जैमिनीयं ब्राह्मणम्/काण्डम् २/४४१-४४२

विकिस्रोतः तः
Jump to navigation Jump to search

ते सरमाम् अब्रुवन् सरम इमा नस् त्वं गा अन्विच्छेति। तथेति सा हानुप्रससार। सा ह रसाम् आजगाम। एषा ह वै सा रसा यैषार्वाक् समुद्रस्य वापायती। तां होवाच प्लोष्ये त्वा गाधा मे भविष्यसीति। प्लवस्व मेति होवाच न ते गाधा भविष्यामीति। सा हावाच्य् कर्णौ प्लोष्यमाणा ससार। सा हेक्षांचक्रे कथं नु मा शुनी प्लवेत हन्तास्यै गाधासानीति। तां होवाच मा मा प्लोष्ठा गाधा ते भविष्यामीति। तथेति। तस्यै ह गाध आस। सा ह गाधेनातिससार। ता हान्वाजगाम रसायाम् अन्तर् वलेनापिहिताः। तस्यै हान्वागतायै तथैव सर्पिः क्षीरम् आमिक्षां दधीत्य् एतद् एवोपनिदधुः। सा होवाच नाहम् एतावद् अप्रिया देवानाम्। गा अविदं यद् वो ऽश्नीयाम्। त उ वै देवानां स्तेयं कृत्वा चरथैतासां वा अहं गवां पदवीर् अस्मि। न मा लापयिष्यध्व नेन्द्रस्य गा उपहरिष्यध्व इति। सा हानाशिष्य् उवास। सा ह जराय्व् अपास्तं विवेद। तद् ध चखाद। तां हैक उपजगौ त्यम् इव वै घ्नती सरमा जारु खादतीति। तद् इदम् अप्य् एतर्हि निवचनं त्यम् इव वै घ्नती सरमा जारु खादतीति। जरायु ह सा तच् चखाद। सा ह पुनर् आससार। तां होचुस् सरमे ऽविदो गा इति॥2.441॥


अविदम् इति होवाचेमा रसायाम् अन्तर् वलेनापिहिताः। ता यथामन्यध्वम् एवम् आजिहीर्षतेति। तां ह तद् इन्द्र उवाचान्नादीम् अरे ते सरमे प्रजां करोमि या नो गा अन्वविद इति। ते हैते विदर्भेषु माचलास् सारमेया अपि ह शार्दूलं मारयन्ति। ते देवा एतम् अभिप्लवं समभरन्। तेनैना अभ्यप्लवन्त्। यद् अभ्यप्लवन्त् तद् अभिप्लवस्याभिप्लवत्वम्। ते ऽग्निनैव वलम् अभ्यौषन्, वज्रेणाभिन्दन्। स य एष पुरस्ताज् ज्योतिस् सो ऽग्निर्, अथ यत् पञ्चदशं गोर् बहिष्पवमानं स वज्रः। ता आयुषावायुवत। यद् आयुषैवायुवत तद् आयुष आयुष्ट्वम्। ता एतेनैव ज्योतिषोभयतः पर्यौहन्। त एते चत्वारो मध्य उक्थ्या भवन्ति। पशवो वा उक्थानि। तेषां सहस्रं स्तोत्र्याः। ब्रह्म वै ज्योतिर् अग्निष्टोमः। ता एतेनैव ब्रह्मणा ज्योतिषोभयतः परिगृह्योदाहरन्। ते य एवं विद्वांसो ऽभिप्लवम् उपयन्ति सहस्रसनयो हैवोत्थिता भवन्ति। तद् आहुर् यद् एष चतुरहो मध्ये व्यतिषक्तो गौर् आयुर् गौर् आयुर् इत्य् अथ कस्माज् ज्योतिषी विपर्यूढे इति। मिथुनत्वाय प्रजननायेति ह ब्रूयात्। प्र मिथुनेन जायते य एवं वेद॥2.442॥