तत्त्वार्थसूत्रम्/सप्तमोऽध्यायः
<poem>
सप्तमोऽध्याय:
हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् |१|
देश-सर्वतोऽणुमहती |२|
तत्स्थैर्यार्थं भावना: पंच पंच |३|
वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकितपान-भोजनानि पंच |४|
क्रोध-लोभ-भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीचिभाषणं च पंच |५|
शून्यागार-विमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धि- सद्धर्माविसंवादा: पञ्च |६|
स्त्रीरागकथाश्रवण-तन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कार-त्यागा: पञ्च |७|
मनोज्ञामनोज्ञेन्द्रियविषय-राग-द्वेषवर्जनानि पञ्च |८|
हिंसादिष्विहामुत्रापायावद्यदर्शनम् |९|
दु:खमेव वा |१०|
मैत्री-प्रमोद-कारुण्य-माध्यस्थानि च सत्त्व-गुणाधिक-क्लिश्यमानाविनेयेषु |११|
जगत्कायस्वभावौ वा संवेग-वैराग्यार्थम् |१२|
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा |१३|
असदभिधानमनृतम् |१४|
अदत्तादानं स्तेयम् |१५|
मैथुनमब्रह्म |१६|
मूर्छा परिग्रह: |१७|
नि:शल्यो व्रती |१८|
अगार्यनगारश्च |१९|
अणुव्रतोऽगारी |२०|
दिग्देशानर्थदण्डविरति-सामायिक-प्रोषधोपवासोपभोग-परिभोगपरिमाणातिथिसंविभागव्रत-सम्पन्नश्च |२१|
मारणान्तिकीं सल्लेखनां जोषिता |२२|
शंका-कांक्षा-विचिकित्साऽन्यदृष्टिप्रशंसा-संस्तवा: सम्यग्दृष्टेरतीचारा: |२३|
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् |२४|
बन्ध-वधच्छेदातिभारारोपणान्नपाननिरोधा: |२५|
मिथ्योपदेश-रहोभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदा: |२६|
स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहारा: |२७|
परविवाहकरणेत्वरिका-परिगृहीतापरिगृहीतागमनानंगक्रीडा-कामतीव्राभिनिवेशा: |२८|
क्षेत्र-वास्तु-हिरण्य-सुवर्ण-धन-धान्य-दासी-दास-कुप्यप्रमाणातिक्रमा: |२९|
ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धि-स्मृत्यंतराधानानि |३०|
आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गलक्षेपा: |३१|
कन्दर्प-कौत्कुच्य-मौखर्या-समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि |३२|
योग-दुष्प्रणिधानानादर-स्मृत्यनुपस्थानानि |३३|
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान-संस्तरोपक्रमणानादर-स्मृत्यनुपस्थानानि |३४|
सचित्त-संबंध-सम्मिश्राभिषव-दु:पक्वाहारा: |३५|
सचित्तनिक्षेपापिधान- परव्यपदेश-मात्सर्यकालातिक्रमा: |३६|
जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानानि |३७|
अनुग्रहार्थं स्वस्यातिसर्गो दानम् |३८|
विधि-द्रव्य-दातृ-पात्र-विशेषात्तद्विशेष: |३९|
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे सप्तमोऽध्याय: ।।७।।