जैमिनीयं ब्राह्मणम्/काण्डम् ३/०६१-०७०

विकिस्रोतः तः
Jump to navigation Jump to search

षडृचं भवति - षड् वा ऋतव - ऋतूनाम् एवाप्त्यै। तद् आहुर् यत् षडृचं षष्ठस्याह्नो रूपम्, अथ कस्माच् चतुर्थे ऽहन् क्रियत इति। स ब्रूयात् षड् वा ऋतवस् संवत्सरस्, संवत्सरः प्रजापतिर् यज्ञः। संवत्सरम् एवैतेन प्रजापतिं यज्ञम् आप्त्वा सवनमुखे पुनर् आरभन्ते। आप्यत इव ह्य् एतद् यज्ञो यद् एष पूर्वस् त्र्यह आप्यत इति। उत्तरं षडृचं भवति। अभिपूर्वम् एवैतेन यज्ञम् आरभन्ते। हिन्वन्ति सूरम् उस्रय इति हिन्वन्तीव वै जातम्। जायत उ एतेनाह्ना। स्वसारो जामयस् पतिम् इतीमा ह वाव स्वसारः। इमा उ एव जामयः। महाम् इन्दुं महीयुव इतीमा ह वाव महीयुवः। ता एवैनम् एतद् धिन्वन्ति। पवमान रुचारुचेति रुक्मत् सौर्यरूपम् उपगच्छन्ति। सौर्यं ह्य् एतद् अहर् एकविंशं प्रतिष्ठा वैराजम्।
आ पवमान सुष्ठुतिं वृष्टिं देवेभ्यो दुवः।
इषे पवस्व संयतम्॥
इति पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। एकविंश स्तोमो भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। तास् संस्तुता द्वादश जगत्यो भवन्ति। ताश् चतुर्विंशतिर् गायत्र्यः। ता अष्टादशानुष्टुभः। आनुष्टुभम् एतद् अहः॥3.61॥

जनस्य गोपा अजनिष्ट जागृविर् इत्य् आग्नेयम् आज्यं भवति जनद्वत्। एष ह वाव जनस्य गोपाः। तम् एवैतत् प्रातस्सवनात् प्रजनयन्ति। तं प्रज्ञातं माध्यन्दिने सवने मन्थन्ति। अग्निर् इति निर् एवैनं तद् आह। सुदक्षस् सुविताय नव्यस इति प्राणा वै दक्षः। प्राणान् एवास्मिंस् तद् दधति। घृतप्रतीक इत्य् - एतद् वा अग्नेः प्रियं धाम यद् घृतं - प्रियेणैवैनं तद् धाम्ना समर्धयन्ति। बृहता दिविस्पृशेति बृहतो रूपम् उपगच्छन्ति। बार्हतं ह्य् एतद् अहः। द्युमद् वि भाति भरतेभ्यश् शुचिर् इतीमा ह वै प्रजा भारतीस् - ताभ्य एवैतच् छुचिर् विभाति। अथो यद् एवैनेन भरता अग्र ईजिरे ऽथो यद् एवैष देवेभ्यो हव्यं वहति तस्माद् भारतः। त्वाम् अग्ने आंगिरसो गुहा हितम् इति त्वाम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। अन्व् अविन्दञ् छिश्रियाणां वनेवन इति वनेवन ह्य् एतं शिश्रियाणम् अन्वविन्दन्। स जायसे मथ्यमानस् सहो महद् इति प्रातस्सवनाद् ध वा एतम् अग्रे मन्थन्ति। तं प्रजातं माध्यंदिने सवने जनयन्ति। त्वाम् आहुस् सहसस् पुत्रम् अङ्गिर इति सहसेवं ह्य् एतं जनयन्ति। यज्ञस्य केतुम् इत्य् एष ह वाव यज्ञस्य केतुः। यत्र ह वै क्व च सूयते तद् एष एव पुरस्तात् केतुर् उच्छ्रियते॥3.62॥

