तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ३/प्रपाठकः ४

विकिस्रोतः तः
Jump to navigation Jump to search

3.4 प्रपाठक: 4

3.4.1 अनुवाक 1 पाशुकगर्भप्रायश्चित्तमन्त्राणां ब्राह्मणम्
1 वि वा एतस्य यज्ञ ऋध्यते यस्य हविर् अतिरिच्यते सूर्यो देवो दिविषद्भ्य इत्य् आह बृहस्पतिना चैवास्य प्रजापतिना च यज्ञस्य व्यृद्धम् अपि वपति रक्षाम्̇सि वा एतत् पशुम्̇ सचन्ते यद् एकदेवत्य आलब्धो भूयान् भवति यस्यास् ते हरितो गर्भ इत्य् आह देवत्रैवैनां गमयति रक्षसाम् अपहत्यै । आ वर्तन वर्तयेत्य् आह
2 ब्रह्मणैवैनम् आ वर्तयति वि ते भिनद्मि तकरीम् इत्य् आह यथायजुर् एवैतत् । उरुद्रप्सो विश्वरूप इन्दुर् इत्य् आह प्रजा वै पशव इन्दुः प्रजयैवैनम् पशुभिः सम् अर्धयति दिवं वै यज्ञस्य व्यृद्धं गच्छति पृथिवीम् अतिरिक्तम् । तद् यन् न शमयेद् आर्तिम् आर्छेद् यजमानः । मही द्यौः पृथिवी च न इति
3 आह द्यावापृथिवीभ्याम् एव यज्ञस्य व्यृद्धं चातिरिक्तं च शमयति नार्तिम् आर्छति यजमानः । भस्मनाऽभि समूहति स्वगाकृत्यै । अथो अनयोर् वा एष गर्भो ऽनयोर् एवैनं दधाति यद् अवद्येद् अति तद् रेचयेत् । यन् नावद्येत् पशोर् आलब्धस्य नाव द्येत् पुरस्तान् नाभ्या अन्यद् अवद्येद् उपरिष्टाद् अन्यत् पुरस्ताद् वै नाभ्यै
4 प्राण उपरिष्टाद् अपानः । यावान् एव पशुस् तस्याव द्यति विष्णवे शिपिविष्टाय जुहोति यद् वै यज्ञस्यातिरिच्यते यः पशोर् भूमा या पुष्टिस् तद् विष्णुः शिपिविष्टः । अतिरिक्त एवातिरिक्तं दधात्य् अतिरिक्तस्य शान्त्यै । अष्टाप्रूड् ढिरण्यं दक्षिणा । अष्टापदी ह्य् एषा । आत्मा नवमः पशोर् आप्त्यै । अन्तरकोश उष्णीषेणाऽऽविष्टितम् भवति । एवम् इव हि पशुर् उल्बम् इव चर्मेव माम्̇सम् इवास्थीव यावान् एव पशुस् तम् आप्त्वाव रुन्द्धे यस्यैषा यज्ञे प्रायश्चित्तिः क्रियत इष्ट्वा वसीयान् भवति ॥

3.4.2 अनुवाक 2 भृत्यादिकामस्य वशालम्भार्था मन्त्राः
1 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥ आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते प्राणं वायवे स्वाहा किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याम्̇ स्वाहा किक्किटा ते वाचम्̇ सरस्वत्यै स्वाहा ।
2 त्वं तुरीया वशिनी वशासि सकृद् यत् त्वा मनसा गर्भ आशयत् । वशा त्वं वशिनी गच्छ देवान्त् सत्याः सन्तु यजमानस्य कामाः ॥ अजासि रयिष्ठा पृथिव्याम्̇ सीदोर्ध्वान्तरिक्षम् उप तिष्ठस्व दिवि ते बृहद् भाः । तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥ मनसो हविर् असि प्रजापतेर् वर्णो गात्राणां ते गात्रभाजो भूयास्म ॥

3.4.3 अनुवाक 3 वशालम्भार्थो विधिः
1 इमे वै सहास्ताम् । ते वायुर् व्यवात् ते गर्भम् अदधाताम् । तम्̇ सोमः प्राजनयद् अग्निर् अग्रसत स एतम् प्रजापतिर् आग्नेयम् अष्टाकपालम् अपश्यत् तं निर् अवपत् तेनैवैनाम् अग्नेर् अधि निर् अक्रीणात् तस्माद् अप्य् अन्यदेवत्याम् आलभमान आग्नेयम् अष्टाकपालम् पुरस्तान् निर् वपेत् । अग्नेर् एवैनाम् अधि निष्क्रीया लभते यत्
2 वायुर् व्यवात् तस्माद् वायव्या यद् इमे गर्भम् अदधातां तस्माद् द्यावापृथिव्या यत् सोमः प्राजनयद् अग्निर् अग्रसत तस्माद् अग्नीषोमीया यद् अनयोर् वियत्योर् वाग् अवदत् तस्मात् सारस्वती यत् प्रजापतिर् अग्नेर् अधि निरक्रीणात् तस्मात् प्राजापत्या सा वा एषा सर्वदेवत्या यद् अजा वशा वायव्याम् आ लभेत भूतिकामः । वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन
3 भागधेयेनोप धावति स एवैनम् भूतिं गमयति द्यावापृथिव्याम् आ लभेत कृषमाणः प्रतिष्ठाकामः । दिव एवास्मै पर्जन्यो वर्षति व्यस्याम् ओषधयो रोहन्ति समर्धुकम् अस्य सस्यम् भवति । अग्नीषोमीयाम् आ लभेत यः कामयेत । अन्नवान् अन्नादः स्याम् इति । अग्निनैवान्नम् अव रुन्द्धे सोमेनान्नाद्यम् अन्नवान् एवान्नादो भवति सारस्वतीम् आ लभेत यः
4 ईश्वरो वाचो वदितोः सन् वाचं न वदेत् । वाग् वै सरस्वती सरस्वतीम् एव स्वेन भागधेयेनोप धावति सैवास्मिन् वाचं दधाति प्राजापत्याम् आ लभेत यः कामयेत । अनभिजितम् अभि जयेयम् इति वायव्ययोपाकरोति वायोर् एवैनाम् अवरुध्या लभते । आकूत्यै त्वा कामाय त्वा ॥
5 इत्य् आह यथायजुर् एवैतत् किक्किटाकारं जुहोति किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते प्रारण्याः पतन्ति यत् किक्किटाकारं जुहोति ग्राम्याणाम् पशूनां धृत्यै पर्यग्नौ क्रियमाणे जुहोति जीवन्तीम् एवैनाम्̇ सुवर्गं लोकम् गमयति त्वं तुरीया वशिनी वशासीत्य् आह देवत्रैवैनां गमयति सत्याः सन्तु यजमानस्य कामा इत्य् आह । एष वै कामः
6 यजमानस्य यद् अनार्त उदृचं गच्छति तस्माद् एवम् आह । अजासि रयिष्ठेत्य् आह । एष्व् एवैनां लोकेषु प्रति ष्ठापयति दिवि ते बृहद् भा इत्य् आह सुवर्ग एवास्मै लोके ज्योतिर् दधाति तन्तुं तन्वन् रजसो भानुम् अन्व् इहीत्य् आह । इमान् एवास्मै लोकाञ् ज्योतिष्मतः करोति । अनुल्बणं वयत जोगुवाम् अप इति
7 आह यद् एव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः । मनुर् भव जनया दैव्यं जनम् इत्य् आह मानव्यो वै प्रजास् ता एवाद्याः कुरुते मनसो हविर् असीत्य् आह स्वगाकृत्यै गात्राणां ते गात्रभाजो भूयास्मेत्य् आह । आशिषम् एवैताम् आ शास्ते तस्यै वा एतस्या एकम् एवादेवयजनं यद् आलब्धायाम् अभ्रः
8 भवति यद् आलब्धायाम् अभ्रः स्याद् अप्सु वा प्रवेशयेत् सर्वां वा प्राश्नीयात् । यद् अप्सु प्रवेशयेद् यज्ञवेशसं कुर्यात् सर्वाम् एव प्राश्नीयाद् इन्द्रियम् एवात्मन् धत्ते सा वा एष त्रयाणाम् एवावरुद्धा संवत्सरसदः सहस्रयाजिनो गृहमेधिनस् त एवैतया यजेरन् तेषाम् एवैषाप्ता ॥

