ज्ञानसारः
| ज्ञानसारः [[लेखकः :|]] |
- मः * रा * ये ।।
नाथज्ञानसारो लिख्यते ।।
कथमुत्पदते वाक् च कथं वाक् च विलीयते ।
वाच?स्तु निर्णयं ब्रूहि पश्चात् तत्वमुदीरय ।।
श्री * श्व * उ * च ।।
आहारं काङ्क्षयेत् प्राणः प्राणादुत्पद्यते मनः ।
मनु स्युत्पद्यते वाक्य? मा? च मनसि लीयते ।।
श्री * व्यु * च ।।
आहारं काङ्क्षयेत् प्राणो भुञ्जानो पिचकः कथम् ।
जागर्ति स्वपते कोसौ सप्तः कोवाप्रबु?ध्यते ।। ३ ।।
श्री * श्व * उ * च
आहारं काङ्क्षयेत् प्राणो भुङ्क्ते चैव हुताशनः ।
प्. १७४अ) जागर्ति स्वपते वायुः सुप्तं तेजो विबुध्यते ।। ४ ।।
श्री * व्यु * च
को वा करोति कर्माणि को वा लिप्येत पातकैः ।
को वा करोति पापानि को वा पापे प्रवर्तयेत् ।। ५ ।।
श्री * श्व * उ * च
मनः करोति कर्माणि मनो लिप्येतपातकैः ।
मनो हि तन्मयी भूतं न धर्मो न च पातकम् ।। ६ ।।
श्री * व्यु * च
यदिदं निष्कलं ब्रह्म व्योमातीतं सनातनम् ।
निर्द्वन्द्वं निर्मलं शान्तं निष्पापं समलक्षयेत् ।। ७ ।।
अप्रतर्क्यमविज्ञेयं विनासोत्पत्ति वर्जितम् ।
कैवल्यकेवलं शश्वच्छुद्धस्फटिकसन्निभम् ।। ८ ।।
प्. १७४ब्) तत्क्षणान्मुच्यते येन तज्ज्ञानं ब्रूहि शङ्कर ।
यदिदं शक्तिराकाशं देहस्थं देहवर्जितम् ।। ९ ।।
कथं जीवत्यसौजीवो निष्कलस्तु कथं भवेत् ।
केन पश्यत्यसौजीवः किं वा जीवस्य भोजनम् ।। १० ।।
कुत्र वा लीयते जीवो जागर्ति कुत्र एव वा ।
को जनः किं प्रमाणं तु जीवस्यापि प्रकीर्तितम् ।। ११ ।।
एतत्सर्वं समासेन ब्रूहि मे परमेश्वर ।।
श्री * श्व * उ * च
शृणु देवि प्रवक्ष्यामि यत्त्वया समुदीरितम् ।
कथयामि न सन्देहः सारात्सारतरं परम् ।। १३ ।।
वायुर्जीवस्तथा काशस्तृतीयो जीवसंज्ञकः ।
स जीवः प्रभुरित्युक्तो बालाग्रं शत कल्पितः ।। १४ ।।
प्. १७५अ) जीवश्शुक्लस्तु विज्ञेयो यावत् सत्वेन संयुतः ।
रजस्सत्त्वसमायुक्तो रक्तो जीवः प्रकीर्तितः ।। १५ ।।
तमस्सत्त्वसमायुक्तस्तदा कृष्णो भवेद्ध्रुवम् ।
सत्त्वेन च समायुक्तो धर्मज्ञाने प्रवर्तते ।। १६ ।।
रजः सत्त्वसमायुक्तो भुङ्क्ते तु विषयानपि ।
तमस्सत्त्वसमायुक्तस्तदा पापे प्रवर्तयेत् ।। १७ ।।
नासाग्रं चैव नाभिश्च हृदयं च तृतीयकम् ।
स्थानान्येतानि जीवस्य कलितानि शिवेन तु ।। १८ ।।
कपलं हृत्स्वरूपं च ह्यधो यावद् व्यवस्थितम् ।
देह स?ङ्ग न मित्युक्तं शिवेन परमात्मना ।। १९ ।।
यावन्निश्श्वासतो जीवो भवेन्निष्कलतां गतः ।
प्. १७५ब्) नासाग्रे निष्कलं ज्ञात्वा मुच्यते जन्म बन्धनात् ।। २० ।।
सर्वाङ्गः सर्वदेहस्थो नासाग्रे च प्रतिष्ठितः ।
अतर्क्यः सर्वभूतानां दृश्यते न च लक्ष्यते ।। २१ ।।
नाभिमध्ये स्थितं विश्वं सिद्धतत्त्वं तु निर्मलम् ।
