सामग्री पर जाएँ

ज्ञानदीक्षा

विकिस्रोतः तः
ज्ञानदीक्षा
[[लेखकः :|]]

ज्ञानदीक्षा ।।

अविघ्नमस्तु

शिवं प्रणम्य परमं निधनेशमतः परम् ।
ज्ञानदीक्षां प्रवक्ष्या * * शृणुध्वं समाहिताः ।

अथात्ममलमायाख्यकर्मबन्धविमुक्तये ।
व्यक्तेये च शिवत्वस्य शिवज्ञानं प्रवर्तते ।।

ज्ञानं द्विविधमाख्यातं परं चापरमेव ।
प्रं चैवावबोधाख्यमपरं शास्त्रमुत्तमम् ।।

सृष्टिकाले महेशानः पुरुषार्थ प्रसिद्धये ।
वि * * विमलं ज्ञानं पञ्चस्रोतोभिलक्षितम् ।।

ज्ञा * * * * * क्षार्थं संग्रहणात्मभेषजम् ।
परिणामसुखं स्वादु विशेषगुणदर्शकम् ।।

धर्मेण सा * * * र्मि क्वचित्कार्येणकारणम् ।
कार * * * * कार्यं क्वचिदाम्नाय दर्शनात् ।।

अचेतनस्य मायादेः प्रवर्तकतया पतिः ।
सिद्धस्सर्वार्थ * * * व्याकस्स ततोदितः ।।

द्रक्रिया * * * यस्य तद्दात्रपूर्व * * * ।

  • * * स्सोत्र मन्तव्यः शक्तिद्वययुतः प्रभुः ।।


प्. २)

मतङ्गे-

त्रगे * * रधिष्ठानं स्वशक्तिकिरणात्मकम् ।
त * * * * * * त्मा निष्कंपो चलमूर्तिमान् ।।

काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ।
पृथ्वी * * * * शान्ता वस्तुमात्रातिलालसा ।।

आद्यन्तो * * * * * मूर्तित्वेनोपचर्यते ।
स्थिरावन्योन्यलोकेऽस्मिन् संविदानोपलभ्यते ।।

वपुषो विद्यमानत्व * * त्कृत्यं करोति सः ।
तत्र तत्रास्य तत्कर्तृवपुषा * * * * * ।।

किरणे-

करणं च न शन्यच्छक्तिर्नाचेतनाचितः ।
विषयानियमादेकं बोधे कृत्ये च तत्तथा ।।

यथा कालोह्यमूर्तोऽपि दृश्यते फलसाधकः ।

  • * * * ह्यमूर्तोऽपि कुरुते कार्यमिच्छया ।।


शक्तोद्युक्तप्रवृक्तश्च कर्ता त्रिविध इष्यते ।
शक्तेः प्रवृत्तिभेदेन भेदस्तस्योपचारतः ।।

निमित्त * * * * * द्यद्दृष्टं सहकारणम् ।
उपादानञ्च यत्सूक्ष्मं सर्वकार्ये तु संहितम् ।।

मूर्तास्सावयवायेत्था नानारूपपरिच्छदः ।
स्थूलावयव * * * * * मध्ये तु पूर्वकाः ।।

प्. ३)

अतोऽस्ति बुद्धिमान्कश्चिदीश्वरस्समवस्थितः ।
जगज्जन्मस्थितिध्वंसतिरे भावविमुक्तः ।।

कृत्यंसकारकफलं ज्ञेयमस्यै * * * * ।
स्वापेप्यास्ते बोधयन्बोधयोग्यान् * * * * * ।।

रोद्ध्यान्रुन्धन्पाचयन्कर्मिकर्म ।
मायाशक्तिव्यक्तियोग्यान्प्रकुर्वन्
पश्यन्सर्व * * * * * * * * * * जातम्
।।

देहान्योनीश्वरोव्यापी विभिन्नस्समलो जडः ।
स्वकर्मफलभुक्कर्ता किञ्चिज्ञस्सेश्वरः पशुः ।।

अथानादिमलः पुंसां पशुत्वं परिकीर्तितम् ।
तुषकुकम्बुकवज्ज्ञेयो मायाबीजाङ्कुरस्य तत् ।।

  • * * * * * तानां अनादिनिबिडं महत् ।

प्रत्यात्मस्थस्वकालान्तापाथशक्तिसमूहवत् ।।

तासां माहेश्वरी शक्तिस्सर्वानुग्राहिका शिवा ।
धर्मानुवर्तनादेव पाशद्व * * * * * ।।

परिणामवतीताश्च रोधान्तं कार्कचत्विषा ।
यदोन्मीलनमादत्ते तदानुग्राह्यकोच्यते ।।

यथा कुण्डलिनी शक्तिर्मायाकर्मानु सारिणि ।
नादब * * * * र्यं तस्या इति जगत्स्थितिः ।।

