सामग्री पर जाएँ

चन्द्रज्ञानम्

विकिस्रोतः तः
चन्द्रज्ञानम्
[[लेखकः :|]]

चन्द्रज्ञानम्

पञ्चाक्षरं परं गुह्यं परमानन्दरूपिणम् ।
परापररहस्यं स्यात् शृणु त्वं तु हिते प्रिये ।। १ ।।

स्थूलसूक्ष्म विभावेन सूक्ष्मात् सूक्ष्मं द्विभावनम् ।
आनन्दं प्रणवं बीजं आनन्दरूपनृत्तकम् ।। २ ।।

ध्यानं नटेश्वरं प्रोक्तं पञ्चाक्षरपरं शिवम् ।
पञ्चाक्षरं परं ब्रह्म पवित्रं पावनाशनम् ।। ३ ।।

यकारमीशवक्त्रं तु वकारं तत्पुरुषवक्त्रकम् ।
शिकारं घोरव * * * * * * * * * * ।। ४ ।।

प्. २)

  • * * * * * * वकारं ईश्वर दैवतम् ।

यकारं च सदाशैवं पञ्चदैवाधिदैवतम् ।। ५ ।।

स्थूल सूक्ष्मपरं ज्योतिः पञ्चाक्षरविधिं शृणु ।
नकारं च मकारं च शिकारं च वकारकम् ।। ६ ।।

यकारं पञ्चसंयुक्तं प्रणवादि षडक्षरम् ।
अक्षरात् प्रणवं मुख्यं अक्षरं ज्ञानपूर्वकम् ।। ७ ।।

प्रणवं अक्षरं प्रोक्तं सर्वमन्त्रं तदास्पदम् ।
प्रणवेन विहीनं स्यात् तन्मन्त्रं प्राणहीनकम् ।। ८ ।।

सर्वमन्त्रेषु मन्त्राणां प्राणान् प्रणवमुच्यते ।

प्. ३)

प्रथमस्वरसंयुक्तं पञ्चमस्वरसंयुतम् ।। ९ ।।

षड्वर्गान्तसमायुक्तं बिन्दुनादसमन्वितम् ।
एवं तत्प्रणवं प्रोक्तं सर्वसिद्धिकरं शुभम् ।। १० ।।

धान्तं भन्तं च शान्तं च तृतीयस्वरसंयुतम् ।
लान्तदीर्घस्वरोपेतं मान्तं पञ्चाक्षरं परम् ।। ११ ।।

ओंकारं च नकारं च मकारं चाक्षरत्रयम् ।
पुल्लिङ्गं स्याद् वकारं शिकारं स्त्रीयुतं भवेत् ।। १२ ।।

यकारं नपुंसकं ज्ञेयं त्रयस्त्वेवं ततः क्रमात् ।
ऋग्वेदं स्यान्नकारं च यजुर्वेदं मकारकम् ।। १३ ।।

शिकारं सामवेदं स्यात् मकारमथर्वर्णं भवेत् ।

प्. ४)

इतिहासं यकारं च सर्वदेवमयं तथा ।। १४ ।।

वर्णं देवंस्तथा शक्तिस्त्वाधारछन्द एव च ।
ऋषिस्थानं च ब्रह्मं च आयुधं तु तथैव च ।। १५ ।।

कलागुणं च चक्रं च प्रकाशं करणमेव च ।
वायुर्ज्ञानेन्द्रियं चैव इत्येते षोडश क्रमात् ।। १६ ।।

नकारं पृथिवीरूपं ब्रह्मं तत्राधिदैवतम् ।
सावित्रीं शक्तिरित्युक्तं आधारं पृथिवी तथा ।। १७ ।।

अनुष्टुप्छन्दसंयुक्तं वसिष्ठस्तु ऋषिस्तथा ।
स्थानं पश्चिमतो वक्त्रं सद्योजातं तु ब्रह्मकम् ।। १८ ।।

आयुधं वज्रमेवोक्तं कला निवृत्तिरेव च ।

प्. ५)

गुणाङ्कने मेनां तु घनेन चतुश्रवोक्तं चक्रमेव च ।। १९ ।।

ज्वालिताग्निप्रकाशेन करणमहंकारमेव च ।
प्राणवायुसमायुक्तमिन्द्रियं चैव गन्धकम् ।। २० ।।

इत्येते षोडशानां तु नकाराक्षरमुच्यते ।
नकाराक्षरमिदं प्रोक्तं मकाराक्षरमथ शृणु ।। २१ ।।

मकारं जलरूपं तु दैवं विष्णुस्तथैव च ।
लक्ष्मीशक्तिसमायुक्तमाधारं जलमेव च ।। २२ ।।

त्रिष्टुप्छन्दस्समायुक्तं विश्वामित्रो? ऋषिस्तथा ।
स्थानमुत्तरतो वक्त्रं वामदेवं तु ब्रह्मकम् ।। २३ ।।

पद्मायुधं चैव? प्रतिष्ठा तु कला हि च ।

प्. ६)

गुणद्रव्यं स्यादपि च चक्रमर्धेन्दुजं तथा ।। २४ ।।

सोमसूर्यप्रकाशेन करणं बुद्धिरेव च ।
अपाने वायुरूपं तु रसं ज्ञानेन्द्रियं भवेत् ।। २५ ।।

इत्येते षोडशानां तु मकाराक्षरमुच्यते ।
मकार * * * * शिकाराक्षरमथ शृणु ।। २६ ।।

शिकारमग्निरूपं तु रुद्रस्तत्राधिदैवतम् ।
गौरीशक्तिसमायुक्तं आधारमग्निरेव च ।। २७ ।।

त्रिष्टुप्छन्दस्संयुक्तो जमदग्निस्तथा * * * ।
स्थानं दक्षिणतो वक्त्रं अघोरं ब्रह्ममेव च ।। २४ ।।

स्वस्तिकायुधमेवोक्तं विद्याग्नि तु कला हि च ।

प्. ७)

गुणदीप्तिसमायुक्तं चक्रं तु त्र्यग्रमेव च ।। २९ ।।

तटित्तुल्यं प्रकाशेन करणं तु मनस्तथा ।
व्य * * * * * यक्तं ज्ञानेन्द्रियं तु रूपकम् ।। ३० ।।

इत्येते षोडशानां तु शिकाराक्षरमुच्यते ।
शिकाराक्षरमिदं प्रोक्तं वकाराक्षरमथ शृणु ।। ३१ ।।

वकारं वायुरूपं स्यात् अधिदैवतमीश्वरम् ।
अम्बिका तु महाशक्तिर्वायुराधारमेव च ।। ३२ ।।

बृहती छन्दस्संयुक्तं ऋषिः काश्याप उच्यते ।
स्थानं तु पूर्वतो वक्त्रं ब्रह्मं तत् * * * * * ।। ३३ ।।

आधारं बिन्दुरूपं तु कला शान्तिस्तथैव च ।

प्. ८)

गुणस्पर्श न संयुक्तं षडग्रं चक्रमेव च ।। ३४ ।।

दीपप्रकाशमेवोक्तं करणं चित्तमेव च ।

  • * * वायुसंयुक्तं स्पर्शं ज्ञानेन्द्रियं भवेत् ।। ३५ ।।


इत्येते षोडशानां तु वकार * * मुच्यते ।
वकाराक्षरमिदं प्रोक्तं यकाराक्षरमथ शृणु ।। ३६ ।।

यकार * * रूपं तु दैवं चैव सदाशिवम् ।
उन्मनीशक्तिसंयुक्तमाधारं व्योममुच्यते ।। ३७ ।।

जगती छन्द संयुक्तं भरद्वाज ऋषिस्तथा ।
स्थानमूर्ध्वमुखं विद्यात् ब्रह्ममीशानमेव च ।। ३८ ।।

आयुधानां त्रिशूलं स्यात् शान्त्याती च कला हि च ।

प्. ९)

गुणं चैव तु शून्यं स्यात् प्रकाशं चन्द्रिकामणेः ।। ३९ ।।

करणं प्रकृतिरूपं स्यात् समानवायुस्तथैव च ।
शब्द ज्ञानेन्द्रियं चैव इत्येते षोडश क्रमात् ।। ४० ।।

यकाराक्षरमिदं प्रोक्तं न भूतो न भविष्यति ।
पञ्चाक्षरमिदं प्रोक्तं प्रणवाक्षरमथ शृणु ।। ४१ ।।

प्रणवं आत्मरूपं तु परमात्माधिदैवतम् ।
स्वाहादेवी महाशक्तिराधारं परमं पदम् ।। ४२ ।।

गायत्री छन्दसंयुक्तं ऋषीणां परमं पदम् ।
स्थानं शिवमुखं प्रोक्तं ब्रह्मं शिवमुखं भवेत् ।। ४३ ।।

आयुधं शून्यमेवोक्तं शून्यका तु कलाऽपि च ।

प्. १०)

निर्गुणीं निरामयं चक्रं प्रकाशं शतसहस्रकम् ।। ४४ ।।

निष्करमिति निर्वायुरिन्द्रियाणां तु षोडश ।
इत्येते षोडशानां तु प्रणवं प्रणवे नमः ।। ४५ ।।

अकारं च उकारं च मकारो बिन्दुरेव च ।
अर्धचन्द्रनिरोधी च नादौ नादान्तमेव च ।। ४६ ।।

शक्तिश्च व्यापिनी चैव समाना चोन्मना तथा ।
समानान्तं पाशजालं स्यान्मन्यन्ते परश्शिवः ।। ४७ ।।

सप्तकोटिमहामन्त्रं चित्तव्याकुलकारणम् ।
एकबीजं महामन्त्रं तुर्यातीतं मनोलयम् ।। ४८ ।।

द्विरष्टककलोपेतं प्रणवं यो न विन्दति ।

प्. ११)

नासो मन्त्री न चाचार्यो वृथा क्लिश्यति कर्मसु ।। ४९ ।।

बुजस्योच्चारणं चाग्रं स्वप्नो बिन्दुपरिग्रहेः ।
सुषुप्तिर्नादसंयोगस्तुर्यं शक्तिसमागतः ।। ५० ।।

तुर्यातीतं लयं शान्तं परो महसि पठ्यते ।
प्राणायामं त्रयं कृत्वा शास्त्रदृष्टेन कर्मणा ।। ५१ ।।

नकारं सृष्टिरूपं स्यान्मकारं स्थितिरूपकम् ।
शिकारं संहृतिश्चैव वकारं तु तिरोभवम् ।। ५२ ।।

यकारमनुग्रहं चैव पञ्चाक्षरमिदं जगत् ।
नकारं कृतयुतं स्यान्मकारं त्रेतायुगं भवेत् ।। ५३ ।।

शिकारं द्वापरं चैवकारं कलियुगं तथा ।

प्. १२)

यकार युगान्तरं चैव पञ्चाक्षरमिदं जगत् ।। ५४ ।।

शैवं पाशुपतं चैव बौद्धमार्हतं तथा ।
कापालं पाञ्चरात्रं च षडेते समया स्मृताः ।। ५५ ।।

ब्रह्मचारी न्यसेत् सृष्टि ग्रहस्थस्य स्थितिर्भवेत् ।
वानप्रस्थयतीनां तु संहारन्यासमुच्यते ।। ५६ ।।

अङ्गुष्ठेन यकारं स्यात् वकारं तर्जनीं न्यसेत् ।
शिकारं मध्यमाङ्गुल्या मकारं तु अनामिकम् ।। ५७ ।।

कनिष्ठेन नकारं स्यात् सृष्टिन्यासमुदाहृतम् ।
यकारं मूर्ध्नि विन्यस्य वकारं तु ललाटके ।। ५८ ।।

शिकारं हृदये न्यस्य मकारं नाभिदेशतः ।
नकारं पादयो न्यस्य सर्वाङ्गे प्रणवं न्यसेत् ।। ५९ ।।

प्. १३)

नकारं आत्मशुद्ध्यर्थं मकारं स्थानशोधनम् ।
शिकारं लिङ्गशुद्धिस्तु पञ्चशुद्धिर्विधिक्रमम् ।। ६० ।।

  • * * * * * * * * * * * * * * * ।
  • * * * * * * * * * * * * * * * ।। ६१ ।।


अनन्तं पृथिवी ज्ञेयं आपस्सिंहासनं तथा ।
आग्नियोगमिदं प्रोक्तं वायुरूपं तथैव च ।। ६२ ।।

आकाशं विमलं चैव पञ्चासनविधिक्रमम् ।
आवाहनं नकारेण स्थापनं तु मकारकम् ।। ६३ ।।

शिकारेण तु सान्निध्यं वकारेणार्घ्यमेव च ।
पूजयेत्तु यकारेण शिवं परमकारणम् ।। ६४ ।।

प्. १४)

पीठं प्रणवरूपं तु कल्पयेत्तु विचक्षणः ।
नकारस्य कलाः पञ्च मकारस्य चतुष्कलाः ।। ६५ ।।

शिकारस्य कला चाष्टौ वकारस्य त्रयोदश ।
यकारस्य कला चाष्टौ पञ्चाक्षरकला न्यसेत् ।। ६६ ।।

शिकारं शिवरूपं तु वकारं शक्तिरेव च ।
यकारमात्मरूपं तु नकारं तु तिरोभवेत् ।। ६७ ।।

मकारं मलरूपं तु इति पञ्चाक्षरं स्मृतम् ।
आवाहनं नकारं च मकारं पद्ममुद्रिका ।। ६८ ।।

शिकारं मुष्टिमुद्रा च वकारं योगमुद्रिका ।
यकारं लिङ्गमुद्रा च शिवमुद्रां नियोजयेत् ।। ६९ ।।

प्. १५)

यकारं लिङ्गसंयुक्तं वकारं नालमेव च ।
शिकारमूर्ध्वपद्मं तु मकारं कण्ठमेव च ।। ७० ।।

अधोपद्मं नकारं च अक्षरं लिङ्गमुच्यते ।
पूजया विपुलं राज्यं अग्निकार्येण संपदः ।। ७१ ।।

जपेन पापसंशुद्धिर्ध्यानमानन्दमुक्तिदम् ।
नकारं पापहरणं मकारं पापमोचनम् ।। ७२ ।।

प्. १६)

महादेवो समो देवो नास्ति कश्च जगत्त्रये ।
पञ्चाक्षरसमो मन्त्रो नास्ति नास्ति महामुने ।। ७३ ।।

पञ्चाक्षरं महामन्त्रं भस्मेति परमौषधम् ।
महादेवः परो बन्धुरिति शास्त्रस्य निश्चयः ।। ७४ ।।

आगमे -

मध्ये शिवस्ततश्शक्तिः ततो ह्यात्मेति विस्मृतः ।
तत्पूर्वो बन्धकः प्रोक्तस्तत्पूर्वे तन्निवारकः ।। ७५ ।।

अन्यत्र -

शिकारं शिवरूपं स्यात् वकारं शक्तिरुच्यते ।
यकारमात्मसंयुक्तं नकारं तु तिरोभवम् ।। ७६ ।।

मकारं मलरूपं स्यात् पञ्चाक्षरमिति स्मृतम् ।

प्. १७)

देविकालोत्तरे -

रोधनं जलमित्युक्तं आत्मशक्ति शिवात्मकम् ।। ७७ ।।

पञ्चाक्षरमिदं देवी रहस्यं न प्रकाशयेत् ।

उग्रिपञ्चाक्षरम् ।

भगवन्देवदेवेश सर्वज्ञ करुणालय ।। ७८ ।।

पञ्चाक्षररहस्यं हि श्रोतुमिच्छामि तत्त्वतः ।
पञ्चाक्षरं परं मन्त्रं रहस्यं मुक्तिदायकम् ।। ७९ ।।

कामार्त्थाय ससंभाय गोपनीयं प्रयत्नतः ।
नापुत्राय च दातव्यं नाशिष्याय कदाचन ।। ८० ।।

सप्तकोटिमहामन्त्रं चित्तव्याकुलकारणम् ।
पञ्चाक्षरमिदं देवी त्रिषु लोकेषु विश्रुतम् ।। ८१ ।।

प्. १८)

पुण्यं पवित्रं पापघ्नं पञ्चाक्षरमिदं जपेत् ।
यस्य स्मरणमात्रेण ब्रह्महत्या व्यपोहित ।। ८२ ।।

एवं पञ्चाक्षरं देवी शृउणुतं त महामनुम् ।
अतः परं प्रवक्ष्यामि पञ्चाक्षरविधिक्रमम् ।। ८३ ।।

ओं ।

नमश्शिवाय संकल्प्य व्याख्यानं नाम पञ्चकम् ।
नकारं च मकारं च शिकारं च तथैव च ।। ८४ ।।

वकारं च यकारं च इदं पञ्चाक्षरं विदुः ।
एतत् पञ्चाक्षरं देवी पञ्च देवाः प्रकीर्तिताः ।। ८५ ।।

पञ्चाक्षरं पवित्रं च पञ्चब्रह्ममयं तथा ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। ८६ ।।

प्. १९)

पञ्चब्रह्ममहादेवः पञ्चतत्त्वे व्यवस्थितः ।
ब्रह्मा? विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।। ८७ ।।

नकारं ब्रह्मणो रूपं मकारं विष्णुरूपकम् ।
शिकारं रुद्ररूपं तु वकारमीश्वरं तथा ।। ८८ ।।

यकारं सदाशिव ज्ञेयमित्येते अधिदैवताः ।
नकारं स्वर्णवर्णं तु मकारं कृष्णवर्णकम् ।। ८९ ।।

शिकारमग्निवर्णं तु वकारं श्यामवर्णकम् ।
यकारं स्फटिकाकारं वर्णभेदाः प्रकीर्तिताः ।। ९० ।।

नकारं सद्यवक्त्रं तु मकारं वामदेवकम् ।
शिकारं घोरसंयुक्तं वकारं पुरुषं स्मृतम् ।। ९१ ।।

प्. २०)

यकारं गगनं प्रोक्तं वक्त्रभेदाः प्रकीर्तिताः ।
ऋग्वेदं तु नकारं स्यात् यजुर्वेदं मकारकम् ।। ९२ ।।

शिकारं सामवेदं तु वकारं चाप्यथर्वणम् ।
इतिहासं यकारं च सर्ववेदादिवैभवम् ।। ९३ ।।

तस्मात् पञ्चाक्षरं मन्त्रं वाचकस्य सदा भवेत् ।
ओंकारपरमं देवमोंकारं परमं तथा ।। ९४ ।।

ओंकारादियकारान्तं मन्त्रमेतत् षडक्षरम् ।
नकारं शान्तिकं ज्ञेयं मकारं पौष्टिकं तथा ।। ९५ ।।

शिकारमभिचारं च वकारं वश्यमेव च ।
यकारं मुक्तिदं चैव एकमूर्तिक्रमेण तु ।। ९६ ।।

प्. २१)

यावत् सिद्धिर्यदासिद्धिर्नित्यमेव जपं तथा ।
पदे पदे जपं देवी यो दद्यात् स विचक्षणः ।। ९७ ।।

पञ्चाक्षरं परं चैतत् सर्वसिद्धिकरं भवेत् ।
एवं पञ्चाक्षरं ज्ञेयं मन्त्रं त्रैलोक्यदुर्लभम् ।। ९८ ।।

