चन्द्रावलोकनम्
| चन्द्रावलोकनम् महेश्वर-मत्स्येन्द्रनाथयोः संवादः |
।। चन्द्रावलोकनम् ।।
हरिः ओं ।।
महेश्वर उवाच-
अन्तर्लक्ष्यं त्वहिर्दृष्टिर्निमेषोन्मेष वर्जितम् ।
इयं सा शाम्भवी मुद्रा सर्वन्तेषु गोपिता ।। १ ।।
अन्तर्लक्ष्य विलीन चित्तपवनो योगी यदा वर्तते ।
दृष्ट्या निश्चल(तर)या बहिरथः पश्यन्न पयेत् सदा ।
मुद्रेयं खलु खेचरी भवति सा युक्ता प्रसादाद्गुरोः ।
शून्याशून्य विवर्जितं स्फुरति चेत् तत्वं पदं शाम्भवम् ।।
अर्धोद्घटितलोचन स्थिरमना नासाग्र दत्ते क्षणः
चन्द्रार्कावपि लीनतामुपगतौ निष्पन्दरूपं वपुः ।
ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं परं
तत्वं तत् पदमेति यत् तु परमं वाच्यं किमात्राधिकम् ।।
यस्मिल्लयेऽति गर्भस्येऽन्तेन्तर्लय वेदिते ।
लयः सोऽपि च विज्ञेयस्तुष्टेन गुरुणा युतः ।।
या चितिस्सर्वभूतानाम् उदयव्ययसाक्षिणी ।
तां चितिं पश्य कायस्यां पूर्णानन्दघनामृताम् ।।
शिवोऽन्यत्रमनोऽन्यत्र शक्तिरन्यत्रमारुतः ।
न सिद्ध्यति वरारोहे कल्पकोटिशतैरपि ।।
ज्ञानं कुतो मनसि जीवति देवि यावत्
प्राणेऽपि जीवति मनो म्रियतेन यावत् ।
प्. २)
प्राणो मनो द्वयमिदं विलयं प्रयाति
मोक्षं स गच्छति नरो न कथञ्चिदन्यः ।।
सयोगेषु वियोगेषु अणुबीज सुखादिकम् ।
यः कुर्याद् दृष्टि लिङ्गेषु ना सावधानोनिरन्तरम् ।।
यत्र दृष्टिर्मनस्तत्र भूतेन्द्रिय सनातनम् ।
सा शक्तिस्स हि भूतानां दृष्टिर्लक्ष्ये लयंगता ।।
यत्र दृष्टिर्मनःस्यैर्यं तत्र चैव हि मारुतः ।
अयं कोपि भवेदेवं तस्यारगै सिद्धसम्मतः ।।
चक्षुरग्रस्थितो कारं सबाह्याभ्यन्तर स्थितम् ।
दृश्यते चक्षुरग्रेऽपि चक्षुवैव न पश्यति ।।
चक्षुरग्र स्थितो नित्यं विस्फुरन्योमणिर्यथा ।
तं दृष्ट्वा व्यापकं शम्भुं भवबन्धैः प्रमुच्यते ।।
आत्म ज्योतिर्मनो ज्योतिर्ज्योतिश्चक्षुर्न पश्यति ।
साबाह्याभ्यन्तरं ज्योतिः स ज्योतिश्शिवः उच्यते ।।
यावन्नैव प्रविशति चरन्मारुतो मध्यमार्गे
यावद्बिन्दुर्न भवति दृढः प्राणवात प्रबुद्धः ।
यावद्वो * * * सदृश सरसं जायते नोन्मनत्वं
तावत्सर्वं यदि च वदते दम्भमिथ्या प्रलापः ।।
नित्याभ्यासरतः काश्चिद् गुरुभक्तश्च निश्चलः ।
सहजं यो न जानाति अन्धवत्स प्रवर्तते ।।
अमावास्या च प्रतिपत् पौर्णमासी च गोप्यते ।
कामं विषं निरञ्जानात् * * * * सर्वत्र परिवेशिता ।।
अग्रे प्रेम युता पाल्या लोकानां भ्रमणायते ।
यथा भूतं न जानंति मिथ्यादम्भेण दंभिताः ।।
प्. ३)
अमावास्या च प्रतिपत् पौर्णमासी च गोप्यते ।
कामं विषं निरञ्जनं सर्वस्यो परिसंस्थितम् ।।
मत्स्येन्द्र उवाच-
अमावास्या च प्रतिपत् पौर्णमासी च शङ्कर ।
कथं सा भण्यते संज्ञा सर्वं व्याख्या हि तत्वतः ।।
ईश्वर उवाच-