3.4.4 अनुवाक 4 जयाः
1 चित्तं च चित्तिश् चाकूतं चाकूतिश् च विज्ञातं च विज्ञानं च मनश् च शक्वरीश् च दर्शश् च पूर्णमासश् च बृहच् च रथंतरं च प्रजापतिर् जयान् इन्द्राय वृष्णे प्रायच्छद् उग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव देवासुराः संयत्ता आसन्त् स इन्द्रः प्रजापतिम् उपाधावत् तस्मा एताञ् जयान् प्रायच्छत् तान् अजुहोत् ततो वै देवा असुरान् अजयन् यद् अजयन् तज् जयानां जयत्वम् । स्पर्धमानेनैते होतव्या जयत्य् एव ताम् पृतनाम् ॥

3.4.5 अनुवाक 5 अभ्यातानाः
1 अग्निर् भूतानाम् अधिपतिः स माऽवत्व् इन्द्रो ज्येष्ठानां यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् बृहस्पतिर् ब्रह्मणो मित्रः सत्यानां वरुणो ऽपाम्̇ समुद्रः स्रोत्यानाम् अन्नम्̇ साम्राज्यानाम् अधिपति तन् मावतु सोम ओषधीनाम्̇ सविता प्रसवानाम्̇ रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानाम् मरुतो गणानाम् अधिपतयस् ते मावन्तु पितरः पितामहाः परे ऽवरे ततास् ततामहा इह मावत । अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥

3.4.6 अनुवाक 6 अभ्यातानहोमविधानम्
1 देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतान् अभ्यातानान् अपश्यन् तान् अभ्यातन्वत यद् देवानां कर्मासीद् आर्ध्यत तत् । यद् असुराणां न तद् आर्ध्यत येन कर्मणेर्त्सेत् तत्र होतव्याः । ऋध्नोत्य् एव तेन कर्मणा यद् विश्वे देवाः समभरन् तस्माद् अभ्याताना वैश्वदेवाः । यद् प्रजापतिर् जयान् प्रायच्छत् तस्माज् जयाः प्राजापत्याः ॥
2 यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् । ते देवा अभ्यातानैर् असुरान् अभ्यातन्वत जयैर् अजयन् राष्ट्रभृद्भी राष्ट्रम् आददत
यद् देवा अभ्यातानैर् असुरान् अभ्यातन्वत तद् अभ्यातानानाम् अभ्यातानत्वम् । यज् जयैर् अजयन् तज् जवानां जयत्वम् । यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् । ततो देवा अभवन् परासुराः । यो भ्रातृव्यवान्त् स्यात् स एताञ् जुहुयात् । अभ्यातानैर् एव भ्रातृव्यान् अभ्यातनुते जयैर् जयति राष्ट्रभृद्भी राष्ट्रम् आ दत्ते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

3.4.7 अनुवाक 7 राष्ट्रभृन्मन्त्राः
1 ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौषधयो ऽप्सरस ऊर्जो नाम स इदम् ब्रह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाहा ताभ्यः स्वाहा सम्̇हितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवः सुषुम्नः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयः । भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरस स्तवाः प्रजापतिर् विश्वकर्मा मनः
2 गन्धर्वस् तस्यर्क्सामान्य् अप्सरसो वह्नयः । इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽप्सरसो मुदाः । भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीर्यम्̇ संवत्सरीणाम्̇ स्वस्तिम् परमेष्ठ्य् अधिपतिर् मृत्युर् गन्धर्वस् तस्य विश्वम् अप्सरसो भुवः सुक्षितिः सुभूतिर् भद्रकृत् सुवर्वान् पर्जन्यो गन्धर्वस् तस्य विद्युतो ऽप्सरसो रुचः । दूरेहेतिर् अमृडयः
3 मृत्युर् गन्धर्वस् तस्य प्रजा अप्सरसो भीरुवः । चारुः कृपणकाशी कामो गन्धर्वस् तस्याधयो ऽप्सरसः शोचयन्तीर् नाम स इदम् ब्राह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाह ताभ्यः स्वाहा स नो भुवनस्य पते यस्य त उपरि गृहा इह च । उरु ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ ॥