इति विद्यापुराणे पञ्चाक्षरपटलं समाप्तम्


उकारं च उमादेवी अकारं शिव ईरितम् ।
उभयोस्संपुटं चैव पीठं लिङ्गमिति स्मृतम् ।। १ ।।

चिदम्बररहस्ये -

नकारपादौ च मकारकुक्षिश्शिकारसस्यो मुखवायुमूर्ध्वा ।
क्रमेण पञ्चाक्षर दिव्यरूपं स्मरन्ति दं गच्छति जीवमुक्तिम् ।। २ ।।

प्. २२)

शिकारं मकुटं प्रोक्तं वकारं बाहुरुच्यते ।
यकारमभयं हस्तं नकारं चाग्निरूपकम् ।। ३ ।।

मकारं पादपद्मं यो अपस्मारं भवेत् सदा ।
स्थित्वा तदूर्ध्व आनन्दताण्डवं कुरुते शिवः ।। ४ ।।

ताण्डवेशस्य सततं श्रीवासि प्रणवं भवेत् ।
आनन्दताण्डवे कृत्यमात्मनः कुरुते शिवः ।। ५ ।।

सृष्टि स्याद्डमरुके स्थितिं तत् स्यादभयहस्तके ।
संहारं चाग्निरूपे स्यात्तिरोभावं स्थिराङ्घ्रिके ।। ६ ।।

अनुग्रहं चापराङ्घ्रौ आत्मनः कुरुते शिवः ।
विधूय मायां पापं च दग्ध्वं पा ज्ञाननाशनम् ।। ७ ।।

प्. २३)

कृत्वोद्धृत्य शिवज्ञानहस्तेनानन्द सागरे ।
स्थापितं परमात्मानं सन्ततं शिवताण्डवम् ।। ८ ।।

पञ्चाक्षरं परामध्ये पञ्चाक्षरमयं नटम् ।
सप्तकोटिमहारण्यं सप्तकोटिचराचरम् ।। ९ ।।

सप्तकोटिमहालिङ्गं तत् शिवं ताण्डवालयम् ।
ताण्डवालयमध्ये तु निष्कलं परदुर्लभम् ।। १० ।।

इदं रहस्यमपरं अप्रकाश्यमिवाचकम् ।
प्रकटयस्वेदं मज्ज्ञानं मद्भक्तानां परानने ।। ११ ।।

रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा ।
पादाङ्गुष्ठकनिष्ठान्तं पञ्चाक्षरेण पूरितम् ।। १२ ।।

प्. २४)

पाष्णोयं तु नकारेण गुल्फजं वै मकारकम् ।
जानु ऊरु शिकारं च वकारं गुह्यदेशकम् ।। १३ ।।

आधारं प्रणवं चैव तस्य मध्ये नकारकम् ।
यकारं तु कटिः प्रोक्तो रकारं पृष्ठभागकम् ।। १४ ।।

शिकारं नाभिरित्युक्तं मकारं कुक्षिदेशिकम् ।
वकारं हृदयं स्थानं यकारं स्तनदेशकम् ।। १५ ।।

नकारं च उरस्थानं शिकारं बाहुदेशकम् ।
मकारं कोपरं प्रोक्तं वकारं मणिबन्धनम् ।। १६ ।।

यकारं च तलारूढं अङ्गुष्ठादि पुरा क्रमात् ।
डमरुस्तु मकारं च वलयं प्रणवो भवेत् ।। १७ ।।

प्. २५)

तन्तुर्नकारमित्युक्तं शिकारं चर्म ईरितम् ।
वकारं तटिरित्याहुर्नादं च नाम मन्त्रकम् ।। १८ ।।

तथा चाभयहस्तं तु शृणुष्वैव महेश्वरी ।
तस्य हस्ते भुजङ्गस्तु सूक्ष्मपञ्चाक्षरं भवेत् ।। १९ ।।

वामहस्ताग्निरूपेण मम ज्योतिर्महेश्वर ।
तथाचापरहस्तेन सृष्टिस्थित्यन्तकारणम् ।। २० ।।

नकारं ग्रीवमित्युक्तं मकारं कण्ठदेशकम् ।
शिकारं हनुदेशं तु वकारं चास्यदेशकम् ।। २१ ।।

यकारं नासिदेशं तु नेत्रत्रयं ततश्शृणु ।
नकारं सर्वनेत्रं तु मकारं वामनेत्रकम् ।। २२ ।।

प्. २६)

ऊर्ध्वनेत्रं शिकारं तु वकारं श्रवणेन तु ।
भ्रूमध्ये प्रणवं चैव मध्ये हंसं सुदीप्तकम् ।। २३ ।।

यकारं शिरसि न्यस्य अङ्गप्रत्यङ्गके तथा ।
द्वादशाक्षरमन्त्रं तु जटाचूडमितीरितम् ।। २४ ।।

मायाबीजं जलं चैव धूर्द्धरादिस्तथैव च ।
सर्वाक्षरमिश्रकं स्यात् इन्दुखण्डमिति स्मृतम् ।। २५ ।।

पञ्चाक्षरेण देहस्तु देही वै नाममन्त्रतः ।
आनन्दनृत्तममलं नृत्यन्तं निष्कलं शिवम् ।। २६ ।।

पञ्चाक्षरमिदं यन्त्रं बिजानीयाद् गुरोर्मुखात् ।
नापुत्राय प्रदातव्यं नाशिष्याय तथैव च ।। २७ ।।

प्. २७)

पुत्राय पुत्रतुल्याय धार्मिकाय दृढाय च ।
सभायन्त्रमिदं प्रोक्तं दक्षिणाराधनं शृणु ।। २८ ।।

।। नृत्तपञ्चाक्षरम् समाप्तम् ।।


श्रीः

चन्द्रः -

देवदेव महेशान सुरनागेन्द्र भूषणम् ।
स्नपनं तु समाख्यातमुत्सवं वद शंकर ।। १ ।।

ईश्वर उवाच -

अथ वक्ष्ये कलानाथ संयोगादुत्सवं परम् ।
उत्सवं सप्तधा ज्ञेयं शृणुष्वैकाग्रमानसः ।। २ ।।

शाक्तं चार्वं ब्राह्मं मौक्त शाम्भवमाणवम् ।
अर्कजत्विति विख्यातं सन्नवदं निशाकर ।। ३ ।।

प्. २८)

नवाहं शाक्तमित्युक्तं सप्ताहं चार्षकं भवेत् ।
पञ्चाहं ब्राह्मकं प्रोक्तं त्रियहं मौक्तिमुच्यते ।। ४ ।।

एकाहं शान्तिदं विद्यात् ब्राह्मणं भ्रमणं भवेत् ।
अर्कजन्वर्कवारे तु सप्तधा चोत्सवात्त्विह ।। ५ ।।

शाक्ते च तथा ब्राह्मे च ध्वजमारोपयेत् क्रमात् ।
म न्त श्यामम षष्ठे पाप्यर्क तेज द्ध्वजोद्धृति ।। ६ ।।

तद्दिनं त्रिगुणं द्वे च द्विगुणाद्ये च नाद्यके ।
ध्वजमारोपयेत् पूर्वं उत्तमं मध्यमाधमम् ।। ७ ।।

वक्ष्ये तीर्थदिनात् सम्यक् शृणुष्व शरालाञ्छन ।
चित्रा विशाखामूलं च उत्तराषाढमेव च ।। ८ ।।

प्. २९)

श्रविष्ठा श्रवणाश्विन्यः कृत्तिकार्द्रा पुनर्वसु ।
मखा चोत्तरनक्षत्रं मेषादि द्वादशेषु च ।। ९ ।।

सर्वमासेषु कर्तव्यं आर्द्राः पूर्वान्तमुत्सवम् ।
कृष्णाष्टम्यान्तक ज्येष्ठे माखे षष्ठ्यन्तकं भवेत् ।। १० ।।

अमावास्यां पौर्णमास्याम(पा)न्यत्पुण्यदिनेऽपि वा ।
राज्ञां जन्मलये युद्धे यजमानस्य जन्मनि ।। ११ ।।

प्रतिष्ठादिवसे तीर्थं प्रकल्प्यं भुक्तिमुक्तिदम् ।
धर्मार्थं कामदं श्रेष्ठं कर्मजं मासमेव हि ।। १२ ।।

अथवा चन्द्रमासं च सृष्टिदं त्विति कथ्यते ।
यस्मिन् मासे तु कर्तव्यमुत्सवं शशालाञ्छन ।। १३ ।।

प्. ३०)

तस्मिन् मासेषु कर्तव्यं तदशेष विधानतः ।
ध्वजाङ्कुरादि तीर्थान्तं तस्मिन् मासे परं स्मृतम् ।। १४ ।।

ध्वजादि तीर्थपर्यन्तं तस्मिन् मासे तु मध्यमम् ।
पूर्वमासे ध्वजोत्थानं तस्मिन् चैवोत्सवं तु यत् ।। १५ ।।

अधमन्त्विति विख्यातं विधिमन्यं प्रचक्ष्महे ।
पूर्वमासे प्रतिष्ठाप्य यागं तस्मिन् सुतीर्थकम् ।। १६ ।।

कृतं तेषामभावात्तु सुखदं परमं मतम् ।
एकवास्तुक देवानां उत्सवानां तु संकरम् ।। १७ ।।

राष्ट्रक्षोभाय वि * * तद्विहीन वदामि ते ।
यद्वास्तु कलितं चन्द्र तदेव द्विविधं भवेत् ।। १८ ।।

प्. ३१)

प्रकीर्णं क्षुद्रमाख्यातं उत्सवं भावकं शृणु ।
प्राक पादारकासीमात् परितो वैकदेशतः ।। १९ ।।

प्राकारस्य बहिर्यस्य वास्तोष्यं तत् प्रकीर्णकम् ।
प्राकारान्तं तथा ब्राह्म्यं कल्पित क्षुद्र वास्तुकम् ।। २० ।।

तत्सीमान्तः पदं ब्राह्ममैन्द्राद्यैश्शान्तकं पदम् ।
एधस्मात्तस्मात्त्वैस्मात्वैक वास्तुकं * * * * ।। २१ ।।

तत्र पूजितं देवानां बलिदानं प्रदक्षिणम् ।
तस्मिन्नैव प्रकर्तव्यं सर्वसिद्धिमभीप्सिता ।। २२ ।।

राजधानीर्विनाचास्मिन्वास्तौ यत्र शिवोत्सवम् ।
यः कुर्यादन्य देवानां दक्षिणं तीर्थदानतः ।। २३ ।।

प्. ३२)

तीर्थेऽप्यनोत्सवे काले सतीर्थं शैवमुत्सवम् ।
सूक्ष्मासि तन्तु सुश्लक्ष्णं मनोरम्यं पटन्नव ।। २४ ।।

आयामं पञ्चधा कृत्वा विस्तारं चैक भागतः ।
तारेण तु समं पूर्वं तदूर्ध्वं शिखरं भवेत् ।। २५ ।।

द्विपुच्छत्रिपुकायुक्तं शिखरे किङ्किणीयुतम् ।
तन्मध्ये वृषभं लाञ्छ्यं सितरक्तादिवर्णकैः ।। २६ ।।

स्थानकं शायिकं वाऽथ कल्प्य पद्मासनोपरि ।
छत्रं तु चामरौ कुम्भं * * * * लिखेत् क्रमात् ।। २७ ।।

ध्वजस्य लक्षणं प्रोक्तं ध्वजदण्डं शृणु क्रमात् ।
चन्दनं चम्पकं सालं पनसं देवदारुकम् ।। २८ ।।

प्. ३३)

वकुलं मध्यकं वाऽपि * * * * * आसनम् ।
बिल्वं पुन्नागखदिरक्रमुकान्नालिकेरकम् ।। २९ ।।

स्णैवं? तु समाख्यातं प्रासादात् त्रिगुणं परम् ।
द्विगुणं वा समं वाऽथ पादहीनमथार्धकम् ।। ३० ।।

वृषान्तं गोपुरान्तं वा यथोक्तं तु यथोदितम् ।
कवाटार्धमथो हित्वा शेषमुत्सेधमुच्यते ।। ३१ ।।

पञ्चतालं चतुस्तालं त्रितालं नाहमुच्यते ।
दण्डोत्सेधस्य पाञ्चांशं द्विभागेनैव संदृढम् ।। ३२ ।।

लेपनेन च संयुक्तं तालं नाहं तु वैष्णवम् ।
यष्टिं ग्राह्य तदर्धे तु त्रितालस्य तु मध्यमे ।। ३३ ।।

प्. ३४)

आयसं वलयं योग्यं दण्डाग्रे संप्रयोजयेत् ।
त्रितालाधिक्यमग्रे तु दापयेद्दण्डिकात्रयम् ।। ३४ ।।

बन्धयेन्मूलमध्याग्रदण्डाग्रेण दृढं शुभम् ।
मध्यमाङ्गुलिनाहं तु रज्जुं कृत्वा सुतन्तुना ।। ३५ ।।

दण्डस्य द्विगुणं दीर्घं वलये संप्रयोजयेत् ।
यष्ट्यग्रे कूर्चसंयुक्तं दर्भमालासमावृतः ।। ३६ ।।

पीठगोपुरयोर्मध्ये पुरतो वृषभस्य वा ।
ध्वजोत्थान दिनात् पूर्वे स्थापयेत् ध्वजदण्डकम् ।। ३७ ।।

विश्वतालं पञ्चतालं चतुस्तालं वटं खनेत् ।
निष्कं त्रिपादमर्धं वा पादहेमार्धमेव वा ।। ३८ ।।

प्. ३५)

कूर्मं वा वृषभं वाऽथ हेमाब्जं वा वटे क्षिपेत् ।
हृदयेन तु मन्त्रेण स्थापयेदचलं दृढम् ।। ३९ ।।

पीठं प्रकल्पयेद्धीमान् षट्पञ्चयुगतालकैः ।
विस्तार सममुत्सेधं पादहीनमथाऽपि वा ।। ४० ।।

मेखलात्रिद्विसंयुक्तमेक मेखलयाऽथवा ।
पङ्कजं कल्पयेदूर्ध्वे कर्णिकातालसंयुतम् ।। ४१ ।।

आरोहणदिनात् पूर्वे रात्रावधिवसेद्ध्वजम् ।
तस्मिन् दिनेऽथवा कार्यं प्रातःकालेऽधिवासनम् ।। ४२ ।।

प्रासादपुरतस्सम्यक् मण्डिते मण्टपे शुभे ।
गोमयालेपिते शुभ्रे प्रोक्षिते तु शिवाम्भसा ।। ४३ ।।

प्. ३६)

स्थण्डिलं तत्र कर्तव्यं षड्देशे तु विचक्षणः ।
पद्मं प्रकल्पयेद्धीमानासनं कल्पयेत् क्रमात् ।। ४४ ।।

दर्भैः प्रस्तरणं कुर्यात् प्रत्येकं पूजयेत् शनैः ।
पश्चिमे स्थण्डिले स्थाप्य चन्द्रशेखरमादरात् ।। ४५ ।।

अन्नलिङ्गं तदग्रे तु शूलं तस्याग्रतो यजेत् ।
वृषकुम्भं तदग्रे तु ध्वजं तस्याग्रतस्तथा ।। ४६ ।।

भेरीं संस्थाप्य तत्पूर्वे क्रमेणैव समर्चयेत् ।
प्रत्येकं नववस्त्रेण * * * * दिभिर्यजेत् ।। ४७ ।।

हविं क्षिपेत्ततो दद्यात्ताम्बूलं च प्रदापयेत् ।
नयने मोक्षणं कुर्यात् ध्वजोक्षस्य विशेषतः ।। ४८ ।।

प्. ३७)

कौतुकं बन्धयेत् तत्र दक्षिणे तु विषाणके ।
सुकुमं? तन्तुना वेष्ट्य चाढकद्वयपूरितम् ।। ४९ ।।

गन्धापपूर्णवस्त्राढ्य हेम क्षि * * * * तत् ।
परितः कलशानष्टौ लोकपालाधिदैवतान् ।। ५० ।।

विधानकूर्चसंयुक्तान् प्रत्येकं वस्त्रवेष्टितान् ।
स्वमूलेनैव संपूर्तिस्तदग्निं कल्पयेत्ततः ।। ५१ ।।

कुण्डे वा स्थण्डिले वाऽथ होमयेत्तु विधानतः ।
अन्यथानादिकं कृत्वा पञ्चसंस्कारसंस्कृताः ।। ५२ ।।

उद्धानाद्य? समित्भिस्तु * * * * सर्षपैः ।
वृषमूलाङ्गकैर्युक्तं जुहुयात्तु शताहुतिः ।। ५३ ।।

प्. ३८)

वृषगायत्रिमन्त्रेण पृष्ठाचाक्षर सुदर्भया ।
पञ्चभिर्ब्रह्मभिर्जुहुयात् पूर्ण * रिं त साधयेत् ।। ५४ ।।

मूललिङ्गादिबेरांश्च विशेषात् सहिभिर्यजेत् ।
रात्रावैवं प्रकर्तव्यं प्रभाते * * * * * ।। ५५ ।।

धामप्रदक्षिणं कृत्वा सर्वालंकारसंयुतम् ।
ध्वजारोहण पूर्वश्चेत् ध्वजेनैवाह्नि देशिकाः ।। ५६ ।।

कृत्वा प्रदक्षिणा रौप्या रात्रौ * * * * चरेत् ।
यन्त्रेण रोहयेत् केतुं वृषगायत्रिमन्त्रतः ।। ५७ ।।

बद्ध्वा तु रोहाणं पश्चात् क्रमाद्युक्त्या तु रोहयेत् ।
साधितैः कलशैस्सम्यक् स्थापये * * * * लके ।। ५६ ।।

प्. ३९)

मुद्गान्नं पायसं गौलं शुद्धान्नं कृसरं ददेत् ।
ततो रातौ च कृत्वान्न लिङ्गपूजां समारभेत् ।। ५९ ।।

गन्धपुष्पादिभिर्देवान् हव्यान्तं पूजयेत् क्रमात् ।
भेरीं तथार्चयेत् पश्चादाचार्यं पूजयेत्ततः ।। ६० ।।

वस्त्राभरणगन्धाद्यैः पुष्पमालावभूषणैः ।
प्रहारेण त्रिधाचार्यो भेरीं गायत्रि विद्यया ।। ६१ ।।

संताडयेत्तु सर्वेषां लोकानां तु प्रसिद्धयेत् ।
पादकं पूजयेत् पश्चात् वाद्यतालवितालकान् ।। ६२ ।।

वृषाभपरिवारांस्तु बलिं दद्यात् विशेषतः ।
ग्रामप्रदक्षिणं कुर्यात् अस्त्रदेवादिसंयुतम् ।। ६३ ।।

प्. ४०)

इन्द्रादिलोकपालांश्च त्रय स्त्रिंशश्च देवतान् ।
आहूयाभ्यर्चयत्तेन बलिं दद्यात् स्वमन्त्रतः ।। ६४ ।।

आचार्यतीर्थ दीपाश्च आचार्यस्तुष्टमानसः ।
ध्वजारोहण पूर्वं तु ख्यातं सत्यमया तवा ।। ६५ ।।

