

सुखप्रसन्ननयनां स्मेरानन सरोरुहां ।।

नागयज्ञोपवीतांगी चन्द्रार्धकृतशेखरां ।
एवं संचिंतयेत् कालीं धर्मकामार्थमोक्षदां ।।

ध्यानानंतरं यथा ।

अंजनाद्रि निभां देवीं करालवदना शिवां ।
मुंडमालावतीरम्यां मुक्तकेशी स्मिताननां ।।

प्. १३ब्)
महाकाल हृदांभोज स्थितां पीतपयोधरां ।
विपरीतरतासक्तां घोरदंष्ट्रां शिवैः सह ।।

नागयज्ञोपवीतां च चन्द्रार्द्धकृतशेखरां ।
सर्वालंकारसंयुक्तां मुक्तामणिविभूषितां ।।

मृतहस्त सहस्रैस्तु बद्धकांचीं दिगंबरां ।
शिवाकोटिसहस्रैस्तु योगिनीभिर्विराजितां ।।

रक्तपानमुखांभोजां मधुपानप्रमत्तिकां ।
वह्न्यर्क शशि नेत्रां च रक्तविस्फुरिताननां ।।

विगतासु किशोराभ्यां कृतकर्णावतंसिनीं ।
कंठावसक्तमुंडालि गलद्रुधिर चर्चितां ।।

श्मशानं वह्निमध्यस्थां ब्रह्मकेशव वन्दितां ।
सद्यःकृत शिरःखड्ग वराभीतिकरांबुजां ।।

ध्यानान्तरं यथा ।

भिन्नांजन च य प्रख्यां प्रवीनशवसंस्थितां ।
गलच्छोणितधाराभि स्मेरानन सरोरूहां ।।

पीनोन्नत कुचद्वन्द्वां पीनवक्षो नितंबिनीं ।
दक्षिणां मुक्तकेशालि दिगंबर विनोदिनीं ।।

महाकाल शवाविष्टां स्मेरानन्दोपरिस्थितां ।
आरक्तमुखनेत्राभिर्योगिनीभिविराजितां ।।

शवद्वयकृतोन्तंसां सिन्दूरतिलकोज्ज्वलां ।
प्. १४अ)
पंचाशन्मुंडघटितं मालाशोणित लोहितां ।।

नानामणिविशोभाढ्यां नानालंकारभूषितां ।
शवास्थि कृतकेयूरं शंखकंकणमंडितां ।।

शववक्षः समासीनां लेलिहानां शवं क्वचित् ।
शवमांसकृतग्रासां साट्टहासां मुहुर्मुहुः ।।

खड्गमुंडधरां वामे दक्षे भयवरप्रदां ।
दंतुरां च महारौद्रीं चंडनादाति भीषणां ।।

शिवाभिर्घोरारावाभिर्वेष्टितां भयनाशिनीं ।
माभै माभैः स्वभक्तेभ्यो जल्पंती घोरनिःस्वनैः ।।

यूयं किमिछथवरं ददामीति प्रभाषिणीं ।।

ध्यानांतरं ।।

सद्यश्छिन्नशिरः कृपाणमभयं हस्तैर्वरं विभ्रतीं
घोरास्यां शिरसः स्रजां सुरुचिरामुन्मुक्तकेशावलीं ।
सृक्कासृक्प्रवहां श्मशाननितपांश्रुत्योशवांलंकृतीं
श्यामांगीकृतमेखलां शवकरैर्देवीं भजे कालिकां ।।

ध्यानांतरं ।।

मेघांगीं विगतांवरां शवशिवारूढा त्रिनेत्रां परां
कर्णालंबितवाणयुग्मभयदां मुंडस्रजां मालिनीं ।
वामाधोर्द्धकरांबुजे नरशिरः खड्गं च सव्येतरे
दानाभीति विमुक्तकेश निचयां वंदे सदा कालिकां ।।

प्. १४ब्)
एतेषामेकतमेन ध्यात्वा स्वशिरसि पुष्पं दत्वा मनसोपचारैः
पूजयेद्यथा ।

हृत्पद्ममासनं दद्यात् सहस्राराच्युतामृतैः ।
पाद्यं चरणयोर्दद्यान्मनस्त्वर्घ्यं निवेदयेत् ।।

स्वर्णपात्रे तज्जलं च दद्यादाचमनं मुखे ।
मधुपर्कं मुखे दद्यात् पुनराचमनीयकं ।।

तेनामृतेन सर्वांगे स्नानीयमपि कल्पयेत् ।
आकाशतत्वं वसनं नानाभरणमेव च ।।

चतुर्विंशति तत्वेन गंधं दशाद्विचक्षणः ।
स्वयंभू कुसुमं दद्यात् कुंकुमं रक्तचंदनं ।।

चित्तं प्रकल्पयेत् पुष्पं धूपं प्राणान्ति योजयेत् ।
तेजस्तत्वं प्रदीपं च नैवेद्यं च सुधांबुधिं ।।

प्रदद्यान्मांसशौन च भर्जितं मीनपर्वतं ।
मुद्राराशीं सभक्तं च घृताक्तं व्यंजनान्वितं ।।

सुरक्तं चरुकं चैव घृताक्तं परमान्नकं ।
दधिक्षीरसागरं च नानामूलफलानि च ।।

भक्ष्यं भोज्यं तथा लेह्यं पेयं चर्वणं परामृतं च पानीयं
भावपुष्पैः सुवासितं ।

कुलामृतं च तत्पुष्पं कुतक्षातं न वारि च ।
पुनराचमनं दत्वा तांबूलं च निवेदयेत् ।।

कामक्रोधौ विघ्नकृतौ वलिं दत्वा जपं चरेत् ।
प्. १५अ)
वर्णमाला यथा । अकारादि क्षकारान्ते वर्णात्मिकां बिंदुयुतां
शिवशक्त्यात्मकसूत्रे ग्रंथितां कुंडलीग्रंथियुतां मालां विभाव्य
जपेत् । अं मूलं आं मूलं इत्यादि लकारांतेषु वर्णेषु प्रतिवर्णान्तरं
मन्त्रं जप्त्वा क्षकारं मेरुरूपं केवलमुच्चार्य अंतिमवर्णेषु
एकैकमंत्रं जपेत् । एवमष्टोत्तरशतं मन्त्रं जप्त्वा समर्पयेदनेन । ओं
सर्वान्तरात्मनिलये स्वांतर्ज्योतिः स्वरूपिणी । गृहाणांतर्जपं मातराद्ये
कालि नमोस्तुते । इति जपं समर्प्य प्रणमेत् ।।

अथान्तर्होमो यथा । आत्मानमपरिछिन्नं विभाव्य ।
आत्मान्तरात्मपरमात्मज्ञानात्मस्वरूपं चतुरस्रं चित्कुण्डं
आनंदमेखलारम्यं बिंदु त्रिबलयांकितं । अर्धमात्रो योनिरूपं
चित्कुंडं नाभौ विभाव्य तत्र संविदग्नौ जुहुयात् मूलमुच्चार्य
नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा । ज्ञानप्रदीपिते
नित्यमक्षवृत्तिर्जुहोम्यहं स्वाहा । इति प्रथमाहुतिः ।

मूलमुच्चार्य ।

धर्माधर्महविर्दीप्त आत्माग्नौ मनसा स्रुचा ।
सुषुम्ना वर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहं ।।

प्. १५ब्)
स्वाहा २ इति द्वितीयाहुतिः । मूलमुच्चार्य ।

प्रकाशाकाशहस्ताभ्यामवलंव्योन्मनी स्रुवा ।
धर्माधर्म कलास्नेह पूर्णमग्नौ जुहोम्य हं ।।

स्वाहा । इति तृतीयाहुतिः । मूलमुच्चार्य ।

अन्तर्निरन्तरनिरिन्धन एधमाने माद्यांधका *? परिपन्थिनि संविदग्नौ ।
कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वजुहोमि वसुधादि शिवावसानं
स्वाहा । इति चतुर्थ पूर्णाहुतिः ।

ततः पयः केन निभां शययां परिष्टुत्य तत्र महाकालेन सह देविं
निवेश्व शृंगादि रसोद्भवैर्नानागीतवाद्यनृत्यादिभिर्भगवतीं तोषयेत् ।
प्रणमेदिति मानसयागः । ततो वाह्यपूजामारभेत् । तत्रादौ
अर्घ्यस्थापनं कुर्यात् । स्ववामे त्रिकोणवृत्त चतुरस्रमंडलं विलिख्य फट्
। इति मंडलं संप्रोक्ष्य ।

एते गन्धपुष्पे ह्रीं आधारशक्तये नमः । इति मंडलं संपूज्य
त्रिपदिकाद्यासनं फट् । इति प्रक्ष्याल्य नमः । इति मंडलोपरिसंस्थाप्य ।
मं वह्निमंडलाय दशकलात्मने नमः । इति आधारं संपूज्य फट् ।

प्. १६अ)
शंखादिपात्रं प्रक्षाल्य नमः । इति तत्राध? *? संस्थाप्य । अं
अर्कमंडलाय द्वादशकलात्मनि नमः । इति अर्घ्यपात्रं संपूज्य नमः ।
इति जलेनापूर्य तत्र किंचित् कारणं निक्षिप्य । ओं
सोममंडलाय षोडशकलात्मने नमः । इति अर्घ्यामृतं संपूज्य । ओं
गंगे चेत्यादिनांकुशमुद्रया तत्र तीर्थान्या वाह्यरक्तादि
पुष्पबिल्वपत्रदूर्वाक्षतश्वेतरक्तचंदनशुद्धिमीनमुद्रकुलकुसुमानि
निक्षिप्य तत्र देवीमावाह्य हुं । इति अवगुंठ्य वं
धेनुमुद्रयामृतीकृत्यमूलेन योनिमुद्रया सन्दीप्य । ओं इति शंखमुद्रां
प्रदर्श्य षडंग मंत्रैः सकलीकृत्य मत्स्यमुद्रया आछाद्य । तत्र
मूलमंत्रं दशधा जप्त्वा देवीरूपमर्घ्यं विभाव्य ।
गंधपुष्पधूपदीपैस्तत्र देवीं संपूज्य पूजा समाप्ति
पर्यंतमर्घ्यपात्रं न चालयेदित्यर्घ्यस्थापनं ।

तत्र सामान्यार्घ्यवत् प्रोक्षणी पात्रमेकं संस्थाप्य ।
तत्रार्घ्यपात्रस्थं जलं किंचित् प्रोक्षणी पात्रे निक्षिप्य तेनोदकेनात्मानं
पूजोपकरणान्यस्युक्ष्य संमुखे सिंहासनादौ

प्. १६ब्)
प्रतिमा यंत्रं वा स्थापयेत् । यन्त्रं यथा । स्वर्णपात्रे रजते ताम्रे
श्मशानकाष्ठनिर्मिते यज्ञदारुमये नृकपाले वा स्वयंभु
कुसुमकुंडगोलरक्तचंदनादि विलेपिते पात्रे सुवर्णशलाकया
बिल्वकंठकेन वा अधोमुखयंत्रत्रिकोणं तद्वाह्ये वृतं । तद्वाह्ये
अष्टदलपद्मं तद्वाह्ये वृतं तद्वाह्ये भूपुरं चतुर्द्वारयुतं मध्ये
बिंदुचक्रं । बिंदुचक्रस्य वामे । क्लीं बीजं दक्षिणे ह्रीं बीजं एवं
यंत्रं लिखेत् । अथवा पार्थिवेतर शिवलिंगे स्फाटिकादिषु विनिर्मित प्रतिष्ठित
यंत्रे पुष्पादि यंत्रे वा पूजयेत् । एवं यंत्रं प्रतिमा वा संस्थाप्य
तत्र पीठपूजां कुर्यात् । यथा कर्णिकायां । ओं आधारशक्तये नमः । ओं
प्रकृत्यै नमः । एवं कमठाय शेषाय पृथिव्यै सुधांबुधये
मणिद्वीपाय चिंतामणिगृहाय श्मशानाय पारिजाताय तन्मूले
रत्नवेदिकायै । ओं मणिपीठाय चतुर्दिक्षुमुनिभ्यो नमः । ओं वेदेभ्यो नमः
। ओं शवमुंडचितांगारास्थिभ्यो नमः ।

