सामग्री पर जाएँ

ज्ञानसङ्कलिनीतन्त्रम्

विकिस्रोतः तः
ज्ञानसङ्कलिनीतन्त्रम्
[[लेखकः :|]]

ज्ञानसङ्कलिनीतन्त्रम्

कैलाशशिखरासीनं देवदेवं जगद्गुरुम् ।
पृच्छति स्म महादेवी ब्रूहि ज्ञानं महेश्वर ।। १ ।।

देवी उवाच

कुतः सृष्टिर्भवेद् देव कथं सृष्टिर्विनश्यति ।
ब्रह्मज्ञानं कथं देव सृष्टिसंहारवर्जितम् ।। २ ।।

ईश्वर उवाच

अव्यक्ताच्च भवेत् सृष्टिरव्यक्ताच्च विनश्यति ।
अव्यक्तं ब्रह्मणो ज्ञानं सृष्टिसंहार वर्जितम् ।। ३ ।।
ओङ्कारादक्षरात् सर्वास्त्वेता विद्याश्चतुर्दश ।
मन्त्र - पूजा - तपो - ध्यानं कर्माकर्म तथैव च ।। ४ ।।
षडङ्गं वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रपुराणानि एता विद्याश्चतुर्दश ।। ५ ।।
तावद् विद्या भवेत् सर्वा यावद् ज्ञानं न जायते ।
ब्रह्मज्ञानं पदं ज्ञात्वा सर्वविद्या स्थिरा भवेत् ।। ६ ।।
वेदशास्त्रपुराणानि सामान्यगणिका इव ।
या पुनः शाम्भवी विद्या गुप्ता कुलवधूरिव ।। ७ ।।
देहस्थाः सर्वविद्याश्च देहस्थाः सर्वदेवताः ।
देहस्थाः सर्वतीर्थानि गुरुवाक्येन लभ्यते ।। ८ ।।
अध्यात्मविद्या हि नृणां सौख्यमोक्षकरी भवेत् ।
धर्म कर्म तथा जप्यमेतत् सर्वं निवर्तते ।। ९ ।।
काष्ठमध्ये यथा वह्निः पुष्पे गन्धः पयोऽमृतम् ।
देहमध्ये तथा देवः पुण्यपापविवर्जितः ।। १० ।।
इडा भगवती गङ्गा पिङ्गला यमुना नदी ।
इडापिङ्गलयोर्मध्ये सुषुम्ना च सरस्वती ।। ११ ।।
त्रिवेणीसंगमो यत्र तीर्थराजः स उच्यते ।
तत्र स्नानं प्रकुर्वीत सर्वपापैः प्रमुच्यते ।। १२ ।।

देवी उवाच

कीदृशी खेचरी मुद्रा विद्या च शाम्भवी पुनः ।
कीदृश्यध्यात्मविद्या च तन्मे ब्रूहि महेश्वर ।। १३ ।।

ईश्वर उवाच

मनः स्थिरं यस्य विनावलम्बनं
वायुः स्थिरो यस्य विना निरोधनम् ।
दृष्टिः स्थिरा यस्य विनावलोकनं
सा एव मुद्रा विचरन्ती खेचरी ।। १४ ।।
बालस्य मूर्खस्य यथैव चेतः
स्वप्नेन हीनोऽपि करोति निद्राम् ।
ततो गतः पथो निरावलम्बः
सा एव विद्या विचरन्ती शाम्भवी ।। १५ ।।

देवी उवाच

देवदेव जगन्नाथ ब्रूहि मे परमेश्वर ।
दर्शनानि कथं देव भवन्ति च पृथक् पृथक् ।। १६ ।।

ईश्वर उवाच

त्रिदण्डी च भवेद् भक्तो वेदाभ्यासरतः सदा ।
प्रकृतिवादरताः शाक्ता बौद्धा शून्यातिवादिनः ।। १७ ।।
अतोर्ध्वं गामिनो ये वा तत्त्वज्ञा अपि तादृशाः ।
सर्वं नास्तीति चार्वाका जल्पन्ति विषयाश्रिताः ।। १८ ।।
उमा पृच्छति हे देव पिण्डब्रह्माण्डलक्षणम् ।
पञ्चभूतं कथं देव गुणाः के पञ्चविंशतिः ।। १९ ।।

