चन्द्रज्ञानागमः
| चन्द्रज्ञानागमः [[लेखकः :|]] |
श्री गुरवे शिवाये नमः ।
ओं नमः परमात्मने ।।
ओं नमो गणाधिपतये नमः ।।
ओं नमो विष्णवे ।।
प्. ५५अ) ओं नमः शिवाय स शिवाय शिवदाय नमो नमः ।
अथ चन्द्रज्ञानं लिख्यते ।।
ओं कैलासपिठमध्यस्थं देवदेवं महेश्वरम् ।
स्कन्दनन्दिगणाकीर्णं विश्वेश्वरसमन्वितम् ।। १ ।।
ब्रह्मादि कारणैः सार्धमुमया सहितं स्थितम् ।
महोदरसमायुक्तमप्सरोभिः समावृतम् ।। २ ।।
महाध्यानस्थितं देवं मुनिभिश्चापि संवृतम् ।
गन्धर्वादि गणोपेतं सिद्धसङ्घैश्च संयुतम् ।। ३ ।।
स्रूयमानं सुरवरैः साध्यरुद्रमरुद्घनैः ।
नारद प्रमुखैश्चैव गीतनृत्तविशारदैः ।। ४ ।।
आराध्यमानं देवेशं वरदं लोककारणम् ।
सर्वानुग्रहकर्तारं सर्वपापप्रणाशनम् ।। ५ ।।
प्. ५५ब्) सर्वमन्त्रवरं नाथं सर्वदेव नमस्कृतम् ।
तत्रस्थं देवदेवेशमुमयासहितं शिवम् ।। ६ ।।
दृष्ट्वा तु वरदं देवं ध्यानस्थं तं कपालिनम् ।
संशया विष्टचित्तस्तु चन्द्रो वेदविदांपतिः ।। ७ ।।
अष्टाङ्गप्रणिपातेन प्रणम्य परमेश्वरम् ।
रोदमानो ब्रवीद्वाक्यमुच्छसंश्च पुनः पुनः ।। ।। ९ ।।
इन्द्रजालं हि पश्यामि असत्यं सत्यतां गतम् ।
मोहितं मायया सर्वं ब्रहाण्डं स चराचरम् ।। ९ ।।
देवमानुष्य तिर्यञ्च गन्धर्वोरगराक्षसाम् ।
सर्वेषां निश्चिता बुद्धिः प्रणष्टा इति मे मतिः ।। १० ।।
क्षणिकस्य तु रूपस्य तथा शब्दस्य वै प्रभो ।
त्वयोक्तस्यैव चन्द्रस्य बुद्धि रूपस्य नित्यशः ।। ११ ।।
प्. ५६अ) आकाशस्य कथं देव प्रणमन्ति विनाशिनः ।
स्वयमेवमसौनष्टश्चिन्तयायः प्रकल्पितः ।। १२ ।।
शब्दस्य कृतकं चैव मन्त्रत्वं च कथं भवेत् ।
प्रयुक्ता च यथा वीणा तन्त्रीस्वर समन्विता ।। १३ ।।
चित्तेन सार्यते यस्य षड्जमध्यमदैवता ।
तथा मन्त्रा तदाकारा विद्याश्चैव सहस्रशः ।। १४ ।।
अप्रबुद्धधियोमूढाः स्वचित्तं ते बहिः स्थिताः ।
कृतके नैव सन्तुष्टा भ्रामिता मायया पुनः ।। १५ ।।
असत्यमिन्द्रजालस्य यद्रूपं तत्कथं प्रभो ।
उच्चार्यमाणा ये मन्त्रा न ते सम्यक् त्वयोदिताः ।। १६ ।।
मोहिता देवगन्धर्वा मिथ्याज्ञानेन गर्विताः ।
प्. ५६ब्) मायास्वप्नोपमाः सर्वे मुद्राध्यनादि धारणाः ।। १७ ।।
न तच्चित्रमिवासत्यं शास्त्रजालं क्रियागमम् ।
देव्या विनायकस्यैव षण्मुखस्य त्रिलोचनम् ।। १८ ।।
नन्दिभृङ्गि महाकाल कौबीरोशनसां तथा ।
वासुकिर्गारुडश्चैव ब्रह्मणो विष्णुरुद्रयोः ।। १९ ।।
सनत्कुआरप्रमुखादृषीणां भावितात्मनाम् ।
दुर्वासप्रमुखादीनां मुनीनां यस्तु संहितः ।। २० ।।
मन्त्राश्च विविधाकारा देव्याश्चापि सहस्रशः ।
संप्राप्ताविविधाकारा विद्याश्चापि सहस्रशः ।। २१ ।।
कथिताश्च यथापूर्वं युक्ति युक्ताः समासतः ।
तत्सन्तुष्ट महादेव शिरस्स्थेन मया श्रुतम् ।। २२ ।।
????????????????????