प्रतिपच्चक्षुरुन्मेष अमावास्यास्तलोचना ।
अर्धावलोकनं यावत् पर्णमासीं वदन्तिताम् ।।
मत्स्येन्द्रः-
काम शब्देन किं वाच्यं विषेणापि किमुच्यते ।
निरञ्जनस्वभावः कः एतदाख्या हि तत्वतः ।।
ईश्वरः-
प्रतिपद्ग्रसते कालं ममावास्या तथैव च ।
प * * * स्थिरीकृत्य पन्था भवति नान्यथा ।।
कामेन विषयाकाङ्क्षा विषात् कामस्य तल्लयः ।
द्वावेतौ सन्त्यजेन्नित्यं निरञ्जनमुपाश्रयेत् ।।
अपरः सन्त्यजेत्सर्वं यदीच्छेदात्मनोहितम् ।।
अन्यथामरणञ्चैव भुक्तत्वात् * * * नि च ।
शक्ति मध्ये मनः कृत्वा मनः शक्तेस्तु मध्यगम् ।
मनसा मन आलोक्य तद्ध्यायेत् परमं पदम् ।।
मत्स्येन्द्रः-
बीजः चैव किमाख्यातं कीदृशं बिन्दुलक्षणम् ।
कथञ्चोत्पद्यते बिन्दुरेतदाख्याहि तत्वतः ।।
ईश्वरः-
मन एव हि बीजश्चोत्पत्ति स्थिति कारणम् ।
मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ।।
मत्स्येन्द्रः-
शिखा नगाग्र पर्यन्तं व्यापितञ्च सुखासुखम् ।
द्रवते घण्टिकाच्छिद्रं बन्धनं तस्य कीदृशम् ।।
ईश्वरः-
न च बन्धनमध्यस्थं न चैकरणमानसम् ।
प्. ४)
चन्द्रात् मध्य शक्तिर्यत्र स्या तत्र बन्धनम् ।
ज्ञात्वा सुषुम्ना सद्भेदं कृत्वा वामुञ्च मध्यगम् ।।
कृत्वा सा वैन्दवे स्थाने घ्राणरन्ध्रे निरोधयेत् ।
मत्स्येन्द्रः-
वासुबिन्दुः समाख्यातः तत्वं प्रकृतिमेव च ।।
षट्चक्राणि न जानामि कथयस्व प्रसीदमे ।
ईश्वरः-
आधारञ्च स्वाधिष्ठानं मणिपूरं तृतीयकम् ।।
अनाहतं विशुद्धञ्चाज्ञाचक्रं च षष्ठकम् ।
अथारं गुदमित्युक्तं स्वाधिष्ठाञ्च लिङ्गकम् ।।
मणिपूरं नाभिदेशे हृदयस्थमनाहतम् ।
विशुद्धं कण्ठदेशे चाज्ञाचक्रं च मस्तके ।।
षट्चक्राणि परिज्ञाय प्रविशेद् ध्रुवमण्डले ।
प्रविशेद्वायुमाकृष्य तथैर्वोर्ध्वे नियोजयेत् ।।
एवं समभ्यसेत्तावद्यो ब्रह्माण्डमयो भवेत् ।
वायुर्बिन्दुस्तथा चक्रं चित्ते चित्ते युक्तं समभ्यसेत् ।।
समाधिनैकेन समंममृतं यान्ति योगिनः ।
यथाग्निर्दारु मध्यस्थो वोत्तिष्ठेन्मथने विना ।।
तथैवाभ्यास योगेन ज्ञानदीप्तिर्न चैव हि ।
घटमध्ये यथा दीपो बाह्ये नैव प्रकाशयेत् ।।
- * * स्मिन् गते चैव दीपज्वालावभासते ।
स्वभावं घटमित्युक्तं दीपमेव हि तत्पदम् ।
गुरुवाक्या * * * न्न ब्रह्म ज्ञानं स्फुटी भवेत् ।।
कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मान्तराणि च ।
अभ्यास वाहना सक्तास्तरन्ति भवसागरम् ।।
मत्स्येन्द्र उवाच-
तवपाद प्रसादेन मुक्तोऽहं भवबन्धनात् ।
त्वं गतिर्देव देवेश नान्यथा मेऽस्तिशङ्कर ।।
श्रुत्वामत्सेन्द्र वाक्त्यन्तु प्रविष्टो भगवान् शिवः ।
गच्छ पुत्र पृथिव्यांत्वं त्रैलोक्यं चोद्धरिष्यसि ।।
इति महेश्वरेणविरचितं चन्द्रावलोकनम् सम्पूर्णं ।।
।। श्रीगुरुनाथाय नमः ।।