जैमिनीयं ब्राह्मणम्/काण्डम् १/२३१-२४०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

तद् आहुर् यत् पवमानवन्तो ऽन्ये यज्ञक्रतवो ऽथ केनैषां रात्रिः पवमानवती भवतीति। रथन्तरेण संधिनेति ब्रूयात्। एतेन ह वै रात्रिः पवमानवती भवति। तेन सकृद् धिंकृतेन पराचा स्तुवते। सकृद् ध्य् एव परस्तात् त्रिवृते हिंकुर्वन्ति यत् प्रायणं तद् उदयनम् असद् इति॥

रेतस्सिक्तिर् ह त्वै पूर्वस् त्रिवृत् प्रजापतिर् उत्तरः। आत्मा वै प्रजा पशव एतानि तृचानि। प्रजापतिर् वै रथन्तरम्। यथा रेत एव सिक्तं स्यान् न प्रजायेत तादृक् तद् यत् सकृद् धिंकृतैस् स्तुवीरन्। तद् यत् तृचायतृचाय हिंकुर्वन्ति प्रजात्या एव। बहुर् भवति प्रजायते य एवं वेद॥

अथो हैषाम् एक एव पर्याय आयतनवान् स्यात्। आयतनौ द्वौ स्यातां यत् सकृद् धिंकृतैस् स्तुवीरन्। तद् यत् तृचायतृचाय हिंकुर्वन्ति तेनैवैषां सर्वरात्रिर् आयतनवती पवमानवती भवति। यथा वा अहस् तथा रात्रिर् यथा रात्रिस् तथाहः। पूर्वाह्णो मध्यंदिनो ऽपराह्णः पूर्वरात्रो मध्यरात्रो ऽपररात्रः। तद् यत् तृचायतृचाय हिंकुर्वन्त्य् अहोरात्रयोर् एव विधृत्यै॥1.231॥


तद् आहुर् यद् एकविंशम् अनु सर्वे यज्ञक्रतवस् संतिष्ठन्ते ऽत्य् उ वा एकविंशान्य् उक्थानि रात्रिर् एत्य् अथ केनैषाम् एकविंशम् अनु रात्रिस् संतिष्ठत इति। स ब्रूयाद् यद् एवैत एकविंशतिश् च त्रिवृतो भवन्ति नव चैकविंशा इति॥

अथ ह स्माह भाल्लवेयः क उ स्विद् अन्योभयतो ज्योतिषा यज्ञक्रतुना यक्ष्यत इति। एष ह वा उभयतोज्योतिर् यज्ञक्रतुर् यद् अतिरात्रस् त्रिवृत् पुरस्ताद् बहिष्पवमानं भवति। त्रिवृद् उपरिष्टाद् राथन्तरस् संधिः। अग्निर् वै पूर्वस् त्रिवृद् आदित्य उत्तरः। अग्निना वा अयं लोको ज्योतिष्मान् आदित्येनासौ। उभयतो ज्योतिषास्य यज्ञक्रतुनेष्टं भवति ज्योतिष्मान् अस्मिंश च लोके ऽमुष्मिंश् च भवति य एवं वेद॥

तौ वा एतौ ब्रह्म चैव क्षत्रं च। ब्रह्म वै त्रिवृत् क्षत्रं पञ्चदशः। तद् एतद् ब्रह्म च क्षत्रं च संधाय रात्रिं वहतः। तद् एतद् ब्रह्म च क्षत्रं च संधायान्ततः पाप्मानम् अपहतस् तद् यद् एतौ स्तोमाव् अन्ततः क्रियेते। पाप्मानं हते य एवंवेद। तौ यद् गायत्रीं संपद्येते - तेजो वै ब्रह्मवर्चसं गायत्री -- तेजस्य् एव तद् ब्रह्मवर्चसे प्रतितिष्ठति। अथो यजमानम् एव तद् आयुषि प्रतिष्ठापयति सर्वायुष्ट्वाय। प्राणो(प्राणौ?) हि गायत्री। सर्वम् आयुर् एति य एवं वेद॥1.232॥


विराट्संपदैव यज्ञेन यजेतेत्य आहुः। अन्नं वै विराट्। अन्नं ह वै देवानां सोमो राजा। अन्नम् एव तत् कृत्वा देवेभ्यस् सोमं राजानं प्रयच्छति। न ह वा एषो ऽनभिषुतो देवानाम् अन्नम्। तम् एतद् अभिषुत्यान्नं कृत्वा देवेभ्यः प्रयच्छति। यद् ध वा इह देवेभ्यः करोति तद् अस्मै देवाः कुर्वन्ति। त एनं समृद्धाः प्रजया पशुभिर् अन्नाद्येन समृद्धयन्ति॥

विराण् नातियष्टव्येत्य् आहुः। यो ह वै विराजम् अतियजते पुनर् ह सो ऽमुष्मिन् लोके यजमान आस्ते। स रूक्षः पुरुषो विराजं संपिपादयिष्न्न् ईप्सन्न् अनाप्नुवन्न् आस्ते। क्व हि तद् आप्स्यति यद् इतो नाप्त्वा प्रैति॥