प्. ५७अ) भ्रामितास्ते मया सर्वे व्यायामेन महेश्वराः ।
न ज्ञातं कस्यचिज्ज्ञानं शारीरं गूढगोचरम् ।। १३ ।।
अप्रबुद्धमतित्वाश्च शास्त्रजाले भ्रमन्ति ते ।
कृतकं नैव सन्तुष्टाः स्वचित्तमुषिताः स्थिताः ।। १४ ।।
मयाश्रूतागमपथातन्त्रे तन्त्रे त्वया कृताः ।
सम्भावं कस्यचेन्नोक्तं मोहिताः परमार्थिकाः ।। १५ ।।
को मन्त्रः कृतको नाम कस्य कर्ममतिस्तथा ।
दीयते कस्य वा पिण्डं वायुर्वायौ प्रलीयते ।। १६ ।।
आपस्त्वप्स्वप्रलीयन्ते विशेत् तेजश्च तेजसि ।
आकाशे तु तथाकाशं मनोबुद्धिरहं तथा ।। १७ ।।
यथा गताः पुनस्तत्र लीनाः स्वे स्वे पदे तु ते ।
को यं मांस मयो देहो दग्धो वा प्राणिभक्षितः ।। १८ ।।
प्. ५७ब्) अमूर्तो निर्गुणो जीवो ह्यनादिश्चाप्यखण्डितः ।
न रूपं तस्य नो वर्णो न स्थानं न च धारणा ।। १९ ।।
कस्य कालो यशः कस्य भटाश्चैव सुदारुणाः ।
नरकाश्शासनाश्चैव प्रेतपुण्यं वसेतकः ।। २० ।।
सहस्रसङ्ख्याः पुरुषा आहवे ये हतास्तुते ।
नीयन्ते बहुभिःकालैरेको वा किं बहून्नयेत् ।। २१ ।।
पक्षिणो विह्वली भूता निर्गतेन लयं गताः ।
लक्षसङ्ख्याश्च वहवस्तत्र कालःकिमागतः ।। २२ ।।
एके नैव हि कालेन सहस्राण्यर्बुधानि च ।
नीयन्ते बहुभिः किं वा एतत्सर्वं वदस्व मे ।। २३ ।।
शृणु चन्द्र प्रवक्ष्यामि रहस्यं भुविदुर्लभम् ।
यन्न कस्य चिदाख्यातं निस्संशय करंपरम् ।। २४ ।।
प्. ५८अ) न मन्त्रो वर्णसंयोगाद्य उपाद्यः क्रियापरः ।
तानेश परमेशान मोहन्युक्ता तु मातृका ।। २५ ।।
पशूनां स्थूलमार्गेन स्वात्मविज्ञानवर्त्मनि ।
संभवन्ति यथोवर्णाः स्वरव्यञ्जनसंज्ञकाः ।। २६ ।।
अक्षरक्षरयोर्यत्तदक्षरं चाक्षराधिकम् ।
तस्याधिकारणं यत् तद् वाग्भिर्वक्तुं न शक्यते ।। २७ ।।
तदक्षरं न जानन्ति मिथ्या गर्वेण मोहिताः ।
तज्ज्ञात्वा बीजराजं तु वरुणानलमध्यगम् ।। २८ ।।
न जायेत पुनर्गर्भे यद्यपि ब्रह्महा भवेत् ।
परिवाराङ्ग विस्तारं नामजाति विवर्जितम् ।। २९ ।।
एकवीरं स्मृतं मन्त्रं सङ्क्षिप्तं विधि साधनम् ।
शब्दावस्थं परित्यज्य बोधरूपेणसंस्थितम् ।। ३० ।।
प्. ५८ब्) स्वरमाद्य स्वरं ज्ञेयं तं स्वरं स्वरवर्जितम् ।