ईश्वर उवाच

अस्थि मांसं नखं चैव त्वङ्लोमानि च पञ्चमम् ।
पृथ्वी पञ्चगुणा प्रोक्ता ब्रह्मज्ञानेन भासते ।। २० ।।
शुक्रशोणितमज्जा च मलं मूत्रं च पञ्चमम् ।
अपां पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ।। २१ ।।
निद्रा क्षुधा तृषा चैव क्लान्तिरालस्यपञ्चमम् ।
तेजः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ।। २२ ।।
धारणं चालनं क्षेपं संकोचं प्रसरं तथा ।
वायोः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ।। २३ ।।
कामं क्रोधं तथा मोहं लज्जा लोभञ्च पञ्चमम् ।
नभः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ।। २४ ।।
आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः ।
रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही ।। २५ ।।
मही विलीयते तोये तोयं विलीयते रवौ ।
रविर्विलीयते वायौ वायुर्विलीयते तु खे ।। २६ ।।
पञ्चतत्त्वाद् भवेत् सृष्टिस्तत्त्वात् तत्त्वं वीलीयते ।
पञ्चतत्त्वात् परं तत्त्वं तत्त्वातीतं निरञ्जनम् ।। २७ ।।
स्पर्शनं रसनं चैव घ्राणं चक्षुश्च श्रोत्रकम् ।
पञ्चेन्द्रियमिदं तत्त्वं मनः साधकमिन्द्रियम् ।। २८ ।।
ब्रह्माण्डलक्षणं सर्वं देहमध्ये व्यवस्थितम् ।
साकाराश्च विनश्यन्ति निराकारो न नश्यति ।। २९ ।।
निराकारं मनो यस्य निराकारसमो भवेत् ।
तस्मात् सर्वप्रयत्नेन साकारं तु परित्यजेत् ।। ३० ।।

देवी उवाच

आदिनाथ मयि ब्रूहि सप्तधातुः कथं भवेत् ।
आत्मा चैवान्तरात्मा च परमात्मा कथं भवेत् ।। ३१ ।।

ईश्वर उवाच

शुक्रशोणितमज्जा च मेदो मांसं च पञ्चमम् ।
अस्ति त्वक् चैव सप्तैते शरीरेषु व्यवस्थिताः ।। ३२ ।।
शरीरं चैवमात्मानमन्तरात्मा मनो भवेत् ।
परमात्मा भवेच्छून्यं मनो यत्र विलीयते ।। ३३ ।।
रक्तधातुर्भवेन्माता शुक्रधातुर्भवेत् पिता ।
शून्यधातुर्भवेत् प्राणो गर्भपिण्डं प्रजायते ।। ३४ ।।

देवी उवाच

कथमुत्पद्यते वाचा कथं वाचा विलीयते ।
वाक्यस्य निर्णयं ब्रूहि पश्य ज्ञानमुदाहर ।। ३५ ।।

ईश्वर उवाच

अव्यक्ताज्जायते प्राणः प्राणादुत्पद्यते मनः ।
मनसोत्पद्यते वाचा मनो वाचा विलीयते ।। ३६ ।।

देवी उवाच

कस्मिन् स्थाने वसेत् सूर्यः कस्मिन् स्थाने वसेछशी ।
कस्मिन् स्थाने वसेद् वायुः कस्मिन् स्थाने वसेन्मनः ।। ३७ ।।

ईश्वर उवाच

तालुमूले स्थितश्चन्द्रो नाभिमूले दिवाकरः ।
सूर्याग्रे वसते वायुश्चन्द्राग्रे वसते मनः ।। ३८ ।।
सूर्याग्रे वसते चित्तं चन्द्राग्रे जीवितं प्रिये ।
एतद्युक्तं महादेवि गुरुवाक्येन लभ्यते ।। ३९ ।।

देवी उवाच

कस्मिन् स्थाने वसेच्छक्तिः कस्मिन् स्थाने वसेच्छिवः ।
कस्मिन् स्थाने वसेत् कालो जरा केन प्रजायते ।। ४० ।।

ईश्वर उवाच

पाताले वसते शक्तिर्ब्रह्माण्डे वसते शिवः ।
अन्तरिक्षे वसेत् कालो जरा तेन प्रजायते ।। ४१ ।।

देवी उवाच

आहारं काङ्क्षते कोऽसौ भुञ्जते पिबते कथम् ।
जाग्रत् स्वप्नसुषुप्तौ च को वाऽसौ प्रतिबुध्यति ।। ४२ ।।