प्रथमः पुरोहितम् इति पुर एव वा एनम् एतद् दधते। यद् अग्निम् आदधते ऽग्निं नरस् त्रिषधस्थे सम् इन्धत इतीमा ह वै प्रजा नरः। ता एवैनम् एतत् समिन्धत। इन्द्रेण देवैस् सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुर् इति सर्वदेवत्यं भवति। सर्वदेवत्यं ह्य् एतद् अहर् आनुष्टुभम्। सर्वदेवत्यो वा अनुष्टुप्। अयं वां मित्रावरुणेति मैत्रावरुणं भवति। पुनःप्रोक्तिर् ह वा एषा हविषः। सं ह वा एतद् यज्ञस् तिष्ठते यद् एष पूर्वस् त्र्यह आप्यते। यन् नु वो परो यज्ञ इति ह वा एतद् देवेभ्यः प्राहुः। तस्माद् उ हैतद् द्वितीयं यजमान आज्यं कुर्वीत।
राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे।
सहस्रस्थूण आसाते॥
इति सहस्ररूपं विराजाम् उपगच्छन्ति। वैराजं ह्य् एतद् अहः। ता सम्राजा घृतासुती इति सम्राड्वतीर् भवन्ति। साम्राज्यम् इव ह्य् एतर्ह्य् अगच्छन्। इन्द्रो दधीचो अस्थाभिर् इत्य् ऐन्द्रं भवति॥3.63॥

दध्यङ् ह वा आथर्वणस् तेजस्वी ब्रह्मवर्चस्य् आस। तं ह स्म यावन्तो ऽसुराः परापश्यन्ति ते ह स्म तद् एव विशीर्षाणश् शेरते। स उ ह स्वर्गं लोकम् उच्चक्राम। स हेन्द्रो ऽसुरैर् अभिबाढ उवाच क नु स दध्यङ्ङ् भवाद् इति। तस्मै होचु स्वर्गं वै भगवस् स लोकम् उदक्रामद् इति। स होवाच नैवास्येह किं चित् परिशिष्टम् अस्तीति। तस्मै होचुर् आसीद् एवेदम् अश्वशीर्षं येनाश्विभ्यां देववेदं प्राब्रवीत् तत् तु न विद्म यत्राभवद् इति। तद् वा अन्विच्छतेति। तद् धान्वीषुः।
इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम्।
तद् विदच् छर्यणावति॥
इति। शर्यणावद् ध नामैतत् कुरुक्षेत्रस्य जघनार्धे सरस्कम्। तद् एतद् अनु विद्याजह्रुः। तद् अस्मै प्रयच्छन्। तद् ध स्मासुराणां प्रकाशे धारयति। तं ह स्म यावन्तो ऽसुराः परापश्यन्ति। ते ह स्म तद् एव विशीर्षाणश् शेरते॥3.64॥
स ह तैर् एवास्थिभिर् नव नवतीर् जघानासुराणाम्। तद् एतद् भ्रातृव्यहा विजितिः।
इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः।
जघान नवतीर् नव॥
इति। विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद।
अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम्।
इत्था चन्द्रमसो गृहे॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। इयं वाम् अस्य मन्मन इत्य् ऐन्द्राग्नं भवति।
इन्द्राग्नी पूर्व्यस्तुतिः।
अभ्राद् वृष्टिर् इवाजनि॥
इति। अजनीति वा आहुर् जातम्। जायत उ एतेनाह्ना।
शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः।
ईशाना पिप्यतं धियः॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये।
मा नो रीरधतं निदे।
इति पाप्मन एवैषोपहतिः। एकविंश स्तोमो भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्त्य् एतम् अभ्यारोहन्ति॥3.65॥