3.4.8 अनुवाक 8 राष्ट्रभृतां ब्राह्मणम्
1 राष्ट्रकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रम् अव रुन्द्धे राष्ट्रम् एव भवति । आत्मने होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् प्रजा राष्ट्रम् पशवो राष्ट्रं यच् छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रम् अव रुन्द्धे वसिष्ठः समानानाम् भवति ग्रामकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम्̇ सजाता राष्ट्रेणैवास्मै राष्ट्रम्̇ सजातान् अव रुन्द्धे ग्रामी
2 एव भवति । अधिदेवने जुहोत्य् अधिदेवन एवास्मै सजातान् अव रुन्द्धे त एनम् अवरुद्धा उप तिष्ठन्ते रथमुख ओजस्कामस्य होतव्या ओजो वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजो ऽव रुन्द्ध ओजस्व्य् एव भवति यो राष्ट्राद् अपभूतः स्यात् तस्मै होतव्या यावन्तो ऽस्य रथाः स्युस् तान् ब्रूयाद् युङ्ग्ध्वम् इति राष्ट्रम् एवास्मै युनक्ति ।
3 आहुतयो वा एतस्याक्लृप्ता यस्य राष्ट्रं न कल्पते स्वरथस्य दक्षिणं चक्रम् प्रवृह्य नाडीम् अभि जुहुयाद् आहुतीर् एवास्य कल्पयति ता अस्य कल्पमाना राष्ट्रम् अनु कल्पते
संग्रामे संयत्ते होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रे खलु वा एते व्यायच्छन्ते ये संग्रामम्̇ संयन्ति यस्य पूर्वस्य जुह्वति स एव भवति जयति तं संग्रामं मान्धुक इध्मः
4 भवत्य् अङ्गारा एव प्रतिवेष्टमाना अमित्राणाम् अस्य सेनाम् प्रति वेष्टयन्ति य उन्माद्येत् तस्मै होतव्या गन्धर्वाप्सरसो वा एतम् उन् मादयन्ति य उन्माद्यत्य् एते खलु वै गन्धर्वाप्सरसो यद् राष्ट्रभृतस् तस्मै स्वाहा ताभ्यः स्वाहेति जुहोति तेनैवैनाञ् छमयति नैयग्रोध औदुम्बर आश्वत्थः प्लाक्ष इतीध्मो भवत्य् एते वै गन्धर्वाप्सरसां गृहाः स्व एवैनान्
5 आयतने शमयति । अभिचरता प्रतिलोमम्̇ होतव्याः प्राणान् एवास्य प्रतीचः प्रति यौति तं ततो येन केन च स्तृणुते स्वकृत इरिणे जुहोति प्रदरे वैतद् वा अस्यै निर्ऋतिगृहीतं निर्ऋतिगृहीत एवैनं निर्ऋत्या ग्राहयति यद् वाचः क्रूरम् तेन वषट् करोति वाच एवैनं क्रूरेण प्र वृश्चति ताजग् आर्तिम् आर्छति यस्य कामयेतान्नाद्यम्
6 आ ददीयेति तस्य सभायाम् उत्तानो निपद्य भुवनस्य पत इति तृणानि सं गृह्णीयात् प्रजापतिर् वै भुवनस्य पतिः प्रजापतिनैवास्यान्नाद्यम् आ दत्त इदम् अहम् अमुष्यामुष्यायणस्यान्नाद्यम्̇ हरामीत्य् आहान्नाद्यम् एवास्य हरति षड्भिर् हरति षड् वा ऋतवः प्रजापतिनैवास्यान्नाद्यम् आदायर्तवो ऽस्मा अनु प्र यच्छन्ति ॥
7 यो ज्येष्ठबन्धुर् अपभूतः स्यात् तम्̇ स्थले ऽवसाय्य ब्रह्मौदनं चतुःशरावम् पक्त्वा तस्मै होतव्या वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं वर्ष्मणैवैनं वर्ष्म समानानां गमयति चतुःशरावो भवति दिक्ष्व् एव प्रति तिष्ठति क्षीरे भवति रुचं एवास्मिन् दधात्य् उद् धरति शृतत्वाय सर्पिष्वान् भवति मेध्यत्वाय चत्वार आर्षेयाः प्राश्नन्ति दिशाम् एव ज्योतिषि जुहोति ॥
 
3.4.9 अनुवाक 9 देविकाहवींषिकाम्यप्रयोगाः
1 देविका निर् वपेत् प्रजाकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै प्रजाश् छन्दोभिर् एवास्मै प्रजाः प्र जनयति प्रथमं धातारं करोति मिथुनी एव तेन करोत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवली जनयति प्रजास्व् एव प्रजातासु कुह्वा वाचं दधाति । एता एव निर् वपेत् पशुकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि
2 इव खलु वै पशवश् छन्दोभिर् एवास्मै पशून् प्र जनयति प्रथमं धातारं करोति प्रैव तेन वापयत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवाली जनयति पशून् एव प्रजातान् कुह्वा प्रति ष्ठापयति । एता एव निर् वपेद् ग्रामकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै ग्रामश् छन्दोभिर् एवास्मै ग्रामम्
3 अव रुन्द्धे मध्यतो धातारं करोति मध्यत एवैनं ग्रामस्य दधाति । एता एव निर् वपेज् ज्योगामयावी छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतम् अभि मन्यन्ते यस्य ज्योग् आमयति छन्दोभिर् एवैनम् अगदं करोति मध्यतो धातारं करोति मध्यतो वा एतस्याक्लृप्तं यस्य ज्योग् आमयति मध्यत एवास्य तेन कल्पयति । एता एव निः
4 वपेद् यं यज्ञो नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यं यज्ञो नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनं यज्ञो नमति । एता एव निर् वपेद् ईजानश् छन्दाम्̇सि वै देविका यातयामानीव खलु वा एतस्य छन्दाम्̇सि य ईजान उत्तमं धातारं करोति ।
5 उपरिष्टाद् एवास्मै छन्दाम्̇स्य् अयातयामान्य् अव रुन्द्ध उपैनम् उत्तरो यज्ञो नमति । एता एव निर् वपेद् यम् मेधा नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यम् मेधा नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनम् मेधा नमति । एता एव निर् वपेत्
6 रुक्कामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै रुक् छन्दोभिर् एवास्मिन् रुचं दधाति क्षीरे भवन्ति रुचम् एवास्मिन् दधति मध्यतो धातारं करोति मध्यत एवैनम्̇ रुचो दधाति गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूर् अमावास्या सिनीवली पौर्णमास्य् अनुमतिश् चन्द्रमा धाता । अष्टौ
7 वसवो ऽष्टाक्षरा गायत्र्य् एकादश रुद्रा एकादशाक्षरा त्रिष्टुब् द्वादशादित्या द्वादशाक्षरा जगती प्रजापतिर् अनुष्टुब् धाता वषट्कारः । एतद् वै देविकाः सर्वाणि च छन्दाम्̇सि सर्वाश् च देवता वषट्कारस् ता यत् सह सर्वा निर्वपेद् ईश्वरा एनम् प्रदहो द्वे प्रथमे निरुप्य धातुस् तृतीयं निर् वपेत् तथो एवोत्तरे निर् वपेत् तथैनं न प्र दहन्त्य् अथो यस्मै कामाय निरुप्यन्ते तम् एवाभिर् उपाप्नोति ॥

