सामग्री पर जाएँ

ज्ञानकारिका

विकिस्रोतः तः
ज्ञानकारिका
[[लेखकः :|]]

ज्ञानकारिका

प्रथमः पटलः



ओं नमः शिवाय । सिद्धेभ्यो पुरुषेभ्यो नमः ।
श्रीशङ्करपादेभ्यो नमः । अप्रतिहततत्त्वेभ्यो नमः ।

अथातः संप्रवक्ष्यामि ज्ञानसर्वं (सु)भाषितम् ।
कारिका श्री(ज्ञाना)ख्यातं विसर्ज ज्ञानकारिका(म्) ।। १/१ ।।
कारिकानाम विज्ञानं श्रूयन्ते च.....वल ।
साम्प्रतं कथयिष्यामि योगिनां युक्तकारणम् ।। १/२ ।।
मुक्तिमार्गी च (सर्व)तो सर्वेन्द्रियविवर्जिताः ।
पञ्चपञ्चविनिर्मुक्तो............वर्जितम् ।। १/३ ।।
एते सुरास्तं ज्ञानं मुक्ति........वान् यथास्थितः ।
सर्वव्या(धि)विनिर्मुक्तं यच्च इन्द्रियगोचर(म्) ।। १/४ ।।
द्वादशान्तं तथा..............शान्तं तथैव च ।
द्वादशान्तं कलाशतं वर्णाक्षरविवर्जितम् ।। १/५ ।।
सर्वज्ञञ्च सदा शान्तं (सर्वा)श्रवविवर्जितम् ।
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरः शिव एव च ।। १/६ ।।
मूर्तिरूपं स्थितं हेतुरनुत्तरं यथास्थितः ।
रूपकायः सदातीतं मन्त्रतन्त्राविवर्जितम् ।। १/७ ।।
आत्मापरविनिर्मुक्तं पक्षातीतं श्रयम् ।
............................................................ लक्षणा ।। १/८ ।।
सर्वद्वन्द्वविनिर्मुक्तं निश्चितन्तु निराकुलम् ।
साकुलत्वं यदा चित्तं विषयासक्तचेतसाम् ।। १/९ ।।
तदा भ्रमन्ति संसारं मायामलविमोहिताः ।
एतद्द्वन्द्वसमाख्यातं संसारस्य तु निर्णयम् ।। १/१० ।।
साम्प्रतं कथयिष्यामि मुक्तिस्तदस्तु दुर्लभम् ।
येन विज्ञानमात्रेण मुक्तिर्भवति योगिनाम् ।। १/११ ।।
सर्वसंसाररहित-मुक्तिश्चैव निराकुलम् ।
निश्चितं निश्चलं साम्यं निर्द्वन्द्वं च निराकुलम् ।। १/१२ ।।
भवेन् मोक्षो नराणाञ्च द्वन्द्वभावविवर्जितम् ।
निश्चित्तं चित्तरहितं कारिकाज्ञानमुत्तमम् ।। १/१३ ।।
एतद्भेदं मयाख्यातं मोक्षस्यैव तु निर्णयम् ।
सर्वाश्रयविनिर्मुक्तं चित्ताश्चै(व) निराश्रयम् ।। १/१४ ।।
चित्ताश्रयं भवेद्धर्मं निराश्रयं मोक्षदं स्मृतम् ।
देवो देवी तथान्यञ्च धर्माधर्मविवर्जितम् ।। १/१५ ।।
धर्माधर्माश्रयं प्रोक्तं संसारस्य तु बन्धनम् ।
आश्रयं बन्धमित्युक्तं मुक्तिश्चैव निराश्रयम् ।। १/१६ ।।
निराश्रयं भवेत्तत्त्वमचिन्त्यमुक्तिलक्षणम् ।
विषयावस्थं यदा चित्तं द्वन्द्वमुक्तिविवर्जित(म्) ।। १/१७ ।।
तदा भ्रमति संसारं यत्तं निश्चयतालयः ।
मनोऽवस्थाविनिर्मुक्तं यावत्तं चञ्चलीभवेत् ।
कथन्तं निश्चलं देवि ज्ञातव्यं ज्ञानकारिके ।। १/१८ ।।