अस्वरं परमं मन्त्रं योगिनां मोक्षदं ध्रुवम् ।। ३१ ।।
तुटिर्णवनिमेषाश्च तथा काष्ठाः कलास्तथा ।
शशधवरविद्यां च मुहूर्तदिनरात्रिभिः ।। ३२ ।।
पक्षमासं त्वयनयोर्यं वत्सर तमः स्मृतः ।
कीलनाद्द्विजराजैवमेवं कालोभिधीयते ।। ३३ ।।
कृतस्य कर्मणश्चैव लीनः कालस्सतेन वै ।
नीयते देहसंस्थेन कर्मणाकालरूपिणा ।। ३४ ।।
नाकृतिर्विकृतिर्नास्ति कालस्य परमार्थतः ।
सुखदुःख फलं भुङ्क्ते जीवः स्वस्यैवकर्मणः ।। ३५ ।।
एकः कृतान्तः संहारी पशु हृद्भवति क्षणात् ।
आयुः क्षीणाश्च ये भूतास्तिर्यञ्चोमानुषाः सुराः ।। ३६ ।।
प्. ५९अ) तेषां नियमनार्थाय कालोनामप्रवर्तते ।
न द्वेषान्न च वैराग्याङ्कालः कर्मेदमुच्यते ।। ३७ ।।
कालेन नीयते को सौ किं रूपं तस्य शङ्कर ।
किं विधौ देवदेवेश जीवोनाममहेश्वर ।। ३८ ।।
कस्मिन् स्थाने वसेज्जीवो म्रियते स कुतः पुनः ।
कथं कालः प्रशमति जीव स्थाने त्रिलोचन ।। ३९ ।।
एतत्सर्वं समासेन सद्भावेन वद प्रभो ।
शृणु तावत् प्रवक्ष्यामि रहस्यं भुवि दुर्लभम् ।। ४० ।।
जीवो ह्यनादिरमलो निष्कलो विरजः कथम् ।
शक्तिगर्भ स्थितो नित्यं रूपं ध्यानविवर्जितम् ।। ४१ ।।
प्रमाणतर्करहितस्त्व हेतुश्च निरञ्जनः ।
प्. ५९ब्) उपमानवशश्चन्द्र शृणु पात्रस्तु कल्पितः ।। ४२ ।।
बालाग्रशतभागस्तु वैदिकोरुपगीयते ।
त्रिविधः स तु विज्ञेयः शाक्तोग्रा कारकः स्मृतः ।। ४३ ।।
शान्तः शून्यो निराभासस्त्वप्रमेयो निरञ्जनः ।
सर्वोपमानरहितः कल्पना कालवर्जितः ।। ४४ ।।
द्वितीयं यस्य यद्रूपं शक्तिः सैवोपगीयते ।
गुणात्मिका तु विज्ञेया प्रकृतिस्तत्त्व रूपिणी ।। ४५ ।।
महाभूताः स्मृताः पञ्च मनोबुद्धिरहङ्कृता ।
एषा प्रकृतिरुत्पना संस्थिता सर्व देहिषु ।। ४६ ।।
तस्याः क्रिया क्रमं सर्वं पिण्डदानादि लक्षणम् ।
एतच्छ्रुत्वा ध्व?हासेन चन्द्रो वेदविदांबरः ।। ४७ ।।
विहस्य सुचिरं कालं द्विजराजोभव्र?वेदिदम् ।
प्. ६०अ) पञ्चभूतात्मकं पिण्डं पञ्चस्थान गतं प्रभो ।। ४८ ।।
स्वस्थाने च मनोबुद्धिरहंकारः प्रलीयते ।
ये ये भावा यथा यातास्तथा तत्र लयं गताः ।। ४९ ।।