प्. १७अ)
बहुमांसास्थिमादमान शिवाभ्यो नमः । अग्न्यादिकोणचतुष्टयेषु
प्रादक्षिण्येन धर्माय ज्ञानाय वैराग्याय ऐश्वर्याय पूर्वादि चतुर्दिक्षु
अधर्माय अज्ञानाय अवैराग्याय अनैश्वर्याय सर्वत्र प्रणवादि नमोन्तेन
पूजयेत् । पुनः कर्णिकायां अं अनंताय नमः । पं पद्माय नमः । आं
आनंदकंदाय नमः । सं सविन्नालाय नमः । प्रं प्रकृतिमय पत्रेभ्यो
नमः । बिं बिकारमयकेशरेभ्यो नमः । तं तत्वरूपकर्णिकायै नमः ।
अं अर्कमंडलाय द्वादशकलात्मने नमः । उं
सोममंडलाय षोडशकलात्मने नमः । मं वह्निमंडलाय
दशकलात्मने नमः । सं सत्वाय नमः । रं रजसे नमः । तं तमसे
नमः । आं आत्मने नमः । अं अन्तरात्मने नमः । पं परमात्मने नमः ।
ह्रीं ज्ञानात्मने नमः । केशरेषु पूर्वादितः प्रादक्षिणेन पीठशक्तीः
पूजयेत् ।

ओं इच्छायै नमः । ओं कामदायिन्यै नमः । ओं रत्यै नमः । ओं रतिप्रियायै
नमः । ओं आनंदायै नमः । मध्ये मं मनोन्मन्यै नमः ।

प्. १७ब्)
तदुपरि ऐं परायै नमः । अपरायै परापरायै ह्सौं सदाशिव
महाप्रेतपद्मासनाय नमः । इति पीठपूजा ।।

अत्र विशेषरहस्य पूजायां कारणादि पंचतत्वशोधनादिकं कुर्यात् ।

अथ कारणकुंभस्थापनं यथा ।

तत्रादौ स्ववामे सुलक्षणं स्वीयशक्तिं संस्थाप्य । ततः स्ववामे
देव्यादक्षिणे भूमौ बिंदुगर्भषट्कोणचतुरस्रमंडलं विलिख्य फट् ।
इति मंडलं संप्रोक्ष्य । ह्रीं आधारशक्तये नमः । इति मंडलं
संपूज्य फट् । इति आधारसंप्रोक्ष्य नमः । इति मंडलोपरिसंस्थाप्य ।
मं वह्निमंडलाय दशकलात्मने नमः । इत्याधारं संपूज्य फट् । इति
कुंभं प्रक्षाल्य नमः । इति तत्र संस्थाप्य रक्तवस्त्रं
माल्यसिंदूरादिभिः कुंभं भूषयित्वा । अं अर्कमंडलाय
द्वादशकलात्मने नमः । इति कलशं संपूज्य ।

क्षं लं हं सं षं शं वं लं रं यं मं भं बं फं पं
नं धं दं थं तं णं ढं डं ठं टं ञं झं जं छं
चं ङं घं गं खं कं अंः अं औं ओं ऐं एं ॡं ऌं ॠं ऋं
ऊं उं ईं इं आं अं । इति विलोममातृकां

प्. १८अ)
मूलमंत्रं अपठन् कारणेन घटमापूर्य । उं
सोममंडलाय षोडशकलात्मने नमः । इति कारणं संपूज्य । क्रों गंगे
चेत्यादिनांकुशमुद्रया सोममंडलाय । तत्र तीर्थान्या
वाह्यपंचमुद्रयाभिः प्रणमेत् । भूमौ करतलद्वयं दत्वा द्रां
नमः । इति चतुस्रा २ भूमौ पुटाकारकरद्वयं दत्वा द्रां नमः । इति
संवृत्ताख्या भूमौ पुटांजलिना क्लीं नमः इति संपूटाख्या ३ भूमौ
कनिष्ठाद्वयमूलन्यस्त वृद्धांगुलिकाजलिना ब्लूं नमः । इति
पुटांजलाख्या ४ । भूमौ योनिमुद्रां निधाय सः नमः । इति योन्याख्या ४
। इति पंचमुद्रा प्रणामः । ततः पंचीकरणं कुर्याद्यथा । फट् इति
दर्भेण ताडनं । हुं इति अवगुंठनं । मूलेन वीक्षणं नमः ।
इत्यर्घोदकेन प्रोक्षणं ४ । मूलेन त्रिवारं गंधमाजिघ्रेत् । ततः ओं इति
कुंभे पुष्पं दत्वा ब्रह्म ऋचात्रिधाभिमंत्रयेद्यथा ।

ओं हं सः शुचिसद्वसुरन्तरीक्ष सद्धोता वेदी सदतिदिर्दुरोण
सन्नृसद्वरसदृतसघ्नोमस इवज्वा गोजा ऋतजा अद्रिजा ऋतं वृहत् ।

१८ब्)
ततः शापमोचनं कुर्यात् ।

ओं एकमेव परंब्रह्म स्थूलसूक्ष्ममयं ध्रुवं ।
कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहं ।।

इति त्रिवारं ।

ओं सूर्यमंडलसंभूते वरुणालयसंभवे ।
अमाबीजमये देवि शुक्रशापाद्विमुच्यतां ।।

इति त्रिः ।

ओं वेदानां प्रणवो बीजं ब्रह्मानंदमयं यदि ।
तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु ।।

इति त्रिः ।

ओं वां वीं वूं वैं वौं वः ब्रह्मशापविमोचितायै सुधादेव्यै नमः । इति
दशधा ।
ओं शां शीं शूं शैं शौं शः शुक्रशापविमोचितायै सुधादेव्यै नमः । इति
दशधाशुक्रशापमोचनं ।
ऐं ह्रीं श्रीं क्रों क्रीं क्रूं क्रैं क्रौं क्रः सुधाकृष्णशापं विमोचय २
अमृतं श्रावय २ स्वाहा । इति कृष्णशापं द्वादशधा ।
ऐं ह्रीं श्रीं आनन्देश्वराय विद्महे सुधादेव्यै धीमहि तन्नोर्धनारीश्वर
प्रचोदयात् । इत्यानंदगायत्रीं त्रिवारं पठेत् । ततो द्रव्यमध्ये
अकथादिशक्तिमंडलं लिखेत् यथा । आदिषोडशवारं वामरेखाकादि-

प्. १९अ)
षोडश ऊर्द्धरेखाथादि षोडश दक्षिणरेखा त्रिकोणेषु हं लं क्षं
एवं सर्वान् बिंदुयुक्तान् वर्णान्मध्ये ह्सौं बीजं लिखेत् । ह्सौः मंडलाय
नमः । इति मंडलं संपूज्य । तत्रानंदभैरवानंदभैरव्यौ ध्यायेत्


सूर्ययकोटि प्रतीकाशं चन्द्रकोटि सुशीतलं ।
अष्टादशभुजं देवं पंचवक्त्रं त्रिलोचनं ।।

अमृतार्णव मध्यस्थं ब्रह्मपद्मोपरिस्थितं ।
वृषारूढं नीलकंठं सर्वाभरणभूषितं ।।

कपालखट्वांगधरं घंटाडमरूपादिमं? ।
पाशांकुशधरं देवं गदामुशलधारिणं ।।

खड्गखेटकपट्टिशमुद्गरंशूलदंडधृक् ।
विचित्रखेटकं मुंडं वरदाभय पाणिनं ।।

लोहितं देवदेवेशं भावयेत् साधकोत्तमः ।

एवं ध्यात्वा । हसक्षमलवरयूं आनंदभैरवाय वषट् । इति
मंत्रमुच्चार्य एते गंधपुष्पे आनंदभैरवाय नमः । इति त्रिः संपूज्य
। आनंदभैरवीं ध्यायेत् ।

भावयेच्च सुधां देवीं चन्द्रकोट्ययुतप्रभां ।
हिमकुन्देंदुधवलां पंचवक्त्रां त्रिलोचनां ।।

प्. १९ब्)
अष्टादशभुजैर्युक्तां सर्वानन्दकरौद्यतां ।
प्रहसंतीं विशालाक्षीं देवदेवस्य संमुखीं ।।

इति ध्यात्वा । सहक्षमलवरयीं आनंदभैरव्यै वौषट् । इति मंत्रमुच्चार्य
एते गंधपुष्पे आनंदभैरव्यै नमः । इति त्रिः पूजयेत् । ईं क्रीं
परमस्वामिनि परमाकाशशून्यवाहिनि चन्द्रसूर्याग्नि भक्षिणि पात्रं
विश २ स्वाहा । इति त्रिः । ह्रीं श्रीं ऐं अमृते अमृतोद्भवे अमृतवर्षिणि
महत्प्रकाशयुक्ते अमृतं श्रावय २ स्वाहा । इति त्रिः । यं रं वं इति
मंत्रैर्द्रव्यस्य दोषं शोषणदहनामृतीकरणानि कुर्यात् । ततो हुं इति
अवगुंठ्य धेनुमुद्रयामृतीकृत्य मत्स्यमुद्रया आछाद्य तत्र वं इति
वरुणबीजं अष्टधा मूलमंत्रं चाष्टधा जपेदिति कारणशुद्धिः । ततो
मांसमीनमुद्राकुलकुसुमानि त्रिकोणवृत्तचतुरस्रमंडलोपरिसंस्थाप्य
प्रत्येकं शोधयेत् । ओं प्रत्यद्विष्णुस्तव तेन वीर्येण मृगो न भीमः
कुचरोगीरिष्ठाय स्वोरुषुत्रिषु विक्रमेष्वधिक्षिपन्ति भुवनानि विश्वाः ।

प्. २०अ)
इति मांसशोधनम् ।

ओं त्र्यंबकं यजामहे सुंगंधिं पुष्टिवर्द्धनं ।
उर्वारुकमिव बंधनान् मृत्योर्मुक्षीयमामृतात् ।।

इति मीनशोधनं ।

ओं तद्विष्णुः परमं पदं सदा पस्यन्ति शूरयः दिवीवचक्षुराततं ।
ओं तद्विप्रासो विपरायवोजागृवांसः समिंधतेर्विष्णोर्यत्परमं पदं ।
इति मुद्राशोधनं ।

ओं विष्णुर्योनिकल्पयतु त्वष्टारूपाणि पिंशतु आसिंचतु प्रजापतिर्धाता
गर्भं दधातु मे ।

ओं गर्भं धेहिसिनीवाली गर्भं धेहि सरस्वती ।
गर्भं ते अश्विनौ देवा वाधतां पुष्परस्रजौ ।।

ग्लूं न्लूं स्लूं प्लूं स्लूं अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि
अमृतं स्रावय २ स्वाहा । इति कुलकुसुमशुद्धिः ।।

अथ शक्तिशोधनं यथा ।

अदिक्षीता शक्तिश्चेत् फट् इत्यर्घ्योदकेन शक्तिं संप्रोक्ष्य
हूमित्यवगुंठ्ययोनिमुद्रां प्रदर्श्य तस्या अंगे ऋष्यादिकरांग
न्यासान् कृत्वा ऐं क्लीं सौः त्रिपुरायै नमः । इमां शक्तिं मम शक्तिं
कुरु कुरु स्वाहा । इति पठित्वा वामकर्णे

प्. २०ब्)
ह्रीं बीजं त्रिवारं श्रावयेत् । तस्या शिरसि मूलमंत्रं दशधा जपेत् ।
दितिदिक्षिता अभिषिक्तां चेत् तस्या स्वेष्टदेवतायाः न्यासादिकं स्वयमेव
कुर्यादिति शक्तिशुद्धिः । ततः प्रत्येकं यं इति वा बीजेन दोषं संशोष्य
रं इति वह्निबीजेन संदह्य । वं इति धेनुमुद्रयामृतीकृत्य । हूं इति
अवगुंठ्य । पुनः वं इति धेनुमुद्रयामृतीकृत्य मूलेन योनिमुद्रया
संदीप्य षडंगैः सकलीकृत्य मत्स्यमुद्रया आछाद्य तेषु प्रत्येकं
मूलमंत्रं दशधा जप्त्वा पात्रान्तरैः विदध्यादिति शुद्ध्यादि शुद्धिः
।।