पुरुषान् इव हासीनान् असितो दैवल उवाच क एत आसत इति। ये विराजम् अत्ययजामहीति होचुः। तान् हाभ्युवाद स रथाद् अवपद्यते-- ॥1.233॥


-- पुरश् चक्रं पथ्यो बिले।
तं चक्रम् अभिवर्तते यो ऽसंपन्नेन यजते॥
पाको यज्ञेन देवयुर् यद् ददाति तद् एवास्य न लोकम् अभिगच्छति॥

इति। पाकास् सन्तो ऽविजानन्तो ऽदेवायत इति हैनांस् तद् उवाच ये विराजम् अत्ययजध्वम् इति॥

तद् आहुः कुतो यज्ञम् अतथाः क्वैनं प्रत्यतिष्ठिप इति। यत एवैनम् अतसीति ब्रूयात् तद् एवैनं प्रत्यतिष्ठिपम् इति। पुरुषाद् ध वै यज्ञस् तायते पुरुषे प्रतितिष्ठति॥

अथ ह हृत्स्वाशया आल्लकेयो महावृषो राजा पुत्रं दीक्षयांचकार। तस्य ह सोमशुष्मस् सात्ययज्ञिर् उद्गीथायोढ आस। तम् उ ह महावृषाणां दूता आसस्रुर् आगच्छ समितिर् वा इयम् इति। तद् ध प्रधावयन्न् उवाचोद्गातर् एतं ते पुत्रं परिददानीति। स हेष्ट्वा पुनर् आजगाम। स होवाचोद्गातः क्व यज्ञं प्रत्यतिष्ठिपः क्व यजमानं क्वास्य पशून् इति। तद् ध न प्रत्युवाच। स होवाच पुनर् मे पुत्रं दीक्षयत न वै विद्म यत्र मे पुत्रम् अकृद् इति।त म् अह पुनर् दीक्षयांचक्रुः। तस्य ह स्वयम् एवोज्जगौ। स यत् प्रत्यवक्ष्यद् यजमान एव यज्ञं प्रत्यतिष्ठिपं यजमानं वामदेव्ये रथन्तरे ऽस्य पशून् इति॥1.234॥


एतद् ध वै परमं वाचः क्रान्तं यद् दशेति। एतावद् ध परमं वाक् चक्रमे। तद् यत् परमं वाचः क्रान्तं तत् सर्वम् आप्नवानीति। अथ यद् अत ऊर्ध्वं विंशतिश् शतं सहस्रम् इत्य् अङ्गान्य् एवास्यै तानि पर्वाणि। वाच एव सा प्रभूतिः। तद् उ हात्रैव सर्वां विराजम् आप्नोति। पुरुषसंपद् ध खलु वा एषा दशाक्षरा विराट्। दश पुरुषे प्राणाः। सा वा एषैतासाम् एव नवतिशतस्य स्तोत्रियाणां प्रशंसा। नवतिशतं ह्य् एवैषो ऽग्निष्टोमः। संस्कृतस्तोत्रिया भवन्ति। कृतं तद् यद् अशीतिशतं कृतम् इदं दशकृतं सत्। तद् उ ह कुरव आहुर् द्वापर एष यन् नवतिशतं स्तोत्रियास् त्रयाणाम् अयानाम् अधमःः। कृतं वै त्रेताद्वापरम्। द्वे स्तोत्रिये उपप्रस्तुत्ये। स कृतस् स्तोमस् संपद्यते। कृतेन तज् जयति यज् जिगीषति। कृतेनोद्भिनत्ति। अथो पक्षाव् एतौ यत् पवमानौ। ताव् एव तत् समौ करोति। अथो विश्वज्योतिर् एव यज्ञक्रतुर् भवति। अथो द्व्यतिष्टुतः। ताव् एव विराजस् स्तनौ। स द्विपाद् यजमानः प्रतिष्ठित्यै॥1.235॥


तद् उ ह स्माह कहोळः कौषीतकेयो दीर्घस्तनी बत तेषां विराट् येषां स्तोत्रिये विराजस् स्तनाव् इति। अपि नूनम् एतां विराजं प्रतिवेशतो दुह्र इति ह स्माह। अक्षय्याम् एवैतां संपदं देवा उपासत। ताम् ऋषय उपासत। ताम् उ एव वयं परो ऽवर उपास्महे। एतासाम् एव नवतिशतस्य स्तोत्रियाणां पञ्च च सहस्राण्य् आ चत्वारिंशतानि द्वासप्ततिर् अक्षराणि। तद् ये एव ते द्वासप्ततितमे अक्षरे ताव् एव विराजस् स्तनौ। स द्विपाद् यजमानः प्रतिष्ठित्या इति। तद् आहुर् यद् द्वापरस् स्तोमो ऽथ केन कृतस् स्तोम इति। अक्षरैर् इति ब्रूयात्। अथो स्तोत्रैर् इति। अथो स्तुतशस्त्रैर् इति। अथो यद् दशकृतम् इति ब्रूयात् तेनो एव कृतस् स्तोम इति। अयं ह वाव दशकृतम् उपाप्नोति॥1.236॥