प्. ४)

तस्याश्चतस्रो वाग्रूपा वृत्तयो वै खर्यादयः ।
वैखरी मध्यमा चान्त्यपऽस्यन्ती सूक्ष्मसंज्ञिका ।।

मायातत्वं जगद्बीजम * * * * * * * * ।
विभ्वेकमकलं सूक्ष्ममनाद्यव्ययमीश्वरम् ।।

तदेकमशिवबीजस्थं जगतश्चित्रशक्तिमत् ।
सहकार्यधिकारान्त संरोधिव्याप्यनश्वरम् ।।

शुद्धे ध्वनिशि * * * * क्तो नन्तोसि ते प्रभुः ।
ग्रन्धिजन्यकलाकाल विद्यारागनुमातरः ।।

गुणाधी गर्व चिन्ताक्षमात्राभूतान्यनुक्रमात् ।
धर्माधर्मात्मकं कर्म तच्च त्रिविधम * * ।।

  • * * र्भो गदं येन नामित्रं पश्यते क्वचित् ।

कर्म व्यापारजन्यत्वाददृष्टं सूक्ष्मभावतः ।।

जनकन्धारकं भोग्यं अध्वात्मादित्रिसाधनम् ।
तत्सत्यानुतयोनित्वा * * * * * रूपकम् ।।

स्वापे विपाकमभ्येति तत्स्रष्टापुपयुज्यते ।
मायायां वर्तते चान्ते नाभुक्तं क्षय * * * ।।

अथात्मा विमलो बद्धः पुनर्मुक्तश्च * * * ।

  • * * स्सत्रिधावस्थः केवलस्सकलो मलः ।।


अचेतनो विभुर्नित्यो गुणहीनो क्रियो प्र * ।

  • * * तभागशक्तश्च शोध्यो बोध्यो क * * ।।


प्. ५)

चैतन्यं दृक्क्रिया * * * * त्यात्मनि सर्वदा ।
सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमु * ।।

  • * * दप्य भासमानत्वात्तन्निरुद्धं * * ।
  • * * वृतवीर्यस्य सोन्त एवाविमोक्षणात् ।।


पाशाभावे परातन्त्र्यं वक्तव्यं किन्नबन्धनम् ।
स्वाभाविकञ्चेन्मु * * * क्तशब्दो निवर्तते ।।

अनादिमलसंब * * * * * र्मयोदितः ।
अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततं शिवः ।।

आदिमत्वं यदा सिद्धन्निमित्तं कल्पते तदा ।
ई * * पं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः ।।

  • * * * * कं कस्मात्समाताम्रं सकालिकम् ।

यथा तत्र निमित्तं नो तथा नैव शिवात्मनोः ।।

प्रयोक्त्रादिमहीप्रान्तमेतदण्डार्थ साधकम् ।
प्रत्यात्मनियतं * * * * * प्यवसीयते ।।

सर्वतो युगपनुक्तेरनुत्पादादसर्वगम् ।
भिन्नजातीयमप्येकफलं दीपाङ्गवस्तुवत् ।।

मुक्त्यर्थं स पशुर्बद्धो नान्य * * * * * ते ।
यावच्छरीरसंश्लेषो न संजातो न भोगभुक् ।।

अत्यन्तमलिनस्यास्य प्रागुक्तस्याविकारिणः ।
कला संश्लेषमायाति शिवेच्छानुवि * * * ।।

प्. ६)

कर्मणा देहसंयोगो विभोरपि महेश्वरात् ।
अशक्तत्वात्स्वतो नास्वसामर्थ्यं कर्मयोजने ।।

पशुत्वरुद्धचिच्छक्तेस्स्वातन्त्र्य * * * * * ।
कर्मचिद्रहितन्तस्माद्योजकस्तदपेक्षते ।।

योजकस्समहेशानस्स्वेच्छया बलवान्यतः ।
वैखरी श्रोत्रविषया स विकल्पा तु मध्यमा ।।

निर्वि * * * * * वा गासां कारणमन्तिमा ।
आशुरेव जगत्सर्वं प्रबुद्धं शब्दवृत्तिभिः ।।

न हि शब्दादृते पुंसः प्रत्ययोऽस्ति कदाचन ।
शब्दानुवृद्धमेवेह विश्व * * * * * * ।।

एता एव परोबन्धः पशूनां परमार्थतः ।
कलोत्बलित चैतन्यो विद्यादर्शिततगोचरः ।।

रागेण रञ्जितश्चापि बुध्यादिकरणे * * ।
मायाद्यवनि पर्यन्ते दत्वा भूतात्मवर्त्मनि ।।