पवस्व दक्षसाधन इति माध्यन्दिनस्य पवमानस्य दक्षवतीर् गायत्र्यो भवन्ति। अहर् एवैताभिर् दक्षयन्ति, छन्दांसि दक्षयन्ति, देवता दक्षयन्ति, षोडशिनं दक्षयन्ति। देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मद इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। सं देवैश् शोभते वृषेति वृषेति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान धिया हितो ऽभि योनिं कनिक्रदद् इति योनिमतीर् भवन्ति। योनेर् वै प्रजाः पशवः प्रजायन्ते। जनद्वद् एतस्य वैराजस्याह्नो रूपम्। धर्मणा वायुम् आ रुहेति वायुमतीर् भवन्ति - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहाय। तासु गायत्रम् उक्तब्राह्मणम्। अथ चतुर्णिधनम् आथर्वणं चतुर्थस्याह्नो रूपम्। अथर्वाण उपरि श्येनं स्वर्गं लोकम् आयन्। ते तत्र न प्रत्यतिष्ठन्। ते ऽकामयन्त प्रति स्वर्गे लोके तिष्ठेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गे लोके प्रत्यष्ठिन्। तच् चतुर्निधनं भवति प्रतिष्ठायै। चतुष्पदीव प्रत्यतिष्ठाद् इति वा आहुः। सुप्रतिष्ठितं तद् एतत् स्वर्ग्यं प्रतिष्ठासाम। गच्छति स्वर्गं लोकं, प्रति स्वर्गे लोके तिष्ठति य एवं वेद। तद् उ भेषजम् एव प्रायश्चित्तिः। अथर्भम् इवै भेषजं कुर्वन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् अनुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। अनुतुन्नम् एवैतस्य वैराजस्याह्नो रूपम्। तेन वै रूपसमृद्धम्। यद् व् अथर्वाणो ऽपश्यंस् तस्माच् चतुर्णिधनम् आथर्वणम् इत्य् आख्यायते॥3.66॥
अथ निधनकामं वैराजम्। एवम् इव वै विराट् नैव स्वारं नैव निधनवन् नैवैळं नैवर्क्समम्। तद् वाङ्निधनं भवति। वाग् वै विराड्, विराज एवारम्भाय। विराजम् एवैतेन प्रत्यक्षम् आरभन्ते। तस्य हैतस्य निधन एव कामाः। स यं कामं कामयेत तं ध्यायेद्, एतस्य निधनम् उपावयन्। स हैवास्मै कामस् समृध्यते। यद् व् अस्य निधने कामास् तस्मान् निधनकामं वैराजम् इत्य् आख्यायते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। एतत् सामापश्यन् तेनास्तुवत्। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तस्यैतद् एव निधनं यम् एतं वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति। तवाहं सोम रारणेति तवेति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
सख्य इन्द्रो दिवेदिवे।
पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तं इहि॥
इत्य् अति ह्य् आयन्। तवाहं नक्तम् उत सोम ते दिवा दुहानो बभ्र ऊधनीतीमे ह वावोधनी। एते एवैतद् अभिवदत्य्, एते एवास्मै सर्वान् कामान् दुहाते। घृणा तपन्तम् अति सूर्यं पर इति सूर्यवतीर् भवन्ति। सौर्यं ह्य एतद् अहर् एकविंशं प्रतिष्ठा वैराजम्। शकुना इव पप्तिमेत्य् अति ह्य् अपतन्। तास्व् आष्टादंष्ट्रम् उक्तब्राह्मणम्। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपं समृद्धम्॥3.67॥

 अथाभीशवम् अभ्यारम्भो यज्ञस्य प्रत्यपसारो, ऽभ्य् एव पञ्चमम् अहर् आरभते प्रति तृतीयम् अपधावति। द्वादशाहेन वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवास्रंसत। त एते सामनी अपश्यन्। ताभ्याम् एनं यथाभीशुभ्यां रथं संगृह्यारोहेद् एवम् एवाभ्यां संगृह्य स्वर्गं लोकम् आरोहन्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा अभीशू वाव न इमे सामनी यज्ञस्याभूताम् इति। तद् एवाभीशवयोर् आभीशवत्वम्। ते एते स्वर्ग्ये सामनी। अश्नुते स्वर्गं लोकं य एवं वेद। तस्माद् उ हैते सामनी उभे कार्ये। यथा हैकाभीशुना यायाद् उभे एव कार्ये। अत्रान्यत् स्यान् नवमे ऽहन्न् अन्यतरत्। अभीशुर् वै श्यावाश्विर् अकामयत - देवा मे सोमस्य तृप्येयुर् इति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै तस्य देवास् सोमस्यातृप्यन्। तयोर् वा एतयोर् अस्त्य् अपसिद्धम् इव यथैव तर्पयेद् एवम्। ए ए इति वा अपसेधन्तस् संतर्पयन्ति। ते एते तृप्तिस्सामनी। तृप्यन्त्य् अस्य देवास् सोमस्य य एवं वेद। यद् व् अभीशुश् श्यावाश्विर् अपश्यत्, तस्माद् आभिशवे इत्य् आख्यायेते॥3.68॥