सर्वज्ञसंशयस्यास्य किं ब्रविहि विनिर्णयम् ।। ५० ।।
शृणु सद्भाव कथनं रहस्य ममृतोद्भवम् ।
मूर्तैर्ब्रह्मादिभिश्चैव वेदराजयमेन च ।। ५१ ।।
वरुणेन तथा चन्द्र अग्निवित्तपवायुना ।
आत्मार्थं रचितं शास्त्रं क्रियाकाण्डमनुत्तमम् ।। ५२ ।।
पिण्डं च मासिकश्राद्धं तथा सांवत्शरीयकम् ।
प्रजार्थं सर्वभूतानां जीवनोपाय हेतुकम् ।। ५३ ।।
कृतं शास्त्रं प्रजार्थान्नं प्रददन्ति परस्परम् ।
प्. ६०ब्) अन्नेन जीवलोकोयं वर्तते सर्वसम्भवः ।। ५४ ।।
सद्भावेन तु जीवस्य अरूपस्याव्ययस्य च ।
श्राद्धदानादिकं कर्म न च पिण्डोदक क्रिया ।। ५५ ।।
सर्वोपमानहीनस्य कल्पना रहितस्य च ।
कुतः पिण्डं कुतः श्राद्धं कुतोदाहादि लक्षणम् ।। ५६ ।।
ब्रह्माद्यैरचितं श्राद्धं मोहनार्थं द्विजोत्तम ।
स्थिति कारणहेतुं त्वाद्भूता * * *? त संस्कृतम् ।। ५७ ।।
कर्मनाम द्विजेन्द्रेन्द्र अस्ति सर्वेषु वस्तुषु ।
स्वकर्मणा सुखं भुङ्क्ते दुःखं भुङ्क्ते स्वकर्मणा ।। ५८ ।।
यथा च कुरुते कर्म तथैव भुञ्जते पुनः ।
येन येन स्वभावेन प्रकृतिस्थां त्यजेत् तनुम् ।। ५९ ।।
तेन ते नैव मार्गेण स्व स्व कर्मोपभुञ्जते ।
प्. ६१अ) जीवः संसरते देहान्न चासौ म्रियते पुनः ।। ६० ।।
जन्मार्थे त्यजते कायं क्रियार्थं कायमेव च ।
न नष्टश्चैव नोत्पन्नो बद्धो मुक्तो न चाप्यसौ ।। ६१ ।।
शक्तेरभ्यन्तरस्थायी यथासौ जायते पुनः ।
न कृतिर्गुणपाशैस्तु वेष्टितास्सर्वदेहिनाम् ।। ६२ ।।
तस्याः कर्म यथासंस्थं च्छाया वदनु तिष्ठति ।
येन भावेन यो त्यन्तः प्रकृतेर्गच्छते पुनः ।। ६३ ।।
तेन वै प्रकृतं कर्म तत्र तत्र प्रवर्तते ।
जीवो द्वन्द्व विनिर्मुक्तः सर्वकर्मसुसंस्थितः ।। ६४ ।।
न तेन रहितं किञ्चिद्विद्यते भुवन त्रये ।
यथा वृतौ गतौ वायुः संस्थितस्य द्विजेश्वर ।। ६५ ।।
तथा सर्वेषु भूतेषु शक्तिर्वै प्राणरूपिणी ।
प्. ६१ब्) तत्रस्थं यत्परं शून्यं चन्द्रजीवं तु तं विदुः ।। ६६ ।।
विनष्टकालयोगेन धृतिश्चैव द्विजाधिप ।
यत् तत् तत्त्वधरं शून्यं स कथं चैव नश्यति ।। ६७ ।।
यथा नभस्स्थितो वायुर्घटा मध्ये विराजते ।