3.4.10 अनुवाक 10 प्रयास्यतो अग्निहोत्रिणः अग्निसमारोपणम्
1 वास्तोष् पते प्रति जानीह्य् अस्मान्त् स्वावेशो अनमीवो भवा नः । यत् त्वेमहे प्रति तन् नो जुषस्व शं न एधि द्विपदे शं चतुष्पदे ॥ वास्तोष् पते शग्मया सम्̇सदा ते सक्षीमहि रण्वया गातुमत्या । आवः क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥ यत् सायम्प्रातर् अग्निहोत्रं जुहोत्य् आहुतीष्टका एव ता उप धत्ते
2 यजमानो ऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर् यत् सायम्प्रातर् जुहोत्य् अहोरात्राण्य् एवाप्त्वेष्टकाः कृत्वोप धत्ते
दश समानत्र जुहोति दशाक्षरा विराड् विराजम् एवाप्त्वेष्टकां कृत्वोप धत्ते । अथो विराज्य् एव यज्ञम् आप्नोति चित्यश्चित्यो ऽस्य भवति तस्माद् यत्र दशोषित्वा प्रयाति तद् यज्ञवास्त्व् अवास्त्व् एव तद् यत् ततो ऽर्वाचीनम् ।
3 रुद्रः खलु वै वास्तोष्पतिर् यद् अहुत्वा वास्तोष्पतीयम् प्रयायाद् रुद्र एनम् भूत्वाग्निर् अनूत्थाय हन्याद् वास्तोष्पतीयं जुहोति भागधेयेनैवैनम्̇ शमयति नार्तिम् आर्छति यजमानः । यद् युक्ते जुहुयाद् यथा प्रयाते वास्ताव् आहुतिं जुहोति तादृग् एव तद् यद् अयुक्ते जुहुयाद् यथा क्षेम आहुतिं जुहोति तादृग् एव तद् अहुतम् अस्य वास्तोष्पतीयम्̇ स्यात् ।
4 दक्षिणो युक्तो भवति सव्यो ऽयुक्तः । अथ वास्तोष्पतीयं जुहोत्य् उभयम् एवाकर् अपरिवर्गम् एवैनम्̇ शमयति यद् एकया जुहुयाद् दर्विहोमं कुर्यात् पुरोऽनुवाक्याम् अनूच्य याज्यया जुहोति सदेवत्वाय यद् धुत आदध्याद् रुद्रं गृहान् अन्वारोहयेद् यद् अवक्षाणान्य् असम्प्रक्षाप्य प्रयायाद् यथा यज्ञवेशसं वाऽऽदहनं वा तादृग् एव तत् । अयं ते योनिर् ऋत्विय इत्य् अरण्योः समारोहयति ।
5 एष वा अग्नेर् योनिः स्व एवैनं योनौ समारोहयति । अथो खल्व् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत् पुनराधेयः स्याद् इति या ते अग्ने यज्ञिया तनूस् तयेह्य् आ रोहेत्य् आत्मन्त् समारोहयते यजमानो वा अग्नेर् योनिः स्वायाम् एवैनं योन्याम्̇ समारोहयते ॥

3.4.11 अनुवाक 11 काम्येष्टियाज्यापुरोनुवाक्याः
1 त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । कविर् गृहपतिर् युवा ॥ हव्यवाड् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्रियक् सम् मिमीहि श्रवाम्̇सि ॥ त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः ॥ ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । श्येनो गृध्राणाम्̇ स्वधितिर् वनानाम्̇ सोमः
2 पवित्रम् अत्य् एति रेभन् ॥ आ विश्वदेवम्̇ सत्पतिम्̇ सूक्तैर् अद्या वृणीमहे । सत्यसवम्̇ सवितारम् ॥ आ सत्येन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । हिरण्ययेन सविता रथेनाऽऽ देवो याति भुवना विपश्यन् ॥ यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् ॥ मा नस् तोके तनये मा न आयुषि मा नो गोषु मा
3 नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥ उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥ हम्̇सैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वान् अगायत् ॥ एन्द्र सानसिम्̇ रयिम्
4 सजित्वानम्̇ सदासहम् । वर्षिष्ठमूतये भर ॥ प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । इन्द्राऽऽ भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥ त्वम्̇ सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄम्̇श् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रः
5 विश्वचर्षणे ॥ मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥ मित्रो जनान् यातयति प्रजानन् मित्रो दाधार पृथिवीम् उत द्याम् । मित्रः कृष्टीर् अनिमिषाभि चष्टे सत्याय हव्यं घृतवद् विधेम ॥ प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनम् अम्̇हो अश्नोत्य् अन्तितो न दूरात् ॥ यत्
6 चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥ यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥ कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । सर्वा ता वि ष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥




3.4.1 अनुवाक 1
पाशुकगर्भप्रायश्चित्तमन्त्राणां ब्राह्मणम्

1
वि वा एतस्य यज्ञ ऋध्यते यस्य हविर् अतिरिच्यते
सूर्यो देवो दिविषद्भ्य इत्य् आह
बृहस्पतिना चैवास्य प्रजापतिना च यज्ञस्य व्यृद्धम् अपि वपति
रक्षाम्̇सि वा एतत् पशुम्̇ सचन्ते यद् एकदेवत्य आलब्धो भूयान् भवति
यस्यास् ते हरितो गर्भ इत्य् आह
देवत्रैवैनां गमयति रक्षसाम् अपहत्यै ।
आ वर्तन वर्तयेत्य् आह

2
ब्रह्मणैवैनम् आ वर्तयति
वि ते भिनद्मि तकरीम् इत्य् आह
यथायजुर् एवैतत् ।
उरुद्रप्सो विश्वरूप इन्दुर् इत्य् आह
प्रजा वै पशव इन्दुः
प्रजयैवैनम् पशुभिः सम् अर्धयति
दिवं वै यज्ञस्य व्यृद्धं गच्छति
पृथिवीम् अतिरिक्तम् ।
तद् यन् न शमयेद् आर्तिम् आर्छेद् यजमानः ।
मही द्यौः पृथिवी च न इति

3
आह
द्यावापृथिवीभ्याम् एव यज्ञस्य व्यृद्धं चातिरिक्तं च शमयति नार्तिम् आर्छति यजमानः ।
भस्मनाऽभि समूहति स्वगाकृत्यै ।
अथो अनयोर् वा एष गर्भो ऽनयोर् एवैनं दधाति
यद् अवद्येद् अति तद् रेचयेत् ।
यन् नावद्येत् पशोर् आलब्धस्य नाव द्येत्
पुरस्तान् नाभ्या अन्यद् अवद्येद् उपरिष्टाद् अन्यत्
पुरस्ताद् वै नाभ्यै

4
प्राण उपरिष्टाद् अपानः ।
यावान् एव पशुस् तस्याव द्यति
विष्णवे शिपिविष्टाय जुहोति
यद् वै यज्ञस्यातिरिच्यते यः पशोर् भूमा या पुष्टिस् तद् विष्णुः शिपिविष्टः ।
अतिरिक्त एवातिरिक्तं दधात्य् अतिरिक्तस्य शान्त्यै ।
अष्टाप्रूड् ढिरण्यं दक्षिणा ।
अष्टापदी ह्य् एषा ।
आत्मा नवमः
पशोर् आप्त्यै ।
अन्तरकोश उष्णीषेणाऽऽविष्टितम् भवति ।
एवम् इव हि पशुर् उल्बम् इव चर्मेव माम्̇सम् इवास्थीव
यावान् एव पशुस् तम् आप्त्वाव रुन्द्धे
यस्यैषा यज्ञे प्रायश्चित्तिः क्रियत इष्ट्वा वसीयान् भवति ॥

3.4.2 अनुवाक 2
भृत्यादिकामस्य वशालम्भार्था मन्त्राः

1
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते प्राणं वायवे स्वाहा किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याम्̇ स्वाहा किक्किटा ते वाचम्̇ सरस्वत्यै स्वाहा ।

2
त्वं तुरीया वशिनी वशासि सकृद् यत् त्वा मनसा गर्भ आशयत् । वशा त्वं वशिनी गच्छ देवान्त् सत्याः सन्तु यजमानस्य कामाः ॥
अजासि रयिष्ठा पृथिव्याम्̇ सीदोर्ध्वान्तरिक्षम् उप तिष्ठस्व दिवि ते बृहद् भाः ।
तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥
मनसो हविर् असि प्रजापतेर् वर्णो गात्राणां ते गात्रभाजो भूयास्म ॥

3.4.3 अनुवाक 3
वशालम्भार्थो विधिः

1
इमे वै सहास्ताम् ।
ते वायुर् व्यवात्
ते गर्भम् अदधाताम् ।
तम्̇ सोमः प्राजनयद् अग्निर् अग्रसत
स एतम् प्रजापतिर् आग्नेयम् अष्टाकपालम् अपश्यत्
तं निर् अवपत्
तेनैवैनाम् अग्नेर् अधि निर् अक्रीणात्
तस्माद् अप्य् अन्यदेवत्याम् आलभमान आग्नेयम् अष्टाकपालम् पुरस्तान् निर् वपेत् ।
अग्नेर् एवैनाम् अधि निष्क्रीया लभते
यत्

2
वायुर् व्यवात् तस्माद् वायव्या
यद् इमे गर्भम् अदधातां तस्माद् द्यावापृथिव्या
यत् सोमः प्राजनयद् अग्निर् अग्रसत तस्माद् अग्नीषोमीया
यद् अनयोर् वियत्योर् वाग् अवदत् तस्मात् सारस्वती
यत् प्रजापतिर् अग्नेर् अधि निरक्रीणात् तस्मात् प्राजापत्या
सा वा एषा सर्वदेवत्या यद् अजा वशा
वायव्याम् आ लभेत भूतिकामः ।
वायुर् वै क्षेपिष्ठा देवता
वायुम् एव स्वेन

3
भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
द्यावापृथिव्याम् आ लभेत कृषमाणः प्रतिष्ठाकामः ।
दिव एवास्मै पर्जन्यो वर्षति व्यस्याम् ओषधयो रोहन्ति समर्धुकम् अस्य सस्यम् भवति ।
अग्नीषोमीयाम् आ लभेत यः कामयेत ।
अन्नवान् अन्नादः स्याम् इति ।
अग्निनैवान्नम् अव रुन्द्धे सोमेनान्नाद्यम्
अन्नवान् एवान्नादो भवति
सारस्वतीम् आ लभेत यः

4
ईश्वरो वाचो वदितोः सन् वाचं न वदेत् ।
वाग् वै सरस्वती
सरस्वतीम् एव स्वेन भागधेयेनोप धावति
सैवास्मिन् वाचं दधाति
प्राजापत्याम् आ लभेत यः कामयेत ।
अनभिजितम् अभि जयेयम् इति
वायव्ययोपाकरोति
वायोर् एवैनाम् अवरुध्या लभते ।
आकूत्यै त्वा कामाय त्वा ॥