इति ज्ञानकारिकायां मोक्षाधिकारः प्रथमः पटलः ।




द्वितीयः पटलः

अतः परं प्रवक्ष्यामि ज्ञानं त्रैलोक्यदुर्लभम् ।
कारिकातत्त्वसद्भावं सिद्धनाथकुलोद्भवम् ।। २/१ ।।
चन्द्रसूर्यविनिर्मुक्तं द्वारणाक्षविवर्जितम् (१) ।
पृथिव्यापस्तं तथा योगी वायुराकाशमेव च ।। २/२ ।।
पञ्चभिराहेतो देहो श्रूयते तत्त्वनायके ।
सर्वेषां व्यापकः शान्त व्याप्ती तस्य न विद्यते ।। २/३ ।।
व्यापकत्वे स्थितः साक्षाद्यथा क्षीरेषु सर्पिषः ।
कथितं तत्त्वभिर्वस्तु ज्ञानरत्नं सुदुर्लभम् ।। २/४ ।।
आत्मापरविनिर्मुक्तं चित्तं चैव निराश्रयम् ।
चित्ताश्रयं भवेद्द्वन्द्वं निराश्रयञ्चमौषदम्(?) ।। २/५
।।
मनसस्तु विधं प्रोक्तं राजसन्तामसन्तथा ।
सात्त्विकन्तु तृतीयञ्च त्रिभिर्धर्मेण लक्षणम् ।। २/६ ।।
तामसं चञ्चलं क्षुद्रं राजसङ्गतिरागतिः ।
सात्त्विकं तृतीयं ज्ञेयं धर्मयुक्तं सदा स्थितम् ।। २/७ ।।
चतुर्थन्तु मनश्चैव कथयामि विशेषतः ।
गुणत्रयविनिर्मुक्तं सदा निर्वाणलक्षणम् ।। २/८ ।।
उत्तमोत्तमचतुर्थन्तु येन संशुद्धचेतसा ।
सर्वाग्निविनयातीतमिन्द्रियातीतमव्ययम् ।। २/९ ।।
अनाभ्यासं सदा तत्त्वं सर्वचिन्ताविवर्जितम् ।
चित्ताभावविनिर्मुक्तं निमित्तं तत्त्वलौकिकम् ।। २/१० ।।
अभावं भावनातीतं चित्ताचित्तविवर्जितम् ।
चित्ताद्यचिन्तितं ज्ञानमवाच्यज्ञाननिर्णयम् ।। २/११ ।।
यथैव सदात्युक्ताः तावच्चित्तं सुचञ्चलम् ।
चञ्चलं भावमित्युक्तमचलं मुक्तिलक्षणम् ।। २/१२ ।।
चित्तायुक्तं यदा चित्तं तदासौ चञ्चलं स्मृतम् ।
चित्तातीतं यदा चित्तं निश्चितमचलं भवेत् ।। २/१३ ।।
सर्वचिन्ताविनिर्मुक्तमभावे निश्चलं भवेत् ।
न योगाध्यातचित्तस्तु न च लक्षणसाधकम् ।। २/१४ ।।
न निरोधो भवेत् तत्र न कायशून्यमेव च ।
न बहिरन्तमन्तस्थं न चान्त आदिमध्यगः ।। २/१५ ।।
न तेजो वायुराकाशं पृथिव्या आपभावना ।
न बुद्धिर्न चाहंकारो न मन इन्द्रियो न च ।। २/१६ ।।
न चित्ताचित्तकस्तत्त्वं चिन्तातीतं स्थितं सदा ।
न चिन्ता यस्तु विज्ञेया ज्ञातव्य कालशासनः ।। २/१७ ।।
यो सो निश्चिन्तसर्वज्ञः समाधिपरमेश्वरः ।
ज्ञातव्यं मोक्षसद्भावं गुप्तभेदप्रकाशितम् ।। २/१८ ।।
संसारार्णवनिर्मुक्तं कल्पनातीतगोचरम् ।
निर्विकल्पं सदा ज्ञानं कथितं ज्ञानकारिकम् ।। २/१९ ।।
चेतनाचेतना चैव कल्पना भावनास्तथा ।
धारणाधरविन्यासचन्द्रसूर्याग्निमण्डले ।। २/२० ।।
वायुराकाशस्तथा सृत्याः ब्रह्मा रुद्रादिदेवताः ।
सर्वे ते कल्पना प्रोक्तं निर्विकल्पस्तथान्यथा ।। २/२१ ।।
कल्पनाज्ञानयुक्तास्तु भ्रमन्ति घटयन्त्रवत् ।
परिपूर्णं कथं तेषां सिद्धक्रमविवर्जितम् ।। २/२२ ।।
पतन्ति क्षिप्रं संसारे चित्तज्ञानेन रञ्जितः ।
न यान्ति चेह संसारे ये स्थिता उत्तमं पदम् ।। २/२३ ।।
नरके गमनन्तस्य न स्वर्गे गमनन्तथा ।
पाशद्वयविनिरूपस्तु धर्माधर्मनिबन्धने ।। २/२४ ।।
ज्ञानखड्गेन छित्वा पाशद्वयनिबन्धनम् ।
अन्धपाशं यदा चित्तं कुतो गच्छन्ति योगिनः ।। २/२५ ।।
धर्माधर्मद्वयः पाशो पतन्त्युत्पतन्ति च ।
तेन पाशेन बद्धस्तु भुञ्जते कर्मसञ्चयम् ।। २/२६ ।।
धर्मेण भुञ्जते स्वर्गमधर्मं नरकादिषु ।
धर्माधर्मौ तु द्वौ योऽसौ त्रैलोक्यस्य निबन्धनम् ।। २/२७ ।।
धर्माधर्मं यदा त्यक्तं क्षिप्रं मुञ्चन्ति मानवाः ।
धर्मा चैव अधर्मा द्वौ द्विविधं परिकीर्तितम् ।। २/२८ ।।
सबा(ह्य)भ्यन्तरचेतः धर्माधर्मप्रतिष्ठितम् ।
अध्यात्मजातसद्भावं योगिनामेवसंस्थितः ।। २/२९ ।।
लौकिकास्थलकर्मञ्चाध्यात्मकस्येदं सूक्ष्मम् ।
आध्यात्मिके चैव धर्माधर्मस्थितिः सदा ।। २/३० ।।
ऊर्द्ध्वचारो भवेद्धर्मोऽद्वयस्योऽधर्मलक्षणम् ।
धर्माधर्मक्षये क्षीणे मुच्यते सर्वैर्धनैः (?) ।। २/३१ ।।
धर्माधर्मद्वयं ज्ञात्वा पुनर्ज्ञानमवाप्नुयात् ।
धर्माधर्मविचारोऽयं कथितं ज्ञानकारिकैः ।। २/३२ ।।