भेरीं तु ताडयेत् रात्रौ ध्वजेनैव प्रदक्षिणम् ।
कृत्वा तु रोपयेत् केतुं भेरीताडन पूर्वकम् ।। ६६ ।।

उत्सवादिदिने सम्यक् आदिशैवोत्तमो गुरुः ।
अङ्कुरार्पणपूर्वश्च भेरीं संताडयेत्त्ततः ।। ६७ ।।

ध्वजमारोपयेत् पश्चात् अङ्कुरार्पणपूर्वके ।
पूर्वाह्ने द्विज ऋद्धि स्यात् रात्रौ शूद्रविवर्धनम् ।। ६८ ।।

प्. ४१)

सर्वनाहं तु रात्रौ चेद्ध्वजोत्थानं निशाकर ।
विशेषात् पूजये नित्य ध्वजं चैव त्रिशूलकम् ।। ६९ ।।

रथानीन्युत्सवाङ्गानि तत्पूर्वे कारयेत् क्रमात् ।
रथान्नाङ्गांश्च शिबिकान् सर्वयन्त्रविशेषकान् ।। ७० ।।

शकटान् वाहना यानान् गजाश्वादिकान् बहून् ।
छत्र पिञ्छविशेषाणि चामरव्यञ्जनानि च ।। ७१ ।।

पताकांश्च वितानानि ध्वजानि विविधानि च ।
वस्त्रान्या भरणाश्चैव सर्वपात्र विशेषकान् ।। ७२ ।।

सर्वं संभाव्यमतिमान्यथा शक्ति समाचरेत् ।
उपानात् स्थूपिपर्यन्तं विमानं भूषयेत् क्रमात् ।। ७३ ।।

प्. ४२)

प्राकारमण्टपाश्चैव गोपुरादीनि मण्टपेत् ।
यत्रेच्चादेशतः कुर्यात् परिवेषे यागमण्टपम् ।। ७४ ।।

परितो मण्टपस्याथ प्रासादं परतोऽपि च ।
प्रपां कृत्वादि भद्रांश्च वितानध्वजशोभितम् ।। ७५ ।।

विचित्रवस्त्र संछिन्नगात्रामौक्तिकमालकैः ।
पुष्पस्रक् पट्टदेवाङ्गैः घण्टाचामरपल्लवैः ।। ७६ ।।

नालिकेरक्रमुकाणां फलपुष्प प्रलम्बिताम् ।
सर्वालंकारसंयुक्तमेवं कृत्वा विशेषतः ।। ७७ ।।

द्वाराणि भूषयेत् सम्यक् धूपदीपैश्च पुष्पकैः ।
तोरणध्वजवस्त्रैश्च कदलीक्रमुकैरपि ।। ७८ ।।

प्. ४३)

पल्लवैर्दर्भमूलाभिः पूर्णकुम्भाङ्कुरैरपि ।
एवं द्वाराणि संभूष्य ग्रामदेवालयं स्तथा ।। ७९ ।।

संभूष्य सिद्धिपूर्वेण ग्रामवीध्युपवीधिकान् ।
निम्नोन्नत समं कृत्वा संशोध्य जलसेचनम् ।। ८० ।।

प्रलिप्य पिष्टचूर्णैश्च चित्रयित्वा विशेषतः ।
शोभितं स्यात् पताकैश्च ध्वजैराकाशकेतुभिः ।। ८१ ।।

कदली क्रमुकैर्द्वारकुम्भैर्दीपैश्च धूपकैः ।
गन्धमाल्याङ्कुरैश्छत्रं कुम्भैर्वस्त्रैश्च छत्रितः ।। ८२ ।।

भवनं प्रति संभूष्य कारयेद्यागमण्टपम् ।
ऐशान्यां वह्निदेशे वा षोडशस्तम्भ संयुतम् ।। ८३ ।।

प्. ४४)

नवसप्तवञ्चकरैर्वरमध्यं कन्यसैः ।
दिग्वारतोरणैर्युक्तमवितानध्वज भूषितम् ।। ८४ ।।

स्तम्भे वेष्टनसंयुक्तं दर्भमालाङ्कुरादिभिः ।
एकाशीति पदेष्वन्तर्वेदि स्यान्नवभिः पदैः ।। ८५ ।।

रत्नमात्रसमुत्सेधं दर्पणोदरसन्निभम् ।
पूर्वोक्त विधिना कुण्डं कुर्यात्तत्र विशेषतः ।। ८६ ।।

समं सर्वत्र कृत्वा तु लिप्य गोमयवारिणा ।
पञ्चचूर्णैरलंकृत्य पल्लवादि विशोभितम् ।। ८७ ।।

धूपदीपाक्षतैः पुष्पैः प्रच्छन्नपटलान्वितः ।
कृत्वैवं यागशालां तु वनयात्रार्थमण्टपम् ।। ८८ ।।

प्. ४५)

किंचिद्दूरे समीपे वा कुर्याद्देशे तु वाञ्छिते ।
छन्नैश्चम्पकाशोकसालचम्पक बिल्वकैः ।। ८९ ।।

लवङ्गकर्णिकारौप्यारश्व धाममयुककैः ।
पनसैर्नालिकेरैश्च कदलीक्रमुकाम्रकैः ।। ९० ।।

पुन्नागकुरवैः * * * * * * न पाटलैः ।
केतकीमातुलङ्गैश्च लिकुचैः पिप्पलैरपि ।। ९१ ।।

औदुम्बरवटप्लक्षपलाशैः पत्रपुष्पकैः ।
त्रिन्त्रणी * * * * * निम्बदारुकपित्थकैः ।। ९२ ।।

एवमादितरूणां तु भूषितैः पुष्पवारिभिः ।
मण्टपं मध्यमे कुर्यात् जलक्रीडाय पार्श्वतः ।। ९३ ।।

प्. ४६)

  • * * * * तदादीन् उत्पलाम्भोज शोभितान् ।

बहिः प्राकारसंयुक्तं द्वारगोपुर शोभिताम् ।। ९४ ।।

एवं कृत्वा विशेषेण सर्वाभरणसंयुतम् ।
एवमन्या बहून् सर्वान् उत्सवाङ्गान्विशेषतः ।। ९५ ।।

स्थित्वा स्मृत्वा तु कर्तव्यं उत्सवं पूर्वतज्जनैः ।
तीर्थसुदिनपूर्वे तु दशमे दिवसे निशि ।। ९६ ।।

यागं प्रतिष्ठापयेद्देवन्नावहस्य विधीयते ।
धातुबाणगुणैकाहन्ना * * * * * क्षिषु ।। ९७ ।।

पुरतो रात्रिषु स्थाप्य यागां तारकनायकः ।
यागमण्टपमध्ये तु वेदिकोपरि देशिकः ।। ९८ ।।

प्. ४७)

स्थण्डिलं का * * मध्ये पञ्चभाग विभागिके ।
अष्टद्रोणे तु शालीनामूर्ध्वे तस्यार्धतण्डुलैः ।। ९९ ।।

तस्यार्धैस्तन्तु ना * * * * * * * * न्धयेत् ।
हृन्मन्त्रं तु समुच्चार्य मध्यपत्रे तु बन्धयेत् ।। १०० ।।

स्थण्डिलं प्रस्तरेद्दर्भं द्रोणतोय प्रपूरितान् ।
सूत्रेणावेद्य कुम्भांस्तु त्रिवित् सूत्रविचित्रितान् ।। १०१ ।।

आसनं तु ततः कल्प्य कर्णिकादक्षिणार्धके ।
विन्यस्य तस्य वामाद्यैर्वर्धनीं चापि मूलतः ।। १०२ ।।

गन्धादिभिस्समभ्यर्च्य नवरत्नानि विन्यसेत् ।
रत्नालाभे तु हेमाब्जं वर्धन्यां हेममुत्पलम् ।। १०३ ।।

प्. ४८)

विधानकूर्चसंयुक्तं नववस्त्रेण वेष्ट्य च ।
गन्धपुष्पादिना पूज्य हविर्मूलेन दापयेत् ।। १०४ ।।

परितोऽष्टदले स्विष्टविद्येश्वरघटो न्यसेत् ।
गन्धाम्बुपूरितान् सर्वान् अर्चयेत् स्वस्वमन्त्रतः ।। १०५ ।।

तेषु वज्रादिशूलान्तहैमास्त्राणि च निक्षिपेत् ।
वस्त्रैः प्रत्येकमाच्छाद्य कूर्चचक्रकसंयुतान् ।। १०६ ।।

नवसप्तपञ्चवह्निस्त्रिवह्नि स्वैकमेव वा ।
वित्तानुसारतः कश्चित् रिच्छाया परिकल्पयेत् ।। १०७ ।।

दिग्विदिक्षु नवाग्रे तु पूर्वे गानं तदा भवेत् ।
पूर्वादिदक्षिणे चाप्ये सौम्ये चैशानगोचरे ।। १०८ ।।

प्. ४९)

ईशानचक्रयोर्मध्ये सप्ताह्नौ परिकल्पयेत् ।
चतुर्दिक्षु प्रदानं च पञ्चाग्न परिकल्पयेत् ।। १०९ ।।

इन्द्रो याम्ये च त्रिके चैकानलाग्रतः * * * ।
अग्न्याधानादिकं कुर्यात् पूर्वोक्तेन विधानतः ।। ११० ।।

समिदाज्यान्नशालिस्तु * वगोधूमवैष्णवम् ।
नीवारजाल सन्ताश्च माषमुत्गकुलस्थकान् ।। १११ ।।

निष्पापं तरलं चैव राजमाषाढकं तिलम् ।
प्रियङ्गुसर्षपं चैव मधुदध्ना पयोयुतम् ।। ११२ ।।

फलापूपं तु ताम्बूलं षड्विंशद्रव्यमुच्यते ।
उत्तमं त्विति विख्यातं कलंस्थं तं तु मध्यमम् ।। ११३ ।।

प्. ५०)

वैष्णवान्तं कनिष्ठं स्यात् त्रिविधं परिकीर्तितम् ।
समिदाज्यौ तु मूलेन हृदयेन च ग्रस्तथा ।। ११४ ।।

शिरोमन्त्रेण शाल्यादीन् शिखया लाजसक्तुकौ ।
कवचेनादिमाषादीन् नेत्रेण तु तिलं हुनेत् ।। ११५ ।।

प्रियङ्गुश्चास्त्रमन्त्रेण ईशानेन तु सर्षपम् ।
मधु वक्त्रेण होतव्यं दधि घोरेण होमयेत् ।। ११६ ।।

क्षीरं वामे तु होतव्यं फलं सद्येन होमयेत् ।
दशाक्षरेण पूर्वं तु गायत्री फलवक्त्रकम् ।। ११७ ।।

द्रव्यान्ते व्याहृति हुत्वा स्रवपूर्णेन सर्पिषा ।
अग्निकार्याविधानोक्तमादौ कुर्याद्विशेषतः ।। ११८ ।।

प्. ५१)

पूर्णाहुतिं च मूलेन परिषेचनमारभेत् ।
साये स्यादुत्सवारम्भे प्रातस्वापभृतोर्भवेत् ।। ११९ ।।

उदयाद्मग्मयामं तु प्रातः कालमिति स्मृतम् ।
अस्तमानस्य पूर्वे तु वाममेकं तथाचरेत् ।। १२० ।।

यामं सायमिति प्रोक्तं उत्सवस्य निशाकर ।
गोमान्ते तु बलिं दद्याद्दिनदेव प्रियापहम् ।। १२१ ।।

होमाद्यं होमम * * होमान्तं बलिदानकम् ।
होमाद्यं शान्तिकं प्रोक्तं होममध्यं तु पौष्टिकम् ।। १२२ ।।

होमान्ते पूजयाम्यर्चबलिकालफलं त्विदम् ।
अन्नेन कारयेल्लिङ्गमुत्तमं बलिपात्रके ।। १२३ ।।

प्. ५२)

पाशुपदं समावाह्य यागेशानन्नलिङ्गके ।
संपूज्यज्यास्त्रं च मुकुलं पद्ममुद्रां च दर्शयेत् ।। १२४ ।।

बलिदानं प्रकर्तव्यं शङ्ख भेर्यादिनिस्वनैः ।
त्रिशूलमन्नलिङ्गे वा न वेदास्त्रं समावृतम् ।। १२५ ।।

वृषादिपरिवाराणां तद्दिने द्रव्यकैरपि ।
पूर्वं बलि प्रदातव्यं स्वैस्वैर्मन्त्रर्विशेषतः।। १२६ ।।

रङ्गस्योपरि संस्थाप्य त्रिशूलादीन्विशेषतः ।
छत्र प * ध्वजाद्यैश्च स्तोत्रमङ्गलवाचकैः ।। १२७ ।।

धूपदीपसमायुक्तं बलितालसमायुतम् ।
परिचारकसंयुक्तं सर्वभक्तजनावृतम् ।। १२८ ।।

प्. ५३)

सोष्णीषस्सोत्तरीयं च सर्वाभरणभूषितम् ।
गन्धलिप्तस्सुपुष्पाढ्यस्त्वाचार्यस्सकलीकृतः ।। १२९ ।।

रङ्गोर्ध्वे मध्यपीठे तु बलिं दद्यात् विशेषतः ।
आचार्यश्शिष्यो वा दद्यादनुज्ञातस्तु तेन वै ।। १३० ।।

रङ्गभावे च हित्वा तु लिङ्गं गच्छेत् प्रदक्षिणम् ।
ब्रह्माद्यैशान्तमिन्द्राद्यब्रह्मान्तं वा बलिं क्षिपेत् ।। १३१ ।।

अथवा तु बलिं दद्यात् ग्रामवास्त्वनुकूलतः ।
पश्चिमद्वारहर्म्ये तु नित्यादित्रितयेष्वपि ।। १३२ ।।

वरुणादिनिमित्यन्तं लोकबालाबलिं क्षिपेत् ।
नवस्थानेषु संपूज्य यन्त्रपीठे दिनाधिपान् ।। १३३ ।।

प्. ५४)

स्वैर्मन्त्रैरुच्य तेषां तु तत्तद्द्रव्यैर्बलिं दहेत् ।
नवाहेष्टादश बलिस्सप्ताहे तु चतुर्दश ।। १३४ ।।

पञ्चाहं त्र्यह एकादश षड्द्विबलिस्तथा ।
विघ्नेशभूत गन्धर्वा सुरेशमुनि माधवाः ।। १३५ ।।

असुराश्च शिवाह्येते प्रोक्ता नवदिनाधिपाः ।
भूतेन्द्र विष्णुपूर्वास्स्युः सुर षट् ब्राह्ममूर्तिकम् ।। १३६ ।।

एकाहं शैवमित्येव मुक्ता नव सदेवताः ।
नन्द्यावर्तिं च शुद्धान्नं लड्डुकामोदकं घृतम् ।। १३७ ।।

विघ्नेश्वरबलिः प्रोक्तं रक्तपद्मं च पायसम् ।
रम्भाफलगुलाज्यानि बलिस्स्यात् ब्राह्मणः प्रियः ।। १३८ ।।

प्. ५५)

जयन्ती कृसरान्नं च नालिकेरं घृतान्वितम् ।
भूतानां तु बलिः प्रोक्तं * * * कुसुमैर्युतम् ।। १३९ ।।

हरिद्रान्नरसकूश्माण्डाज्यं गन्धव्यसुप्रियम् ।
जातिपुष्पं गुलान्नं च पनसाम्रफलं स्मृतम् ।। १४० ।।

इन्द्रस्य बलिरित्युक्तः लक्ष्मीपुष्पं तु दूर्वया ।
वे * न्नं दधिसंयुक्तं मुद्गमाषघृतान्वितम् ।। १४१ ।।

पद्मकन्द समायुक्तं ऋषीणां बलिरुच्यते ।
तुलसी च गुलान्नं च घृतं च बृहतीफलम् ।। १४२ ।।

मालतीकरवीरं च केतकीपुष्पसंयुतम् ।
कृसरं चैव जाला चा पूपं नालिकेरकम् ।। १४३ ।।

प्. ५६)

मधुना गुलसंयुक्तं असुराणां बलिं क्षिपेत् ।
आरग्वधं च शुद्धान्नं निष्पापं पनसाज्यकम् ।। १४४ ।।

शिवप्रियमिदं प्रोक्तं बलिद्रव्यं प्रकीर्तितम् ।
पुष्पालाभे यथालाभं पुष्पं ग्राह्य बलिं ददेत् ।। १४५ ।।

मध्य * * * द्धान्नम सर्वेषां वापि दापयेत् ।
द्रोणमर्धं तदर्धं वा बल्यर्धं तण्डुलं भवेत् ।। १४६ ।।

बलिं दद्यात्तु सर्वेषां कुक्कुटाण्डप्रमाणतः ।

  • * * * * * पीठे प्रोक्तं तत् बलिलक्षणम् ।। १४७ ।।


बलिं क्षिप्य महापीठे यागस्थानं प्रवेशयेत् ।
पादप्रक्षालनं कृत्वा प्रविश्याभ्यन्तरं बुधा ।। १४८ ।।

प्. ५७)

यष्ट्वान्नं * * * * * * र्वस्थाने विचक्षणः ।
पूषा पर्युषितं पुष्पं चण्डेशाय निवेदयेत् ।। १४९ ।।

बलिपीठे त्वन्नलिङ्गे तदन्ते तु विसर्जयेत् ।
बलेरनुगतो * * * * न्तो वा प्रदक्षिणम् ।। १५० ।।

अथवा स्याद्दिने भक्त्या गणेशं संप्रपूज्य च ।
हविर्निवेद्य भस्मानि दत्त्वालंकृत्य भूषणैः ।। १५१ ।।

ग्रामप्रदक्षिणं कुर्यात् सर्वविघ्नप्रशान्तये ।

  • * प्रतिष्ठा दिवस स्यापरे दिवसे बुधः ।। १५२ ।।


अङ्कुरानर्पयेत् सम्यक् यथा विधि विशेषतः ।
साये चास्त्रसमायुक्तं भक्तचण्डेश संयुतम् ।। १५३ ।।

प्. ५८)

वितानच्छत्रसंयुक्तं चामरैरङ्कुरैर्युतम् ।
नवाम्बर सृजोपेतं अन्येनापि च संयुतम् ।। १५४ ।।

तटाका रामवल्मीके नद्यां वाऽपि समुद्रके ।
शुद्धदेशं व्रजेद्विद्वान् भूतलं प्रोक्ष्य चास्त्रतः ।। १५५ ।।

पुण्याहं वाचयित्वा तु भूदेवीं सम्यगर्चयेत् ।
मूलमन्त्रेण तं खात्वा पात्रे ग्राह्य मृदं पुनः ।। १५६ ।।

शिवद्विजेन संधार्यं गणिकोत्तमथाऽपि च ।
चातुर्वर्णोद्भवैरन्यैर्भक्तैर्वापि च यान् पुनः ।। १५७ ।।

अङ्कुरानर्पयेद्रात्रौ विधिना देशिकोत्तमः ।
ध्वजारोहणपूर्वे च भेरीताडनपूर्वके ।। १५८ ।।

प्. ५९)

एवमेव प्रकर्तव्यमङ्कुरार्पणपूर्वके ।
पूर्वोदितविधानेन कारयेन्मन्त्रवित्तमः ।। १५९ ।।