ईश्वर उवाच

आहारं काङ्क्षते प्राणो भुञ्जतेऽपि हुताशनः ।
जाग्रत्स्वप्नसुषुप्तौ च वायुश्च प्रतिबुध्यति ।। ४३ ।।

देवी उवाच

को वा करोति कर्माणि को वा लप्येत पातकैः ।
को वा करोति पापानि को वा पापैः प्रमुच्यते ।। ४४ ।।

शिव उवाच

मनः करोति पापानि मनो लिप्येत पातकैः ।
मनश्च तन्मना भूत्वा न पुण्यैर्न च पातकैः ।। ४५ ।।

देवी उवाच

जीवः केन प्रकारेण शिवो भवति कस्य च ।
कार्यस्य कारणं ब्रूहि कथं किञ्च प्रसादनम् ।। ४६ ।।

शिव उवाच

भ्रान्तिबद्धो भवेज्जीवो भ्रान्तिमुक्तः सदाशिवः ।
कार्यं हि कारणं त्वञ्च पुनर्बोधो विशिष्यते ।। ४७ ।।
मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।
इदं तीर्थमिदं तीर्थं भ्रमन्ति तामसा जनाः ।। ४८ ।।
आत्मतीर्थं न जानाति कथं मोक्षो वरानने ।।
न वेदं वेदमित्याहुर्वेदो ब्रह्म सनातनम् ।
ब्रह्मविद्यारतो यस्तु स विप्रो वेदपारगः ।। ४९ ।।
मथित्वा चतुरो वेदान् सर्वशास्त्राणि चैव हि ।
सारं तु योगिभिः पीतं तक्रं पिबन्ति पण्डिताः ।। ५० ।।
उच्छीष्टं सर्वशास्त्राणि सर्वा विद्या मुखे मुखे ।
नोच्छिष्टं ब्रह्मणो ज्ञानमव्यक्तं चेतनामयम् ।। ५१ ।।
न तपस्तप इत्याहुर्ब्रह्मचर्यं तपोत्तमम् ।
ऊर्ध्वरेता भवेद् यस्तु स देवो न तु मानुषः ।। ५२ ।।
न ध्यानं ध्यानमित्याहुर्ध्यानं शून्यगतं मनः ।
तस्य ध्यानप्रसादेन सौख्यं मोक्षं न संशयः ।। ५३ ।।
न होमं होममित्याहुः समाधौ तत्तु भूयते ।
ब्रह्माग्नौ हूयते प्राणं होमकर्म तदुच्यते ।। ५४ ।।
पापकर्म भवेद् भव्यं पुण्यं चैव प्रवर्तते ।
तस्मात् सर्वप्रयत्नेन ताद्रूप्यं च त्यजेद् बुधः ।। ५५ ।।
यावद् वर्णं कुलं सर्वं तावज्ज्ञानं न जायते ।
ब्रह्मज्ञानपदं ज्ञात्वा सर्ववर्णविवर्जितः ।। ५६ ।।

देवी उवाच

यत्त्वया कथितं ज्ञानं नाहं जानामि शङ्कर ।
निश्चयं ब्रूहि देवेश मनो यत्र विलीयते ।। ५७ ।।

शंकर उवाच

मनो वाक्यं तथा कर्म तृतीयं यत्र लीयते ।
विना स्वप्नं यथा निद्रा ब्रह्मज्ञानं तदुच्यते ।। ५९ ।।
एकाकी निस्पृहः शान्तश्चिन्ताविवर्जितः ।
बालभावस्तथा भावो ब्रह्मज्ञानं तदुच्यते ।। ६० ।।

श्लोकार्धं तु प्रवक्ष्यामि यदुक्तं तत्त्वदर्शिभिः ।
सर्वचिन्तापरित्यागो निश्चिन्तो योग उच्यते ।। ६१ ।।
निमिषं निमिषार्द्धं वा समाधिमधिगच्छति ।
शतजन्मार्जितं पापं तत्क्षणादेव नश्यति ।। ६२ ।।

देवी उवाच

कस्य नाम भवेच्छक्तिः कस्य नाम भवेच्छिवः ।
एतन्मे ब्रूहि भो देव पश्चाज्ज्ञानं प्रकाशय ।। ६३ ।।

ईश्वर उवाच

चलच्चित्ते वसेच्छक्तिः स्थिरचित्ते वसेच्छिवः ।
स्थिरचित्तो भवेद्देवि स देहस्थोऽपि सिध्यति ।। ६४ ।।