सहसा च घटे भिन्ने न वायुर्विद्यते क्वचित् ।। ६८ ।।
एवं सर्वशरीरस्थो देहपातान्न पच्यति ।
दर्पणाननसंयोग जलार्क प्रतिबिम्बिते ।। ६९ ।।
भ्रष्टे च दर्पणे चन्द्र न नष्टं चैव माननम् ।
जलक्षयाद्यथा चार्को नैव नश्यति वै क्वचित् ।। ७० ।।
एवं देहक्षयाद् देही न नष्टो न च बध्यते ।
सर्वगः सर्वकर्ता च सर्वद्वन्द्व बहिष्कृतः ।। ७१ ।।
न तस्य कालकलना न रागद्वेष एव च ।
पुष्पैर्गन्धै तिलैस्तैलं क्षीरे सर्पिस्ततो नलः ।। ७२ ।।
प्. ६२अ) इन्धने च यथा संस्थस्तथासौ सर्वगः परः ।
शक्तेरभ्यन्तरे जीवः संस्थितो नैव लिप्यते ।। ७३ ।।
यथा वेश्मान्तर गतं नभः सर्वगतं स्थितम् ।
चतुष्केन प्रनष्टे तु तन्नभो नैव नश्यति ।। ७४ ।।
एवं सर्वशरीरस्थः शून्यरूपो ह्यलेपकः ।
न तस्य कालो मृत्युर्वा न पिण्डः श्राद्धलक्षणम् ।। ७५ ।।
एतत्सद्भावकथनं मया तेद्यप्रकाशितम् ।
एतच्छ्रुत्वाद्यवै चन्द्रः प्रफुल्तकमलेक्षणः ।। ७६ ।।
अपूर्वमद्भुतं देव श्रूतं त्वत्तो मयाद्यवै ।
प्रकृतिः किं विधा चैव रूपं तस्यास्तु कीदृशम् ।
मानं तु करणं तस्य प्रमाणं वद भैरव ।। ७८ ।।
प्. ६२ब्) अनच्छा अशिरेकौराद्विकुब्जा तन्तु रूपिणी ।
प्राणापानप्रवाहेन गच्छते विशते पुनः ।। ७९ ।।
सर्पवत्कुटिलाकारा बालाग्रपरिमाणगा ।
गुणाः सर्वे स्थितास्तस्या उपरागामणेरिव ।। ८० ।।
मणि रूपापराशक्तिरुपरागोपमा गुणा ।
तेन तेन स्वभावेन तत्र तत्रावतिष्ठते ।। ८१ ।।
चतुर्दश विधे सर्गे शक्तिर्नाम परा कला ।
दर्पणे च यथा च्छाया जलमध्ये तु तारकाः ।। ८२ ।।
गुणाः प्रकृतिजास्तद्वद्दृश्यन्ते शक्ति मध्यगाः ।
कर्मणा स्वेन भावेन तं तु भुञ्जन्ति देहिनः ।। ८३ ।।
शक्तिगर्भ स्थितो जीवो वंशे ध्वनिरिवस्थितः ।
एवं शक्तिकनिर्जीवः सुखदोह्लादकः स्मृतः ।। ८४ ।।
प्. ६३अ) आपादाश्चैव मूर्धान्तं सर्वत्रैव व्यवस्थितः ।
कालाग्न्यादि शिवान्तं च यद्रूपं किञ्चिद् दृश्यते ।। ८५ ।।
तत्र चाभ्यन्तरे शून्यं संस्थितं चैव स प्रभुः ।
अश्मान्तरगतश्चैव अस्थिरन्ध्रश्च संस्थितः ।। ८६ ।।
न तेन रहितः प्राणः प्रकरोति गमागमम् ।
रहस्यं तेद्य वक्ष्यामि एकाग्रः शृणु तत्परः ।। ८७ ।।