इति ज्ञानकारिकायां धर्माधर्मविचारो नाम द्वितीयः पटलः
।।



तृतीयः पटलः

अथ चर्यान् (प्र)वक्ष्यामि योगिनामुपजायते ।
स चेताज्ञान न सर्वः चैतन्यं ज्ञानवर्जितम् ।। ३/१ ।।
चेताचेतसमायुक्तं ज्ञानत्वं सम्प्रकीर्तितम् ।
भुक्तितत्त्वं यदा चेतं स चेत्तम्मुक्तिलक्षणम् ।। ३/२ ।।
चेताचेतसमायुक्तं चैतन्यं शाश्वतं पदम् ।
योगिनां योगचिन्तितमार्यसंज्ञानवर्जितम् ।। ३/३ ।।
यो मार्गविनिर्मुक्तं योगिनां मुक्तिलक्षणम् ।
एकलिङ्गे श्मशाने वा नदीनां सङ्गमेषु च ।। ३/४ ।।
शून्यागारे गुहावासे वृक्षमूले तु चत्वरे ।
महोदधितटे चैव त्रिपथे वापि साधकः ।। ३/५ ।।
नग्नास्ते मुक्तकेशास्तु मदिरानन्दचेतसः ।
मालानिर्मालिता योगी एकाकी भ्रमते सदा ।। ३/६ ।।
लिङ्गन्तु कथयिष्यामि यल्लिङ्गं कौलिकं स्मृतम् ।
लयपूजाष्टकं यत्तं लिङ्गन्तु स चराचरम् ।। ३/७ ।।
लय वै यानि सर्वेषां तेन लिङ्गं मुदा कृतम् ।
एतत् कौलिकं यल्लिङ्गं न शैलहेमरौप्यजम् ।। ३/८ ।।
कथितं देहजं लिङ्गं एकन्तु न द्वितीयकम् ।
एकलिङ्गं समाख्यातं श्मशानं कथयामि ते ।। ३/९ ।।
शोभते च यदा देहः सर्वेषां एकदेहिनाम् ।
निस्वासस्वाससंयुक्तं श्मशानं परिकीर्तितम् ।। ३/१० ।।
अधोर्द्धं प्राणसञ्चारः बहते चैव नित्यशः ।
ऊर्द्ध्वचारे भवेद् गङ्गा यस्ना(?) चाधो व्यवस्थितः ।। ३/११
।।
द्वाभ्यां मेलापकं यत्न स न मेतत् (?) प्रकीर्तिता ।
अशरीरं यदा तत्त्वं स्वदेहे सा स्थिता यदि ।। ३/१२ ।।
शून्यं निरन्ञ्जनं ज्ञात्वा मुच्यते नात्र संशयः ।
गुह्यं तु कथयिष्यामि गुह्ये सचराचरम् ।। ३/१३ ।।
गुह्यं शरीरमित्युक्तं वासितं ज्ञानराशिना ।
गुह्यावासं स्थितो योगी चर्या तस्य न उच्यते ।। ३/१४ ।।
वासस्तु कथितं दिव्यं वृक्षमूलं शृणु तथा ।
वृक्षः शरीरमित्युक्तं पादादिकरशाखयोः ।। ३/१५ ।।
ऊर्द्ध्वमूलं भवेद्वक्त्रं मूलवे (?) वृक्षधारकम् ।
वृक्षमूलं ततो ज्ञात्वा बाह्यवृक्षस्य वर्जितम् ।। ३/१६ ।।
वृक्षमूलं समाख्यातं चत्वारः शृणु साम्प्रतम् ।
जया च विजया चैव अजिता चापराजिता ।। ३/१७ ।।
चतुःशक्तिसमोपेतं चत्वारं मात्रकोद्भवम् ।
चत्वारं कथितं दिव्यं महोदधितटः शृणु ।। ३/१८ ।।
बिन्दुस्तञ्च पराशक्तिः तटस्थः चारुरूपिणी ।
बिन्दुचारुस्थिता नित्यं तटस्थं बिन्दुमण्डलम् ।। ३/१९ ।।
तटस्थञ्च स्थिता योगी तटं चैव प्रकीर्तितम् ।
चन्द्रं त्यक्त्वा यदा याति आधारं सूर्यमण्डलम् ।। ३/२० ।।