देवी उवाच

कस्मिन् स्थाने त्रिधा शक्तिः षट्चक्रं च तथैव च ।
एकविंशतिब्रह्माण्डं सप्तपातालमेव च ।। ६५ ।।

ईश्वर उवाच

ऊर्ध्वशक्तिर्भवेत् कण्ठः अधशक्तिर्भवेत् गुदः ।
मध्यशक्तिर्भवेन्नाभिः शक्त्यतीतं निरञ्जनम् ।। ६६ ।।
आधारं गुह्यचक्रं तु स्वाधिष्ठानं च लिङ्गकम् ।
चक्रभेदं मयाख्यातं चक्रातीतं नमो नमः ।। ६७ ।।
कायोर्ध्वं च ब्रह्मलोकः स्वाधः पातालमेव च ।
ऊर्ध्वमूलमधःशाखं वृक्षाकारं कलेवरम् ।। ६८ ।।

देवी उवाच

शिव शंकर ईशान ब्रूहि मे परमेश्वर ।
दशवायुः कथं देव दशद्वाराणि चैव हि ।। ६९ ।।

ईश्वर उवाच

हृदि प्राणः स्थितो वायुरपानो गुदसंस्थितः ।
समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ।। ७० ।।
व्यानः सर्वगतो देहे सर्वागात्रेषु संस्थितः ।
नाग ऊर्ध्वगतो वायुः कूर्मस्तीर्थानि संस्थितः ।। ७१ ।।
कृकरः क्षोभिते चैव देवदत्तोऽपि जृम्भणे ।
धनञ्जयो नादघोषे निविशेच्चैव शाम्यति ।। ७२ ।।
एष वायुर्निरालम्बो योगिनां योगसम्मतः ।
नवद्वारं च प्रात्यक्षं दशमं मन उच्यते ।। ७३ ।।

देवी उवाच

नाडीभेदं च मे ब्रूहि सर्वगात्रेषु संस्थितम् ।
शक्तिः कुण्डलिनी चैव प्रसूता दशनाडिका ।। ७४ ।।

ईश्वर उवाच

इडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी ।
गान्धारी हस्तिजिह्वा च प्रसवा गमनायता ।। ७५ ।।
अलम्बुसा यशा चैव दक्षिणाङ्गे च संस्थिताः ।
कुलश्च शङ्खिनी चैव वामाङ्गे च व्यवस्थिताः ।। ७६ ।।
एतासु दशनाडीषु नानानाडीप्रसूतिका ।
द्विसप्ततिसहस्राणि शरीरे नाडिकाः स्मृताः ।। ७७ ।।
एता यो विन्दते योगी स योगी योगलक्षणः ।
ज्ञाननाडी भवेद्देवी योगिनां सिद्धिदायिनी ।। ७८ ।।

देवी उवाच

भूतनाथ महादेव ब्रूहि मे परमेश्वर ।
त्रयो देवा कथं देव त्रयो भावास्त्रयो गुणाः ।। ७९ ।।

ईश्वर उवाच

रजोभावस्थितो ब्रह्मा सत्त्वभावस्थितो हरिः ।
क्रोधभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः ।। ८० ।।
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
नानाभावं मनो यस्य तस्य मुक्तिर्न जायते ।। ८१ ।।
वीर्यरूपी भवेद् ब्रह्मा वायुरूपः स्थितो हरिः ।
मनोरूपः स्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः ।। ८२ ।।
दयाभावस्थितो ब्रह्मा शुद्धभावस्थितो हरिः ।
अग्निभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः ।। ८३ ।।
एकं भूतं परं ब्रह्म जगत् सर्वं चराचरम् ।
नानाभावं मनो यस्य तस्य मुक्तिर्न जायते ।। ८४ ।।
अहं सृष्टिरहं कालोऽप्यहं ब्रह्माऽप्यहं हरिः ।
अहं रुद्रोऽप्यहं शून्यमहं व्यापी निरञ्जनम् ।। ८५ ।।
अहं सर्वात्मको देवि निष्कामो गगनोपमः ।
स्वभावनिर्मलं स्वान्तं स एवाहं न संशयः ।। ८६ ।।
जितेन्द्रियो भवेच्छूरो ब्रह्मचारी सुपण्डितः ।
सत्यवादी भवेद् भक्तो दाता धीरो हितेरतः ।। ८७ ।।
ब्रह्मचर्यं तपोमूलं धर्ममूला दया स्मृता ।
तस्मात् सर्वप्रयत्नेन दयाधर्मं समाश्रयेत् ।। ८८ ।।