अत ऊर्द्धं दिशः सर्वा भूमिरापो नलस्तथा ।
वायुश्चखंमनोबुद्धिरहङ्कारश्च ये गुणाः ।। ८८ ।।
सर्वशून्यं निरालम्बं तत्र सर्वे प्रतिष्ठिताः ।
यत् किञ्चित् सकलं भावं रूपतः केषुसंस्थितम् ।। ८९ ।।
तदसारतरं चन्द्ररूपं स्वप्नोपमं स्थितम् ।
भ्रान्तिं त्यज स वै पुत्र सर्वं शून्ये प्रतिष्ठितम् ।। ९० ।।
प्. ६३ब्) शून्यात् प्रवर्तते शक्तिः शक्तेर्वर्णाः प्रजज्ञिरे ।
वर्णेभ्यश्च तथा मन्त्रा मन्त्रेभ्यः सृष्टिरव्यया ।। ९१ ।।
तस्माच्छून्यं जगद्ध्यायेद्यन्ननश्येत् कदाचन ।
युगादिना ततो अद्य नित्यं सद सतः परम् ।। ९२ ।।
हृदिस्थो लक्ष्यते नैव सर्वदर्शी ह्यलेपकः ।
नायं पिण्डेस्ति न श्राद्धं न कालकलना तथा ।। ९३ ।।
सर्वक्रिया विहीनोसौ संस्थितो नैव लिप्यते ।
भूतग्रामेषु सर्वेषु शक्त्यन्तर्वसते प्रभुः ।। ९४ ।।
स बाह्याभ्यन्तरं चैव सर्वं तेन प्रतितिष्ठितम् ।
स्थितं तदेव भाण्डास्थं सर्वस्य वरवर्णकम् ।। ९५ ।।
क्रियाभेदगुणानां च भेदो मन्त्रेषु विद्यते ।
ज्ञानभेदो न विद्येत तेषां शास्त्रागमेषु च ।। ९६ ।।
प्. ६४अ) अद्यापि न मयाज्ञातमिन्द्रजालस्य लक्षणम् ।
प्रकृतिर्नामदेवेश आधारधरणी यथा ।। ९७ ।।
ततः शास्त्रे त्वया पूर्वं जीवं चैव सुगूहितम् ।
न नष्टा न च संभ्रान्तिरद्यापि परमेश्वर ।। ९८ ।।
सद्भावं वददेवेश यथा जानाम्यहं पुनः ।। ।।
यथा नभश्च्युताश्चन्द्र तुषारास्स ततोपमाः ।
सरो मध्ये च पतिता गलिता एकतां गताः ।। १०० ।।
तथा गुणामरस्था तु शक्तिस्तद्धर्मधारिणी ।
निर्गुणत्वं गुणं यस्य अरूपं चैव रूपकम् ।। १०१ ।।
तथा विधं तु यत् किञ्चिच्छक्ति गर्भे व्यवस्थितम् ।
तेन सर्वमिदं व्याप्तमाब्रह्मभुवनान्तिकम् ।। १०२ ।।
प्. ६४ब्) ततः क्रियाः प्रवर्तन्ते हेतु प्रोक्तमिदं जगत् ।
आणवं च तथा शाक्तं बिन्दुनादात्मकं च यत् ।। १०३ ।।
वायूनां च गमं किञ्चित् प्राणापानक्षणात्मिकम् ।
सर्वशिवमयं चन्द्र शिवो जीवः प्रकीर्तितः ।। १०४ ।।
शास्त्रजालं परित्यज्य तर्कजालमथोत्तरम् ।
अध्यात्मज्ञानसम्बोधं शक्तिगर्भं तु यो भ्यसेत् ।। १०५ ।।
नैव नश्यत्यसौ चन्द्र न कालश्चास्य विद्यते ।