आदित्यमिवतद्दीप्तं रस्मिभिस्तत्क्षणं शिवम् ।। २२ ।।
आकाराष्टकसञ्जीवं देहोक्तं देहवर्जितम् ।
नाडीरन्ध्राद्विनिष्क्रान्तं विषयान्प्राप्यसंस्थितम् ।। २३ ।।
तेनेदं निष्कलं विश्वं क्षीरसर्पि समोपमम् ।
करणात्मया?यान्मुक्तो भ्रमते हृदयस्थितः ।। २४ ।।
गोलकस्थो यथा देवि खेलनाद्दण्डबाह्यतः ।
देष्ठते भ्रमते शीघ्रमविश्रान्तः पुनः पुनः ।। २५ ।।
कीदृशी खेचरी विद्या चोन्मना वातुं कीदृशी ।
बन्धनं कीदृशं देव कथयस्व महेश्वर ।। १ ।।
को दण्डमध्यगं देवि सङ्कोचेन त्रिलोचने ।
न सूर्यचन्द्रमार्गेण लम्पिका करणं प्रिये ।। २ ।।
लोलां रन्ध्रमुखे कृ?त्वा विपथे योजयेत् प्रिये ।
सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते ।। ३ ।।
कण्ठसङ्कोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद्ध्रुवम् ।
मध्यचक्रमिदं भद्रे षोडशारार्धबन्धनम् ।। ४ ।।
प्. १७६ब्) नाभिशक्ति द्वये मध्ये स्थानं देयं पराङ्मुखम् ।
मूलचक्रमिदं भद्रे सत्पथव्याधिनाशनम् ।। ५ ।।
रसनामूर्धगां कृत्वा क्षणाध्वं यदि तिष्ठति ।
क्षणेन मुच्यते योगी व्याधिभिस्तु जरादिभिः ।। ६ ।।
रसनाभ्यन्तरे नित्यं यावद्ब्रह्मबिलंगता ।
अमृताग्रसने घ्राणं पीड्यमानं विचिन्तयेत् ।। ७ ।।
मासार्द्धाज्जयते मृत्युं सत्यं सत्यं महामते ।
सर्वव्याधिविनि *?क्तो योगीनाथो न संशयः ।। ८ ।।
रसना तालु मूलेन वायुं पीत्वा शनैः शनैः ।
षण्मासाभ्यन्तरे विश्वे बलीपलित नाशनम् ।। ९ ।।
घृतास्वादूपमानाश्च ह्यमरत्वं न संशयः ।
मधुस्वादूपमानाश्च शास्त्रोत्गीरणता भवेत् ।। १० ।।
प्. १७७अ) मृष्टानिखण्डकद्यानि लडुकाशोकवर्तिकाः ।
एवं वाराह्यनेके च कामदेवो व्यवस्थितः ।। ११ ।।
दिव्यकन्यागणेनित्यमाकृष्टिर्जायते सदा ।
हिक्कादद्यात्सदावक्त्रे प्रायश्चैव विजृम्भिकाम् ।। १२ ।।
एवमभ्यस्यमानस्तु कामदेवो द्वितीयकः ।
योगिनी गुणसामान्यः सृष्टिसंहारकारकः ।। १३ ।।
न क्षुधा न च तृण्निद्रा नैव मुर्छा प्रजायते ।
भवेत्स्वच्छन्ददेहस्तु सर्वोपद्रववर्जितः ।। १४ ।।
अनेन विधिना देवि योगीन्द्रो भूमिमण्डले ।
नभस्य पुनरावृत्तिः पूजितः स्यात्सुरैरपि ।। १५ ।।
पुण्य पापैर्न लिप्येत भयमुद्रा विदुत्तमः ।।
तालुमध्ये स्थितश्चन्द्रो नाभिमध्ये दिवाकरः ।
अमृतं स्रवते चन्द्रो विषं प्रज्वलितो रविः ।। १ ।।
सूर्याग्रे वसते वायुश्चन्द्राग्रे वसते नभः ।
सूर्याग्र मनुवर्तेत चन्द्राग्रं चैव नित्यशः ।। २ ।।
चन्द्रसूर्य द्वयोर्मध्ये मुडादद्या? तु खेचरीम् ।
निरालम्बं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ।। ३ ।।
स बाह्या भ्यन्तरे योगी घटवत्तिष्ठते प्रिये ।
बाह्ये वायुस्तथा पृष्ठे चान्ते वायुर्न संशयः ।। ४ ।।
