तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः ३/

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


1.2.11
अनुवाक 11
सौमिकी वेदिः (अवान्तरदीक्षा, उपसदः)

VERSE: 1
अम्̇शुरम्̇शुस् ते देव सोमाऽऽ प्यायताम् इन्द्रायैकधनविद आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आऽऽ प्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगायर्तम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि या मम तनूर् एषा सा त्वयि ॥

VERSE: 2
या तव तनूर् इयम्̇ सा मयि सह नौ व्रतपते व्रतिनोर् व्रतानि
या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यास् ते स्वाहा
या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरे ष्ठा ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीम्̇ स्वाहा ॥