अजरामरभूतो वै भवते नात्रसंशयः ।। १०६ ।।
जीवो न जातो न मृतः परापरगमः स्थितः ।
कर्मणां चैव महतो गुणानां भूतजस्तथा ।। १०७ ।।
प्रकृतिस्तु पराशक्तिर्यत्रैव भ्रान्ति लक्षणम् ।
इदं रहस्यं परमं कथयामि तवाखिलम् ।। १०८ ।।
अविज्ञाते परे तत्त्वे न त्यजेत् तु क्रिया क्रमम् ।
प्. ६५अ) पशुत्वं च पतित्वं च द्वौ भेदौ च शरीरिणाम् ।। १०९ ।।
पशुत्वात् कर्मजालेन गृह्यते ह्यमृतोद्भवम् ।
यथाभ्रैरर्करश्मिभ्यो दर्पणं च मलेन च ।। ११० ।।
स्फटिकं पांसुना यद् वत् तथा ज्ञानं तमो वृतम् ।
अज्ञानाद्दृश्यते जन्तुर्गुणपाशैस्तु यन्त्रितः ।। १११ ।।
कर्मोपभोगं भुञ्जीत तिष्ठते स्वान्न योनिषु ।
न देहो म्रियते भुङ्क्ते कर्मभोगेति तस्य वै ।। ११२ ।।
पतिज्ञानं प्रबुद्धस्तु सर्वज्ञः परमेश्वरः ।
प्राप्नोति ज्ञानमभ्यासाज्ज्ञानान्मुक्तस्तु मोचकः ।। ११३ ।।
चण्डालो हीनजन्मा च श्वपचो वापि फुक्कसः ।
सर्वगं परमं देवं हेतूपाधिविवर्जितम् ।। ११४ ।।
सम्यग् जानाति यश्चन्द्र स योगी चोत्तमोमतः ।
प्. ६५ब्) विप्रो वा मूढबुद्धिश्च अज्ञान स्पृश्य एव सः ।। ११५ ।।
चण्डालो यदि वा ज्ञानी तस्मै देयं प्रतिग्रहम् ।
तस्य हस्ता तु वै ग्राह्य स च पूज्यो यथा ह्यहम् ।। ११६ ।।
भ्रान्तिं त्यजस्व वै चन्द्र ह्येतज्ज्ञानं समभ्य स ।
अज्ञानाच्च क्रियाकाण्डं ज्ञानात् कर्मक्षयो भवेत् ।। ११७ ।।
नियमो न च वा कालो भ्रान्तिमेतां परित्यज ।
अज्ञानात् कर्मपाशैस्तु प्रकृतैर्बध्यते पुनः ।। ११८ ।।
प्रबुद्धानां सदा चन्द्र सर्वज्ञानमयं जगत् ।
सर्वं जगत् स्वदेहं वा परानन्देन पूरितम् ।। ११९ ।।
सर्वशङ्काः परित्यज्य शून्यभूमिं भवेत् तु सः ।
न कालो न यमः कश्चिदेता बाल विभीषकाः ।। १२० ।।
सर्वोपमा न हीनस्य कल्पना रहितस्य च ।
प्. ६६अ) कुतः कालः कुतो मृत्युर्नरके शासनाः कथम् ।। १२१ ।।
सर्वं शून्यमयं ध्यायेच्छरीरा वयवं च यत् ।
कायं शून्यमयं कृत्वा न किञ्चिदपि चर्चयेत् ।। १२२ ।।
विकल्प योनिं मज्जन्ति जन्तवः प्रकृतेस्तुते ।
गुणपाशैर्निबध्यन्ते मूढाः पापरताः पुनः ।। १२३ ।।