स्वस्थाने गच्छते वायुर्मनस्तत्रैव लीयते ।
प्. १७८अ) अमृतं प्राप्नुयाद्योगी महाबलपराक्रमः ।। ५ ।।
वायुवेगेन देवेशि सकलां भ्रमते महीम् ।
अष्टधागुणमैश्वर्यं सत्यं सत्यं न चान्यथा ।। ६ ।।
शङ्खदुन्दु?भिनादेन न शृणोति कदाचन ।
काष्टवज्ञायते योगी नोत्पत्त्या वै प्रजायते ।। ७ ।।
शक्ति द्वयस्य मध्ये तु हीन्द्रियाख्यं तदुच्यते ।
अनेनैव च बन्धेन सद्यमृत्युविनाशनम् ।। ८ ।।
कायं च भजते क्षेत्रं मूलबन्धेन पार्वति ।
निरालम्बं भवेद्बीजं नान्यथा सिद्ध्यति ध्रुवम् ।। ९ ।।
ऊर्ध्वाधो बन्धमादाय कृत्वा चिन्ता मनामये ।
सिद्ध्यते नात्र सन्देहो गोपनीयो महामते ।। १० ।।
प्. १७८ब्) अण्डजालजाश्चैव स्वेदजा भेदजास्तथा ।
एक द्वि त्रि चतुष्पञ्चेन्द्रियाणि सर्वजन्तुषु ।। १ ।।
सर्वेषामेक एवात्मा साधारो बीजरूपवान् ।
शब्दः स्पर्शश्च गन्धश्च रसोरूपं च पञ्चमं ।। २ ।।
बुद्ध्यहङ्कारसंयुक्तं मनस्तत्रव्यवस्थितम् ।
यथामूले लताबीजं तथा पतन्ति जन्तवः ।। ३ ।।
सस्यवत्सर्वबीजानां जन्माप्तिश्च पुनः पुनः ।
वाहकश्चैवमात्मापि धर्माधर्मौ तु बन्धनम् ।। ४ ।।
अन्तरात्मा यथा तिष्ठेत् स्वरूपं पारमेश्वरम् ।
तस्मिन् काले वरारोहे लीयते घटवत्घृतम् ।। ५ ।।
प्. १७९अ) सर्पिषावात्रयोगेन पृथक्त्वं च न विन्दते ।
उल्का हस्तो यथा कश्चिद्द्रव्यमालोकतां नयेत् ।। ६ ।।
कर्मशौचं मनःसौचं मनसो ज्ञानमेव च ।
ध्यायेत तु जगत्सर्वं देहिनां देहमाश्रयम् ।। ७ ।।
यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् ।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।। ८ ।।
ध्याननिर्मथनाभ्यासाद्देवं पश्येत कुण्डगम् ।
कायस्थोपि न कायस्थः कायस्थोपि न नश्यति ।। ९ ।।
भुङ्क्ते भोगांश्च कायस्थः कायस्थोपि न वध्यते ।
यथाखरश्चन्दनभारवाही भारस्य वा हीन तु चन्दनस्य ।
तथैव मूर्खो बहुशास्त्रपाठी शास्त्रस्य पाठी न तु निश्चयस्य ।। ११ ।।
प्. १७९ब्) आहारनिद्राभयमैथुनानि समानमेतत् पशुभिर्नराणाम् ।
ज्ञानं नराणामधिको विशेषास्ते नैव हीनः पशुभिः समानः ।। १२ ।।
यावद्बिन्दु सहस्राणि कोटिबिन्दुशतानि च ।
सर्वथाभस्मतां यान्ति यत्र देवो निरालयः ।। १३ ।।
ह्यन्यते मुष्टिना काशं क्षुधार्ता खण्डयेत्तुषम् ।
ब्रह्मदण्डं न जानाति न मुक्तिः स्याद्वरानने ।। १४ ।।
शास्त्रं ह्यनन्तं बहुधा च विद्या अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं हंसो यथा नीरमिवाम्बु मध्ये ।। १५ ।।
तद्ध्यानस्तत्गतिस्थोपि कृत्वा पापशतान्यपि ।
लिप्यतेन स पापेन पद्मपत्रमिवाम्भसा ।। १६ ।।
इदं शास्त्रमिदं ज्ञानं यः सर्वं ज्ञातुमिच्छति ।
अपिवर्षसहस्रायुः शास्त्रान्तं नाधि गच्छति ।। १७ ।।
- END OF FILE #######