5
इत्य् आह
यथायजुर् एवैतत्
किक्किटाकारं जुहोति
किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते प्रारण्याः पतन्ति
यत् किक्किटाकारं जुहोति ग्राम्याणाम् पशूनां धृत्यै
पर्यग्नौ क्रियमाणे जुहोति
जीवन्तीम् एवैनाम्̇ सुवर्गं लोकम् गमयति
त्वं तुरीया वशिनी वशासीत्य् आह
देवत्रैवैनां गमयति
सत्याः सन्तु यजमानस्य कामा इत्य् आह ।
एष वै कामः

6
यजमानस्य यद् अनार्त उदृचं गच्छति
तस्माद् एवम् आह ।
अजासि रयिष्ठेत्य् आह ।
एष्व् एवैनां लोकेषु प्रति ष्ठापयति
दिवि ते बृहद् भा इत्य् आह
सुवर्ग एवास्मै लोके ज्योतिर् दधाति
तन्तुं तन्वन् रजसो भानुम् अन्व् इहीत्य् आह ।
इमान् एवास्मै लोकाञ् ज्योतिष्मतः करोति ।
अनुल्बणं वयत जोगुवाम् अप इति

7
आह
यद् एव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः ।
मनुर् भव जनया दैव्यं जनम् इत्य् आह
मानव्यो वै प्रजास् ता एवाद्याः कुरुते
मनसो हविर् असीत्य् आह
स्वगाकृत्यै
गात्राणां ते गात्रभाजो भूयास्मेत्य् आह ।
आशिषम् एवैताम् आ शास्ते
तस्यै वा एतस्या एकम् एवादेवयजनं यद् आलब्धायाम् अभ्रः

8
भवति
यद् आलब्धायाम् अभ्रः स्याद् अप्सु वा प्रवेशयेत् सर्वां वा प्राश्नीयात् ।
यद् अप्सु प्रवेशयेद् यज्ञवेशसं कुर्यात्
सर्वाम् एव प्राश्नीयाद् इन्द्रियम् एवात्मन् धत्ते
सा वा एष त्रयाणाम् एवावरुद्धा संवत्सरसदः सहस्रयाजिनो गृहमेधिनस्
त एवैतया यजेरन्
तेषाम् एवैषाप्ता ॥

3.4.4 अनुवाक 4
जयाः

1
चित्तं च चित्तिश् चाकूतं चाकूतिश् च विज्ञातं च विज्ञानं च मनश् च शक्वरीश् च दर्शश् च पूर्णमासश् च बृहच् च रथंतरं च
प्रजापतिर् जयान् इन्द्राय वृष्णे प्रायच्छद् उग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव
देवासुराः संयत्ता आसन्त् स इन्द्रः प्रजापतिम् उपाधावत् तस्मा एताञ् जयान् प्रायच्छत् तान् अजुहोत्
ततो वै देवा असुरान् अजयन्
यद् अजयन् तज् जयानां जयत्वम् ।
स्पर्धमानेनैते होतव्या जयत्य् एव ताम् पृतनाम् ॥

3.4.5 अनुवाक 5
अभ्यातानाः

1
अग्निर् भूतानाम् अधिपतिः स माऽवत्व् इन्द्रो ज्येष्ठानां यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् बृहस्पतिर् ब्रह्मणो मित्रः सत्यानां वरुणो ऽपाम्̇ समुद्रः स्रोत्यानाम् अन्नम्̇ साम्राज्यानाम् अधिपति तन् मावतु सोम ओषधीनाम्̇ सविता प्रसवानाम्̇ रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानाम् मरुतो गणानाम् अधिपतयस् ते मावन्तु
पितरः पितामहाः परे ऽवरे ततास् ततामहा इह मावत ।
अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥

3.4.6 अनुवाक 6
अभ्यातानहोमविधानम्

1
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतान् अभ्यातानान् अपश्यन्
तान् अभ्यातन्वत
यद् देवानां कर्मासीद् आर्ध्यत तत् ।
यद् असुराणां न तद् आर्ध्यत
येन कर्मणेर्त्सेत् तत्र होतव्याः ।
ऋध्नोत्य् एव तेन कर्मणा
यद् विश्वे देवाः समभरन् तस्माद् अभ्याताना वैश्वदेवाः ।
यद् प्रजापतिर् जयान् प्रायच्छत् तस्माज् जयाः प्राजापत्याः ॥

2
यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् ।
ते देवा अभ्यातानैर् असुरान् अभ्यातन्वत जयैर् अजयन् राष्ट्रभृद्भी राष्ट्रम् आददत
यद् देवा अभ्यातानैर् असुरान् अभ्यातन्वत तद् अभ्यातानानाम् अभ्यातानत्वम् ।
यज् जयैर् अजयन् तज् जवानां जयत्वम् ।
यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् ।
ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स एताञ् जुहुयात् ।
अभ्यातानैर् एव भ्रातृव्यान् अभ्यातनुते जयैर् जयति राष्ट्रभृद्भी राष्ट्रम् आ दत्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

3.4.7 अनुवाक 7
राष्ट्रभृन्मन्त्राः

1
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौषधयो ऽप्सरस ऊर्जो नाम स इदम् ब्रह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाहा ताभ्यः स्वाहा
सम्̇हितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवः
सुषुम्नः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयः ।
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरस स्तवाः
प्रजापतिर् विश्वकर्मा मनः

2
गन्धर्वस् तस्यर्क्सामान्य् अप्सरसो वह्नयः ।
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽप्सरसो मुदाः ।
भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीर्यम्̇ संवत्सरीणाम्̇ स्वस्तिम्
परमेष्ठ्य् अधिपतिर् मृत्युर् गन्धर्वस् तस्य विश्वम् अप्सरसो भुवः
सुक्षितिः सुभूतिर् भद्रकृत् सुवर्वान् पर्जन्यो गन्धर्वस् तस्य विद्युतो ऽप्सरसो रुचः ।
दूरेहेतिर् अमृडयः