अथ चतुर्णिधनम् आंगिरसं चतुर्थस्याह्नो रूपम्। अथो तेनैव चत्वार्य् अहानि कल्पन्ते। अंगिरसः पशुकामा स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। त एतां मध्य इळाम् उपेत्य स्वर्य् उपरिष्टाद् उपायन्। पशवो वा इळा स्वर्गो लोक स्वः। पशुषु वाव ते तद् आस्थाय स्वर्गं लोकं अगच्छन्। तद् एतत् पशव्यं स्वर्ग्यं साम। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद। यद् व् अंगिरसो ऽपश्यंस् तस्माच् चतुर्णिधनम् आंगिरसम् इत्य् आख्यायते। अथैता भवन्ति - पुनानो अक्रमीद् अभीत्य् अभ्यतिक्रामन्ति। आ योनिम् अरुणो रुहद् इति योनिमतीर् भवन्ति। योनेर् वै प्रजाः पशवः प्रजायन्ते। जनद्वद् एतस्य वैराजस्याह्नो रूपम्। गमद् इन्द्रो वृषा सुत इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। नू नो रयिं महाम् इन्दो ऽस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। तद् आहुर् यन्ति वा एते त्रिष्टुभः पवमानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। वृषण्वतीर् भवन्ति। वृषण्वद् वै त्रिष्टुभो रूपम्। तेन त्रिष्टुभः पवमानान्तान् न यन्ति। तासु सत्रासाहीयम् उक्तब्राह्मणम्। तद् उक्थसाम भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्धयै। तद् आहुर् उक्थसाम सत् पवमाने क्रियते कस्मात् तद् इति। प्रातस्सवनभाजनं प्रथमम् अहर्, माध्यन्दिनभाजनं द्वितीयं, तृतीयसवनभाजनं तृतीयम्। अथैतद् उक्थभाजनम्। तद् यद् अत्र सत्रासाहीयं क्रियते तेनैनद् उक्थेभ्यो न च्यावयन्ति। तद् एनत् स्वेनायतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथो पशवो वा उक्थान्य्, आत्मा मध्यन्दिनः। तद् यत् सत्रासाहीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति॥3.69॥

प्रजननं वा एतद् यद् वैराजम्। तद् यन् मिथुनाभ्यां स्तोमाभ्याम् आरभते मिथुनस्यैव प्रजात्यै। त्रयः पूर्वे स्तोभाद् एव सत्यात् प्रजाः प्रजायान्ता इति, त्रय उत्तरे प्राणो ऽपानो व्यानः। त एव तेनोपधीयन्ते। त्रिः पदम् आह। मिथुनं द्वे संभवतः। यन् मिथुनात् प्रजायते तत् तृतीयम्। त्रिर् अनुतुदति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। दशकृत्वो विष्टभ्नोत्य्, अस्थान्य् एव तत् प्रतिवपति। नवोत्तरे स्तोभा निधनं दशमं - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्धयै। अग्निं मन्थन्ति। अग्निर् वै विराट्। विराजम् एव तद् अन्नाद्यं प्रजनयन्ति। हिंकृत्या प्रस्तुत्य मन्थन्ति। हिंकृताद् धि रेतो धीयते। अथो साम्न एवैतन् मध्यतो विराजम् अन्नाद्यं प्रजनयन्ति। उद्गातुर् ऊरौ मन्थन्ति, प्रस्तोतृप्रतिहर्तारौ धारयतो, विराजो ऽनवच्छेदाय। दक्षिण ऊरौ मन्थन्ति। तस्माद् एष पुरुषस्यार्धो वीर्यावत्तरः। शकले ऽधि मन्थन्ति शान्त्यै। अवकास्व् अधि मन्थन्त्य् अनतिदाहाय। तं जातम् आग्नीध्रं हरन्ति। अतो ह्य् अग्नीन् विहरन्ति। तद् उ वा आहुर् आहवनीयम् एव हार्यो यजमानो वा आहवनीयः प्रजैषा। यजमानम् एव तत् प्रजया समर्धयन्ति॥3.70॥