णुम्बेरिन्ग् गलत है

सूर्यं त्यक्त्वा यदा याति व्योमाऽस्तु चन्द्रमण्डले ।
गगनमास्थितो (?) नित्यं वेला इव महोदधेः ।। ३/७२ ।।
एतद्वेला समाख्यातम् अध्यात्मैव प्रतिष्ठितम् ।
नास्थिरं भवति श्वासं बहिस्थं मनरञ्जितम् ।। ३/७३ ।।
अथिरं सर्वयोगिनां प्रवाहं वहते सदा ।
प्रवाहं गमनञ्चैव गमनागमनं पुनः ।। ३/७४ ।।
गमनागमनसंयुक्तो वेलाऽस्मिन् यथा स्थितम् ।
गमागम यथा वेला नास्ति रञ्जित कश्चित् (?) ।। ३/७५ ।।
गगनोपमं स्थितं जगत् भावन्निश्चलतां व्रजेत् (?) ।
महोदधितटे स्थित्वा उदधि कथितं ततः ।। ३/७६ ।।
निश्चलं परिपूर्णत्वं महोदधि स्मृतम्....... ।
योगिनां चर्यसद्भावं कथितं तत्त्वं विशेषतः ।। ३/७७ ।।
महोदधि समाख्यातं त्रिपञ्चकं कथयाम्यहम् ।
सत्त्वरजस्तमश्चैव एकत्वे तु यथा स्थितम् ।। ३/७८ ।।
त्रिपथं तु विनिर्मुक्तं शास्त्रतो ज्ञानकारिका ।
त्रिपथं तु समाख्यातं नग्नन्तु कथयामि ते ।। ३/७९ ।।
अविद्या...........पत्यत्काल(?) (न)ग्नकं च साधकेश्वरम् ।
नग्नस्तु कथितान् देवान् मुक्तकेशन्ततः शृणु ।। ३/८० ।।
केशस्तु पाशमित्युक्तं मुक्तिमार्गप्रबन्धकम् ।
धर्मस्तु नैकेन पाशश्चैव विशेषतः ।। ३/८१ ।।
षड्भिर्मुक्तो यदा योगी मुक्तकेशः स उच्यते ।
मुक्तकेशः समाख्यात आनन्दं शृणु साम्प्रतम् ।। ३/८१ ।।
योगपारगतो योगी महापारविवर्जितः ।
पानयोगामृतं दिव्यं योगिनां सम्प्रकीर्तितम् ।। ३/८३ ।।
एभिर्युक्तो महायोगी मदिरामत्त उच्यते ।
मदिरानन्दमाख्यातं नैर्माल्यमालिनो (?) शृणु ।। ३/८४ ।।
वर्णं चैवास्ति मालाग्रं संस्थितो शक्तिसूत्रके ।
माला चैव समाख्याता योगिनां चान्यकारणम् ।।
नैर्माल्यमालिनो योगी योगचर्यां करोति सः ।। ३/८५ ।।
एकाकीमतिथिर्यस्तु भ्रमिते प्रवदेत् सदा ।
असंहायो भ्रमते धीरः स एकाकीनमुच्यते ।। ३/८६ ।।
एकाकी तु समाख्याता शास्त्रं मिलकारिका (?) ।
एतच्चर्या समाख्याता विश च ज्ञानधारक (?) ।। ३/८७ ।।


इति ज्ञानकारिमहामछिन्द्रनाथपादावतारितेनोक्तं
चर्याधिकारस्तु तृतीयः पटलः ।।

"https://sa.wikisource.org/w/index.php?title=ज्ञानकारिका&oldid=409894" इत्यस्माद् प्रतिप्राप्तम्