भुङ्क्ते तत्र स्थितान्भोगान् भोगैकरसिकः पुमान् ।
भोगोऽस्य वेदना पुंसः सुखदुःखातिलक्षणः ।।

तां * * * * * * न्यः पुमानभ्येति कर्मतः ।
कर्मतश्च शरीराहि विषयाः करणानि च ।।

भोगसंसिद्धये भोक्तुंर्भवन्ति न भवन्ति च ।
एवं मायाजनस्थोणुर्निजदोषतिर * * ।।

प्. ७)

  • * * * यतान्तेषु मायाभोगेषु रञ्जितः

संसारी विषयी भोक्ता क्षेत्री क्षेत्रज्ञ एव च ।।

शरीरीचेति बन्धात्मा सकलश्चोच्यते बुधैः ।
तमश्शक्त्यधि * * * * * * तत्परिच्युतौ ।।

व्यनक्ति दृक्क्रियानन्त्य जगद्बन्धुरणोश्शिवः ।
येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये ।।

तेषां तल्लिङ्गमौत्सुक्यं मुक्तौ येषो भव * * ।

  • * * शिवभक्तेषु श्रद्धातश्चासके विधौ ।।


तन्निपाच्च तस्येत्थमज्ञस्याप्यभिलाषितः ।
बुद्धिरुत्पद्यते कस्मात् विवेकेनात्मवर्तिना ।।

विवेकिनो वि * * * * * साचोपजायते ।
जिज्ञासोपेतचैतन्यं पशुं संसारसागरात् ।।

जिसृक्षया युनक्त्येनयुक्तं प्रेरयिता प्रभुः ।
प्रेरणे प्रेरकश्श्रीम * * * पिसमन्त्रराट् ।।

अनुग्राह्यस्य विनये तथानुग्राहकस्य च ।
कारुण्येत्वनयोरस्मात्तयो * गस्सुदुर्लभः ।।

स देशिकमनुप्राप्य दीक्ष * * * * न्धनः ।
प्रयाति शिवसायुज्यं निर्मलो निरुपप्लवः ।।

सर्वज्ञानोत्तरे-

प्. ८)

  • * * भिर्निबन्धात्मा सर्वधर्मे च संयुतः ।

न * * * * क्तुं वर्ज्यदीक्षां शि * * * * *
।।

कर्तृशक्तिरणोर्नित्या विद्वीचेश्वरशक्तिवत् ।
तमच्छन्न * * * * * भातिदिरनुग्रहात् ।।

विभुस्सन्ज्ञानरूपे * * * * * वेत्ति येन तत् ।
किञ्चिज्ञस्तेन स प्रोक्तो व्यवधानादिदर्शनात् ।।

  • * * व्यज्यते स्वल्पं महन्महतितस्थितम् ।
  • * * * * * * स्य प्रदीपस्तिमिरे यथा ।।


सचेतनस्ततो जीवो यदा शक्त्या तु युज्यते ।
अन्यथा निष्कलो ह्यात्मा विष * * पलक्ष्यते ।।

गुरुर्यथाग्रतश्शिष्यान् सुप्त * * * * धयेत् ।
शिवोऽपि मोहनिद्रायां सुप्तां शक्त्या प्रबोधयेत् ।।

यथा भेषजसामर्थ्या दशक्तानां बलं * * ।
तेन तच्छक्तियोगेन सामर्थ्यममितं भवेत् ।।

  • * * * च सामर्थ्यात् कर्मणा मुनिसत्तम ।

शिवत्वाद्युज्यते मोक्षे पशुत्वाद्युज्यते तनौ ।।

ईश्वराधिष्ठितात्मा च वस्वतन्त्रोयतस्सदा ।
नित्यव्यापकविच्छक्तिनिधिरप्यर्थसिद्ध * ।।

  • * * शांभवं वापि बलमन्वेष्टि नान्यथा ।

विश्वस्यानेकरूपस्य ज्ञानमेकं शिवात्मकम् ।।

प्. ९)

व्यापकं विमलं शान्तं भुक्तिमुक्तित्रियेन तु ।
एकैव वस्तु त * * * * क्तिर्निर्मला परा ।।

अविना भावनी शंभोश्शुचेरुष्णमिव प्रभोः ।
तयात्म शिवयोस्सन्धिश्शिवबोधपरापरा ।।

बाध्यक्षन्नापि तल्लैङ्गन्न * * * * * करम् ।
ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुषु ।।

अस्मात्प्रवितताद्बन्धात्परसंस्थानिरोधकात् ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ।।

  • * * * सने सिद्धा दीक्षा क्षपणदानयोः ।

दानन्नाम स्वसत्तैव या सा ज्ञानक्रियात्मिका ।।

सा शक्तिस्तस्य संस्पर्शाद्व्यक्ति भूतासु निर्मला ।
पत्युर्दान * * * * * * यं व्यज्यते पशोः ।।

अशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा ।
तदा भवति शान्तात्मा सर्वतो विगतस्पृहः ।।

दीक्षानला पुष्टमलस्य जन्तो * * * * * ।
स्वाख्यं * * * * * * * * * *
पत्रियोगात् ।।

शक्त्या विभोश्चुंबित हृत्प्रदेशो * * * * * ।

  • * * * * नान्येन पुंसोऽपि न वृत्तिरेति ।।


अनेकक्रमयोगेन परां केवलतां गतः ।

प्. १०)

अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् ।
यस्य जाग्रे प्रलीयन्ते सर्वे भावास्सुषुप्तिवत् ।।

पर्याप्तं तस्य विज्ञानन्त्रपदन्तेन लम्बितम् ।

  • * * शक्तिदीधित्या समर्थी कृत चिदृशा ।।


शिवं शक्त्यादिभिस्सार्धं पश्यत्यात्मागताव्रतिः ।
उल्काहस्तो यथा कश्चित् द्रव्यमालोक्यतां त्यजेत् ।।

ज्ञानेन ज्ञेयमालोक्य प * * * परित्यजेत् ।
यदा मनः परे तत्वे लब्धलक्षन्निलीयते ।।

तदाह्यशेष विज्ञानं विनाशमुपगच्छति ।
अनाख्ये तु निरालम्बे अग्राहे मनवर्जिते ।।

निस्त * * * * मुक्त इति शास्त्रस्य निश्चयः ।
भवोद्भवपदानीतो निष्कंपाच्चिरवस्थितः ।।

मुक्तो व्यक्तशिवत्वोऽसौ कृतकृत्यो यतस्ततः ।
नात्र पूजानमस्कारो नज * * * * वच ।।

केवलं ज्ञेयमित्युक्तं वेदितव्यं न किञ्चन ।
यथा वायुस्सुशीघ्रोऽपि मुक्त्वाकाशं न गच्छति ।।

ज्ञेयनिक्षिप्त चित्तस्तु विषयस्थो न मुञ्चति ।

  • * * * * था चित्तं नित्यं गच्छति देहिनाम् ।।


तथा चैवेन्द्रियातीते तस्य नैराकृते पदे ।
गोदोहमिषुपातं वा नयनोन्मीलमात्रकम् ।।

प्. ११)

अकृत्परपदे युक्तो न * * * * * प्नुयात् ।
पशुभावात्यदादित्यः पतिभावेन तिष्ठति ।।

तत्तस्य गमनं नाम सर्वगे गमनं कुतः ।
शिवधामाप्लुतस्यास्य भोगभोक्तुर्नजातु चित् ।।

भोक्तृत्वम * * * * * ति कृत्यानुकारिता ।
विषसंबन्धनी शक्तिर्यथा मन्त्रैर्निरुध्यते ।।

तथा न तद्विषं क्षीणमेवं पुंसो * * * * ।
अनेक भाविकं कर्म दग्धं बीजमिवा * * ।।

  • * * * * संरुद्धमेनेदन्तद्धि भोगतः ।

जातायां घटनिष्पत्तौ यथा चक्र भ्रमत्यपि ।।

पूर्वसंस्कार संसिद्ध * * * * रिदं स्मृतम् ।
भग्ने घटे यथा दीपस्स * * * * * * ।।

देहपाते तथा चात्मा * * * * * सर्वदा ।
प्रकटयस्वै इदं ज्ञानं मद्भक्तानां वरानने ।।

रक्षणीय * * * * तस्करेभ्यो धनं यथा ।।

।। इति श * * * * * * * * * * *

  • * ।।


इदं च अडैयार पुस्तकागारात् तालपत्रकोशं ग्रन्थाक्षरालंकृतं
दृष्ट्वा नटराजेण विलिखितम् इदं च दशकार्यम् इत्याद्यागमविषयबोधक
ग्रन्थमध्ये लिखितं दृश्यते अत्र च अस्य ग्रन्थस्यारं भात्पूर्वं एवं
दृश्यते यत्-


प्. १२)


इति ।। इतः परं च इत्यारभ्य अयं ग्रन्थो दृश्यते समाप्ति बोधकवाक्यं तु
नष्टम् । अनन्तरं च सीताचक्रं रामचक्रं इति ग्रन्थः अनेनैव कर्त्रालिखितो
वर्तते ।। हस्ताक्षरसाम्येन च महागणपतिनामक शिवाचार्येणैव इदमपि
लिखितं इति निश्चितुं शक्यते ।।

इति नटराजः सा

"https://sa.wikisource.org/w/index.php?title=ज्ञानदीक्षा&oldid=409840" इत्यस्माद् प्रतिप्राप्तम्