आपो वा इदम् अग्रे महत् सलिलम् आसीत्। तद् अपाम् एवैश्वर्यम् आसीत्। यद् अपाम् एवैश्वर्यम् आसीद् अपां राज्यम् अपाम् अन्नाद्यं तद् अग्निर् अभ्यध्यायन् ममेदम् ऐश्वर्यं मम राज्यं ममान्नाद्यं स्याद् इति। स एताम् अग्निष्टोमसंपदम् अपश्यत्। तयेमा अपो व्युदौहद् ऊर्ध्वाश् चावाचीश् च। स एतम् एव दिनर्दिनं स्तोमं गायन् केवलीदम् अन्नाद्यम् अकुरुत। स नवभिर् एकविंशैर् अमूर् ऊर्ध्वा उदतभ्नोत्। ताः परेण दिवं पर्यौहत्। ता एताः पर्यूढा ऋतुशो वर्षन्तीस् तिष्ठन्ति। एकविंशत्या त्रिवृद्भिर् इमा अवाचीर् अभ्यतिष्ठत्। ताः परेण पृथिवीं पर्यौहत्। ता एताः पर्यूढा अनूत्खायैक उपजीवन्ति -- ॥1.237॥


--तिष्ठन्तीर् एके स्रवन्तीर् एके। स एवम् एता अपो व्यूह्य विनुद्यास्मिन् लोके ऽन्नम् आदत्। ता नाल्पकं न मध्यमं न महद् इवान्नाद्यम् अभ्यतिरिच्यत। एवम् एव द्विषन्तं भ्रातृव्यं व्यूह्य विनुद्यास्मिन् लोके ऽन्नम् अत्ति तं नाल्पकं न मध्यमं न महद् इवान्नाद्यम् अभ्यतिरिच्यते य एवं वेद। तम् एतम् अन्नं जिगीवांसं सर्वे देवा अभिसमगच्छन्त। ते वै तन् नाविन्दन्त। या ह्य् असौ यज्ञायज्ञीयस्यैकविंशी ताम् आसु बहिष्पवमानीषु नवसु प्रत्युपधाय शये ऽनन्तो भूत्वा परिगृह्यैतद् अन्नाद्यम्॥

अथो यथा पात्रे ऽङ्गारा ओप्तास् स्युर् एवम् एवैषु लोकेषु दृशे ऽनन्त आस। तान् अविन्दमानान् अब्रवीत् स्तुत मेति॥1.238॥


तं वसवो गायत्र्या छन्दसा गायत्रेण साम्ना प्रातस्सवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तं रुद्रास् त्रिष्टुभा छन्दसा त्रैष्टुभेन साम्ना माध्यंदिनेन सवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तम् आदित्या जगत्या छन्दसा जागतेन साम्ना तृतीयसवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तं विश्वे देवा वाङ् मनश् च प्रजापतिर् अनुष्टुभा छन्दसा यज्ञायज्ञीयेन साम्नास्तुवन्। तांस् तस्मिन्न् एव स्तोत्र उपाह्वयत। एवम् एते देवा एतं यज्ञक्रतुम् अन्वायतन्त। अथ य एनं नान्वायतन्त --॥1.239॥


--शश्वद् ध ते पराभूता देवानाम् अशनया। अथ य एनम् अन्वायतन्त इम एतर्हि परिशिष्टाः। त उ एवापर्युषिभवितारः॥

स हैष वैश्वदेवस् स्तोमः। विश्वेषां हैव देवानां पुरा स्तोम आस। तेन यद् अग्निम् अस्तुवन् सास्याग्निष्टोमता। अग्निं हैनेनास्तुवन्। स्तुवते हैनेन स्वा स्तुवते ऽरणा। स्तुवते हैनेन जने स्वा य एवं वेद॥

स हैष नवैकविंशान् अभिसंपद्यते द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः। एका स्तोत्रियातिरिच्यते। यजमानो हैव सो ऽतिरिच्यते यो वैवं वेद। यथा ह गिरौ ज्योतिर् भायाद् एवं तस्यां जनतायां भाति यस्यां भवति य एवं वेद॥

स उ एवैकविंशतस् त्रिवृतो ऽभिसंपद्यते। अग्निर् वै त्रिवृत्। तद् यद् वै किं च त्रिवृत् तत् सर्वम् अग्निम् एवाभिसंपद्यते। याश् च ह मह्तयस् संपदो याश् च क्षल्लिकास् ता ह सर्वा एवंविदम् अभिसंपद्यन्ते। सर्व एनं कामा अभिसंपद्यन्ते य एवं वेद। स एष एकविंशत्या त्रिवृद्भिर् अमुष्मिन्न् आदित्ये प्रतिष्ठितो नवभिर् असाव् एकविंशैर् अस्मिन्। ताव् एताव् एवम् अन्योन्यस्मिन् प्रतिष्ठितौ। प्रतितिष्ठति य एवं वेद॥1.240॥