अथ श्रीपात्रस्थापनं कुर्याद्यथा ।

आत्मयंत्रयोर्मध्ये हूं गर्भत्रिकोणवृत्त षट्कोण चतुरस्रं मंडलं
विलिख्य । फट् इति अर्घ्योदकेन संप्रोक्ष्य चतुरस्रेषु पूर्वादितः
प्रादक्षिण्येन उं उर्द्ध्विपानाय नमः । पूं पूर्णशौलाय नमः । जां
जालेंधराय नमः । कां कामरूपाय नमः । इति
संपूज्य षट्कोणेषु षडंगानि संपूज्य त्रिकोणेषु
मूलमंत्रस्याद्यखंडमुच्चार्य आत्मतत्वाय नमः । द्वितीय
खंडमुच्चार्य विद्यातत्वाय नमः ।

प्. २१अ)
तृतीय खंडमुच्चार्य शिवतत्वाय नमः । मध्ये हूं आधारशक्तये
नमः । इति मंडलं संपूज्य फट् इति श्रीपात्रासनं प्रक्षाल्य नमः । इति
मंडलोपरिसंस्थाप्य ।

तत्र त्रिकोणवृत्त षट्कोणमंडलं विलिख्य षट्कोणेषु षडंगानि संपूज्य
मूलेन त्रिकोणं संपूज्य । वृत्तोपरि पूर्वादितः प्रादक्षिण्येन
वह्नेर्दशकलाः पूजयेत् । यं धूम्रार्चिषे नमः । रं ऊष्मायै नमः ।
लं ज्वलिन्यै नमः । वं ज्वालिन्यै नमः । शं विस्फुलिंगिन्यै नमः । षं
सुश्रियै नमः । संसुरूपीयै नमः । हं कपिलायै नमः । लं हव्यवहायै
नमः । क्षं कव्यवहायै नमः । तदुपरि मं वह्निमंडलाय
दशकलात्मने नमः । इति संपूज्य । फट् इति महाशंखादिपात्रं
प्रक्षाल्य नमः । इति आधारोपरिसंस्थाप्य ।

तत्र त्रिकोणवृत्त षट्कोणं विलिख्य । षट्कोणेषु षडंगानि मूलेन त्रिकोणं
संपूज्य वृत्तोपरि पूर्ववत् । सूर्यस्य द्वादशकलाः पूजयेत् । कं भं
तपिन्यै नमः । खं वं तापिन्यै नमः । गं फं

प्. २१ब्)
धूम्रायै नमः । घं पं मरीच्यै नमः । ङं नं ज्वालिन्यै नमः ।
चं धं रुच्यै नमः । छं दं सुषुम्नायै नमः । जं थं भोगदायै
नमः । झं तं विश्वायै नमः । ञं णं बोधिन्यै नमः । टं ठं
धारिण्यै नमः । ठं डं क्षमायै नमः । तदुपरि अं अर्क्कमंडलाय
द्वादशकलात्मने नमः । इति संपूज्य क्षकारादि अकारांतां
विलोममातृकां मूलमंत्रं चोच्चार्यघटस्थ कारणेन श्रीपात्रं
त्रिभागमापूर्य शेषं जलेनापूर्य तत्र त्रिकोणवृत्त षट्कोणं विलिख्य
। षट्कोणेषु षडंगानि मूलेन त्रिकोणं संपूज्य । वृत्तोपरि पूर्ववत् ।
चंद्रस्य षोडशकलाः पूजयेत् । अं अमृतायै नमः । आं मानदायै नमः
। इं पूषायै नमः । ईं तुष्ट्यै नमः । उं पुष्ट्यै नमः । ऊं रत्यै नमः
। ऋं धृत्यै नमः । ॠं शशिन्यै नमः । ऌं चंद्रिकायै नमः । ॡं
कांत्यै नमः । एं ज्योत्स्नायै नमः । ऐं श्रियै नमः । ओं प्रीत्यै नमः ।
औं अंगायै नमः । अं पूर्णायै नमः । अंः पूर्णामृतायै नमः ।
तदुपरि उं सोममंडलाय षोडशकलात्मने नमः । इति संपूज्य ।।

प्. २२अ)
तत्र क्रों गंगे चेत्यादिनांकुशमुद्रया चंद्रमंडलात्तीर्थमावाह्य ।
रक्तपुष्पश्वेतरक्तचंदनदूर्वाक्षतान् तत्र निक्षिप्य मूलेन शुद्धि
मीनमुद्रा कुलकुसुमानि किंचित् तत्र निक्षिप्य पूर्ववत् । अकथादि
शक्तिमंडलं तत्र विलिख्य । ह्सौः मंडलाय नमः । इति मंडलं
संपूज्य ।

तत्र पूर्ववत् आनंदभैरवं । आनंदभरवीं च ध्यात्वा पूजयेत् ।

ततः श्रीपात्रं धृत्वा अभिमंत्रयेदेभिर्मंत्रैः ऐं क्लीं सौंः

ब्रह्मांडरससंभूतमशेषरससंभवं ।
आपूरितं महापात्रं पीयूषरसमावहं ।।

ऐं अखंडैकरसानंदकरे परसुधात्मनि स्वछन्दस्फुरणा मंत्र
निधेहि कुलरूपिणी ।

क्लीं अकुलस्थामृताकारे शुद्धज्ञानकलेवरे ।
अमृतत्वं निधे ह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ।।

सौः तद्रूपेणैकरस्यं च कृत्वा स्यैक स्वरूपिणि ।
भूत्वा कुलामृताकारं मयि विष्करणं कुरु ।।

ओं असन्तापात्र भवितामिदन्ता परमामृतं । पराहंतामये वह्नौ होम

प्. २२ब्)
स्वीकारलक्षणं । ऐं वद वद वाग्वादिनि क्लीं क्लिन्ने क्लेदिनि क्लेदय २ ह्सौः
महाक्षोभं कुरु कुरु ह्सौंः महामोक्षं कुरु २ स्वाहा ।
ग्लूं स्लूं न्लूं प्लूं म्लूं अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि
महाप्रकाशयुक्ते अमृतं स्रावय २ स्वाहा ।

ततः श्रीपात्रे पंचरत्नानि पूजयेत् । ग्लूं गगनरन्तेभ्यो नमः । स्लूं
स्वर्गरत्नेभ्यो नमः । प्लूं पातालरत्नेभ्यो नमः । म्लूं मर्त्यरत्नेभ्यो
नमः ।

ततः पुनस्तत्र आनंदभैरवं आनंदभैरवीं च पूजयेत् । ततस्तत्र
स्वेष्ट देवीमावाह्य हुं इति अवगुंठ्य वं धेनुमुद्रया अमृतीकृत्य
मूलेन योनिमुद्रया संदीप्य । षडंगैः सकलीकृत्य मत्स्यमुद्रया
आछाद्य तत्र मूलमंत्रं दशधा जप्त्वा देवीरूपं श्रीपात्रं
विभाव्य । गन्धपुष्पधूपदीपैस्तत्र देवीं संपूज्य । तेनोदकेनात्मानं
पूजोपकरणान्यभ्युक्षयेत् । इति श्रीपात्रस्थापनं ।।

ततो गुर्वादि पात्राणि स्थापयेत् । घटसमीपे गुरुपात्रं ततो भोगपात्रं ।
ततः शक्तिपात्रं ।

प्. २३अ)
ततो योगिनीपात्रं । ततो वीरपात्रं । ततो बलिपात्रं । ततः पाद्यपात्रं । तत
आचमनीपात्रं । श्रीपात्रेण नवपात्राणि भवंति । तदभावे श्रीपात्रं
गुरुपात्रं भोग शक्ति योगिनी वीर बलि सप्तपात्राणि । तदभावे
श्रीगुरुभोगयोगिनी बलि पंचपात्राणि । तदभावे श्रीगुरुभोग त्रिपात्राणि ।
एषां स्थापन क्रमो यथा । भूमौ त्रिकोणवृत्त चतुरस्रमंडलानि
संपूज्य । फट् इति साधारण पात्राणि प्रक्षाल्य नमः । इति
मंडलोपरिसंस्थाप्य कारणेनापूर्य आधारपात्रा । तीर्थेषु वह्नि
सूर्यशशिमंडलानि संपूज्य । तत्र शुद्धि मीनमुद्रया कुलकुसुमानि
निक्षिप्य हूं इति अवगुंठ्य । वं धेनुमुद्रया अमृतीकृत्य मूलेन
योनिमुद्रया संदीप्य । षडंगैः सकलीकृत्य । मत्स्यमुद्रया आछाद्य । तत्र
मूलमंत्रं दशधा जपेदिति । ततस्तर्पणं कुर्यात् । यथा
वामहस्ततत्वमुद्रया । श्रीपात्रस्थकारणं शुद्ध्यादि सहितं गृहीत्वा

प्. २३ब्)
शिरसि सहक्षमलवरयूं आनंदभैरवाय वषट् । एतत्सशुद्ध्या सवं
आनंदभैरवं तर्पयामि नमः । इति त्रिवारं संतर्प्य सहक्षमलवरयीं
आनंदभैरव्यै वषट् । एतत् सशुद्ध्या सवं आनंदभैरवीं तर्पयामि
स्वाहा । इति त्रिवारं तर्पयेत् ।

ततो गुरुपात्रामृतेन एवं ऐं ह्रीं श्रीं अमुकानंदनाथ श्री
अमुकीदेव्यंवा श्रीपादुकां तर्पयामि नमः । इति त्रिः । ततो ऐं श्रीं गुरुं
तर्पयामि नमः । ऐं परमगुरुं तर्पयामि नमः । ऐं परापरगुरुं
तर्पयामि नमः । ऐं परमेष्ठिगुरुं तर्पयामि नमः । श्रीपात्रामृतेन ओं
देवांस्तर्पयामि नमः । ओं ऋषींस्तर्पयामि नमः । ओं पितॄंस्तर्पयामि
नमः । इति सकृत सकृत तर्पयेत् । ततः श्रीपात्रामृतेन मूलमूचार्य एतत्
सशुद्ध्यासवं श्रीमद्दक्षिणकालिकां तर्पयामि नमः स्वाहा । इति
सप्तपंचत्रिधा वा तर्पयेत् । ततो भोगपात्रामृतेन
महाकालमंत्रमुच्चार्य । एतत् सशुद्ध्यासवं श्रीमन्महाकालभैरवं
तर्पयामि नमः । इति त्रिस्तर्पयेत् ।

ततः शक्तिपात्रामृतेन योगिनी

प्. २४अ)
पात्रामृतेन वा मूलमुच्चार्य एतत् सशुद्ध्यासवं सायुधां सवाहनां
सपरिवारां श्रीमन्महाकालभैरवसहितां श्रीमद्दक्षिणकालिकां
तर्पयामि स्वाहा । इति त्रिवारं तर्पयेदिति तर्पणं । ततस्तत्वशुद्धिं कुर्यात् ।
कृतांजलिः ओं प्राणापान समानोदानव्याना मे शुद्ध्यतां ज्योतिरहं
विरजाविपाप्मा भूयासं स्वाहा ।। १ ।।

ओं पृथिव्यप्तेजोवायवाकाशानि मे शुद्ध्यंतांमित्यादि ।। २ ।।
ओं प्रकृत्यहंकारबुद्धिमनःश्रोत्राणि मे शुद्ध्यंतामित्यादि ।। ३ ।।
ओं त्वक्चक्षुर्जिह्वाघ्राणवचांसि मे शुद्ध्यंतामित्यादि ।। ४ ।।
ओं पाणिपादपायूपस्थशब्दा मे शुद्ध्यंतामित्यादि ।। ५ ।।
ओं स्पर्शरूपरसगंधाकाशनि मे शुद्ध्यतामित्यादि ।।

इति सप्त ऋग्भिरवमृष्यकारणेन करतले संमार्ज्य दक्षिणहस्ततले अधोमुख
त्रिकोणं विलिख्य त्रिकोणेषु मध्ये च शुद्धि खंडानि संस्थाप्य
मूलमंत्रांते ह्रीं श्रीं आत्मतत्वेन स्थूलदेहं शोधयामि स्वाहा ।
इत्यनेन भगमुद्रया अधस्थां शुद्धिं स्वीकुर्यात् । मूलांते ह्रीं श्रीं
विद्यातत्वेन सूक्ष्मदेहं शोधयामि स्वाहा । इत्यनेन