हैमं वा क्षौमकार्पाससूत्रं वा पात्रतण्डुले ।
एकविंशतिबेरांस्तु सुखासनपुरस्कृतान् ।। १६० ।।

कौतुकं बन्धयेद्रात्रौ यात्रार्थं गुरुसत्तमः ।
पद्मं लिख्य न्यसेद् बिम्बद्वादशाङ्गुलदैर्घ्यकम् ।। १६१ ।।

कलात्रयात्मकं सूत्रं त्रिगुणं पद्ममध्यमे ।
हृदा गन्धादिभिर्यष्ट्वा स्थाप्य शिष्यशिरोपरि ।। १६२ ।।

धाम प्रदक्षिणीकृत्य धामं वै सर्वमङ्गलैः ।
प्रविश्याभ्यन्तरं पश्चात् पुण्याहं स्वस्ति वाचयेत् ।। १६३ ।।

प्. ६०)

पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम् ।
दीपं ताम्बूलकं दत्त्वा पद्ममुद्रां प्रदर्शयेत् ।। १६४ ।।

अस्यावसानकात् शम्भो सदा सन्निहितो भव ।
एवं ज्ञाप्य हृदा बद्ध्वा प्रकोष्ठे दक्षिणे बुधः ।। १६५ ।।

सर्वालंकारसंयुक्तान् पूजितानुपचारकैः ।
रथमारोप्य वारम्भे शिबिकायां च भक्तितः ।। १६६ ।।

शस्त्रपाणिर्भटाश्चाग्रे हयारूढो व्रजेदनु ।
गजौघास्त्वानुगास्तेषां ध्वजसङ्घा व्रजेदनु ।। १६७ ।।

वाजियन्त्रा हस्तियन्त्रास्सिंहोक्षाश्च मृगाश्वकाः ।
डोलादिव ध्वजोपेता तोरणानुपुरान्विताः ।। १६८ ।।

प्. ६१)

गेयपाठ्यसुनृत्ताढ्या मण्टपाशैवमालिकाः ।
वाजिवक्त्रं समारभ्य मालिकायन्त्रिकां क्रमात् ।। १६९ ।।

ध्वजानामनुगास्त्वेते पूर्वोक्तेन क्रमेण तु ।
एतेऽलंकारसंयुक्ता गणिकाभिस्समायुताः ।। १७० ।।

सुखासनादिबेरांस्तु तदन्ते क्रमशो व्रजेत् ।
सिखासनं च कल्याणं उमया सहितं तथा ।। १७१ ।।

वृषेशं त्रिपुरघ्नं च नृत्तकं चन्द्रशेखरः ।
अर्धनारीं च विष्णुं च भिक्षाटनं च कालहम् ।। १७२ ।।

कौमारीं लिङ्गमध्यस्थं उमामहेश्वरं तथा ।
चण्डेश्वरं प्रसादं च दक्षिणमूर्तिमेव च ।। १७३ ।।

प्. ६२)

गजारिं चैव कङ्कालमर्जुन प्रदमेव च ।
गङ्गाधरमेकपादमेकविंशति * क्रमात् ।। १७४ ।।

सहत्भिः पूज्य संभूष्य क्रमेणैव नयेद् बुधः ।
एकद्वयं त्रयं पञ्च सप्तमं वा चतुर्दश ।। १७५ ।।

सर्वावेच्छा तु यस्मिंस्स्यात् एकविंशतिमूर्तिषु ।
ता * बद्ध्यकौकचन्द्र उत्सवान्तं नयेद्बुधः ।। १७६ ।।

सर्वालंकारसंयुक्तं पिञ्छचामरसंयुतम् ।

  • * * थ गेयैश्च वाद्यसंयुक्तं तदन्तके ।। १७७ ।।


अन्ते पाशुपतास्सर्वे महाव्रतधरास्तथा ।
महाशैवो व्रजेदन्ने ब्रह्मणस्तदनु व्रजेत् ।। १७८ ।।

प्. ६३)

गेयगा नर्तकाश्चैव व्रजेदनु विशेषतः ।
ईश्वरश्शक्तिसहितस्सर्वालंकारसंयुतः ।। १७९ ।।

योषिद्भिरावृतस्सर्वभूषणाद्यैरलंकृतः ।
नानाछत्रध्वजैः पिञ्छैर्नानाचामरभूषितः ।। १८० ।।

यन्त्रदीपैर्हस्तदीपैर्यष्टिस्त्रिशूलदीपकैः ।
पताकाभिर्वितानैश्च भेर्यैर्वाद्यैस्समायुतम् ।। १८१ ।।

चण्डेश्वरो व्रजेदन्ते सर्वालङ्कारसंयुतम् ।
सर्वातोद्यैस्तदन्ते तु घोषयेत्तु विशेषतः ।। १८२ ।।

सर्वेषामग्रतश्चैव महाशब्दं प्रघोषयेत् ।
शूद्रो गच्छेत्तदन्ते तु सर्वे वर्णास्तदन्तके ।। १८३ ।।

प्. ६४)

स्त्रियो बालाश्च वृद्धाश्च युवानो भक्तिसंयुताः ।
ये तु गच्छन्ति देवेशधातास्तद्भृत मानसाः ।। १८४ ।।

विमुक्तास्सर्वपापेभ्यस्सर्वभोगसमाश्रयाः ।
पद्यैकस्यश्वमेधस्य प्राप्नुवन्ति महत् फलम् ।। १८५ ।।

ग्रामप्रदक्षिणं चैव शनैः कृत्वालयं विशेत् ।
प्रपां कृत्वा समास्थाय मण्टपे समलंकृते ।। १८६ ।।

सिंहे पद्मासने वाऽपि गच्छेत् पर्यङ्कमध्यमे ।
अन्येस्वासनभेदेषु वाञ्छितेषु हरं नयेत् ।। १८७ ।।

अग्रतस्संस्थितास्सर्वे भृङ्गादिमहिताजनः ।
नर्तको मर्दकस्सर्वे वामतो वंशगायकौ ।। १८८ ।।

प्. ६५)

आचार्यस्सर्वतो वामे गजराजसमस्थितः ।
पार्श्वयोर्देवगणिका विद्यन्नृत्तसगेयकम् ।। १८९ ।।

देवस्यापरभागे तु परिचारास्समास्थिताः ।
नारीभिः पार्श्वयोर्विज्य चामरव्यजनादिभिः ।। १९० ।।

सुगन्धधूपदीपैश्च कुसुमाद्यैरलंकृतः ।
पाद्यमाचमनं चार्घ्यं दत्त्वा संपूज्य भक्तितः ।। १९१ ।।

सर्वोपचारसंयुक्तं सर्वालंकारसंयुतम् ।
यद्वैवं कारयेत् पश्चात् साये नीराञ्जनं बुधः ।। १९२ ।।

दीपं पिष्टे तु विन्यस्य भस्म पुष्पं च पात्रके ।
पूर्वमाचमनं दत्त्वा मूर्ध्नि पुष्पं तु निक्षिपेत् ।। १९३ ।।

प्. ६६)

शिरस्यर्घ्यं तु विन्यस्य गन्धमाचमनं बुधः ।
धूपं दीपं प्रदातव्यः पिष्टदीपेन देशिकः ।। १९४ ।।

प्रदक्षिणत्रयं कुर्यात् शिरोर्ध्वे शङ्खनृत्तकैः ।
जयशब्दादिसंयुक्तं स्नोत्रम * ल गीतिभिः ।। १९५ ।।

भस्मं दत्त्वा तदन्ते तु दर्पणं दर्शयेत् पुनः ।
नीराञ्जनमिति प्रोक्तमारार्त्त्यादि च गद्यते ।। १९६ ।।

पूजान्ते कारयेद्देव साये रक्षार्थकं शुभम् ।
शङ्खकाहलपूर्वं च महाशब्दं प्रघोषयेत् ।। १९७ ।।

बहित्वा गणिकाभिस्तु सपाद्यं बाह्यतः क्षिपेत् ।
राज्ञश्च जगतां रक्ष्या कृते त्वेवं सुखावहम् ।। १९८ ।।

प्. ६७)

सर्वोपचारक कुर्यात् स्मृत्वा स्मृत्वा विशेषतः ।
उष्णीषमुत्तरीयं च हैमं दद्याद्गुरोस्तदा ।। १९९ ।।

पर्यष्टि परिचाराणां गणिकानां विशेषतः ।
भक्तानां नर्त्तकादीनां वस्त्रादीनि प्रदापयेत् ।। २०० ।।

एवं दिने दिने कुर्याद् विधानेन विशेषतः ।
क्रमात् संक्षेपतः प्रोक्तं परिवेष्टक्रमं तव ।। २०१ ।।

विघ्नोद्भवप्रकारं च इदमन्यत् प्रचक्ष्महे ।
अतिवृष्टौ महावाते राष्ट्रक्षोमादिसंभवे ।। २०२ ।।

एवमादिषु विघ्नेषु प्रसादे वा बलिं क्षिपेत् ।
प्रसादवृषमध्ये तु ब्रह्मस्थानं बलिं क्षिपेत् ।। २०३ ।।

प्. ६८)

मर्यादौ परितो दद्यादिन्द्रादीशान्तकं बलिम् ।
पूर्वतस्तु महापीठे बलिं दत्त्वा समापयेत् ।। २०४ ।।

बेरप्रदक्षिणीग्रामे प्रासादे वा समाचरेत् ।
वास्तौ बेरे विमाने च एवमेवं समाचरेत् ।। २०५ ।।

महावास्तोश्च वा पक्षः शृणु ब्रह्मपदाद्बहिः ।
अन्तर्वीर्यां बलिं दत्त्वा बेरयात्राऽपि तत्र वा ।। २०६ ।।

एवमेवं विधानेन युक्तिदं कारयेद् बुधः ।
असुरे दिवसे प्रातर्दत्वास्तेषां बलिं प्रियम् ।। २०७ ।।

ईश्वरं शक्तिसहितं पूजयित्वा विशेषतः ।
भीमरूपं रणोद्युक्तं ह्येति व्याग्राग्रपाणिनाम् ।। २०८ ।।

प्. ६९)

किरातवेषवच्चापि कृत्वा देवीं च पूर्ववत् ।
शिबिकोपरि संरोप्य रुद्रं कुर्यात् प्रदक्षिणम् ।। २०९ ।।

पिञ्छं च कर्णं भेरीवाद्यध्वजैर्युतम् ।
सर्वालंकारसंयुक्तं शङ्खभेर्यादिघोषणैः ।। २१० ।।

हस्त्यश्वरथसंरूढा भटा युद्धसमुत्सुकाः ।
धनुर्धरं * * * * * * * * * * * * ।। २११ ।।

अङ्गानां लक्षणं वक्ष्ये स्यन्दनानां विशेषतः ।
भारादिवर्गत्रितयं अश्वपर्जत्यादिकत्रयम् ।। २१२ ।।

सिंहासनं रथाङ्गं च प्रत्यङ्गमभिधीयते ।
उपपीठं मधिष्ठानन्नाटकं देवभारादिपङ्क्तित्रितय ।। २१३ ।।

मश्वतासनम् ।

प्. ७०)

प्रधानाङ्गमिति ज्ञेयं विद्वद्भिर्मतिमत्तरैः ।
तद्भक्तिमङ्गुलेनैव शोधयेदाय पूर्वकम् ।। २१४ ।।

तदङ्गुलेन निर्दिष्टं अधिष्ठान द्विजोत्तमः ।
आयादिशुभसिद्ध्यर्थमेकात् सप्ताङ्गुलान्तकम् ।। २१५ ।।

पृथ्वीहानिं प्रकर्तव्यं यथा शोभावशान्नयेत् ।
अधिष्ठानसमं वाऽथ त्रिपादं वार्धमेव वा ।। २१६ ।।

पञ्चांशे त्र्यंशकं वाऽपि सपादं सार्धमेव वा ।
पादोनं द्विगुणं वाऽथ द्विगुणं वोपपीठकम् ।। २१७ ।।

अधिष्ठानादयस्सक्तः कल्पयेत्तं विचक्षणैः ।

प्. ७१)

अधिष्ठानोपरिष्टात्तु नाटकं संप्रकल्पयेत् ।। २१८ ।।

एकाङ्गुलं समारभ्यां ललाद्ध्या षोडशाङ्गुलम् ।
अधिष्ठानोदयाद् ग्राह्यं तन्मानं सिद्धिकाङ्क्षिभिः ।। २१९ ।।

देवासनं तदूर्ध्वे तु कल्पयेत् कल्पवित्तमः ।
देवासनोपरिष्टात्तु सिंहासनं प्रकल्पयेत् ।। २२० ।।

अष्टोत्तरादिस्थूप्यन्तं शान्तिकादौ प्रगृह्यताम् ।
अङ्गानान्तप्रवेशं तु पूर्वमेव सुभाषितम् ।। २२१ ।।

बेदार्थं कौतुकार्थं च शूलार्थं त्रियहा भवेत् ।
त्रिशूले तर्पयेत्तैलं हृदयेन तु मन्त्रतः ।। २२२ ।।

चूर्णं तु शिरसा दद्यात् कौतुके मूललिङ्गके ।

प्. ७२)

वृषादिपरिवाराणां तैलचूर्णं तु दापयेत् ।। २२३ ।।

शेषं दत्त्वा तु भक्तानां अस्त्राणां तु प्रदक्षिणैः ।
कृत्वा ग्रामादिकान्वाऽपि प्रासादं वा विशेषतः ।। २२४ ।।

अस्त्रं चण्डेश्वरैशक्तैर्नयेत्तीर्थेऽधिवासयेत् ।
तस्य तीरे प्रपायां तु कुर्याद्वै स्थण्डिलद्वयम् ।। २२५ ।।

त्रिशूलं पश्चिमे चास्त्रे स्मृतं स्थाप्याष्टमङ्गलैः ।
संपूज्य च यथोक्तं तु तदग्रे कलशान् न्यसेत् ।। २२६ ।।

मध्यमे स्थापयेत् कुम्भमशिवाम्बु परिपूरितम् ।
ससूत्रान्हेम वस्त्राढ्यान् कूर्चचक्रीकयायुतान् ।। २२७ ।।

मध्यकुम्भे समावाह्य गङ्गादेवीं यजेद्बुधः ।

प्. ७३)

किं कुर्यादि चक्रन्यान्त मिन्द्रादीशान्तकं यजेत् ।। २२८ ।।

पुण्याहं वाचयेत् सर्वदेवानावाहयेत्ततः ।
अस्त्रराजानमाराध्य स्नपनं तत्र कारयेत् ।। २२९ ।।

तीर्थमध्येऽस्त्र राजानमवगाह्य गुरूत्तमः ।
त्रियम्बकेन मन्त्रेण चण्डेशं शिष्यकेन च ।। २३० ।।

सहाभिषेचनं कुर्यान् मुच्यते पापपुञ्जरैः ।
मुक्तिदावालभन्ते च सर्वतीर्थफलानि वै ।। २३१ ।।

प्राप्य तीरमलंकृत्य भक्ताभ्यर्च्चविशेषतः ।
प्रविशेदालयं पश्चाद्यागेशं पूजयेत्ततः ।। २३२ ।।

पूर्णाहुतिं ततः कुर्यात् शिवकुम्भं च वर्धनीम् ।

प्. ७४)

परितः स्थापितान् कुम्भान् उद्धृत्याभ्यन्तरं विशेत् ।। २३३ ।।

शिवकुम्भेन संस्थाप्य शिवमन्त्रेण मन्त्रवित् ।
गौरीमन्त्रेण संस्नाप्य वर्धन्यां तु विचक्षणः ।। २३४ ।।

स्वैः स्वैर्मन्त्रविशेषेण कुम्भेनैवाभिषेचयेत् ।
यथोक्तं पूजयेत् पश्चात् पायसादि निवेदयेत् ।। २३५ ।।

प्रभूतहविषं दद्याद् यथा विभवविस्तरम् ।
आचार्यं पूजयेद्धेमवस्त्राङ्गुलीयकादिभिः ।। २३६ ।।

दक्षिणां दापयेत् पश्चात् यथाशास्त्रपुरस्सरम् ।
पञ्चनिष्कं च निष्कं च त्रिनिष्कं च द्विनिष्ककम् ।। २३७ ।।

निष्कमर्धं च पादं च शुद्धहेमं सुशीतलम् ।

प्. ७५)

नवाद्याद्यर्कजान्तानां क्रमेणैव विशेषतः ।। २३८ ।।

सप्तानामुत्सवानां तु सप्तधोक्तं तु दक्षिणा ।
गुरुं प्र * * * * च क्षमेयेति क्षमापयेत् ।। २३९ ।।

परिचारकभक्तानां यथाशक्त्या तु दक्षिणे ।
ध्वजावरोहणं कुर्याद् रात्रौ स्नपनसंयुतम् ।। २४० ।।

मूललिङ्गं तु संस्नाप्य संपूज्य च विशेषतः ।
हवींषि विविधो दद्यान्नमस्कृत्वा तु भक्तितः ।। २४१ ।।

पूज्य चण्डेशमुद्वास्य ध्वजस्थं वृषभं पुनः ।
ध्वजस्य दण्डमूलं तु छित्वास्त्रेण विधानतः ।। २४२ ।।

घृतं त्वन्नं * * * * सोपदंशं गणप्रियम् ।

प्. ७६)

अस्त्रान्नलिङ्गचण्डेशयुक्तं ग्रामबलिं ददेत् ।। २४३ ।।

देवान् विसृज्य सर्वांश्च चण्डेश्वराज्ञया सह ।
प्रासादं प्रविशेत् पश्चात् प्रणमेत्तु सदाशिवम् ।। २४४ ।।

यज्ञोपशिष्टं यद्द्रव्यमाचार्यस्य धनं भवेत् ।
गृहीतं चेत्तु तद्द्रव्यं राज्ञो राष्ट्रस्य दोषकृत् ।। २४५ ।।

ब्राह्मणं वक्ष्य * * * * क्षपात् शशलाञ्छन ।
एककाले तु संपूर्णं ब्राह्मणार्थं शिवं क्रमात् ।। २४६ ।।

प्रातःकाले तु समये यस्मिनृक्षे तु तत्पुनः ।
तद्दिने वै प्रकर्तव्यं ग्रामादीनां प्रदक्षिणम् ।। २४७ ।।

वाञ्छादेशं ततो गत्वा सर्वलीलासमन्वितम् ।

प्. ७७)

होमाधिवासाद्याश्च बलिं तीर्थेन्न कारयेत् ।। २४८ ।।

आलयं प्रविशेत् पश्चात् स्नपनं तत्र कारयेत् ।
प्रभूतश्च ततो दत्त्वा नृत्तगेयसुवाद्यकैः ।। २४९ ।।

ब्रह्मणोत्सवमाख्यातमर्कवारोत्सवं शृणु ।
अर्कवारे विशेषेण यजेत् प्रातश्शिवं क्रमात् ।। २५० ।।

पूजयेत् सर्वदेवांस्तु हविं दद्याद्विशेषतः ।
सर्वोपचारसंयुक्तं पूजयेच्चन्द्रशेखरम् ।। २५१ ।।