यत्र यत्र हि योन्यन्तर्जायन्ते ते स्वकर्मणा ।
तत्र तत्राज्ञा भावत्वं पशूनां स्यात् सदोदूप ।। १२४ ।।
कर्माणि कस्य वै देव ह्येतन् मे वद तत्त्वतः ।
यदि जीवो हि मुक्तश्च नीरूपः खस्वरूपकः ।। १२५ ।।
नीरूपस्य कथं कर्म शून्यभूतस्य वै प्रभो ।
एतदिच्छाम्यहं श्रोतुं त्वत् प्रमादात् कपाल भृत् ।। १२६ ।।
प्. ६६ब्) शून्यस्य द्विगुणस्यैव कर्म तस्य करोति किम् ।
प्रकृतिर्गुणसंपूर्णा म्रियते जायते तथा ।। १२७ ।।
कृत कर्म तथात्मीयं यथासौ भुञ्जते पुनः ।
न जीवो भुञ्जते कर्म न चासौ प्रकृतिर्गुणैः ।। १२८ ।।
बध्यते न च वा मुक्तो नास्थायी स्थान वर्जितः ।
सर्वज्ञः सर्वगोध्यक्षः खरूपी खमनः खगः ।। १२९ ।।
इति मे योगिनो दृष्टाब्रह्मविष्ण्वेन्द्र भार्गवाः ।
ते पि प्र?मोहमापन्ना जीवं ज्ञानविधौ सदा ।। १३० ।।
सत्यं च कथयिष्यामि द्विजराजाद्यमे शृणु ।
प्रवृत्यर्थं तु भूतानां प्रकृतार्थमसंस्थितः ।। १३१ ।।
तथाबद्धं जगत्सर्वं मूत्रेमणिगणा इव ।
प्. ६७अ) आधारधरणी शक्तिरशिराहं स रूपिणी ।। १३२ ।।
तन्मध्ये संस्थितो जीवः खरूपी व्यापकः प्रभुः ।
यथा वेश्मान्तर गतं नभः सर्वगतं स्थितम् ।। १३३ ।।
वेश्मपातेन नष्टोसौ जीवश्चाधार पातने ।
तद् वत् सर्वगतं ब्रह्म सर्वत्रैव सुसंस्थितम् ।। १३४ ।।
तारकेन्द्र त्यजभ्रान्तिं किमन्यत् कथयामिते ।। ३५ ।।
अत्यन्तगहनं देव रहस्यं भुविदुर्लभम् ।
त्वत् प्रसादान्मयाज्ञातं जीवलक्षणमुत्तमम् ।। ३६ ।।
अद्यमे सफलं जन्म अद्य मे सफलं तपः ।
अद्य जातोस्म्यहं देव ज्ञानेनानेन भैरव ।। ३७ ।।
महतास्तोत्रराजेन देवदेवो महेश्वरः ।
तोषितो वै महादेवश्चन्द्रेण च यथा कृतः ।। ३८ ।।
प्. ६७ब्) परितुष्टेन देवेन वरं दत्त्वा यथाविधि ।
ज्ञानभोगी च मद्वाक्यात् पूर्वोक्तम्या मृतोद्भव ।। ३९ ।।
महाभागि भविष्यैषा मेतन्मेदत्तवान्धरम् ।
एवमुक्त्वा यदा देवो विरराम महेश्वरः ।। ४० ।।
चन्द्रश्च प्राप्तवान्ज्ञानं चन्द्रज्ञानमतः स्मृतम् ।
भक्तायेदं प्रदातव्यं श्रद्धादानाय धीमते ।। ४१ ।।
योनिन्दयति मोहेन इदं शास्त्रमगौरवम् ।
स मूढः सर्वदा तिष्टेदात्मज्ञानेनसंयुतः ।। ४२ ।।