प्. २४ब्)
दक्षिणस्थां शुद्धिं स्वीकुर्यात् । मूलांते ह्रीं श्रीं शिवतत्वेन परदेहं
शोधयामि स्वाहा । इत्यनेन वामस्थां शुद्धिं स्वीकुर्यात् । मूलान्ते ह्रीं
श्रीं सर्वतत्वेन तनु तत्रयाश्रयं जीवं शोधयामि स्वाहा । इत्यनेन
मध्यस्थां शुद्धिं स्वीकुर्यादिति तत्वशुद्धिः । ततो भोगपात्र तत्वमुद्रया
त्रिवारं बिंदू स्वीकारं कुर्यात् यथा । मूलं आर्द्रं ज्वलति ज्योतिहमस्मि
ज्योतिर्ज्वलनि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि योहमस्मि सोहमस्मि
ब्रह्माहमस्मि अहमेव हि मां जुहोमि स्वाहा ।। १ ।।

मूलं त्वमेव प्रत्यक्षं ब्रह्मासित्वामेव प्रक्षं वदिष्यामि त्वं
मामवतु त्वद्वक्तारमवतु आवतु मामवतु वक्तारं स्वाहा ।। २ ।।

मूलं परश्छंदशामृषभो
विश्वरूपश्छंदोभ्योध्यमृतात्संवभूव समेन्दोमेधया स्पृणोति
अमृतस्य देवधारणो भूयासं शरीरे मे विचर्षणं जिह्वा मे
मधुमत्तमाकर्णाभ्यां भूरि विश्रुवं ब्रह्मणः कोशोसि मेधया पिहित
श्रुतं मे गोपाय स्वाहा ।। ३ ।।

इति मंत्रत्रयेण त्रिवारं विदु स्वीकुर्यात् । ततो वटुकादिभ्यो बलिं दद्यात् ।

प्. २५अ)
सिंहासनस्य पूर्वादिदिक्षु त्रिकोणवृत्त चतुरस्रमंडलं चतुष्टयं
निर्माय । अथवा स्ववामे तन्मंडलंमेकं निर्माय फट् इति अर्घ्योदकेन
संप्रोक्ष्य एते गंधपुष्पे । ओं मंडलाय नम इति मण्डलं संपूज्य तत्र
मांसमीनमुद्रा बलिपात्र कारणादि सहित बलिचतुष्टयं संस्थाप्य
पूर्वे एते गंधपुष्पे वां वटुकाय नमः । इति वटुकं संपूज्य
वामहस्त तत्वमुद्रया बलिं धृत्वा । दक्षिणे नवपात्रकारणं
अर्घ्योदकं वा गृहीत्वा बलिमुत्सृजेत् । एहि एहि देवी पुटवटुकनाथ
कपिलजटाभार भास्वर त्रिनेत्र ज्वालामुख सर्वविघ्नान्नाशय नाशय
बलिं गृह्ण गृह्ण स्वाहा । एष बलिर्वटुकनाथाय नमः । दक्षिणे यां
योगिनीभ्यो नमः । इति संपूज्य दक्षिणहस्तांगुष्ठोनामिकाभ्यां बलिं
वामहस्तेन कारणं जलं वा गृहीत्वा बलिमुत्सृजेदनेन उर्द्धे
ब्रह्मांडतो वा दिविगगनतले भूतले निष्कले वा पाताले वा वने वा
सलिलपवनयोर्यत्र कुत्र स्थिता

प्. २५ब्)
वा क्षेत्रे पीठोपपीठादिषु च कृतपरा धूपदीपादिकेन प्रीता देव्यः
सदानः शुभ बलि विधिना पांतु वीरेन्द्रवंद्याः । यां योगिनीभ्यः
स्वाहा । सर्वयोगिनीभ्यो हुं फट् स्वाहा । एष बलिर्योगिनीभ्यो नमः । पश्चिमे
क्षां क्षेत्रपालाय नमः । इति पूर्ववत् संपूज्य वाममुष्टिकृत
तर्जनीशरलीकृत्य बलिं धृत्वा उत्सृजेत् । अनेन

त्रिशूलं डमरूं चैव कपालं शंखमेव च ।
दधानं कृष्णवर्णांतं भजेहं क्षेत्रपालकं ।।

क्षां क्षीं क्षूं क्षैं क्षौं क्षः स्थानक्षेत्रपाल
धूपदीपादिसहितं बलिं गृह्ण २ स्वाहा । एष बलि क्षेत्रपालाय नमः । उत्तरे
गां गणेशाय नमः । इति गणेशं संपूज्य वाममुष्टि
मध्यमांगुष्ठशरलयोगाद्बलिमुत्सृजेदनेन । गां गीं गूं गैं गौं
गः गणपतये वरद सर्वगनं मे वशमानय बलिं गृह्ण २ स्वाहा । एष
बलिर्गणेशाय नमः । ततः स्ववामे चतुरस्रं मंडलं विलिख्य । फट् इति
मंडलं संप्रोक्ष्य । ओं व्यापकमंडलाय इति संपूज्य ।

तत्र पूर्ववद्बलि संस्थाप्य । एते गंधपुष्पे ह्रीं श्रीं

प्. २६अ)
सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हूं फट् स्वाहा । एष बलिः
सर्वभूतेभ्यो नमः । पंचबलिदाने अशक्तश्चेत् सर्वभूतेभ्यो बलिमेकं
दद्यात् । इति बलिदानविधिः ।

ततः प्राणायामं षडंगन्यासं च कृत्वा कामकलारूपमात्मानं
भावयेत् । कामकलाबीजं तु ईं अस्या ध्यानं विचिंतयेत् सुंदरीं देवीं
सर्वव्यापकरूपिणीं । इकारभूतमंतः स्थावयवं चं चतुष्टयं ।

बिंदुत्रयेण देवेशि प्रथमं देवि वक्त्रकं ।
बिंदुद्वयं स्तनद्वंद्वं हृदिस्थाने नियोजयेत् ।।

हकारार्धकलां सूक्ष्मां योनिमध्ये विचिंतयेत् ।
तथा कामकलारूपां मदनांकुर गोचरां ।।

उद्यदादित्यसंकाशां सिंदूराभां स्तनद्वयं ।
बिंदुसंकल्प्य वक्त्रे तु स्फुरद्दीपशिखां प्रिये ।।

आधाराद्ब्रह्मरंध्रांतं तंत्रमार्गेण भावयेत् ।
कामो बिंदुरहं देवि तत्रस्था परमेश्वरी ।।

शिवशक्तिमयं देवि तदधस्थात् कुचद्वयं ।
तदधः सपरार्द्धं च चिद्रूपां परमां कलां ।।

सापि कुंडलिनी शक्तिः कामकलास्वरूपिणी ।
सापि च त्रिविधा सृष्टिर्ब्रह्मविष्णुशिवात्मिका ।।

प्. २६ब्)
तां चिंत्यसाधक श्रेष्ठस्त्रैलोक्यं वशमानयेत् ।
शक्त्यभावे महाशक्तिर्महांसिद्धिप्रदायिनीं ।।

एवं कामकलारूपमात्मानं विचिंत्य । पूर्ववद्देवीं ध्यात्वा ।
मूलाधारस्थ कुंडलिनीं षट्चक्रभेदक्रमेण सहस्रारे नीत्वा तत्रस्थ
परमशिवे संयोज्य तत्रैव क्षणमात्रं रमयित्वा तदुद्भवामृतेनाप्लाव्य
आनंदलोलीभूतां ब्रह्ममयीं हृदयाष्टदले समानीय श्वासमार्गेण
दीपाद्दीपान्तरमिव करस्थमातृकां भोजस्वरूप पुष्पांजलावानीय
तत्पुष्पं यंत्रादौ संस्थाप्य मूलमंत्रेण देवीमूर्त्तिं संकल्प्य
कृतांजलिः ।

ओं देवेशि भक्तिसुलभे परिवारसमन्विते ।
यावत् त्वां पूजयिष्यामि तावत् त्वां सुस्थिरा भव ।।

इति संप्रार्थ्य आवाहयेत् ।

पंचमुद्राभिर्यथा । भगवति श्रीमद्दक्षिणकालिके सायुधे सवाहने
सपरिवारे श्रीमन्महाकालभैरव सहिते इहागच्छ इह तिष्ठ इह सन्निधै हि
इह सन्निरूद्धस्व इह संमुखी भव ।

प्. २७अ)
कृतांजलिः । अत्राधिष्ठानं कुरु मम पूजां गृहाण । ततो
लेलिहानमुद्रया यंत्रं धृत्वा प्राणप्रतिष्ठां कुर्यात् । यथा आं ह्रीं
क्रों हं सः श्रीमद्दक्षिणकालिकायाः प्राणा इह प्राणाः पुनः आं
ह्रीं क्रों हं सः श्रीमद्दक्षिणकालिकायाः जीव इह स्थितः आं ह्रीं क्रों
हं सः श्रीमद्दक्षिणकालिकायाः सर्वेन्द्रियाणि आं ह्रीं क्रों हं सः
श्रीमद्दक्षिणकालिकाया वाङ्मनोनयनश्रोत्र घ्राण प्राणा इहागत्य
सुखं चिरं तिष्ठन्तु स्वाहा । ततोर्घ्योदकेन मातृकां बिंदुयुक्तां
मूलमंत्रं चोच्चार्यय देवीं संप्रोक्ष्य परमीकरणी महामुद्रां
प्रदर्श्य । हूं इति अवगुंठ्य धेनुमुद्रया अमृतीकृत्य मूलेन योनिमुद्रया
संदीप्य महायोनिभूतिनी मुद्रे प्रदर्श्य षडंगमंत्रैः सकलीकृत्य
पूजयेत् । पूजा तु षोडशोपचारा यथा ।

आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकं ।
मधुपर्काचमनस्नानं वसनाभरणानि च ।।

गंधपुष्पधूपदीपनैवेद्यचन्दनानि च ।
प्. २७ब्)
प्रयोजयेदर्चनायामुपचारांस्तु षोडश ।।

पाद्यार्घ्याचमनीयानि मधुपर्काचमनं तथा ।
गंधादयो नैवेद्यान्ता उपचारा दश क्रमात् ।।

गंधपुष्पं तथा धूपो दीपोनैवेद्यमेव च ।
नियोजयेदर्चनायां पूजापंचोपचारिका ।।

आदौ मूलं समुच्चार्य उपचारं ततो वदेत् ।
ता स्वदेवता नाम्ना उपचारात् समर्पयेत् ।।

तत्रादौ षोडशोपचारिका पूजा यथा । स्वर्णाद्यासनमानीय पात्रांतरे
संस्थाप्य । फट् इति अर्घ्योदकेन संप्रोक्ष्य हूं इति अवगुंठ्य वं
धेनुमुद्रयामृतीकृत्य मूलेन योनिमुद्रां प्रदर्श्य मूलमुच्चार्य । एतत्
अमुकायनं श्रीमद्दक्षिणकालिकायै नमः । ततः कृतांजलिः
मूलमुच्चार्य श्रीमद्दक्षिणकालिके स्वागत्यन्ते सुस्वागतं । ततो
मूलमुच्चार्य । एतत्पाद्यं श्रीमद्दक्षिणकालिकायै नमः । इति जलं
पादयोर्दद्यात् । एवं इदमर्घ्यं श्री० स्वाहा । इति
पुष्पबिल्वपत्रदुर्वाक्षताश्वेतरक्तचन्दनजलानि एकत्रीकृत्यार्घ्यं शिरसि
दद्यात् । इदमाचमनीयं श्री० स्वधा । इति सुगंधिजलं मुखे । एष

प्. २८अ)
तैलसाधारमधुपर्कः श्री० स्वधा । इति मुखे । मूलं एतत्पुनराचमनीयं
श्री० स्वधा । इति मुखे । इदं स्नानीयोदकं श्री० नमः । इति सर्वांगे । एतत्
पुनराचमनीयं पूर्ववत् । एतद्वस्त्रं श्री० नमः । एतत् पुनराचमनीयं
श्री० स्वधा । इति मुखे । एतन्मुखे स्वर्णाद्याभरणं श्री० नमः । इति
नानाभरणानि । एष गंधः श्री० नमः इति सर्वांगे । इदं रक्तानुलेपनं
श्री० नमः पूर्ववत् । एतत् सिंदूरं श्री० नमः इति ललाटे सीमन्ते च दद्यात् ।
एतत् पुष्पं श्री० वौषट् इति नानाविधपुष्पाणि शिरोहृद्गुह्यं पाद
सर्वांगेषु पंचवारं दद्यात् । एतत् स चन्दनबिल्वपत्रं श्री० नमः । इति
चरणयोः अग्नौ धूपं दत्वा प्रोक्षणादिभिः संस्कृत्य एष धूपः श्री०
नमः इति धूपं निवेद्य फट् इति घंटां संप्रोक्ष्य एते गंधपुष्पे ओं
जपध्यानमन्त्रमातः स्वाहा । इति घंटां संपूज्य वामहस्तेन
घंटां वादयन् दक्षिणेन धूपमुत्तोल्पनीचैर्नासिका पर्यंतं
त्रिवारं धूपयेत् । घृतादि दीपं प्रज्वाल्य प्रोक्षणादिभिः संस्कृत्य एष
दीपः श्री नमः पूर्ववत्