3
मृत्युर् गन्धर्वस् तस्य प्रजा अप्सरसो भीरुवः ।
चारुः कृपणकाशी कामो गन्धर्वस् तस्याधयो ऽप्सरसः शोचयन्तीर् नाम स इदम् ब्राह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाह ताभ्यः स्वाहा
स नो भुवनस्य पते यस्य त उपरि गृहा इह च । उरु ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ ॥

3.4.8 अनुवाक 8
राष्ट्रभृतां ब्राह्मणम्

1
राष्ट्रकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रम् अव रुन्द्धे राष्ट्रम् एव भवति ।
आत्मने होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् प्रजा राष्ट्रम् पशवो राष्ट्रं यच् छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रम् अव रुन्द्धे वसिष्ठः समानानाम् भवति
ग्रामकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम्̇ सजाता राष्ट्रेणैवास्मै राष्ट्रम्̇ सजातान् अव रुन्द्धे ग्रामी

2
एव भवति ।
अधिदेवने जुहोत्य् अधिदेवन एवास्मै सजातान् अव रुन्द्धे त एनम् अवरुद्धा उप तिष्ठन्ते
रथमुख ओजस्कामस्य होतव्या ओजो वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजो ऽव रुन्द्ध ओजस्व्य् एव भवति
यो राष्ट्राद् अपभूतः स्यात् तस्मै होतव्या यावन्तो ऽस्य रथाः स्युस् तान् ब्रूयाद् युङ्ग्ध्वम् इति राष्ट्रम् एवास्मै युनक्ति ।

3
आहुतयो वा एतस्याक्लृप्ता यस्य राष्ट्रं न कल्पते स्वरथस्य दक्षिणं चक्रम् प्रवृह्य नाडीम् अभि जुहुयाद् आहुतीर् एवास्य कल्पयति ता अस्य कल्पमाना राष्ट्रम् अनु कल्पते
संग्रामे संयत्ते होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रे खलु वा एते व्यायच्छन्ते ये संग्रामम्̇ संयन्ति यस्य पूर्वस्य जुह्वति स एव भवति जयति तं संग्रामं मान्धुक इध्मः

4
भवत्य् अङ्गारा एव प्रतिवेष्टमाना अमित्राणाम् अस्य सेनाम् प्रति वेष्टयन्ति
य उन्माद्येत् तस्मै होतव्या गन्धर्वाप्सरसो वा एतम् उन् मादयन्ति य उन्माद्यत्य् एते खलु वै गन्धर्वाप्सरसो यद् राष्ट्रभृतस् तस्मै स्वाहा ताभ्यः स्वाहेति जुहोति तेनैवैनाञ् छमयति
नैयग्रोध औदुम्बर आश्वत्थः प्लाक्ष इतीध्मो भवत्य् एते वै गन्धर्वाप्सरसां गृहाः स्व एवैनान्

5
आयतने शमयति ।
अभिचरता प्रतिलोमम्̇ होतव्याः प्राणान् एवास्य प्रतीचः प्रति यौति तं ततो येन केन च स्तृणुते
स्वकृत इरिणे जुहोति प्रदरे वैतद् वा अस्यै निर्ऋतिगृहीतं निर्ऋतिगृहीत एवैनं निर्ऋत्या ग्राहयति यद् वाचः क्रूरम् तेन वषट् करोति वाच एवैनं क्रूरेण प्र वृश्चति ताजग् आर्तिम् आर्छति
यस्य कामयेतान्नाद्यम्

6
आ ददीयेति तस्य सभायाम् उत्तानो निपद्य भुवनस्य पत इति तृणानि सं गृह्णीयात् प्रजापतिर् वै भुवनस्य पतिः प्रजापतिनैवास्यान्नाद्यम् आ दत्त इदम् अहम् अमुष्यामुष्यायणस्यान्नाद्यम्̇ हरामीत्य् आहान्नाद्यम् एवास्य हरति षड्भिर् हरति षड् वा ऋतवः प्रजापतिनैवास्यान्नाद्यम् आदायर्तवो ऽस्मा अनु प्र यच्छन्ति ॥

7
यो ज्येष्ठबन्धुर् अपभूतः स्यात् तम्̇ स्थले ऽवसाय्य ब्रह्मौदनं चतुःशरावम् पक्त्वा तस्मै होतव्या वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं वर्ष्मणैवैनं वर्ष्म समानानां गमयति चतुःशरावो भवति दिक्ष्व् एव प्रति तिष्ठति क्षीरे भवति रुचं एवास्मिन् दधात्य् उद् धरति शृतत्वाय सर्पिष्वान् भवति मेध्यत्वाय चत्वार आर्षेयाः प्राश्नन्ति दिशाम् एव ज्योतिषि जुहोति ॥

3.4.9 अनुवाक 9
देविकाहवींषिकाम्यप्रयोगाः

1
देविका निर् वपेत् प्रजाकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै प्रजाश् छन्दोभिर् एवास्मै प्रजाः प्र जनयति
प्रथमं धातारं करोति मिथुनी एव तेन करोत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवली जनयति प्रजास्व् एव प्रजातासु कुह्वा वाचं दधाति ।
एता एव निर् वपेत् पशुकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि

2
इव खलु वै पशवश् छन्दोभिर् एवास्मै पशून् प्र जनयति प्रथमं धातारं करोति प्रैव तेन वापयत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवाली जनयति पशून् एव प्रजातान् कुह्वा प्रति ष्ठापयति ।
एता एव निर् वपेद् ग्रामकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै ग्रामश् छन्दोभिर् एवास्मै ग्रामम्

3
अव रुन्द्धे मध्यतो धातारं करोति मध्यत एवैनं ग्रामस्य दधाति ।
एता एव निर् वपेज् ज्योगामयावी छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतम् अभि मन्यन्ते यस्य ज्योग् आमयति छन्दोभिर् एवैनम् अगदं करोति मध्यतो धातारं करोति मध्यतो वा एतस्याक्लृप्तं यस्य ज्योग् आमयति मध्यत एवास्य तेन कल्पयति ।
एता एव निः

4
वपेद् यं यज्ञो नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यं यज्ञो नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनं यज्ञो नमति ।
एता एव निर् वपेद् ईजानश् छन्दाम्̇सि वै देविका यातयामानीव खलु वा एतस्य छन्दाम्̇सि य ईजान उत्तमं धातारं करोति ।