नित्यान्ते गेयवाद्यैश्च सर्वालंकारकैर्युतम् ।
ग्रामप्रदक्षिणं कुर्यात् प्रासादं वा प्रदक्षिणम् ।। २५२ ।।

प्रविश्याभ्यन्तरं पश्चात् स्नपनं तत्र कारयेत् ।

प्. ७८)

  • * सहविषं दद्यात् ताम्बूलं तु प्रदापयेत् ।। २५३ ।।


अर्काजान्ते तु शक्त्याद्यमुत्सवं समुदीरितम् ।
एवं यत्कुरुते मुख्यः मुक्तपापस्सुपुण्यवान् ।। २५४ ।।

सर्वदोषविनिमुक्तश्शिवलोकमवाप्नुयात् ।।

इति चन्द्रज्ञाने

श्रीमुखतन्त्रे शिवोत्सवस्य विधिः एकविंशतितमः ।।


प्. ७९)

श्रीः

अतः परं प्रवक्ष्यामि महालक्ष्म्या विधिं शृणु ।
आलये तु गिरिशस्य वायुवारुणमध्यमे ।। १ ।।

स्थापनं तु महालक्ष्म्याः कर्तव्यं देशिकोत्तमैः ।
निर्माय शिल्पिवर्येण लक्ष्मीं पद्मासनस्थिताम् ।। २ ।।

हस्तद्वयगृहीताब्ज शोभितां हेमवर्णिनीम् ।
हस्तिशुण्डाग्रकुम्भाभ्यां सिच्यमानशिरोभाराम् ।। ३ ।।

परिवृतपदद्वन्द्वां पद्मपत्रनिभेक्षणाम् ।
पार्श्वयोरपि कन्याभ्यां चामराभ्यां विशेषतः ।। ४ ।।

बीज्यमानां महालक्ष्मीं विशालां विष्णुवल्लभाम् ।
शुभे मुहूर्ते सुदिने अङ्कुरं कारयेद्बुधः ।। ५ ।।

प्. ८०)

वास्तुहोमं ततः कृत्वा महालक्ष्म्याश्च सन्निधौ ।
दिग्भ्यां इत्यनुवाकेन अङ्गहोममथाचरेत् ।। ६ ।।

पूर्वोक्तविधिना चैव अक्षिमोचनमाचरेत् ।
अधिवासत्रयं कृत्वा क्षीरगव्यं जलेषु च ।। ७ ।।

ग्रामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ।
पुण्याह प्रोक्षणं कृत्वा पञ्चगव्यैस्तथैव च ।। ८ ।।

वेद्योपरि विशेषेण धान्यैस्तु दशभारकैः ।
आस्तीर्य पञ्चचयने च साधयित्वा मनोन्मनीम् ।। ९ ।।

प्रासार्य परितो धान्यैर्लिखित्वा पद्मरेखया ।
नवकुम्भं सुसंस्थाप्य तन्तुना वेष्टितं परम् ।। १० ।।

प्. ८१)

नवां च लक्ष्मी प्रतिमां कुम्भेषु परिनिक्षिपेत् ।
नवरत्नादि निक्षिप्य नालिकेराम्रपल्लवम् ।। ११ ।।

आच्छाद्य नववर्णैश्च कूर्चद्वन्द्वं विनिक्षिपेत् ।
मध्यं कुम्भे महालक्ष्मीं सिद्धिं दक्षिणतस्तथा ।। १२ ।।

पश्चिमे वीर्यलक्ष्मीं च उत्तरे विजयदायिनीम् ।
पूर्वे तु कार्यलक्ष्मीं च आवाह्याभ्यर्चयेद् गुरुः ।। १३ ।।

उमां सरस्वतीं चैव सावित्रीं गायत्रीमेव च ।
आग्नेयादिषु कुम्भेषु आवाह्याभ्यर्चयेद् बुधः ।। १४ ।।

प्रधानकुम्भपरितो लक्ष्मीशक्तीस्तु पूजयेत् ।
चतुर्दिक्षु चतुर्वेद्यां निर्यातीन् पूजयेत् क्रमात् ।। १५ ।।

प्. ८२)

अधोभागे उमावेद्यामष्टशक्तीस्तु पूजयेत् ।
अग्निकार्याणि विधिवत् पूर्वोक्तेनैव वर्त्मना ।। १६ ।।

प्रणीत्वा चतुरो विप्रान् उपदर्शनमेव च ।
होतव्यं तैस्तु विधिवन् नवकुण्डेषु पृथक् पृथक् ।। १७ ।।

हिरण्यवर्णां तु गायत्रीं श्रिये जातश्रियं तथा ।
पद्मप्रियेति मन्त्रैस्तु आम्रपुष्पसमित्कुशैः ।। १८ ।।

प्रत्येकं पञ्चसाहस्रं नवधान्यैस्तु भावयेत् ।
एवमेवं तु सप्ताहं पञ्चाहं त्र्यहमेव वा ।। १९ ।।

सहस्रमयुतं वापि शतमष्टोत्तरं हुनेत् ।
हविभिः पुष्कलाभिश्च गायत्र्या वहयेद् बुधः ।। २० ।।

प्. ८३)

नवादीनाम कर्तव्यं * * * ब्राह्मणोत्तमैः ।
नवैः पुष्पैश्च धान्यैश्च मधुभिश्शर्करैस्तथा ।। २१ ।।

आज्यैर्हविभिर्दधिभिः समिद्भिः फलसंयुतैः ।
प्राग्भागे पद्मकुण्डे तु मूलेन स्वगुणादयः ।। २२ ।।

होतव्यं तु विशेषेण ध्यानपूर्वपुरस्सरम् ।
होमकाले द्विजश्रेष्ठाद् वेदपारायणे रतान् ।। २३ ।।

स्वस्तिसूक्तं जपेयुश्च पुराणपठने रताः ।
ईकारत्यनुवाकेन होतव्यं सगुणा? तथा ।। २४ ।।

पूर्णाहुतिं ततः कृत्वा प्रायश्चित्तं ततो हुनेत् ।
जयादीन् वाहयित्वापि होमशेषं समाचरेत् ।। २५ ।।

रात्रिशेषं तु गनितं नीत्वा मङ्गलकादिभिः ।
स्नात्वा प्रभातसमये आचार्यो मूर्तिपैस्सह ।। २६ ।।

पूर्वामुपास्य सन्ध्यां तु गायत्रीं च जपेद्गुरुः ।
आलयं संप्रविश्याऽथ श्रीसूक्तं प्रजपन् सताम् ।। २७ ।।

प्रदक्षिणीकृत्य नमस्कृत्वा पुनः पुनः ।
गन्धद्वारेति मन्त्रेण ध्यात्वा देवीं न दिक्सुताम् ।। २८ ।।

आसीनोदङ्मुखस्तत्र मूलमष्टोत्तरं जपेत् ।
आचार्यः कुम्भमादाय पुरो गच्छेत्तु वाग्यतः ।। २९ ।।

चयनाद् बिम्बमादाय अनुगच्छेत्ततो गुरुः ।
आलयं संप्रविश्याऽपि बिम्बं संस्थाप्य चासने ।। ३० ।।

प्. ८५)

कुम्भं तु पुरतः स्थाप्य आसीनोदङ्मुखो गुरुः ।
प्राणानायम्य विधिना रेचपूरककुम्भकैः ।। ३१ ।।

अङ्गन्यासकरन्यासमन्तर्मातृकया बहिः ।
यथात्मनि तथा बिम्बे न्यासं कृत्वा विशेषवित् ।। ३२ ।।

यजमानेन संयुक्तो दशदानानि कारयेत् ।
नवग्रहप्रतिग्रहं दानं कृत्वा संभूरिक भवेत् ।। ३३ ।।

संयज्ञं पूजयेत् पूर्वं यथा विभवविस्तरात् ।
पूर्वोक्तैर्मन्त्रनिचयैर्बिम्बं स्पृष्ट्वा विधानवित् ।। ३४ ।।

श्रीमन्त्रं मूर्ध्नि कृत्वा तु श्रीसूक्तं प्रजपन्मुदा ।
कुम्भात् शक्तिं समादाय बिम्बे विन्यस्य वा ततः ।। ३५ ।।

प्. ८६)

आवाह्य मूलमन्त्रेण ध्यात्वा देवीं वरप्रदाम् ।
अभ्यर्च्य गन्धकुसुमैष्षोडशैरुपचारकैः ।। ३६ ।।

निवेद्य परमान्नं च पश्चात् ताम्बूलमेव च ।
सन्निधौ तु महालक्ष्म्याः प्रार्थयित्वा मनोरथान् ।। ३७ ।।

आचार्यं पूजयेत् पश्चाद् वस्त्राभरणकुण्डलैः ।
गोभिर्भूम्या च वसुभिः इष्टकाम्यैस्तथैव च ।। ३८ ।।

तोषयित्वा गुरुं नत्वा ऋत्विजश्च तथा पुनः ।
आशीर्वचनमालप्यन् तथा संतोष्य भूसुरान् ।। ३९ ।।

मोदमानोद्ग्रहं गच्छेत् पितृभिः सह बान्धवैः ।
एवं यः कुरुते भक्त्या श्रद्धाप्रीतिपुरस्सरम् ।। ४० ।।

प्. ८७)

तस्य पापानि नश्यन्ति करस्थास्सर्वसंपदः ।
अवाप्य धनधान्यानि दासीदासगृहं तथा ।। ४१ ।।

कलत्र पुत्रसंवृद्धिं कुर्युरारोग्यमेव च ।
इह तु विपुलान् भोगान् गीर्वाणदुर्लभान् ।। ४२ ।।

दिव्यं विमानमारुह्य लोकान् लोकान्तरानपि ।
संचरन् श्रीप्रसादेन श्रीसायुज्यमवाप्नुयात् ।। ४३ ।।

इति चन्द्रज्ञाने उत्तरभागे

शक्तिविषयप्रसङ्गे लक्ष्मीप्रतिष्ठाविधिर्नाम एकोनाशीतिपटलः ।।


प्. ८८)

धर्मादि । अधर्मादि । अधच्छदनाय नमः । ऊर्ध्वच्छदनाय नमः । कन्दाय नमः । मध्यकुम्भे ध्यानम् ।

एकवक्त्रां द्विनेत्रां च द्विभुजां पद्महस्तका ।
करण्डमकुटोपेतां लम्बपादद्वयान्विताम् ।। १५ ।।

हस्तद्वयोद्धृतैः कुम्भैः अभिषेककृतान्विताम् ।
सर्वालंकारसंयुक्तां ध्यायेल्लक्ष्मीं तु पूजयेत् ।।

आवाहनम् । ओं श्रां श्रीं श्रूं श्रैं श्रौं श्रः महालक्ष्म्यै नमः । ह्लां हृदयायै नमः । श्रीं शिरसे नमः । स्रूं शिखायै वौषट् । श्रैं कवचाय हुम् । श्रौं नेत्रत्रयाय वौषट् । श्रः अस्त्राय फट् ।। १५ ।।


प्. ८९)

गन्धपुष्प । वैष्णव्यै नमः । जानकयै नमः । रश्मिन्यै नमः । वाराह्यै नमः । हरिप्रियायै नमः । पद्मालयायै नमः । महालक्ष्म्यै नमः । अर्चयित्वा पूर्वाद्यष्टकुम्भेषु श्रीदेव्यै नमः । लोकमात्रे नमः । क्षीराब्धि तनयायै नमः । हरिप्रियायै नमः । क्षमायै नमः । पद्मधारिण्यै नमः ।

गुरुरूपं परान्यार्थं गुरुरूपं परात्परम् ।
गुरुरूपं परं ज्ञानं गुरुरूपं पराशिवम् ।। १ ।।

गुरुर्देवो महादेवो गुरुपत्नी मनोन्मनी ।
गुरुपुत्रो गुहः प्राप्तो गुरुदासश्च चण्डवत् ।। २ ।।

प्. ९०)

पञ्चकृत्यमिदं प्रोक्तं सर्वमन्त्राधिमन्त्रकम् ।
सृष्टिस्थितिं च संहारं तिरोभावमनुग्रहम् ।। ३ ।।

सर्वकारणकार्याणां सर्वसंपत्सुखावहम् ।
पञ्चहस्तमुदीचीनं प्राचीनं मण्टपं तथा ।। ४ ।।

द्वादशाङ्गुलसंयुक्तं मध्यताश्चतुरङ्गुलम् ।
दक्षिणोत्तरसंयुक्तं पूर्णकुम्भैरलंकृतम् ।। ५ ।।

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
अष्टद्रोणं तु शालीनां तदर्धं तण्डुलं तथा ।। ६ ।।

तदर्धं तु तिलं चैव तदर्धं लाजपुष्पकम् ।
पञ्चकुम्भं तथा स्थाप्य वर्धनीं हेमकूर्चकम् ।। ७ ।।

वस्त्रापिधान संयुक्तं तन्तुना वेष्टयेत्ततः ।

प्. ९१)

सप्ततालमुदीचीनां प्राचीनां च तथैव च ।। ८ ।।

पीतं श्वेतं तथा रक्तं कृष्णं धूम्रं लिखेत् ततः ।
प्राक्सूत्रं रुद्रसूत्रं स्यात् उदक्सूत्रं तथैव च ।। ९ ।।

सूत्रान् सूत्रान्तरं तालं चतुरङ्गुलविस्तरम् ।
एकं तु ब्रह्मचर्याणां गृहस्थं च द्वितीयकम् ।। १० ।।

तृतीयं वानप्रस्थं च सन्यसेत् चतुरश्रकः ।
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा ।। ११ ।।

ज्ञानयोगक्रियाणां च आचार्यं तु चतुष्पदम् ।
ऋग्यजुस्सामाथर्वाणां वेदपादमिदं स्मृतम् ।। १२ ।।

पञ्चविंशत् पदं ज्ञानं योगानां पञ्चविंशतिः ।

प्. ९२)

पञ्चविंशत्क्रियाणां तु आचार्यः पञ्चविंशतिः ।। १३ ।।

इत्युक्तं शतपदं ज्ञेयं चतुष्पादमिदं स्मृतम् ।
गोरोचना च लिखितं कुङ्कुमं चन्दनानि च ।। १४ ।।

सूत्रान्तरात् करान्तं स्याद् वर्णानां तु न्यसेद् बुधः ।
पीतं श्वेतं तथा रक्तं कृष्णं धूम्रं तु वर्णकम् ।। १५ ।।

पञ्चचक्रविधिः प्रोक्तः वर्णान्ते तु पृथक् पृथक् ।
कौशिकः काश्यपश्चैव भारद्वाजश्च गौतमः ।। १६ ।।

अनुष्टुप्च्छन्दस्य जगतृष्टुप्गायत्रियः ।
ब्रह्मा विष्णुश्च रुद्रश्च महेशश्च सदाशिवः ।। १७ ।।

सरस्वती लक्ष्मीश्चैव उमा गौरी च पार्वती ।

प्. ९२)

प्रणवं प्रधानबीजं तु द्वितीयं श्रीबीजमुच्यते ।। १८ ।।

तृतीयं ह्रींकारबीजं च चतुर्थं श्रीबीजमुच्यते ।
पञ्चमं प्रणवं बीजं बिन्दुनादं लिखेद् बुधः ।। १९ ।।

पञ्चाक्षरक्रमेणैव सृष्टिचक्रमथ शृणु ।
धान्तं भान्तं च वान्तं चलान्तं मान्तं तथैव च ।। २० ।।

मान्तं धान्तं च लान्तं च वान्तं भान्तं परात्परम् ।
भान्तं लान्तं च मान्तं च धान्तं वान्तं वरप्रदम् ।। २१ ।।

वान्तं मान्तं च धान्तं च भान्तं लान्तमतः परम् ।
लान्तं वान्तं च भान्तं मान्तं धान्तं तथैव च ।। २२ ।।

इत्येवं सृष्टिचक्रं स्यात् स्थितिचक्रमतः परम् ।

प्. ९४)

भान्तं लान्तं च मान्तं च धान्तं वान्तमतः परम् ।। २३ ।।

वान्तं मान्तं च धान्तं च भान्तं लान्तं तथैव च ।
लान्तं वान्तं च भान्तं च मान्तं धान्तमतः परम् ।। २४ ।।

धान्तं भान्तं च वान्तं च लान्तं मान्तं तथैव च ।
मान्तं धान्तं च लान्तं च वान्तं भान्तं परं पदम् ।। २५ ।।

स्थितिचक्रमिति चैव संहारं तमथ शृणु ।
वान्तं मान्तं च वान्तं च भान्तं लान्तमतः परम् ।। २६ ।।

लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च ।
धान्तं भान्तं च वान्तं च लान्तं मान्तं तथैव च ।। २७ ।।

मान्तं धान्तं च भान्तं च वान्तं लान्तं ततः परम् ।
भान्तं लान्तं च मान्तं च धान्तं वान्तं ततः परम् ।। २८ ।।

प्. ९५)

इति संहारचक्रं च तिरोभावमथ शृणु ।
लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च ।। २९ ।।

धान्तं यान्तं च वान्तं च भान्तं मान्तमतः परम् ।
मान्तं धान्तं च लान्तं च वान्तं पान्तं परात्परम् ।। ३० ।।

भान्तं लान्तं च मान्तं च धान्तं वान्तं वरानने ।
वान्तं धान्तं च मान्तं च भान्तं लान्तं परात्परम् ।। ३१ ।।

तिरोभावेति चक्रं तु अनुग्रहमथ शृणु ।
मान्तं धान्तं च लान्तं च वान्तं भान्तमतः परम् ।। ३२ ।।

भान्तं लान्तं च मान्तं च धान्तं वान्तं तथैव च ।
वान्तं मान्तं च धान्तं च भान्तं लान्तं च भावनम् ।। ३३ ।।

प्.९६)

लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च ।
धान्तं मान्तं च वान्तं च लान्तं भान्तं परात्परम् ।। ३४ ।।

इत्यनुग्रहचक्राणां चक्रं पञ्चविधं भवेत् ।
इत्येतत् पञ्चचक्राणां पञ्चविंशत्शतं शृणु ।। ३५ ।।

गालवो ऋषिभिश्चैव वृहती च तथैव च ।
देवस्सदाशिवज्ञेयः उन्मनीशक्तिसंयुतम् ।। ३६ ।।

बीजं प्रधानं तन्मध्ये आकारोकारमेव च ।
विंशत्पदं तु ब्राह्माणां पदं प्रति पदं प्रति ।। ३७ ।।

सान्तं धान्तं समायुक्तं विंशादीनां परं पदम् ।
मध्यमेकपदं स्थाप्य ओंकारं परमेश्वरम् ।। ३८ ।।

प्. ९७)

तन्मध्ये स्थापितं लिङ्गं ओंकारं परमं पदम् ।
धान्तं नकारमेवोक्तं भान्तंमकारमेव च ।। ३९ ।।

वान्तं शिकारसंयुक्तं लान्तं वकारमेव च ।
मान्तं यकारमेवोक्तं नमश्शिवाय मन्त्रकः ।। ४० ।।

इति चन्द्रज्ञाने क्रियापादे श्रीपञ्चाक्षरपटलं समाप्तम् ।

।। एकविंशतिपटलः ।।


प्. ९८)