प्. २८ब्)
घंटां वादयन् उच्चैर्दृष्टिपर्यंतं सप्तवारं दीपं दर्शयेत् । ततः
सुधापात्रं वामहस्तपानमुद्रया धृत्वा दक्षिणेदशुद्ध्यादिकं
गृहीत्वा करौ संयोज्य हृदि लग्नौ कृत्वा

ओं मर वं वारुणीकल्पं कोटिकल्पांतकारिणी ।
गृहाणशुद्धिसहितं देहि मे मोक्षमव्ययं ।।

इति पठित्वा आधारे पात्रं संस्थाप्य मूलमुच्चार्य । एतत् सुद्ध्यासवं
श्री० निवेदयामि । इति निवेद्य कृतांजलिः ।

ओं शुद्ध्यासवरसस्वादु परमानंदनिर्भरे ।
अपारे भवसंसारे त्राहि मां परमेश्वरि ।।

ततः संमुखे त्रिकोणवृत्तचतुरस्रं मंडलं विलिख्य । तदुपरि
नानास्वादुपदं सनैवेद्यं साधारं संस्थाप्य । एते गंधपुष्पे
ओं नैवेद्याय नमः । इति नैवेद्य संपूज्य फट् इति संप्रोक्ष्य । हूं इति
अवगुंठ्य वं धेनुमुद्रयामृतीकृत्य मूलेन योनिमुद्रया
सन्दीप्य षडंगैः सकलीकृत्य मत्स्यमुद्रया आछाद्य तत्र मूलमंत्रं
दशधा जप्त्वा वामहस्त तत्वमुद्रया धृत्वा । मूलमुच्चार्य एतत्सोपकरण
नैवेद्यं श्रीमद्दक्षिणकालिकायै निवेदयामि ।

प्. २९अ)
इति निवेद्य ।
ओं अमृतोपस्तरणमसि स्वाहा । इति जलषडंगं दद्यात् । ओं प्राणाय स्वाहा । ओं
अपानाय स्वाहा । ओं समानाय स्वाहा । ओं उदानाय स्वाहा । ओं व्यानाय
स्वाहा । इति प्राणादि मुद्राः प्रदर्श्य । ओं निवेदयामि भगवत्यै जुषानेदं
हविर्मम । इति ग्रासमुद्रां प्रदर्श्य मूलं एतत्पानार्थोदकं श्री०
निवेदयामि । मूलं एतत्पुनराचमनीयं श्री० स्वधा नैवेद्य च तांबूलं
संस्कृत्यमूलं एतत् तांबूलं श्री० निवेदयामि । ततः श्रीपात्रामृतेन
त्रिवारं संतर्प्य देवीं गुरुं च प्रणमेत् । ततो मूलमुच्चार्य एष
पुष्पांजलिः श्रीमद्दक्षिणकालिकायै वौषट् । इति शिरोहृद्गुह्यपाद
सर्वांगेषु पंचपुष्पांजलिः दद्यत् । ततः कृतांजलिः ।

संविन्मये महाशांति परामृतचरु प्रिये ।
अनुज्ञां कालिके देहि परिवारार्चनायते ।।

इत्यनुज्ञां लब्ध्वा आवरणपूजामारभेत् ।

तत्रादौ षडंग ध्यानं ।

तुषारस्फटिक श्यामनीलकृष्णारुण त्विषः ।
वरदाभय धारिण्यः प्रधानतनवः स्त्रियः ।।

इति देव्याः शिरः शिखा कवच

प्. २९ब्)
नेत्रास्तेषु । अथवाष्टदलपद्मं केशरेषु अग्नीशा सुखाय मध्येषु
पूर्वादिदिक्षु चक्रां हृदयाय नमः । क्रीं शिरसे स्वाहा नमः । क्रूं
शिखायै वषट् नमः । क्रैं कवचाय हूं नमः । क्रौं नेत्रत्रयाय
वौषट् नमः । क्रः अस्त्राय फट् नमः । इति गंधपुष्पाक्षतैः
प्रत्येकमंगानि संपूज्य पुनः एते गंधपुष्पे श्रीमद्दक्षिणकालिकायाः
षडंग देवताभ्यो नमः । इति वारद्वयं संपूज्य । क्रीं
श्रीमद्दक्षिणकालिकायाः षडंग देवतास्तर्पयामि । इति त्रिवारं संतर्प्य
मूलं एष पुष्पांजलिः श्रीमद्दक्षिणकालिकायै वौषट् ।
इत्येकपुष्पांजलिं दत्वा मूलं श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा ।
इति सकृत्संतर्प्य देवीं प्रणमेत् । ततः श्रीमन्महाकालभैरवं पूजयेत् ।
अस्य मंत्रा यथा । ओं महाकालाय नमः । हूं महाकालाय नमः ।
इत्यष्टाक्षर द्वयं । हूं हूं महाकाल प्रसीद प्रसीद ह्रीं ह्रीं
स्वाहा । ह्रीं ह्रीं हूं महाकाल ह्रीं ह्रीं हूं १० ओं ह्रीं
महाकालाय नमः । ओं ह्रीं क्रीं महाकालाय स्वाहा । एतेषां

प्. ३०अ)
मंत्राणां दक्षिणकालिका ऋषिर्विराट्छन्दः सर्वव्यापि निरंजन
श्रीमहाकालभैरवो देवता हूं बीजं ह्रीं शक्तिः स्वाहा कीलकं
धर्मार्थ काममोक्ष चतुर्वर्गसिद्धये विनियोगः । शिरसि
श्रीमद्दक्षिणकालिका ऋषये नमः । मुखे विराट्छंदसे नमः । हृदि
सर्वव्यापि निरंजन श्रीमन्महाकालभैरवदेवतायै नमः । गुह्ये हूं
बीजाय नमः । पादयोः ह्रीं शक्तये नमः । सर्वांगे स्वाहा कीलकाय
नमः । पूर्ववद्विनियोगः । ततः करांगन्यासौ यथा । गंधपुष्पे ऐं
ह्रीं श्रीं ब्रह्मानंदनाथादिसिद्धौघगुरुभ्यो नमः । इति वारद्वयं
संपूज्य प्रत्येकं पूजयेत् । एते गंधपुष्पे ऐं ह्रीं श्रीं
ब्रह्मानंदनाथ श्रीपा० पू० एवं पूर्णादेवानंदनाथ श्रीपा० पू०
चलच्चित्तानंदनाथ श्रीपा० पू० चलाचलानंदनाथ श्रीपा० पू०
कुमारानंदनाथ श्रीपा० पू० क्रोधनानंदनाथ श्रीपा० पू०
वरदानंदनाथ श्रीपा० पू० स्मरदीपनानंदनाथ श्रीपा० पू०
मायांबा श्रीपा० पू० मायावत्यम्बा

प्. ३०ब्)
श्रीपा० पू० इति संपूज्य गुरुपात्रामृतेन ऐं ह्रीं श्रीं
ब्रह्मानंदनाथादि सिद्धौघ गुरुंस्तर्पयामि नमः । इति त्रिवारं
संतर्प्य प्रणमेदिति सिद्धौघाः । तत एते गंधपुष्पे ऐं ह्रीं श्रीं
विमलानंदनाथ श्रीपादुकां पूजयामि नमः । एवं कुशलानंदनाथ
श्रीपा० पू० । भीमसेनानंदनाथ श्रीपा० पू० । सुधाकरानंदनाथ
श्रीपा० पू० । मीनानंदनाथ श्रीपा० पू० । गोरक्षकानंदनाथ श्रीपा०
पू० । भोगदेवानंदनाथ श्रीपा० पू० । प्रजापत्यानंदनाथ श्रीपा०
पू० । मूलदेवानंदनाथ श्रीपा० पू० । रंतिदेवानंदनाथ श्रीपा०
पू० । विघ्नेश्वरानंदनाथ श्रीपा० पू० । हुताशनानंदनाथ श्रीपा०
पू० । समयानंदनाथ श्रीपा० पू० । संतोषानंदनाथ श्रीपा० पू० ।
सर्वत्र ऐं ह्रीं श्रीं आदिश्रीपा० पू० नमोंतेन पूजयेत् । गुरुपात्रामृतेन
ऐं ह्रीं श्रीं विमलानंदनाथादि मनवौघगुरुंस्तर्पयामि नमः । इति
त्रिवारं संतर्प्य प्रणमेत् । ततः काल्पादि

प्. ३१अ)
पंचदशनित्या अंतस्त्रिकोणाक्षरभ्य वामावर्त्तेन पूजयेत् । अस्या ध्यानं
यथा । सर्वाः श्यामां असिकरा मुंडमालाविभूषणाः । तर्जनीं
वामहस्तेन धारयंत्यः शुचि स्मिताः । दिगंबरा हसन्मुख्यः
स्वस्वभर्तृसमन्विताः । इति ध्यात्वा । एतत् पाद्यं क्रीं काल्पादि
पंचदशशक्तिभ्यो नमः । एवं क्रमेण नैवेद्यतांबूलान्तैः संपूज्य
पुनः एते गंधपुष्पे क्रीं काल्यै नमः । एवं कपालिन्यै कुल्लायै
तद्वहिस्त्रिकोणे कुरु कुल्लायै विरोधिन्यै विप्रचित्तायै तद्वहिस्त्रिकोणे
उग्रप्रभायै दीप्तायै तद्वहिस्त्रिकोणे नीलायै घनायै वलाकायै
तद्वहिस्त्रिकोणे मात्रायै मुद्रायै मितायै । एताः क्रीं बीजादि नमोंतेन
पूजयेत् । तथा प्रमाणमुक्तं रुद्रयामले काल्पाद्याः शक्तयः पूज्या
कालीबीजेन केवलं । अन्यथा सिद्धिहानिः स्यात् कालिका पूजने परमिति । ततः
क्रीं काल्पादि पंचदशशक्तीस्तर्पयामि स्वाहा । इति त्रिवारं संतर्प्य
प्रणमेत् ।

प्. ३१ब्)
ततो मूलमुच्चार्य एष पुष्पांजलिः त्रिपंचारपीठे काल्पादि
पंचदशशक्ति सहिते श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पांजलिं दत्वा
सकृत् तर्पयेत् । ततोष्टदलेषु वामावर्त्तेन ब्राह्माद्यष्टशक्तिः पूजयेत् ।
तत्रादौ एतत्पाद्यं ह्रीं ब्रह्माद्यष्टशक्तिभ्यो नमः । इत्यादि
नैवेद्यतांबूलांतैः संपूज्य । पुनः एते गंधपुष्पे ह्रीं
ब्रह्माद्यष्टशक्तिभ्यो नमः । इति संपूज्य प्रत्येकं पूजयेत् । पूर्वादितः
एते गंधपुष्पे आं ब्राह्म्यै नमः । एवं ईं नारायण्यै नमः । जं
माहेश्वर्यै नमः । ऋं चामुंडायै नमः । ऌं कौमार्ययै नमः । ऐं
अपराजितायै नमः । औं वाराह्यै नमः । अंः नारसिंह्यै नमः । इति
संपूज्य ह्रीं ब्रह्माद्यष्टशक्तीस्तर्पयामि नमः । इति त्रिः संतर्प्य
प्रणमेत् । ततो मूलमुच्चार्य एष पुष्पांजलिः अष्टदलपत्रे
ब्रह्माद्यष्टशक्तिसहिते श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पांजलिं
दत्वा मूलमुच्चार्य श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति

प्. ३२अ)
सकृत्तर्पयेत् । ततोष्टदलाग्रे एतत्पाद्यं ओं असितांगाद्यष्टभैरवेभ्यो नमः
। इति नैवेद्यताम्बूलांतैः संपूज्य । पुनः एते गंधपुष्पैः ओं
असितांगाष्टभैरवेभ्यो नमः । इति सकृत्संपूज्य पूर्वादि वामावर्त्तेन
प्रत्येकं पूजयेत् । अं असितांगभैरवाय नमः । इं रुरुभैरवाय नमः
। ठं चंडभैरवाय नमः । ऋं क्रोधभैरवाय नमः । ऌं
उन्मत्तभैरवाय नमः । एं कपालीभैरवाय नमः । ओं भीषणभैरवाय
नमः । अं संहारभैरवाय नमः । इति गंधपुष्पैः संपूज्य । ओं
असितांगाद्यष्टभैरवांस्तर्पयामि नमः । इति त्रिः संतर्प्य प्रणमेत् । ततो
मूलमुच्चार्य एष पुष्पांजलिः अष्टदलाग्रे असितांगाद्यष्टभैरवसहित
श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पांजलि दत्वा मूलमुच्चार्य
श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति सकृत्संतर्प्य प्रणमेत् ।
तद्वाह्ये भूपुरं देशे पूर्वादि प्रादक्षिण्येन इन्द्रादि
दशदिक्पालान्पूजयेत् । एतत् पाद्यं ओं इन्द्रादि दशदिक्पालेभ्यो नमः । इति
पूर्ववत्

प्. १३२ब्)
संपूज्य एते गंधपुष्पे । ओं इन्द्रादि दशदिक्पालेभ्यो नमः । इति संपूज्य एते
गंधपुष्पैः प्रत्येकं पूजयेत् । लं इंद्राय नमः । रं अग्नये नमः ।
मं यमाय नमः । क्षं नि-ऋतये नमः । वं वरुणाय नमः । यं वायवे
नमः । कुं कुबेराय नमः । हुं ईशानाय नमः । पूर्वेशानयोर्मध्ये
आं ब्रह्मणे नमः । निर्-ऋति वरुणयोर्मध्ये ह्रीं अनंताय नमः । इति
संपूज्य । ओं इंद्रादि दशदिक्पालांस्तर्पयामि । इति त्रिः संतर्प्य प्रणमेत् ।
ततो मूलमुच्चार्य एष पुष्पांजलिः इन्द्रादि दशदिक्पालसहित
श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पांजलिं दत्वा मूलमुच्चार्य
श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा । इति संतर्प्य प्रणमेत् । ततो
भूपुरवाह्ये एतत् पाद्यं । ओं वज्रादि अस्त्रेभ्यो नमः इत्यादि पूर्ववत्
संपूज्य एते गंधपुष्पे ओं वज्रादि अस्त्रेभ्यो नमः । ततः प्रत्येकं
गंधपुष्पैः पूजयेत् । एते गंधपुष्पे वं वज्राय नमः । एवं शं
शक्तये नमः । इं दंडाय नमः । खं खड्गाय नमः । पां पाशाय
नमः । अं अंकुशाय नमः । ओं गं गदायै नमः । शूं शूलाय नमः ।

प्. ३३अ)
पूर्वेशानयोर्मध्ये पं पद्माय नमः । नि-ऋति वरुणयोर्मध्ये । चं
चक्राय नमः । ततः ओं वज्रांयदि अस्त्राणि तर्पयामि । इति त्रिः संतर्प्य
प्रणमेत् । ततः पूर्ववत् देव्यै पुष्पांजलिं दत्वा संतर्प्य प्रणमेत् ततो
देव्या अस्त्राणि पूजयेत् । वामाधोहस्ते एते गंधपुष्पे । मुं मुंडाय
नमः । इति त्रिः । मुं मुंडं तर्पयामि । इति त्रिः । एवं वामोर्द्धहस्ते खं
खड्गाय नमः । खं खड्गं तर्पयामि । इति स्त्रिः । तदूर्द्ध्वहस्ते अं
अभयाय नमः । अं अभयं तर्पयामि । इति त्रिः । ततो गंधादि
पंचोपचारैः सायुधां सपरिवारां देवीं पूजयेत् । मूलं एष
गंधः सायुधायै सवाहनायै श्रीमद्दक्षिणकालिकायै नमः । एवं
क्रमेण ताम्बूलायै संपूज्य । एष स चंदनपुष्पांजलिः सायुधायै
सवाहनायै सपरिवारायै श्रीमन्महाकालभैरवसहितायै
श्रीमद्दक्षिणकालिकायै वौषट् । इति पुष्पांजलि त्रयं दत्वा । मूलमुच्चार्य
सायुधां सवाहनां सपरिवारां श्रीमन्महाकालभैरवसहितां
श्रीमद्दक्षिणकालिकां तर्पयामि स्वाहा ।

प्. ३३ब्)
इति त्रिः संतर्प्य प्रणमेत् । बलिं दद्यात् । देव्याग्रे भूमौ त्रिकोणवृत्त
चतुरस्रं मंडलं निर्माय सुरामांसान्नादि बलि संस्थाप्य वामहस्त
तत्वमुद्रया धृत्वा दक्षिणहस्तेन बलिपात्र कारणं गृहीत्वा क्रीं ओं ह्रीं
श्रीं श्रीमद्दक्षिणकालिकायै स्वाहा एष बलि नमः । इति नैवेद्यादिभिर्बलिं
दद्यादिति सात्विक बलिः ।

अथ राजसि बलिर्यथा ।

सुलक्षणं छागादि पशुं स्नापयित्वा देव्या अग्रे संस्थाप्य
मूलमुच्चार्य वीक्ष्य फट् इति अर्घोदकेन संप्रोक्ष्य फट् इति कुशैः
संताड्य हूं इति अवगुंठ्य दक्षिणकर्णे ओं पशुपाशाय विद्महे
विश्वकर्मणे धीमहि तन्नो जीवः प्रचोदयात् । इति कर्णे त्रिवारं वामकर्णे
एकवारं पशुगायत्री श्रावयेत् । तत एतत्पाद्यं ओं छागपशवे नमः ।
एवं इदमर्घ्यं इदमाचमनीयं एष गंधः एतत्स चंदनपुष्पां एष
धूपः एष दीपः एतत्सोपकरण नैवेद्यं पानार्थ जलं इदमाचमनीयं ।
एतत् तांबूलं । इति संपूज्य खड्गं संपूजयेत् । एतत्पाद्यं हूं
खड्गाय नमः ।

प्. ३४अ)
इत्यादि नैवेद्यताम्बूलांतैः संपूज्य । ततः खड्गाग्रे एते गंधपुष्पे ओं
वागीश्वरी ब्रह्मभ्यां नमः । एवं खड्गमध्ये । ओं
लक्ष्मीनारायणाभ्यां नमः । खड्गमूले
ओं उमामहेश्वराभ्यां नमः । ततः ओं ब्रह्मविष्णुशिवशक्तियुक्ताय
खड्गाय नमः । इति संपूज्य । ओं खड्गाय शरनाशायशक्तिकार्याय तत्पर
पशुश्छेद्यस्त्रयाशीघ्रं खड्गं नाथ नमोस्तुते । इत्यनेन प्रणमेत् ।
ततस्ताम्रादि पात्रे तिलकुशजलान्यादाय दक्षिणहस्तेन गृहीत्वा वामहस्तेन
पशुं धृत्वा । ओं अद्यामुके मासि अमुकराशिस्थे भास्करे अमुके पक्षे
अमुक्यां तिथौ अमुकगोत्रः श्री अमुकशर्मा श्रीमद्दक्षिणकालिका प्रीतये
इमं छागपशुमेषपशुं वा वह्नि दैवतं मृगपशुं वा वायुदैवतं
महिषपशुं यमदैवतं वा भगवत्यै श्रीमद्दक्षिणकालिकायै
तुभ्यमहं घातयिष्ये । परार्थे घातयिष्यामि इति विशेषः । इत्यकृत्य
कृतांजलिः । ओं यथोक्तेन विधानेन तुभ्यमस्तु समर्पितं । इति पठेत् । ततः
खड्गमुत्तोल्य

प्. ३४ब्)
ओं छिन्दि छिन्दि हूं फट् इति मंत्रेण पशुस्कंधे नियोजयेत् । ततः पशुं
पूर्वमुखं कृत्वा स्तंभादौ बध्वा छेत्ता उत्तरमुखो भूत्वा देवी
ध्यान परायणः एकाघातेन छिंद्यात् । ततः खर्परादौ समांसरुधिरं
नीत्वा मूलमुच्चार्यय । एष समांसरुधिर बलिः भगवत्यै
श्रीमद्दक्षिणकालिकायै तुभ्यमहं संप्रददे । इत्युत्सृज्य छिन्नशीर्षोपरि
सघृतवर्त्यादीपं नियोज्य मूलमुच्चार्य एष सप्रदीप छागशीर्षबलिः
श्रीमद्दक्षिणकालिकायै तुभ्यमहं संप्रददे इत्युत्सृजेत् । ततो भूमौ पतित
रुधिरं पंचभागं कृत्वा । पूर्वादि प्रादक्षिण्येन पूर्वोक्त
बलिमंत्रैर्बटुका योगिनी क्षेत्रपालगणेशेभ्यो बलिं दत्वा मध्ये
सर्वभूतेभ्यो बलिन्दद्यात् । इति बलिदान विधिः ।।

ततः प्राणायामं कृत्वा अष्टोत्तरशतं सहस्रं वा मूलमंत्र जप्त्वा
अशक्तश्चेत् अष्टत्रिंशद्वारं जप्त्वा । पुनः प्राणायामादिकं कृत्वा
सपुष्पार्घ्योदकं गृहीत्वा गुह्यातीत्यादिना तेजोरूपं जपफलं

प्. ३५अ)
देव्याः वामकरे समर्प्य । ओं मूलं ओं इति अशौचभंगं सप्तवारं जप्त्वा
प्रणमेत् । विशेषजपक्रमन्भू अग्रे लिखिष्यामि । शक्तश्चेन्नित्य होमं कुर्यात्
तद्यथा । कुंडे वा स्थंडिले समभूमौ वा प्रादेशप्रमाण
प्रागग्रास्त्रिस्रोरेखाविलिख्य मूलमंत्रेण वीक्ष्य । फट् इति अर्घ्योदकेन
संप्रोक्ष्य फट् इति कुशैः संताड्य हुं इति अभ्युक्ष्य । एते गंधपुष्पे
श्रीमद्दक्षिणकालिकायाः स्थण्डिय नमः । इति संपूज्य अग्निमानीय
पूर्ववद्वीक्षणादिभिः संस्कृत्य । तत्रस्थ प्रज्वलित काष्ठमेकं हूं
फट् क्रव्यादिभ्यो नमः स्वाहा । इति मंत्रेण नै-ऋत्यां क्रव्यादांशं
परित्यजेत् । तत आत्मानोभिमुखं वह्निस्थण्डिल संस्थाप्य ह्रीं
वह्निमूर्त्तये नमः । रं वह्नि चैतन्याय नमः । इति संपूज्य । अग्नेर्मूर्ति
चैतन्यं परिकल्प्य । ओं चित्पिंगल हन हन दह दह पच पच मथ मथ
सर्वज्ञापय ज्ञापय स्वाहा । इति ज्वालिनीमुद्रया अग्निं प्रज्वालयेत् ।

ओं अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं ।
प्. ३५ब्)
सुवर्णवर्णममलं समिद्धं विश्वतो मुखं ।।

इति कृतांजलिर्वह्निं प्रणम्य ओं अग्नेत्वं श्रीमद्दक्षिणकालिका नामासि । इति
अग्नेर्नाम कृत्वा वैश्वानर जातवेद इहा वह लोहिताक्ष सर्वकर्माणि
साधय स्वाहा । एते गंधपुष्पै श्रीमद्दक्षिणकानामाग्नये नमः ।
इत्यादि संपूज्य घृतमानीय । मूलेन वीक्ष्य फट् इति संप्रोक्ष्य फट् इति
कुशैः संताड्य हूं इति अभ्युक्ष्य तत्र प्रादेशप्रमाण कुशपत्रद्वयं
शुक्लकृदमरूपं कुशद्वयं दत्वा । घृतं त्रिभागं कृत्वा । वामे
इडां दक्षिणे पिंगलां मध्ये सुषुम्नां ध्यात्वा नमः । इति
दक्षभागादाज्यं गृहीत्वा । ओं अग्नये स्वाहा । इत्यग्ने दक्षनेत्रे जुहुयात्
नमः । इति वामभागादाज्यं गृहीत्वा ओं सोमाय स्वाहा । इति वामनेत्रे नमः
। इति मध्यभागादाज्यं गृहीत्वा । ओं अग्निषोमाभ्यां स्वाहा । इति ललाटे नेत्रे
पुनर्नमः । इति दक्षभागादाज्यं गृहीत्वा ओं अग्नये स्वीष्टिकृते स्वाहा । इति
तन्मुखे जुहुयात् । ततो महाव्याहृति होमं कुर्यात् ।