5
उपरिष्टाद् एवास्मै छन्दाम्̇स्य् अयातयामान्य् अव रुन्द्ध उपैनम् उत्तरो यज्ञो नमति ।
एता एव निर् वपेद् यम् मेधा नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यम् मेधा नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनम् मेधा नमति ।
एता एव निर् वपेत्

6
रुक्कामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै रुक् छन्दोभिर् एवास्मिन् रुचं दधाति क्षीरे भवन्ति रुचम् एवास्मिन् दधति मध्यतो धातारं करोति मध्यत एवैनम्̇ रुचो दधाति
गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूर् अमावास्या सिनीवली पौर्णमास्य् अनुमतिश् चन्द्रमा धाता ।
अष्टौ

7
वसवो ऽष्टाक्षरा गायत्र्य् एकादश रुद्रा एकादशाक्षरा त्रिष्टुब् द्वादशादित्या द्वादशाक्षरा जगती प्रजापतिर् अनुष्टुब् धाता वषट्कारः ।
एतद् वै देविकाः सर्वाणि च छन्दाम्̇सि सर्वाश् च देवता वषट्कारस् ता यत् सह सर्वा निर्वपेद् ईश्वरा एनम् प्रदहो द्वे प्रथमे निरुप्य धातुस् तृतीयं निर् वपेत् तथो एवोत्तरे निर् वपेत् तथैनं न प्र दहन्त्य् अथो यस्मै कामाय निरुप्यन्ते तम् एवाभिर् उपाप्नोति ॥

3.4.10 अनुवाक 10
प्रयास्यतो अग्निहोत्रिणः अग्निसमारोपणम्

1
वास्तोष् पते प्रति जानीह्य् अस्मान्त् स्वावेशो अनमीवो भवा नः । यत् त्वेमहे प्रति तन् नो जुषस्व शं न एधि द्विपदे शं चतुष्पदे ॥
वास्तोष् पते शग्मया सम्̇सदा ते सक्षीमहि रण्वया गातुमत्या । आवः क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥
यत् सायम्प्रातर् अग्निहोत्रं जुहोत्य् आहुतीष्टका एव ता उप धत्ते

2
यजमानो ऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर् यत् सायम्प्रातर् जुहोत्य् अहोरात्राण्य् एवाप्त्वेष्टकाः कृत्वोप धत्ते
दश समानत्र जुहोति दशाक्षरा विराड् विराजम् एवाप्त्वेष्टकां कृत्वोप धत्ते ।
अथो विराज्य् एव यज्ञम् आप्नोति चित्यश्चित्यो ऽस्य भवति तस्माद् यत्र दशोषित्वा प्रयाति तद् यज्ञवास्त्व् अवास्त्व् एव तद् यत् ततो ऽर्वाचीनम् ।

3
रुद्रः खलु वै वास्तोष्पतिर् यद् अहुत्वा वास्तोष्पतीयम् प्रयायाद् रुद्र एनम् भूत्वाग्निर् अनूत्थाय हन्याद् वास्तोष्पतीयं जुहोति भागधेयेनैवैनम्̇ शमयति नार्तिम् आर्छति यजमानः ।
यद् युक्ते जुहुयाद् यथा प्रयाते वास्ताव् आहुतिं जुहोति तादृग् एव तद् यद् अयुक्ते जुहुयाद् यथा क्षेम आहुतिं जुहोति तादृग् एव तद् अहुतम् अस्य वास्तोष्पतीयम्̇ स्यात् ।

4
दक्षिणो युक्तो भवति सव्यो ऽयुक्तः ।
अथ वास्तोष्पतीयं जुहोत्य् उभयम् एवाकर् अपरिवर्गम् एवैनम्̇ शमयति
यद् एकया जुहुयाद् दर्विहोमं कुर्यात् पुरोऽनुवाक्याम् अनूच्य याज्यया जुहोति सदेवत्वाय
यद् धुत आदध्याद् रुद्रं गृहान् अन्वारोहयेद् यद् अवक्षाणान्य् असम्प्रक्षाप्य प्रयायाद् यथा यज्ञवेशसं वाऽऽदहनं वा तादृग् एव तत् ।
अयं ते योनिर् ऋत्विय इत्य् अरण्योः समारोहयति ।

5
एष वा अग्नेर् योनिः स्व एवैनं योनौ समारोहयति ।
अथो खल्व् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत् पुनराधेयः स्याद् इति
या ते अग्ने यज्ञिया तनूस् तयेह्य् आ रोहेत्य् आत्मन्त् समारोहयते
यजमानो वा अग्नेर् योनिः स्वायाम् एवैनं योन्याम्̇ समारोहयते ॥

3.4.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

1
त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । कविर् गृहपतिर् युवा ॥
हव्यवाड् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्रियक् सम् मिमीहि श्रवाम्̇सि ॥
त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः ॥
ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । श्येनो गृध्राणाम्̇ स्वधितिर् वनानाम्̇ सोमः

2
पवित्रम् अत्य् एति रेभन् ॥
आ विश्वदेवम्̇ सत्पतिम्̇ सूक्तैर् अद्या वृणीमहे । सत्यसवम्̇ सवितारम् ॥
आ सत्येन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । हिरण्ययेन सविता रथेनाऽऽ देवो याति भुवना विपश्यन् ॥
यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् ॥
मा नस् तोके तनये मा न आयुषि मा नो गोषु मा

3
नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥
हम्̇सैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वान् अगायत् ॥
एन्द्र सानसिम्̇ रयिम्

4
सजित्वानम्̇ सदासहम् । वर्षिष्ठमूतये भर ॥
प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । इन्द्राऽऽ भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥
त्वम्̇ सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄम्̇श् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रः

5
विश्वचर्षणे ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥
मित्रो जनान् यातयति प्रजानन् मित्रो दाधार पृथिवीम् उत द्याम् । मित्रः कृष्टीर् अनिमिषाभि चष्टे सत्याय हव्यं घृतवद् विधेम ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनम् अम्̇हो अश्नोत्य् अन्तितो न दूरात् ॥
यत्

6
चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥
यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥
कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । सर्वा ता वि ष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