आर्द्राव्रतं प्रवक्ष्यामि सर्वप्राणि सुखावहम् ।
सर्वमङ्गलरक्षार्थं सर्वशत्रुक्षयं भवेत् ।। १ ।।

नवाहं चैव सप्ताहं अङ्कुरार्पणपूर्वकम् ।
मृगशीर्षनक्षत्रे तु अधिवासनमारभेत् ।। २ ।।

गौरीं तु स्नपयेत् पश्चात् श्वेतवस्त्रेण वेष्टयेत् ।
सर्वाभरणभूष्यं तु सर्वाङ्गं समलंकृतम् ।। ३ ।।

मण्टपे सर्वसंयुक्ते स्थण्डिलं कारयेत् क्रमात् ।
तन्मध्ये गौरीमास्थाप्य कृत्वा कौतुकबन्धनम् ।। ४ ।।

स्थलिके तण्डुले चैव तन्मध्ये तन्तुरक्षकम् ।
परिचारकमुद्धृ * * * * * * दक्षिणम् ।। ५ ।।

धूपदीपहरो दत्त्वा पुण्याहं वाचयेत्ततः ।
शङ्खदुन्दुभिनिर्घोषैश्श्रोत्रमङ्गलवाचकैः ।। ६ ।।

वेदध्वनि समायुक्तं नृत्तगेयसमन्वितम् ।
त्रियम्बकेन मन्त्रेण कौतुकं बन्धयेत्ततः ।। ७ ।।

नैवेद्यं दापयेत् पश्चात् अपूपं तु सुयोजयेत् ।
धूपदीपौ हरौ दत्वा ताम्बूलं तु निवेदयेत् ।। ८ ।।

द्वितीये दिवसे चैव उमादेवीं तु स्नापयेत् ।
नववस्त्रैरलंकृत्य समस्ताभरणैरपि ।। ९ ।।

सर्वमाल्यैर्विशेषेण पूजयेत् परमेश्वरम् ।
शिवाग्रे स्थण्डिलं कुर्यात् अष्टद्रोणैश्च शालिभिः ।। १० ।।

प्. १००)

तदूर्ध्वे वस्त्रमावेष्ट्य तन्मध्ये लवणं क्षिपेत् ।
तदूर्ध्वे गौरीमास्थाप्य * * * * * * * * ।। ११ ।।

गौरीदक्षिणदिग्भागे विश्वेशं पूजयेत्ततः ।
वामपार्श्वे तु दुर्गां च पूजयेत्तु विशेषतः ।। १२ ।।

हरिद्राणि तथा कुर्यात् दीरसन्निधिसंस्थितः ।
तन्निम्बप्रस्थपूर्णं तु पूर्वाग्रेण च संयुतम् ।। १३ ।।

शक्रचूर्णं हि संयुक्तं रजनी लवणं तथा ।
एकपात्रं गृहीत्वा ततो दूर्वाक्षतं यथा ।। १४ ।।

गौरीदक्षिणहस्ते तु पानीयं त्रिप्रदक्षिणम् ।
प्रस्थचूर्णं तु तण्डुल्यं दापयेद्देशिकोत्तमः ।। १५ ।।

प्. १०१)

हस्तेन संग्रहीत्वा तु पायसान्नं समुद्धृतम् ।
पुण्याहं वाचयित्वा तु आर्द्राव्रतं समाचरेत् ।। ११६ ।।

देशिको हस्तदोग्रह्य पानीयं दापयेद् गुरुः ।
हरिद्राणि समादाय तण्डुलं दर्शनं परम् ।। १७ ।।

कूर्चवर्णं च पादाब्जैर्व्रीहिं च नाभिदेशके ।
रजनीं हृदये न्यस्य लवणं कण्ठदेशके ।। १८ ।।

पूर्वाक्षरं तु मूर्ध्नि स्यात् दापयेत्तु मनोन्मनीम् ।
आचार्यं पूजयेत्तत्र पवित्रहेमाङ्गुलीयकैः ।। १९ ।।

ब्राह्मणान् पूजयेत् तत्र तिलैरपि सुपूजयेत् ।
शङ्खदुन्दुभिसंयुक्तं नृत्तगेयसमायुतम् ।। २० ।।

प्. १०२)

पायसान्नं समुद्धृत्य परिचारकहस्तयोः ।
ग्रामप्रदक्षिणं कृत्वा मङ्गलानि च हस्तयोः ।। २१ ।।

आर्द्राव्रतं समाचरेन्नृत्तालं कारमेव च ।
पूर्वरात्राधिवासं स्यात् तीर्थाधिवासनं कुरु ।। २२ ।।

स्नपनं पञ्चविंशत्यं नृत्तमूर्तिं सुपूजयेत् ।
वस्त्रेण वेष्टनं कृत्वा सर्वाभरणभूषितम् ।। २३ ।।

सर्वपुष्पैरलंकृत्य सर्वगन्धानुलेपयेत् ।
नैवेद्यं दापयेत् पश्चात् ताम्बूलं तु निवेदयेत् ।। २४ ।।

शङ्खघोषसमायुक्तं नृत्तगेयसमायुतम् ।
वेदध्वनिसमायुक्तं स्तोत्र ध्वनि समन्वितम् ।। २५ ।।

ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं त्विति ।

इति चन्द्रज्ञाने प्रतिष्ठातन्त्रे आद्राव्रतविधिः द्वाविंशतिः पटलः ।


प्. १०३)

श्रीः

वक्ष्यामि शिवरात्र्यां तु पूजयेत्तु द्विजोत्तमः ।
कृतत्रेतायुगद्वन्द्वे द्रापरे च कलौ युगे ।। १ ।।

युगे युगे तु संपूज्य कृतायां तु गुहो यजेत् ।
त्रेतायां विघ्नकृत् पूज्य द्वापरेह्यच्युते यजेत् ।। २ ।।

ब्रह्मेन्द्रमुनिभिश्चैव कलौ संपूज्यते हरः ।
माघे कृष्णचतुर्दश्यां फाल्गुने च द्वितीयके ।। ३ ।।

चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपञ्चमी ।
ज्येष्ठाशक्लतृतीये च आषाढे चाष्टपञ्चमी ।। ४ ।।

द्वादश्यां श्रवणे चैव पूर्वाषाढे तु पञ्चमी ।
तुरके सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिके ।। ५ ।।

प्. १०४)

द्वादश्यां मार्गशीर्षे तु पुष्यमासे तथाष्टमी ।
एवं संवत्सरे पूज्य शिवरात्रिरुपास्यताम् ।। ६ ।।

माघमासे चतुर्दश्यां तत्फलशिवरात्रिकम् ।
एकमासे द्विपक्षे तु रात्र्याधिक्या हि तं परम् ।। ७ ।।

शिवं संपूज्य तत्राभ्यां तत्फलं लभते नरः ।
पक्षं तु समवेगस्स्यात् पूर्वरात्रौ विशेषतः ।। ८ ।।

रात्रावधिकपक्षे तु शिवपूजा विधीयते ।
तद्रात्रिश्शिवरात्रिस्स्यात् एवं सान्निध्यमेव च ।। ९ ।।

शर्वरी पक्षहीनायां सा दोषबहुला स्मृता ।
यामं प्रति विशेषेण शिवपूजाविशेषतः ।। १० ।।

प्. १०५)

नवाहे चैव सप्ताहे चाङ्कुरार्पणकं कुरु ।
अङ्कुराण्यर्पयेत् पश्चात् पूर्वोक्तविधिना सह ।। ११ ।।

तद्दिनस्य तु पूर्वे तु मण्टपं शोधयेत् पुनः ।
पञ्चगव्येन संप्रोक्ष्य कौतुकं बन्धयेत्ततः ।। १२ ।।

बिल्वपत्रं च संपूज्य सर्वगन्धसमन्वितम् ।
वस्त्रेण वेष्टयेद् धीमान् बिल्वपत्राधिवासनम् ।। १३ ।।

प्रभापविमले धीमान् देशिकः स्नानमाचरेत् ।
पूर्वाह्ने तर्पणं चैव मध्याह्ने * प्रदक्षिणम् ।। १४ ।।

सायाह्ने पूजनं कृत्वाप्येवमेव व्रतं चरेत् ।

प्. १०६)

ब्रह्मक्षत्रिय विद्शूद्रा ह्युपवाससमन्वितम् ।। १५ ।।

द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि ।
सर्वेषां चैव नारीणां उपवासं तथैव च ।। १६ ।।

निद्राहीनः प्रयत्नेन सर्वकार्याणि साधयेत् ।
सत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च ।। १७ ।।

आयुष्करं च सिद्धिं च सर्वमोक्षं तहैव च ।
अमङ्गल्यप्युपासेन पुनर्जन्मस्सुमङ्गली ।। १८ ।।

अपत्नीकोप्युपासीनः पुनः पत्नीसमन्वितः ।
इष्टकामफलं वाऽपि शिवरात्रिमुपासने ।। १९ ।।

निद्रायां तु फलं हीनं निद्राहीनं तु यत्फलम् ।
तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम् ।। २० ।।

ऋग्यजुस्सामवेदैश्च चतुर्भिः प्रतियामकम् ।
ब्रह्मेन्द्रमुनिभिस्सार्धं देशिकस्संप्रपूजयेत् ।। २१ ।।

विघ्नेशं पूजयेत् पूर्वं सौरपूजा ततः परम् ।
शालिभिस्तण्डुलं कृत्वा पुण्याहं वाचयेत्ततः ।। २२ ।।

पूर्वे तु पञ्चगव्यं स्याद् द्वितीये पञ्चामृतं भवेत् ।
तृतीये मधुना स्नाप्य इक्षुसारं चतुर्थके ।। २३ ।।

यामं प्रति विशेषेण पूजयेद्देशिकोत्तमः ।
पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं जपेत् ।। २४ ।।

द्वितीये स्नपनं प्रोक्तं पञ्चाशत्कलशं भवेत् ।

प्. १०८)

तृतीये स्नपनं चैव पञ्चविंशति संख्यया ।। २५ ।।

चतुर्थे स्नपनं चैव नवकुम्भैस्सुपूजयेत् ।
यामं प्रति विशेषेण स्नपनं कारयेद् बुधः ।। २६ ।।

पूर्वयाम्ये तु संपूज्य बिल्वपत्रैस्समर्चयेत् ।
द्वितीये पत्रपुष्पैश्च तृतीये जातिपुष्पकैः ।। २७ ।।

नन्द्यावर्तैस्तु संपूज्य चतुर्यामे तु पूजयेत् ।
चतुस्सन्ध्यार्चनं कुर्याद् बिल्वपत्रैस्समन्वितम् ।। २८ ।।

मुद्गान्नं प्रथमं चैव द्वितीये पायसान्नकम् ।
तृतीये कृसरान्नं स्यात् शुद्धान्नं स्यात् चतुर्थके ।। २९ ।।

यामं प्रति विशेषेण क्षेत्रपालं समर्चयेत् ।

प्. १०९)

यामान्ते तु विशेषेण बलिहोमं समाचरेत् ।। ३० ।।

देशिकं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ।
ब्राह्मणं पूजयेत् तत्र शिवभक्तान् सुपूजयेत् ।। ३१ ।।

पूजयेत् परिचारांश्च वस्त्रहेमाङ्गुलीयकैः ।
श्रीकरं विजयं पुण्यं आयुरारोग्यवर्धनम् ।। ३२ ।।

एवं संपूज्य विधिवत् शिवलोके महीयते ।

इति चन्द्रज्ञाने शिवरात्रिव्रतकल्पविधिस्त्रयोविंशतिपटलः ।।


प्. ११०)

श्रीः

अतः परं प्रवक्ष्यामि बलिदानं बृहस्पते ।
सर्वरोगविनाशार्थं सर्वशान्तिकरं भवेत् ।। १ ।।

ग्रामवृद्धिकरं पुण्यं सर्वैश्वर्यप्रदायकम् ।
सर्वदेवः प्रियार्थं च राष्ट्रदुर्भिक्षनाशनम् ।। २ ।।

स्वायम्भुवं दैविकं च आर्षं तु गाणपं तथा ।
मानुषं चैव पञ्चैतद् बलिदानं विधिः क्रमात् ।। ३ ।।

सर्वातोद्यसमायुक्तं सर्वालंकारसंयुतम् ।
नानादीपसमायुक्तं गणिकादिभिरावृतम् ।। ४ ।।

द्वारस्य दक्षिणे चैव नदीं गङ्गां च संयजेत् ।
द्वारस्य वामपार्श्वे तु कालां च यमुनां यजेत् ।। ५ ।।

प्. ११)

ऋषभं पुरतो यष्ट्वा सागस्त्यं चाग्निगोचरे ।
दक्षिणे भृङ्गराजं च सप्तमातृगणैर्युतम् ।। ६ ।।

लम्बोष्ठं वीरभद्रं च बलिं दद्यात् स्वमन्त्रकैः ।
नैर्-ऋत्यां विनायकं चैव वारुण्यां सण्मुखं तहा ।। ७ ।।

ज्येष्ठां वायव्यदिग्भागे सोममार्गं च संयजेत् ।
ऐश्यान्यां भानुमेवं स्याद् भूतनाथेशमग्रके ।। ८ ।।

प्रथमे च बलिं दत्त्वा द्वितीये च विशेषतः ।
गोपुरं वाद्यनिश्शब्दशङ्खघोषसमन्वितम् ।। ९ ।।

द्वारं प्रति विशेषेण वरिष्ठं भुजगं यजेत् ।
इन्द्रं चैव तथाग्निं च यमश्च नि-ऋतिस्तथा ।। १० ।।

प्. ११२)

वारुणं चैव वायुं च सोममीशानमेव च ।
नि-ऋतिं दक्षिणे विष्णुं ब्रह्माणं त्वीशवामके ।। ११ ।।

सोमशंकरयोर्मध्ये क्षेत्रपालं समर्चयेत् ।
क्षेत्रेशस्य ब * * * * * * * नकम् ।। १२ ।।

द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ।
अनन्तेशस्तथा सूक्ष्मश्शिवोक्तश्चैकनेत्रकः ।। १३ ।।

एकरुद्रस्त्रिमूर्तिं च श्रीकण्ठश्च शिखण्डिनः ।
तृतीयावरणं प्रोक्तं चतुर्थं वरणं शृणु ।। १४ ।।

शिवः पशुपतिश्चात्र रुद्रश्चैव भवस्तथा ।
ईशानं च महादेवो भीमश्चेत्यष्टमस्तथा ।। १५ ।।

प्. ११३)

चतुर्थावरणं प्रोक्तं पञ्चमं वरणं शृणु ।
वज्रं शक्तिं च दण्डं च खड्गं पाशाङ्कुशं तथा ।। १६ ।।

गदा त्रिशूलं * * * पद्मं चेति दशायुधम् ।
एवमावरणं चैव महापीठं पृथक् पृथक् ।। १७ ।।

प्रथमादि तृतीयान्तं शाम्बरीबलिपीठकः ।
पृथग्देशे बलिं दत्त्वा चैव मावरणं त्रयम् ।। १८ ।।

  • * * * * * पीठे आमोदादीन् बलिं क्षिपेत् ।

द्वितीये च महापीठे बलिं दत्वाष्टमूर्तये ।। १९ ।।

कर्णिकायां महाभूतं पञ्चवक्त्रे प्रदापयेत् ।
प्रतिमावरणं पीठं महापीठं * * * * ।। २० ।।

प्. ११४)

  • * * यावरणे पीठे मोदादीन् बलिं क्षिपेत् ।

द्वितीयावरणं न्यूनं प्रथमे भूतपीठके ।। २१ ।।

बलिं कृत्वा विशेषेण उत्तमा मध्यमाधमा ।
बलिदेवमिति प्रोक्तं बलिद्रव्यमथ शृणु ।। २२ ।।

बलिं बेरसमायुक्तं अस्त्रराजसमन्वितम् ।
पौष्टिकं चान्नलिङ्गं च शान्तिकं चार्घ्यमेव च ।। २३ ।।

अथवा बलिबेरं वा अस्त्रराजोनमेव वा ।
अथवा देशिकं चैव बलिदानं * * * * ।। २४ ।।

  • वद्यात् षोडशभागैकं दधिगोघृतप्लुतम् ।

गन्धं षट् द्वादशांशं तु पुष्पं पत्रं च द्रोणकम् ।। २५ ।।

बलिद्रव्यमिति प्रोक्तं बलिदानं स्वाहा स्वधा ।
प्रातर्मध्याह्नसायाह्ने त्रिसन्ध्यां बलिमाचरेत् ।। २६ ।।

अन्यासु सर्वसन्ध्यासु नाचरेत्तु बलिक्रमम् ।
स्नानं तु विधिना कृत्वा त्रिपुण्ड्री शुक्लवस्त्रकः ।। २७ ।।

सोष्णीषं चोत्तरीयं च धायेद् देशिकोत्तमः ।
अर्घ्यपात्रक * * * सपवित्रकरो गुरुः ।। २८ ।।

परिचारकमाहुय सोष्णीषं चोत्तरीयकम् ।
याने वा रङ्गके वाऽपि चन्द्रशेखरमूर्तिनम् ।। २९ ।।

स्वस्यैव शिरसि न्यस्य बलिंक्रमणमाचरेत् ।
मार्जनं प्रोक्षणं कृत्वा देवदासी विशेषतः ।। ३० ।।

प्. ११६)

पुनश्शिष्योऽभिषिच्याभिः प्रोक्षयेद्देशिकोत्तमः ।
गन्धं षड्बिन्दुमात्रेण गन्धद्वारेति मन्त्रवित् ।। ३१ ।।

पुष्पं स्वनाममन्त्रेण चार्चयेत् कर्णिकोर्ध्वतः ।
पाद्यं दत्त्वा पुनश्चैव अर्घ्यमन्त्रैः प्रदापयेत् ।। ३२ ।।

धूपमुद्रां प्रदर्श्याथ अङ्गुष्ठं तर्जनी क्रमात् ।
अङ्गुष्ठानामिकायुक्तां दीपमुद्रां प्रदर्शयेत् ।। ३३ ।।

मन्त्रेण शूलमुद्रां च बलिदाने विशेषतः ।
पानीयं च पुनर्दत्त्वा नमस्काराख्यमेव च ।। ३४ ।।

उपचाराणि सर्वाणि द्वितीये तु विशेषतः ।
उपचारान्तरं वाऽपि पृथक् कृत्वा बलिं क्षिपेत् ।। ३५ ।।

प्. ११७)

बलिकाले गणांश्चैव स्वामिनं चाभिवीक्षयेत् ।
शुचौ देशे विशेषेण बलिं सर्वत्र दापयेत् ।। ३६ ।।

पञ्चमावरणं न्यूनं द्वितीयावरणं ददेत् ।
द्वितीयावरणे न्यूनं प्रथमे तु विशेषतः ।। ३७ ।।

एकप्राकारयुक्तं चिन्महापीठे बलिं क्षिपेत् ।
तत्पुष्पेत्तु दुर्गां च तत्त * * * * बुद्धिमान् ।। ३८ ।।

एवं प्रदक्षिणं कृत्वा वृतं पात्रकमेव च ।
प्रविशेद्धाम्निकद्वारे पादप्रक्षालनं कुरु ।। ३९ ।।