प्. ३६अ)
ओं भूः स्वाहा ओं भुवः स्वाहा ओं स्वः स्वाहा ओं भूर्भुवः स्वः स्वाहा इति
त्रिर्जुहुयात् । ततो अग्नौ देवीं ध्यात्वा आवाह्य गन्धादि पंचोपचारैः
संपूज्य षडंगांहुतिर्जुहुयात् । ओं क्रां हृदयाय नमः स्वाहा । ओं क्रीं
शिरसे स्वाहा । ओं क्रूं शिखायै वषट् स्वाहा । ओं क्रैं कवचाय हुं स्वाहा
। ओं क्रौं नेत्रत्रयाय वौषट् स्वाहा । ओं क्रः अस्त्राय फट् । ततो
महाकालमंत्रमुच्चार्य श्रीमन्महाकालभैरवाय स्वाहा । इति त्रिर्जुहुयात् ।
असितांगाद्यष्टभैरवेभ्यो जुहुयात् । अं असितांगभैरवाय स्वाहा । इं
रुरुभैरवाय स्वाहा । उं चंडभैरवाय स्वाहा । ऋं क्रोधभैरवाय
स्वाहा । ऌं उन्मत्तभैरवाय स्वाहा । एं कपालीभैरवाय स्वाहा । ओं
भीषणभैरवाय स्वाहा । अं संहारभैरवाय स्वाहा । ततो
मूलमुच्चार्य श्रीमद्दक्षिणकालिकायै स्वाहा । इति षोडशाहुतिः ।
पंचविंशति आहुतिर्वाहुत्वा पूर्णाहुतिं दद्यात् । स्रुवेण स युष्माज्यं
गृहीत्वा मूलमंत्रमुच्चार्यय इतः पूर्वं प्राण
बुद्धिदेहधर्माधिकारतो

प्. ३६ब्)
जाग्रत्स्वप्नसुषुप्त्यावस्थासुमनसावाचाकर्मणा हस्ताभ्यां
पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं
ब्रह्मार्पणमस्तु । मां मदीयं च सकलं परमदेवता
श्रीमद्दक्षिणकालिकाचरणे समर्पयामि स्वाहा । ओं तत्सत् । ततः
संहारमुद्रया अग्नेः सकाशादेवीं स्वहृदयमानीय अग्ने क्षमस्व । इति
अग्निं विसर्ज्य दध्ना जलेन वा ओं पृथ्वित्वं शीतला भव इति शीतलीकृत्य
स्रुवलग्न भस्मरा पं यं इत्यादि मंत्रेण ललाटे तिलकं कुर्यात् । इति
नित्यहोमं विधिः ।।

ततो विशेषेण मूलमंत्रं जपेत् ।

अथ जपक्रमो यथा ।

पूजाकालादन्यत्र यदि जपेत् तदा आचम्य भूतापसारणं कृत्वा । आसनं
संशोध्य तत्र उपविशेत् । ततो वामकर्णोर्द्धे गुरु चतुष्टयं दक्षिणे
गणेशं । मध्ये इष्टदेवीं प्रणम्य प्राणायाम ऋष्यादिकं
अंगन्यासान् कृत्वा मंत्रशिखा भावयेत् । हं सः इति मंत्रेण
मूलाधार * * * *? मूलाधारादि षट्चक्रमेद? क्रमेण शिरोवस्थित
सहस्रदल-

प्. ३७अ)
कमलकर्णिकान्ताति परमशिवे संयोज्य तत्रैव क्षणमात्रं रमित्वा
तदुद्भवामृते प्लाव्य पुनः मूलाधारे आनयेत् । एवं क्रमेण सप्तवारं
कृत्वा यत्तेजो भवति सा मंत्रशिखा । ततो मंत्रचैतन्यं भावयेत् ।
पूर्ववत्कुंडलिनीं सहस्रारे परमशिवे संयोज्य तेन रमयित्वा
तदुद्भवामृतेनाप्लाव्य पुनर्मूलाधारमानीय हं हं इति बीजद्वयं
चंद्रसूर्याग्निरूपायां सुषुम्नायां विभाव्य तत पुटितं
मूलमंत्रं तेजोरूपं विचिंत्य । पुनः सहस्रारे अकथादि त्रिकोणमंडले
तद्बीजद्वयपुटितं मूलमंत्रं विभाव्य चन्द्रामृतेनाप्लावयेत् । इति
मंत्रचैतन्यं ततो मंत्रार्थं भावयेत् । मूलाधारादि षट्चक्रेषु
सहस्रारेपि मंत्रस्वरूपां इष्टदेवीं भावयेदिति मन्त्रार्थः । ततः
सहस्रदलकमले श्रीगुरुं ध्यात्वा मानसोपचारैः पूजयेत् । हृदये
इष्टदेवीं ध्यात्वा मानसोपचारैः पूजयेत् । क्रीं हूं स्त्रीं ह्रीं फट् इति
कुल्लुकां मूर्द्ध्नि दशधा जपेत् । हृदये ऐं हूं ऐं इति सेतुं दशधा

प्. ३७ब्)
क्रीं इति महासेतुं कंठे दशधा जपेत् । ऐं मूलं ऐं इति शापोद्धारं
दशधा जपेत् । क्लीं ऐं ऐं ब्लूं ब्लूं ह्रीं श्रीं हूं ओं स्त्रीं स्वाहा । इति
अजामंत्रं दशधा जपेत् । ततो निर्वाणं नाभौ दशधा एकधा जपेत् ।
यथा

ओं अं मूलं अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं
अंः कं खं गं घं ङं चं छं जं झं
ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं
भं मं यं रं लं वं शं षं सं हं लं क्षं ।

ओं मूलं । ओं क्षं लं हं सं षं सं वं लं रं यं मं भं बं
फं पं नं धं दं थं तं णं ढं डं ठं टं ञं झं
जं छं चं ञं घं गं खं कं अंः अं औं ओं ऐं
एं ॡं ऌं ॠं ऋं ऊं उं आं अं मूलं ।

ओं ततो लिंगमूले । शिरसि ललाटे च क्रीं इति दशधा जपेत् । ततो देवतायाः
शीर्षादि पादपर्यंतं मूलमंत्रस्वरूपां देवता भावयेदिति मंत्र
संकेतः ततो मंत्रा? वयवज्ञानं ।

श्रोत्रादीनां ज्ञा * भावे मंत्रजापं करोति यः ।
दारिद्र्यं च विपत्तिश्च नरकं प्राप्तिरेव च ।।

बिंदुश्रोत्रं नाद आस्यं ककारं हृदयं विदुः ।
वह्निनेत्रं कीलकं तु दीर्घे कालं प्रियं वदे ।।

मंत्राणां स्थानध्यानं यथा ।

प्. ३८अ)
स्थानस्था वरदा मंत्राध्यानस्थाश्च वरप्रदाः ।
स्थानध्यानविनिर्मुक्ता विशुद्धा अपि वैरिणः ।।

प्रसंगेनापि तत्स्थानं कथयामि वरानने ।
सकलं निष्फलं सूक्ष्मं तथा सकलनिष्फलं ।।

बिंदुस्थितं कलाभिन्नं कलातीतं तदूर्ध्वतः ।
कुलकुंडलिनी सैव नादशक्तिः शिवोदिताः ।।

एतत् स्थान स्थिता मंत्र्या स्थानस्थाः परिकीर्त्तिताः ।

ध्यानं तु ।

मंत्रसंकेतकं चैव तथा वयवचिंतनं ।
तन्मंत्रध्यानमीशानि कथितं शंभुनापुरा ।।

ततो झिल्लिरा पुटितं मंत्रं दशधा एकधा वा जपेत् । यथा । हं श्रीं
क्लीं ओं क्लीं क्लीं ह्रीं ह्रीं श्रीं श्रीं हूं हूं स्त्रीं स्त्रीं स्वाहा
मूलं स्वाहा । स्त्रीं स्त्रीं हूं हूं श्रीं श्रीं ह्रीं ह्रीं क्लीं
क्लीं ओं एं क्लीं श्रीं हं । ततो भूतलिप्यापुटं मूलं मंत्रं जपादौ
जपांते च त्रिस्त्रिवारं जपेद्यथा । अं इं उं ऋं ऌं एं ऐं ओं औं हं
यं रं वं लं ङं कं खं घं गं ञं चं छं झं
जं णं टं ढं ठं डं नं तं थं धं दं मं पं फं
भं बं शं षं सं मूलं सं षं शं वं भं फं पं मं
दं धं थं तं नं डं ठं ढं णं जं झं छं ञं गं
घं खं कं ङं

प्. ३८ब्)
लं वं रं यं हं औं ओं ऐं एं ऌं ऋं उं इं अं इति भूतलिपिः ।
ततो डाकिन्यादि मंत्रं दशधा एकधा वा जपेत् । यथा
। डां डिं डमरवरयीं डाकिनी मां रक्ष रक्ष दुर्गात्मिके
मूलं डाकिन्यै नमः । रां रीं रमरवरयीं राकिनी मां रक्ष रक्ष
दुर्गात्मिके मूलं राकिन्यै नमः लां लीं लमरवरयीं लाकिनी मां
रक्ष रक्ष दुर्गात्मिके मूलं लाकिन्यै नमः । कां कीं कमरवरयीं
काकिनी मां रक्ष रक्ष दुर्गात्मिके मूलं काकिन्यै नमः । शां शीं
शमरवरयीं शाकिनी मां रक्ष रक्ष दुर्गात्मिके मूलं शाकिन्यै नमः
। हां हीं हमरवरयीं हाकिनि मां रक्ष रक्ष दुर्गात्मिके मूलं
राकिन्यै नमः ।

ततो मुखशोधनं क्रीं क्रीं क्रीं ओं क्रीं क्रिं क्रीं इति मुखे दशधा
जपेत् । ततश्चौर मंत्रं प्रतिद्वारे दशधा एकैकधा वा जपेद्यथा ।
ब्रह्मरंध्रे क्रौं नेत्रद्वयं ह्रीं ह्रीं कर्णद्वये ह्रीं ह्रीं नासिका
द्वये । हुं हुं मुखे । श्रीं श्रीं नाभौ ह्सौः ह्सौः लिंगे क्लीं क्लीं
गुह्ये ब्लूं ब्लूं भ्रुवोर्मध्ये हूं फट् । ततो हृदि गुरुमंत्र
देवतात्मनां तेजोरूपमैक्यं भावयेत् ।

प्. ३९अ)
ततो योनिमुद्रां चिंतयेद्यथा ।

त्रियोनिं मूर्द्ध्निं संचिंत्य महायोनिं हृदि स्मरेत् ।
नवकोणं नाभिमूले मूलाधारे त्रिकोणकं ।।

लिंगशक्तिं सहस्रारे भावयेत् साधकाग्रणीः ।
मूलपद्मे कामयोनिं तडित्कोटि निभां प्रिये ।।

हंसयोनिं नाभिमूले विद्यायोनिं स्मरेद्धृदि ।
जगद्योनिं सहस्रारे योनिबीजां नितां स्मरेत् ।।

योनिबीजं तु ह्ला योनिमुद्रा चिंतन शक्तश्चेत् ह्लां मूलं ह्लीं इति
योनिबीजपुटित मंत्रं दशधा जपेदिति । ततः श्री ओं श्रीं ओं
हूं ओं ठं ठं ठं मंत्रमुच्चार्यय जलेन जिह्वां शोधयेत् । ह्रीं
मूलं ह्रीं इति प्राणयोगं सप्तधा जपेत् । क्लीं मूलं क्लीं इति दीपनी
सप्तधा० । इं मूलं इं इति निद्राभंगं सप्तधा० । ओं मूलं ओं इति
अशोचभंगं सप्तधा जपेत् । जीवतत्वं यथा

अं कं चं टं तं पं यं शं मूलं शं यं पं तं टं चं
कं अं इति दशधा त्रिधा वा जपेत् । ततो वर्णमालाया नरदन्तादि
रहस्यमालया स्फाटिकादिमालया करमालया वा जपेत् । करमालाशोधनं
यथा । क्रीं क्रीं क्रीं करमाले फट् स्वाहा ।

प्. ३९ब्)
इति प्रतिपर्वणि मेरौ च एकैकशो जप्त्वा । ओं ह्रीं श्रीं हूं स्त्रीं इति पूर्ववत्
प्रतिपर्वणि मेरौ च एकैकवारं जप्त्वा शोधयेत् । स्फाटिकादि मालां तु ।