देवी उवाच

योगेश्वर जगन्नाथ उमायाः प्राणवल्लभ ।
वेदसन्ध्या तपो ध्यानं होमकर्म कुलं कथम् ।। ८९ ।।

ईश्वर उवाच

अश्वमेधसहस्राणि वाजपेयशतानि च ।
ब्रह्मज्ञानसमं पुण्यं कलां नार्हति षोडशीम् ।। ९० ।।
सर्वदा सर्वतीर्थेषु यत् फलं लभते शुचिः ।
ब्रह्मज्ञानसमं पुण्यं कलां नार्हति षोडशीम् ।। ९१ ।।
न मित्रं न च पुत्राश्च न पिता न च बान्धवाः ।
न स्वामी च गुरोस्तुल्यं यद्दृष्टं परमं पदम् ।। ९२ ।।
न च विद्यागुरोस्तुल्यं न तीर्थं न च देवताः ।
गुरोस्तुल्यं न वै कोऽपि यद्दृष्टं परमं पदम् ।। ९३ ।।
एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ।। ९४ ।।
यस्य कस्य न दातव्यं ब्रह्मज्ञानं सुगोपितम् ।
यस्य कस्यापि भक्तस्य सद्गुरुस्तस्य दीयते ।। ९५ ।।
मन्त्रं पूजां तपो ध्यानं होमं जप्यं बलिक्रियाम् ।
संन्यासं सर्वकर्माणि लौकिकानि त्यजेद् बुधः ।। ९६ ।।
संसर्गाद् बहवो दोषा निःसङ्गाद् बहवो गुणाः ।
तस्मात् सर्वप्रयत्नेन यतिः सङ्गं परित्यजेत् ।। ९७ ।।
अकारः सात्त्विको ज्ञेय उकारो राजसः स्मृतः ।
मकारस्तामसः प्रोक्तस्त्रिभिः प्रकृतिरुच्यते ।। ९८ ।।
अक्षरा प्रकृतिः प्रोक्ता रक्षरः स्वयमीश्वरः ।
ईश्वरान्निर्गता सा हि प्रकृतिर्गुणबन्धना ।। ९९ ।।
सा माया पालिनी शक्तिः सृष्टिसंहारकारिणी ।
अविद्या मोहिनी या सा शब्दरूपा यशस्विनी ।। १०० ।।
अकारश्चैव ऋग्वेद उकारो यजुरुच्यते ।
मकारः सामवेदस्तु त्रिषु युक्तोऽप्यथर्वणः ।। १०१ ।।
ओङ्कारस्तु प्लुतो ज्ञेयस्त्रिनाद इति संज्ञितः ।
अकारस्त्वथ भूर्लोक उकारो भुव उच्यते ।। १०२ ।।
सव्यञ्जनो मकारस्तु स्वर्लोकस्तु विधीयते ।
अक्षरैस्त्रिभिरेतैश्च भवेदात्मा व्यवस्थितः ।। १०३ ।।
अकारः पृथिवी ज्ञेया पीतवर्णेन संयुतः ।
अन्तरीक्षं उकारस्तु विद्युद्वर्ण इहोच्यते ।। १०४ ।।
मकारः स्वरिति ज्ञेयः शुक्लवर्णेन संयुतः ।
ध्रुवमेकाक्षरं ब्रह्म ओं इत्येवं व्यवस्थितम् ।। १०५ ।।
स्थिरासनो भवेन्नित्यं चिन्तानिद्राविवर्जितः ।
आसु स जायते योगी नान्यथा शिवभाषितम् ।। १०६ ।।
य इदं पठते नित्यं शृणोति च दिने दिने ।
सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ।। १०७ ।।

देवी उवाच

स्थूलस्य लक्षणं ब्रूहि कथं मनो विलीयते ।
परमार्थं च निर्वाणं स्थूलसूक्ष्मस्य लक्षणम् ।। १०८ ।।

शिव उवाच

येन ज्ञानेन हे देवि विद्यते न च किल्बिषी ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
स्थूलरूपी स्थितोऽयं च सूक्ष्मश्च अन्यथा स्थितः ।। १०९ ।।

इति ज्ञानसङ्कलिनीतन्त्रं समाप्तम् ।।