मूलबेरं समायोज्य चन्द्रशेखरमूर्तिनम् ।
पाद्यमाचमनं चार्घ्यं ददेन्नीराञ्जनं ततः ।। ४० ।।

प्. ११८)

गन्धपुष्पादिनाभ्यर्च्य दीपान्तं चैव कारयेत् ।
मूलबेरं समभ्यर्च्य प्रतिसन्धिं समाचरेत् ।। ४१ ।।

पूर्वद्वारमिति प्रोक्तं पश्चिमे तु बृहस्पते ।
पूर्वद्वारोक्तवत् सर्वं विशेषं किञ्चिदस्ति हि ।। ४२ ।।

नित्यहोमावसाने तु बलिदेवान् समर्चयेत् ।
बलिबेरयुतं वाऽपि प्रत्येकं वितरेद् गुरुः ।। ४३ ।।

देवस्य दक्षिणे वामे नन्दिनागौ बलिं क्षिपेत् ।
अग्रतो वृषभं यष्ट्वा दुर्गां वायव्यगोचरे ।। ४४ ।।

ज्येष्ठां सौम्ये तु संपूज्य भानुं चैशान्यगोचरेद् ।
चक्रस्यांशे तु भुजेव सागस्त्यं वह्निगोचरेत् ।। ४५ ।।

दक्षिणे भृङ्गराजं च सप्तमातृगणैर्युतम् ।


प्. ११९)

विघ्नेशं वीरभद्रं च बलिं दत्त्वा यथाक्रमम् ।। ४६ ।।

नैर्-ऋत्यां विनायकं चैव बलिं दत्त्वा विशेषतः ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ।। ४७ ।।

गोपुरद्वारपालाभ्यां विकिरं तु बलिं पुनः ।
पश्चिमे वरुणं यष्ट्वा वायव्ये वायुमेव च ।। ४८ ।।

सोमे सोमं समाराध्य ईशे ईशं च संयजेत् ।
ऐन्द्रे इन्द्रं समाराध्य वह्निं वह्नौ तु गोचरे ।। ४९ ।।

यमं याम्ये तु संपूज्य संपुजन्नै-ऋतिं तथा ।
नि-ऋतिं दक्षिणे विष्णुं ब्रह्माणं त्वीशवामके ।। ५० ।।

सोमचारयुतं वाऽपि स्वस्वमन्त्रैर्बलिं क्षिपेत् ।

प्. १२०)

महापीठे विशेषेण चामोदादि दलाग्रके ।। ५१ ।।

कर्णिकोर्ध्वे महाभूतं पञ्चवक्त्रे प्रदापयेत् ।
एवं प्रदक्षिणं कृत्वा देवतं वरुणं प्रति ।। ५२ ।।

द्वारदेशे समानीय पादप्रक्षालनं कुरु ।
बलिबेरं समभ्यर्च्य ततो नीराञ्जनं ददेत् ।। ५३ ।।

त्रिसन्ध्यं च विना कुर्याद् बलिदानं बृहस्पते ।
अन्यथा च कृतं चेत्तु राष्ट्रदोषं भवेदिह ।। ५४ ।।

बलिदानयुतं चैव कुर्यान्नित्योत्सवं ततः ।
नित्योत्सवं विना यत्र ग्रामं ऋद्धिं न यच्छति ।। ५५ ।।

तत्ग्रामं राजराष्ट्रं च वर्ध्यतेत्तु न संशयः ।

प्. १२१)

नित्योत्सवस्य याने तु ये नरास्तु प्रदक्षिणम् ।। ५६ ।।

ते कुर्वन्ति सुखं नित्यं शिवलोकमवाप्नुयात् ।
एवं पूजयते भक्त्या सोऽन्ते सायुज्यमाप्नुयात् ।। ५७ ।।

इति चन्द्रज्ञाने क्रियापादे बलिदानविधिश्चतुर्विंशति पटलः ।

 
प्. १२२)

श्रीः

अतः परं प्रवक्ष्यामि द्विजाशौचमथ शृणु ।
जन्माशौचं मृताशौचं दशाहे शुद्धिरुच्यते ।। १ ।।

स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् ।
दशाहमपितुरस्ति पूत्री चेत् सहजात्मनाम् ।। २ ।।

तुरीये दशरात्रं स्यात् षण्णिशा पुंसि पञ्चमे ।
षष्ठे चतुरहात् शुद्धिः सप्तमे तु दिनत्रयम् ।। ३ ।।

अन्यगोत्रप्रविष्टानां दाममाशौचमेव च ।
यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।। ४ ।।

अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।
पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते ।। ५ ।।

प्. १२३)

आशौचज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।
पितृभ्यां शैशवेऽन्यत्र दात्रार्यस्तत्र कर्म तु ।। ६ ।।

उक्तभारी स एव स्यात्तस्याघमधुनोच्यते ।
पूर्वगोत्रेऽन्यसंबन्धं पितृभ्यां तु विना तदा ।। ७ ।।

यत्क्रिया शिष्यो ह्यारभ्य वाचार्य परिचारकाः ।
यजमानः क्रिया पू * * * * * * * पुरा ।। ८ ।।

गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।
आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् ।। ९ ।।

दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ।
उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।। १० ।।

प्. १२५)

संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।
स कारयेत् संस्कारादि तत्कर्माणि समाचरेत् ।। ११ ।।

पश्चादांयोग्यदिनं गव्यस्नानं गव्यं कृत्वा ।
पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।। १२ ।।

शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।
शवेन शुध्यते सूतिर्नसूतिश्शवशोधनी ।। १३ ।।

सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।

कल्पादि पञ्च दिनादिनादिकं दशदिनं गच्छेत् दिशा भाक् गमः ।
पूर्वस्यान्त्यं दिने यदि द्वितीवसात् शुद्ध्यत् प्रभाते क्रमात् ।। १३ १/२ ।।

प्. १२६)

द्विजाशौचमिति प्रोक्तं क्षत्रियाशौचमथ शृणु ।
जन्माशौचमृताशौचं द्वादशाहेति शुद्धिमान् ।। १४ १/२ ।।

स्वगोत्रे पुत्रजातंश्च तद्गोत्राश्शौचमाचरेत् ।
आरभ्याहं पितुरस्ति पुत्रीचेत् सहजात्मनाम् ।। १५ १/२ ।।

तुर्येकादशरात्रं स्यात् सप्ताहे पुंसि पञ्चमि ।
षष्ठे पञ्चदिनात् शुद्धि सप्तमेव चतुर्दिनम् ।। १६ १/२ ।।

अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।
यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः ।। १७ १/२ ।।

अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।
पुत्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते ।। १८ १/२ ।।

प्. १२७)

आशौचज्ञातिभिस्सार्धं तस्या नासीत् क्रमेण च ।
पितृभ्यां शैशवेऽन्यत्र पित्रोर्यस्तत्र कर्मकृत् ।। १९ १/२ ।।

रुग्महारीं स एव स्यां तथा गमधुनोच्यते ।
पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना गदम् ।। २० १/२ ।।

यत्क्रियात् शिष्यो च मारभ्य चाचार्यपरिचारकः ।
यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चरत् ।। २१ १/२ ।।

गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।
आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।। २२ १/२ ।।

दिक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ।
उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।। २३ १/२ ।।

प्. १२८)

संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।
कारयेत् संस्कारादितत्कर्माणि समाचरेत् ।। २४ १/२ ।।

पश्चादायोग्यदिनं नवकस्नानगव्यं कृत्वा ।
पुनः कर्माणि सर्वाणि कारयेच्च न संशयः २५ १/२ ।।

शावाशौचे समुत्पन्ने आदिकं तु यथा भवेत् ।
शावेन शुद्ध्यते सूतिं न सूतिशवशोधनैः ।। २६ १/२ ।।

सूतकं सूतिकेनैव शावं शावेन शुद्ध्यति ।। २७ ।।

अल्पात् पञ्चदिनादिकं दशदिनं
गच्छेद् दशाहाघः * * * * * * * ।
पूर्वस्यान्त्यदिने यदि * * * * * * *
द्वितीयदिवसाश्शुद्धे प्रभाते त्र्यहात् ।। २८ ।।

अयं अर्धदिनं प्रभृत्येकद्वित्रिक्रमेण वर्धयेत् ।

प्. १२९)

क्षत्त्रियाशौचमिति प्रोक्तं ज्ञाताशौचमथ शृणु ।। २९ ।।

जन्माशौचमृताशौचं त्रयोदशाहे शुद्धिमान् ।
सगोत्रे पुत्त्रोजातश्चेत् तद्गोत्रे चार्यमाचरेत् ।। ३० ।।

त्रयोदशाहं पितुरस्ति पुत्त्री चेत् सहजात्मनाम् ।
तुर्योचा दशरात्रं स्यादष्टाहे पुंसि पञ्चमी ।। ३१ ।।

षष्ठे रसहात् शुद्धि सप्तमे बाणदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां अघमौशौचमेव च ।। ३२ ।।

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। ३३ ।।

पुत्रोर्योद्दातिमं * * * न्तस्यां शौचं विधीयते ।

प्. १३०)

आशौचं ज्ञातिभिस्सार्धं तस्य नास्ति क्रमेण च ।। ३४ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् ।
वित्तहारी स एव स्यात् तथाऽयमधुनोच्यते ।। २५ ।।

पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना कथम् ।
यत्क्रियाश्शिष्योऽथारभ्य आचार्यपरिचारकाः ।। ३६ ।।

यजमानः क्रियापूर्तेः पुनराशौचमुत्पन्न चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। ३७ ।।

  • * समाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।

दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ।। ३८ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।

प्. १३१)

संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। ३९ ।।

कारयेत् स तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यदिनं गव्यस्नानं पुण्याहं कृत्वा ।। ४० ।।

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। ४१ ।।

शावेन शुध्यते सूति न सूतिश्शावशोधनी ।
सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।। ४२ ।।

अल्पात् पन्नदिकं दशदिनं
गच्छेद शु * * * * * * * मम् ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात्
शुद्धे प्रभाते त्र्यहात् * * * * * ।। ४३ ।।

प्. १३२)

अयं अर्धदिनं प्रभृति द्वित्रिक्रमेण चर्द्धियेत् ।
जाताशौचं प्रोक्तं गरीकगणीकाशौचं शृणु ।। ४४ ।।

जन्माशौचं चतुर्दशाहेन शुद्ध्यति ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्राह्यघमाचरेत् ।। ४५ ।।

तुर्यं दशाहं पुत्री चेत् तदेव सहजात्मनाम् ।
त्रयोदशरात्रं स्यान्नवाहे यदि पञ्चमी ।। ४६ ।।

ष * * * * * * * * प्ते षड्दिनमचरेत् ।
अन्यगोत्रप्रविष्टानां दिवमौशौचमेव च ।। ४७ ।।

यन्नास्ति भर्तुराशौचं भार्यायाश्च न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। ४८ ।।

प्. १३३)

तुर्यो * * * * * * स्तस्याशौचं विधीयते ।
आशौचज्ञातिभिस्सार्धं तस्य नास्ति क्रमेण च ।। ४९ ।।

मातृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् ।
रुग्मभागी स एव स्यात् तथाघमधुनोच्यते ।। ५० ।।

पूर्वगोत्रोद्भवस्यापि पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो * ह्यारभ्य चाचार्य परिचारकाः ।। ५१ ।।

यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। ५२ ।।

आशौचमाचरे * * * * * * स्नानं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। ५३ ।।

प्. १३४)

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादि कर्माणां स्वगोत्रेन्नास्ति चेत् पुनः ।। ५४ ।।

कारयेत् संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं पुण्याहं कृत्वा ।। ५५ ।।

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। ५६ ।।

शावेन शुद्ध्यते सूतिर्न सूतिस्शावशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।। ५७ ।।

अल्पात् पञ्चदिनाकंददिनं गच्छेद् दशात् समम् ।
पूर्वान्त्यदिने यदि द्विदिवसार्धे प्रभाते त्र्यहात् ।। ५८ ।।

प्. १३५)

अयं अर्धदिनं प्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
रुद्रगणिकाघं प्रोक्तं देवदास्याशौचं शृणु ।। ५९ ।।

जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् ।
स्वगोत्रे पुत्रजातिश्चेत् तद्गोत्रोह्यघमाचरेत् ।। ६० ।।

पञ्चदशाहे पुत्री चेत् तद्देवसहजातानाम् ।
स चतुर्दशरात्रं स्याद् दशाहे यदि पञ्चमी ।। ६१ ।।

षष्ठे च वसुहाश्शुद्धिस्सप्ते सप्तदिनं क्रमात् ।
अन्यगोत्र प्रविष्टानां दायमं चाशौचमेव च ।। ६२ ।।

यत् स्नाति भर्तुराशौचं भार्यांशाश्चास्ति न संशयः ।
अथवान्य प्रकारेण प्रवक्ष्यामि समासतः ।। ६३ ।।

प्. १३६)

मातुर्योद्दात्रिमा पुत्रस्तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। ६४ ।।

मातृभ्यां शैशवेऽन्यत्र दात्रो यस्तत्र कर्मकृत् ।
रुत्थहारि स एव स्यात्तदाघमधुनोच्यते ।। ६५ ।।

पूर्वगोत्रेण संबन्धं मातृभ्यां तु विना कदा ।
यत्क्रियाशिष्योह्यारभ्य चाचार्य परिचारकाः ।। ६६ ।।

यजमानक्रियापूर्तेः पुनराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। ६७ ।।

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। ६८ ।।

प्. १३७)

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं संप्रोक्षणं कृत्वा ।। ६९ ।।

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावौशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। ७० ।।

शावेन शुध्यते सूतिर्न सूतिश्शव शोधनैः ।
सूतिकं सूतिकेनैवं शावं शावेन शुध्यति ।। ७१ ।।

अल्पात् पञ्चदिनाधिकदशदिनं गच्छेद्दशाभाद्गमः ।
पूर्वस्यांतदिने यदि द्विवसात् शुद्धे प्रभाते त्र्यहात् ।। ७२ ।।

अयं अर्धदिनं प्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
पुरुषोक्तवदाचार्य देवदास्याश्च कल्पिताः ।। ७३ ।।

प्. १३८)

मोक्षगोत्रास्त्वन्योन्यमाचरेदघमद्यथाः ।
एतत् शास्त्रं परित्यज्य चान्यशास्त्रं न चिन्तये ।। ७४ ।।

देवदास्याशौचं प्रोक्तं अपारशावाशौचं शृणु ।
जन्माशौचं मृताशौचं चक्षुषो शुध्यति क्रमात् ।। ७५ ।।

स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रेन्य च माचरेत् ।
पञ्चदशाहं पुत्री चेत् तदैव सहजात्मनाम् ।। ७६ ।।

स चतुर्दशरात्रं स्याद्दशाहे यदि पञ्चमी ।
षष्ठेषु सस्यहात् शुद्धिसप्ते स क्रमात् ।। ७७ ।।

अन्यगोत्र प्रविष्टानां दायमाशौचमेव च ।
यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।। ७८ ।।

प्. १३९)

अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।
पुत्रोर्यात् दात्रं पुत्रस्तस्याशौचं विधीयते ।। ७९ ।।

आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।
पितृभ्यां शैशवेऽन्यत्र दत्रो यस्तत्र कर्मकृत् ।। ८० ।।

रिक्षहारी स एव स्यात् तदाघमधुनोच्यते ।
पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।। ८१ ।।

यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः ।
यजमानः क्रियापुत्रे पुराशौचमुत्पन्नं चेत् ।। ८२ ।।

गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।
आशौचमाचरेत् पश्चात् कदा योग्यदिनं क्रमात् ।। ८३ ।।

प्. १४०)

दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।
उत्पन्नं यदि यत्काले तद्वदाशौच माचरेत् ।। ८४ ।।

संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।
कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।। ८५ ।।

पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।
पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।। ८६ ।।

शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।
शावेन शुद्ध्यते सूतिन्नसूतिश्शवशोधनैः ।। ८७ ।।

सूतिकासूतिकेनैव शवाश्शावेन शुद्ध्यति ।

प्. १४१)

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहागमः ।। ८८ ।।

पूर्वस्यान्त्यदिने वदि द्विदिवसार्धे प्रभाते त्र्यहात् ।
अयं अर्धदिनं प्रभृति एकद्वित्रि क्रमेण वर्धयेत् ।। ८९ ।।

पारश्शवाशौचं प्रोक्तं माहेश्वराशौचं शृणु ।
जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् ।। ९० ।।

स्वगोत्रे पुत्रजाता हेतद्गोत्रस्समाचरेत् ।
पञ्चादशाहं पुत्री चेत् तदैव सहजात्मनाम् ।। ९१ ।।

स चतुर्दशरात्रं स्याद्दशाहे यदि पञ्चमी ।
षष्ठे तु सहसा शुद्धे सप्ते सप्तदिनं क्रमात् ।। ९२ ।।

अन्यगोत्रे प्रविष्टानां दायमाशौचमेव च ।

प्. १४२)

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः ।। ९३ ।।

अथवान्य प्रकारेण प्रवक्ष्यामि समासतः ।
पित्रोर्योदत्रिः? पुत्रस्तस्याशौचं विधीयते ।। ९४ ।।

आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।
पितृभ्यां शैशवेऽन्यत्र दत्तोऽयं तत्र कर्मकृत् ।। ९५ ।।

रूडहारी स एव स्यात् तथाघमधुनोच्यते ।
पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत् क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः ।। ९६ ।।

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। ९७ ।।

प्. १४३)

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। ९८ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। ९९ ।।

कारयेत् संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। १०० ।।

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। १०१ ।।

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावा शावेन शुध्यति ।। १०२ ।।

प्. १४४)

अल्पात् पञ्चदीन शाहाद्गमः * * * * ।
पूर्वस्यान्तदिने यदि द्विदिवसं शुद्धे प्रभाते त्र्यहात् ।। १०३ ।।

अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
माहेश्वराशौचं प्रोक्तं वैश्याशौचं अथ शृणु ।। १०४ ।।

जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत् ।। १०५ ।।

पञ्चदशाहं पुत्री चेत् तदेव सहजात्मनाम् ।
स च तु * * * * स्याद्दशाहे यदि पञ्चमी ।। १०६ ।।

षष्ठे रहसात् शुद्धिः सप्ते सप्तदिनं क्रमात् ।
अन्यगोत्र प्रविष्टानां दायमाशौचमेव च ।। १०७ ।।

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न शंशयः ।

प्. १४५)

अथवान्य प्रकारेण प्रवक्ष्यामि समासतः ।। १०८ ।।

पुत्रोर्यो दात्रिमा पुत्रस्तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। १०९ ।।

पितृभ्यां शैश * * * * * यस्तत्र कर्मकृत् ।
रूढहारी स एव स्यात्तथाघमधुनोच्यते ।। ११० ।।

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत् क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः ।। १११ ।।

यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। ११२ ।।

आशौचमाचरेत् पश्चात् तदायोग्यदिनं भवेत् ।

प्. ४५६)

दीक्षितानां व्रतस्थानां योगिनां तथैव च ।। ११३ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। ११४ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। ११५ ।।

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने * * * * यथा भवेत् ।। ११६ ।।