ह्रीं माले माले महामाले सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मे सिद्धिदा भव ।।

इति मंत्रेण अर्घ्यादि परमामृतेन त्रिवारं स्नापयित्वा । एतत् पाद्यं ह्रीं
अक्षमालिकायै नमः । इति नैवेद्यताम्बूलांतैः संपूज्य । ह्रीं
अक्षमालिकां तर्पयामि स्वाहा । इति त्रिवारं संतर्प्य प्रणमेत् ।

ह्रीं अविघ्नं कुरु मालेत्वं जपकाले सदा मम ।
निर्विघ्नं कुरु देवेशि अक्षमाले नमोस्तुते ।।

महाशंखमालाया विशेषवति मंत्रो यथा ।

हूं ह्रीं हूं ओं हूं हूं ओं हूं फट् हुं ओं स्वाहा । ओं हूं
महायोगिनि त्रिभुवनतारिणि महाशंखास्थि मध्ये निवासं कुरु कुरु
सर्वसिद्धिं देहि देहि सुरामांसोपहारान् गृह्ण २ गृह्णापय २ ह्रीं श्रीं
हुं फट् स्वाहा । एष सुरामांसोपहार

प्. ४०अ)
बलिर्महाशंखाक्ष मालिकायै नमः । अकाम? सर्वं पूर्ववदिति । इति
प्रणम्य । गुरुमंत्र देवतात्मनां तेजोरूपमैक्यं विभाव्य
अष्टोत्तरशतं सहस्रं अयुतं वा जप्त्वा शिरसि मालां संस्थाप्य
कृतांजलिः ।।

ह्रीं त्वं माले सर्वदेवानां प्रीतिदा शुभदा मता ।
शिवं कुरुष्व मे भद्रे यशो वीर्यं च देहि मे ।।

इति स्तुत्वा प्राणायाम ऋष्यादि न्यासं कृत्वा । शिरसि कुल्लुकां दशधा हृदि
सेतुं कंठे महासेतुं दशधा धूतलिष्या पुटं मूलमंत्रं च
त्रिवारं जप्त्वा सपुष्यार्घोदकं दक्षिणहस्ते निधाय ।।

गुह्याति गुह्यगोप्त्रीत्वं गृहाणा स्मत्कृतं जपं ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ।।

इति मंत्रेण तेजोरूपं जप फलं देव्या वामहस्ते समर्प्य ।

ओं मूलं ओं इति अशौचभंगं सप्तधा जप्त्वा । पूर्वोक्त जीवतत्वं त्रिवारं
जप्त्वा शिरःस्थमुत्तार्य प्रणमेत् ।

त्वं कालिकालरात्रिस्त्रिभुवन वरदा सिद्धिभूता त्वमेव ।

एकाशक्तिस्त्रिभेदा परम?परवशा सा महाहंसरूपा
प्. ४०ब्)
कामस्तंभाक्षितिजलमनलंवायुराकाशतत्वं ।
सर्वस्यैवोदरस्था त्रिभुवनजननी ब्रह्मविष्णु स्वरूपा
कुंडल्याकारसंस्था कुलमकुल गता पातु मामुग्रतारा ।।

प्रणामस्य मंत्रांतरं तंत्ररत्ने ।

कृपामयि हरे मातः सर्वाशापरिपूरणि ।
वरदे भोगदे देवि कालिकायै नमोस्तुते ।।

इत्यनेन प्रणम्य । सर्वमंगलेत्यादिना वापि त्रिवारं प्रणमेत् ।
अखंडमंडलेत्यादिभि गुरुमपि त्रिवारं प्रणमेत् । प्रणाम त्रिविधादि
लक्षणमाह ।

नमनं मानसं दिव्यं कायिकं वाचिकं तथा ।
त्रिविधे च नमस्कार कायिकाश्चोत्तमः स्मृतः ।।

एकहस्तप्रणामश्च एकं वापि प्रदक्षिणं ।
अकाले दर्शनं विष्णो इति पुण्यं पुराकृतं ।।

तंत्रांतरे ।

कायिको वाचिकश्चैव मानसस्त्रिविधः स्मृतः ।
नमस्कारस्तु तत्वज्ञैरुत्तमो मध्यमो धमः ।।

पौराणिकैर्वैदिकैर्वा मंत्रैर्वा क्रियते नरैः ।
मध्यमोसौ नमस्कारो भवेत् तद्वाचिकः सदा ।।

या स्वयं गद्य पद्याभ्यां घटिताभ्यां नमस्कृतिः ।
प्. ४१अ)
क्रियते भक्ति युक्तेन वाचिकस्तूत्तमः स्मृतः ।।

जानुभ्यामवनी गत्वा शिरसा स्पृश्य मेदिनीं ।
क्रियते यो नमस्कार उत्तमः कायिक स्मृतः ।।

अ * *? पुटीकृत्य करौ शीर्षे दीयते तद्यथा तथा ।
न स्पृष्ट्वा जानुजंघाभ्यां क्षितिंसोधम उच्यते ।।

पंचांग प्रणामो यथा ।

बाहुभ्यां च स जानुभ्यां शिरसा वचसा धिया ।
पंचांगकः प्रणामश्च विद्वद्भिः परिकीर्तितः ।।

अष्टांग प्रणामो यथा ।।

दोर्भ्यां पद्भ्यां समंशामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोष्टांग ईरितः ।।

हरिशक्तिभिलासे ।

सकृद्भूमौ निपतितो नशाक्तः प्रणमेन्मुहुः ।
उत्थायोत्थाय कर्त्तव्यं दंडवत् प्रणिपातनं ।।

अन्यत्रापि ।

अग्रे पृष्ठे वामभागे समीपे गर्भमंदिरे ।
जपहोमनमस्कारान्न कुर्याद् देवतालये ।।

वाराहीये ।

वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत मां स्वित्री सजायते मूर्खा
सप्तजन्मनि भाविनि । प्रदक्षिणं यथा कालिकापुराणे ।

प्रसार्य दक्षिणं हस्तं स्वयं नम्रायनः पुनः ।
दक्षिणं दर्शयेत् पार्श्व मनसापि च दक्षिणः ।।

प्. ४१ब्)
त्रिधा च वेष्टयेत् सम्यक् कालिकायाः प्रदक्षिणं ।
स च प्रदक्षिणो ज्ञेयः सर्वदेवौघ तुष्टिदः ।।

मंत्रदर्पणे ।

अर्घ्यपात्रं करे कृत्वा वामे घंटां प्रवादयन् ।
कुर्यात् प्रदक्षिणं मंत्री सर्वत्रायं विधिः स्मृतः ।।

रहस्ये च ।

अष्टोत्तरशतं यस्तु कालिकायाः प्रदक्षिणं ।
सर्वान्कामानवाप्नोति पश्चान्मोक्षमवाप्नुयात् ।।

लिंगपुराणे ।

प्रदक्षिण त्रयं कुर्याद् यः प्रसादे समं ततः ।
पदे पदे श्वमेधस्य यज्ञस्य फलमश्नुते ।।

तारारहस्य वृत्तौ ।

वेदविद्भ्योदरां दत्वा सम्यक् यज्ञस्य यत्फलं ।
तत्फलं समवाप्नोति सकृत्कृत्वा प्रदक्षिणं ।।

एकं चंड्यां रवौ सप्त त्रीणि कुर्याद् विनायके ।
चत्वारि केशवे कुर्याच्छिवे चार्द्ध प्रदक्षिणमिति ।।

नमस्कारस्थानमाह । सिद्धांतशेखरे ।

अग्ने मृत्युमवाप्नोति पृष्ठे चापचयः स्मृतः ।
वामभागे भवेन्नाशो दक्षिणे सर्वकामदः ।।

इति ततः स्तवकवचादिकं पठित्वा देव्यै पुष्पांजलि त्रयं दत्वा पूउर्ववत् ।
पुनः प्रणम्य धूपदीपौ प्रज्वाल्य देव्यै निवेद्य आरार्त्तिकं कुर्यात् ।

प्. ४२अ)
यथा । घंटादिवादनपूर्वकं धूपै धूपयित्वा दीपमुत्तोल्यपादादि
शीर्षपर्यंतं । दशधा दर्शयित्वा शीर्षोपरि त्रिवारं भ्रामयेत् । जलं
त्रिवारं दत्वा आर्द्रवस्त्रेण निर्मछयेदिति । ततः पुनः प्रणम्य
विशेषार्घ्यमुत्तोल्य संहारार्घ्यं दत्वा चिलुकोदकं गृहीत्वा
आत्मसमर्पणं कुर्याद् यथा । इतः पूर्वं
प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यावस्था सुमनसा
वाचाकर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं । यदुक्तं
यत्कृतं । तत्सर्वं ब्रह्मार्पणमस्तु मां मदीयं च सकलं
परमदेवता श्रीमद्दक्षिणकालिका चरणे समर्पयामि स्वाहा । मूलं ओं तत्
सत् इति समर्प्य कृतांजलिः ।

ओं जानताजानता वापि यन्माया क्रियते शिवे ।
तव कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे ।।

इति पठित्वा ।

आवरण देवतागणान् देवी शरीरे प्रविलाप्य संहारमुद्रया देवि
निर्माल्यमेकं गृहीत्वा ।

ओं उत्तरे शिखरे देवि भूम्यां पर्वतवासिनि ।
ब्रह्मयोनि समुत्पन्ने गछ देवि ममान्तरे ।।

प्. ४२ब्)
इति पठित्वा तत्पुष्पमाघ्राय श्वासमार्गेण देवीं स्वहृदयमानीय ।
ऐशान्यां त्रिकोणमंडलं निर्माय । तत्पुष्पं तत्र संस्थाप्य । तत्र
देव्या निर्माल्य नैवेद्यादिभिरुच्छिष्टचंडालिनीं पूजयेत् । तस्या ध्यानं
यथा ।

शवोपरि समासीनां रक्तांवरपरिछदां ।
रत्नालंकारसंयुक्तां गुंजाहारविभूषितां ।।

षोडशाब्दां च युवतीं पीनोन्नतपयोधरां ।
कपालकर्तृकाहस्तां परं ज्योतिः स्वरूपिणी ।।

वामदक्षिणयोर्नेत्र ध्यायेन्मंत्रविदुत्तमः ।

इति ध्यात्वा । एतत्पाद्यं ह्रीं उच्छिष्टचांडालिन्यै नमः । इत्यादि
तांबूलांतैः संपूज्य देव्या उच्छिष्टबलिना बलिं दद्यात् । अस्या
विशेषमंत्रस्तु । उच्छिष्टचांडालिनि सुमुखिं देवि महापिशाचिनि ।
ह्रीं ठः ठः ठः ततो मूलमुच्चार्य श्रीमद्दक्षिणकालिके पूजितासि क्षम
स्वाहा । इति देवीं विसर्ज्य चरणामृतं गृह्णीयात् । अनेन मंत्रेण ।

गंगापुष्करनर्मदासु यमुना गोदावरी गोमती ।
गंगाद्वार प्रयागतीर्थ वदरी वाराणसी सिन्धुषु ।।

प्. ४३अ)
रेवासेतु सरस्वती प्रभृतिषु ब्रह्माण्डभांडोदरे ।
तीर्थस्नान सहस्रकोटिफलदं श्रीचक्रपादोदकं ।।

ततो निर्माल्यं शिरसि धारयेत् । यंत्रलेपं ललाटे तिलकं कुर्यात् । नैवेद्यं
तद्भक्तेभ्यो दत्वा स्वयमपि गृह्णीयात् । पूजास्थानं परिस्कृत्य तत्र हूं
बीजं विलिख्य । तत्रस्थ कर्दमं वामहस्तकनिष्ठया गृहीत्वा ।

यं यं स्पृशामि * * * * *? पश्यामि चक्षुषा ।
स एव दासतां यातु यदि शक्र समो भवेत् ।।

इति मंत्रेण ललाटे तिलकं कुर्यात् । निर्माल्यादिकं बिल्वादिमूले जले वा । यत्र
कुत्र पवित्रस्थाने स्थापयेत् । सोहं इति आत्मानं विचिंत्य ।

वैष्णवाचार तत्परो भूत्वा यथासुखं विहरेत् ।

इति श्रीमद्दक्षिणकालिकापूजापद्धति समाप्ता ।

ओं तत्सत् गुरवे नमः ।

शुभम् ।