शावेन शुध्यते सूतिर्न्नसूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति ।। ११७ ।।

अल्पात् पञ्चदिनादिकं दशदिनं गच्छेद्दशाभाद्गमाः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। ११८ ।।

प्. १४७)

  • * द्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।

वैश्याशौचमिति प्रोक्तं शूद्राशौचमथ शृणु ।। ११९ ।।

जन्माशौचं मृताशौचं एकमासेन शुध्यति ।
स्वगोत्रे पुत्र जातश्चेत् तत्घोरक्रममाचरेत् ।। १२० ।।

एकमासेन पुत्री चेत् तदैव सहजात्मनाम् ।
अघपञ्चदशाहं स्यादेकादशाहे पञ्चमी ।। १२१ ।।

षष्ठे वा हात् शुद्धिस्सप्तवसुदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। १२२ ।।

यद्यस्ति भुर्तुराशौचं भार्याश्चास्ति न संशयः ।
अथवान्य प्रकारेण प्रवक्ष्यामि समासतः ।। १२३ ।।

प्. १४८)

पुत्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। १२४ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् ।
रूढहारी स एव स्यात् तथाघमधुनोच्यते ।। १२५ ।।

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः ।। १२६ ।।

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। १२७ ।।

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। १२८ ।।

प्. १४९)

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादि कर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। १२९ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। १३० ।।

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। १३१ ।।

शावेन शुद्ध्यते सूतिर्नसूतिश्शवशोधनैः ।
सूतिकस्सूतिकेनैव शावं शावेन शुध्यति ।। १३२ ।।

अल्पं पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहाद् गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। १३३ ।।

प्. १५०)

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
शूद्राशौचमिति प्रोक्तं करकोलाशौचं शृणु ।। १३४ ।।

जन्ममृताशौचं त्रिंशद्दिने शुद्ध्यती वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत् ।। १३५ ।।

चतुस्त्रिंशद्दिने पुत्री चेत् तदा सहजात्मनाम् ।
अघं षड्दशरात्रं स्याद्द्वादशाहे च पञ्चमी ।। १३६ ।।

षष्ठे दशाहशुद्धिस्स्यात् सप्ते नवदिनं क्रमात् ।
अन्यगोत्रे प्रविष्टानां दायमाशौचमेव च ।। १३७ ।।

यद्यस्ति भर्तुराशौ च भायीञ्चास्ति न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। १३८ ।।

प्. १५१)

पुत्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। १३९ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् ।
रूढहारी स एव स्यात्तथाघमधुनोच्यते ।। १४० ।।

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः ।। १४१ ।।

यजमानः क्रियापूर्ते पूराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। १४२ ।।

संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।
कारयेत् संस्कारादि तत्कर्माणि समाचरेत् ।। १४३ ।।

प्. १५२)

पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।
पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।। १४४ ।।

शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।
शावेन शुध्यते सूतिर्नसूतिश्शवशोधनैः ।। १४५ ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशात् गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। १४६ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
कारकोलाशौचं प्रोक्तं भट्टार्या शौचं शृणु ।। १४७ ।।

जन्ममृताशौचौ तु स्त्रिंशद्दिने शुद्ध्यती वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् ।। १४८ ।।

प्. १५३)

चतुस्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् ।
अघं षड्दशरात्रं स्यात् अर्हो दशाहे च पञ्चमी ।। १४९ ।।

षष्ठदशाहात् शुद्धिस्स्यात् सप्ते नवदिनं क्रमात् ।
अन्यगोत्र प्रविष्टानां दायमाशौचमेव च ।। १५० ।।

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः ।
अथवान्य प्रकारेण प्रवक्ष्यामि समासतः ।। १५१ ।।

पुत्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। १५२ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् ।
रूढहारी स एव स्यात् तथाघमधुनोच्यते ।। १५३ ।।

प्. १५४)

पूर्वगोतेन संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः ।। १५४ ।।

यजमानः क्रियापूर्ते पुरा शौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। १५५ ।।

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। १५६ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कृत्वा दिनकर्माणां स्वगोत्रन्नास्ति चेत् पुनः ।। १५७ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। १५८ ।।

प्. १५५)

पुनः कर्माणि सर्वाणि कारयेत् च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। १५९ ।।

शावेन शुद्ध्यते सूतिर्न सूतिश्शव शोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति ।। १६० ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशात्गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। १६१ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
भट्टार्याशौचं प्रोक्तं शाल्याशौचं ततश्शृणु ।। १६२ ।।

जन्ममृताशौचौ चतुस्त्रिंशद्दिने शुद्ध्यती वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् ।। १६३ ।।

प्. १५६)

चतुस्त्रिंशद्दिने पुत्री चेत् तदा सहजात्मनाम् ।
अघं षड्दशरात्रं स्याद्द्वादशाहे च पञ्चमी ।। १६४ ।।

षष्ठे दशाह शुद्धिस्सप्ते नवदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। १६५ ।।

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। १६६ ।।

पित्रो यो दात्रिमः पुत्रस्तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धस्तस्य नासीत् क्रमेण च ।। १६७ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् ।
रूढहारी स एव स्यात्तथाघमधुनोच्यते ।। १६८ ।।

प्. १५७)

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्योह्यारभ्य चाचार्यपरिचारकाः ।। १६९ ।।

यजमानः क्रियापूर्ते * * शौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। १७० ।।

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। १७१ ।।

उत्पन्नं यदि यत्काले द्वादशाशौचमाचरेत् ।
संस्कारादिकर्मणां स्वगोत्रं नास्ति चेत् पुनः ।। १७२ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। १७३ ।।

प्. १५८)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। १७४ ।।

शावे न शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।। १७५ ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद् दशाहात्गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। १७६ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
शाल्याशौचमिति प्रोक्तं शिल्पाशौचमथ शृणु ।। १७७ ।।

जन्ममृताशौचे पञ्चःस्त्रिंशद्दिनेन शुध्यति वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत् ।। १७८ ।।

प्. १५९)

पञ्चाशद् दिन पुत्री चेत् तदा सहजात्मनाम् ।
युगसप्तदशाहं स्यात् त्रयोदश दशाहेति पञ्चमी ।। १७९ ।।

षष्ठे रुद्रदिनात् शुद्धिः सप्तदशदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। १८० ।।

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। १८१ ।।

पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। १८२ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् ।
रूढहारी स एव स्यात् तदाघमधुनोच्यते ।। १८३ ।।

प्. १६०)

पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः ।। १८४ ।।

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। १८५ ।।

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। १८६ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। १८७ ।।

कारयेत्तु संस्कारादिकर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। १८८ ।।

प्. १६१)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। १८९ ।।

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति ।। १९० ।।

अल्पात् पञ्चादिनाधिकं दशदिनं गच्छेद्दशाहात्गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। १९१ ।।

अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
शिल्प्यघमप्रोक्तं कुलालाशौचं शृणु क्रमात् ।। १९२ ।।

जन्ममृताशौचौ पञ्चस्त्रिंशद्दिनेन शुद्ध्यति वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् ।। १९३ ।।

प्. १६२)

पञ्चत्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् ।
युगसप्तदशाहं स्यात् त्रयोदशाहे पञ्चमी ।। १९४ ।।

षष्ठे रुद्रदिनात् शुद्धिस्सप्तमे दशदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। १९५ ।।

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। १९६ ।।

पित्रोर्यात् दात्रिमः पुत्रः तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। १९७ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् ।
रूढहारी स एव स्यात् तदाघमधुनोच्यते ।। १९८ ।।

प्. १६३)

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः ।। १९९ ।।

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। २०० ।।

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। २०१ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। २०२ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। २०३ ।।

प्. १६४)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। २०४ ।।

शावेन शुद्ध्यते सुतिर्न्नसूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति ।। २०५ ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। २०६ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
कुलालाघमिति प्रोक्तं राजकान्विमथ शृणु ।। २०७ ।।

जन्माशौचं मृताशौचं * * * * शुद्ध्यती वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् ।। २०८ ।।

प्. १६५)

षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् ।
युगमूर्ति दशाहं स्यात् चतु * * * * * * ।। २०९ ।।

षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। २१० ।।

तदस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।
अथवान्य प्रकारेण प्रवक्ष्यामि समासतः ।। २११ ।।

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। २१२ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् ।
रुत्थहारी स एव स्यात् तदाघमधुनोच्यते ।। २१३ ।।

प्. १६६)

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाशिष्यो ह्यारभ्य चाचार्यपरिचारकाः ।। २१४ ।।

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। २१५ ।।

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। २१६ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। २१७ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। २१८ ।।

प्. १६७)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। २१९ ।।

शावेन शुद्ध्यते सूतिर्न सूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति ।। २२० ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। २२१ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
राजकाघमिति प्रोक्तं सूचिकाघमथ शृणु ।। २२२ ।।

जन्माशौचं मृताशौचं षट्त्रिंशद्दिनेन शुद्ध्यती वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् ।। २२३ ।।

प्. १६८)

षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् ।
युगमूर्ति दशाहं स्यात् चतुर्दशाहे पञ्चमी ।। २२४ ।।

षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। २२५ ।।

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। २२६ ।।

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। २२७ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् ।
रुत्थहारी स एव स्यात् तदाघमधुनोच्यते ।। २२८ ।।

प्. १६९)

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः ।। २२९ ।।

यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। २३० ।।

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। २३१ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। २३२ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। २३३ ।।

प्. १७०)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। २३४ ।।

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।। २३५ ।।

अल्पान् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः ।
पूर्वस्यान्त्यदिने यदिद्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। २३६ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
सूचिकाघमिदं प्रोक्तं तैलविक्रयाशौचं शृणु ।। २३७ ।।

जन्माशौचं मृताशौचं षट्त्रिंशद्दिनेन शुद्ध्यती वा ।
स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् ।। २३८ ।।

प्. १७१)

षट्त्रिंशद्दिने पूत्रीचेत् तदा सहजात्मनाम् ।
युगमूर्तिदशाहं स्यात् चतुर्दशाहे च पञ्चमी ।। २३९ ।।

षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् ।
अन्यगोत्र प्रविष्टानां दायमाशौचमेव च ।। २४० ।।

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। २४१ ।।

पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। २४२ ।।

पित्रभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् ।
रुत्थहारी स एव स्यात् तथाघमधुनोच्यते ।। २४३ ।।

प्. १७२)

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः ।। २४४ ।।

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। २४५ ।।

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। २४६ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः ।। २४७ ।।

कार्ययेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। २४८ ।।

प्. १७३)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। २४९ ।।

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।। २५० ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। २५१ ।।

अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
तैलविक्रया शौचं प्रोक्तं ताम्बूलविक्रयाशौचं प्रोक्तं ।। २५२ ।।

  • * * * * ताम्बूल विक्रयाघमथ शृणु ।

जन्माशौचं मृताशौचं षट्त्रिंशत् दिनेन शुध्यतीव ।। २५३ ।।


स्वगोत्रे पुत्र जातश्चेत् तद्गोत्राह्यघमाचरेत् ।। २५४ ।।

प्. १७४)

षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् ।
युगमूर्ती दशाहं स्यात् चतुर्दशाहे पञ्चमी ।। २५५ ।।

षष्ठे भानुदिनात् शुद्धिस्सप्ते रुद्रदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। २५६ ।।

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। २५७ ।।

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च ।। २५८ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् ।
रुत्थहारी स एव स्यात् तथाघमधुनोच्यते ।। २५९ ।।

प्. १७५)

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः ।। २६० ।।

यजमानः क्रियापूर्तेः पुरा शौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्मसमाचरेत् ।। २६१ ।।

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् ।
दीक्षितानां व्रस्थानां योगिनां च तथैव च ।। २६२ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादि कर्माणां स्वगोत्रं नास्ति चेत्पुनः ।। २६३ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। २६४ ।।

प्. १७६)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। २६५ ।।

शावेन शुध्यते सूतिर्न सूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।। २६६ ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशाहात्गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। २६७ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
ताम्बूलं विक्रिया प्रोक्तं गोपालाघमथ शृणु ।। २६८ ।।

जन्माशौचं मृताशौचं एकमासेन शुध्यति ।
स्वगोत्रे पुत्रजातश्चेत् तत् गोत्राह्यघमासेत् ।। २६९ ।।

प्. १७७)

एकमासेन पुत्री चेत् तदेव सहजात्मनाम् ।
स पञ्चदशाहं स्यादेकादशाहे पञ्चमी ।। २७० ।।

षष्ठे नवाहात् शुद्धिस्सप्ते वसुदिनं क्रमात् ।
अन्यगोत्रप्रविष्टानां दायमाशौचमेव च ।। २७१ ।।

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः ।
अथवान्यप्रकारेण प्रवक्ष्यामि समासतः ।। २७२ ।।

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते ।
आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण तु ।। २७३ ।।

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् ।
रुत्थहारी स एव स्यात् तथाघमधुनोच्यते ।। २७४ ।।

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा ।
यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः ।। २७५ ।।

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् ।
गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् ।। २७६ ।।

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् ।
दीक्षितानां व्रतस्थानां योगिनां च तथैव च ।। २७७ ।।

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ।
संस्कारादिकर्माणां स्वगोत्रन्नास्ति चेत् पुनः ।। २७८ ।।

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् ।
पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा ।। २७९ ।।

प्. १७९)

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः ।
शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् ।। २८० ।।

शावेन शुध्यते सूतिर्न सूतिश्शवशोधनैः ।
सूतिकं सूतिकेनैव शावं शावेन शुध्यति ।। २८१ ।।

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशाहात् गमः ।
पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् ।। २८२ ।।

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् ।
गोपालाघमिति प्रोक्तं विशेषाघमथ शृणु ।। २८३ ।।

उत्सवादीनि तीर्थान्तं सूतकप्रेतकन्न हि ।
दीक्षितस्यैकपुत्रस्य मातापित्रो मृते सति ।। २८४ ।।

प्. १८०)

संस्कुर्यात् यागशालायां यागशेषं समाचरेत् ।
तत्पुत्रस्य विशेषोऽस्ति सद्य स्नानेन शुध्यति ।। २८५ ।।

दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् ।
जन्माशौचं मृताशौचं न कदाचन विद्यते ।। २८६ ।।

विकारवयोधिक्यं वा ब्रह्मचर्यं न योग्यकम् ।
एतत् शास्त्रं परित्यज्य चान्यशास्त्रं न चिन्तयेत् ।। २८७ ।।

यत् क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः ।
आचार्याश्चेत् पुरा तेषां निर्दोषमिति कथ्यते ।। २८८ ।।

यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः ।
मूर्तयश्चेत् पुरा तेषां निर्दोषमिति कथ्यते ।। २८९ ।।

प्. १८१)

कर्तारश्चेत् पुरा तेषां निर्दोषमिति कथ्यते ।
यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः ।। २९० ।।

कर्माणि श्चेत् पुरा तेषां निर्दोषमिति कथ्यते ।
यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः ।। २९१ ।।

विशेषाघमिति प्रोक्तं प्रायश्चित्त विधिः शृणु ।
आरम्भस्य क्रियाकाले दोषमुत्पन्न कारयेत् ।। २९२ ।।

क्रियापूर्णं तु दोषाय जिह्वाकाकबलिं क्षिपेत् ।
गव्येन देवकर्माणि कुर्वन्त्यतित एव तु ।। २९३ ।।

स्नपनं शान्तिहोमं च कारयेद्देशिकोत्तमः ।
शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम् ।। २९४ ।।

प्. १८२)

शङ्खध्वनि समायुक्तं वाद्यघोषसमाकुलम् ।
त एव तु स मोहेन युद्धमेवे शयं त्यदि ।। २९५ ।।

स्नपनं मूर्तिहोमं च कारयेद्देशिकोत्तमः ।
शुद्धान्नं दापयेत् पश्चात् पश्चात् शुद्धसमन्वितम् ।। २९६ ।।

शङ्खध्वनिसमायुक्तं वाद्यघोषसमाकुलम् ।
पीठवृत्तं प्रभृत्येव गर्भगेहान्तमेव च ।। २९७ ।।

यत्परे स्पर्शने चैव विशेषकर्मोदाहृतः ।
अश्मोद्वासनदूर्वे वा वेशयत्यादि एव ते ।। २९८ ।।

उक्तस्थानेषु स्नपनं बेरस्पृष्टौ च कारयेत् ।
शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम् ।। २९९ ।।

प्. १८३)

शङ्खध्वनिसमायुक्तं वाद्यघोषसमाकुलम् ।
आशौचद्रव्यसंबन्धं कारयेद्यदि मन्त्रवित् ।। ३०० ।।

ततस्तु देवपूजानां स्नपनं शान्तिहोमकम् ।
शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम् ।। ३०१ ।।

शङ्खध्वनि समायुक्तं वाद्यघोषसमाकुलम् ।
आशौचविधिराख्याता सर्वशास्त्रेषु भाषितम् ।। ३०२ ।।

इति चन्द्रज्ञाने आशौचविधिः विंशतिः पटलः ।।


प्. १८४)

श्रिः

(महोत्सवपटलः)

महोत्सवविधिं वक्ष्ये शृणुष्वैकाग्रमानसः ।
सर्वराष्ट्र विवृद्ध्यर्थं सदा विजयवर्धनम् ।। १ ।।

सर्वरोगविनाशार्थं सर्वमतप्रियावहम् ।
ध्वजाङ्कुरार्पणं पूर्वं द्वितीयं चोत्सवाङ्कुरम् ।। २ ।।

तीर्थाङ्कुरं तृतीयं च त्रिविधं चोत्सवान्तकम् ।
प्रथमं वृषयागं तु द्वितीयं देवतासनम् ।। ३ ।।

तृतीयं भेरिघोषं स्याद् बलिदानं चतुर्थकम् ।
रोहणं पञ्चमं कृत्वा षष्ठं तु यागशालकम् ।। ४ ।।

सप्तमं कौतुकं कुर्यात् अष्टमं होमकर्मणि ।
नवमे चोत्सवं कुर्याद्दशमं परिवेष्टकम् ।। ५ ।।

प्. १८५)

गणपतेः स्नानमेवोक्तं कौतुकालं कृतं भवेत् ।
ग्रामप्रदक्षिणं कृत्वा अपूपं कदलीफलम् ।। ६ ।।

एकादशं रथारोहं द्वादशे अवरोहणम् ।
त्रयोदशममृ * * चूर्णोत्सवं चतुर्दशम् ।। ७ ।।

तीर्थारम्भे तदन्ते च चण्डयागं तु षोडश ।
ध्वजावरोहणं पश्चात् शुद्धस्नानमतः परम् ।। ८ ।।

गौरीयागं तदन्ते तु भक्तोत्सवमनन्तरम् ।
विंशद्भेदमिति ख्यातं ज्ञात्वा कर्म समाचरेत् ।। ९ ।।

उत्सवं त्रिविधं ज्ञेयं पुष्कलं विजयं भवेत् ।
पैत्रं तु द्वादशाहं तु दशमं शैवमेव च ।। १० ।।

  • * * सौख्यमेवं तु उत्सवं त्रिविधं भवेत् ।


प्. १८६)

ध्वजारोहणपूर्वे तु अङ्कुरं भेरिपूर्वकम् ।। ११ ।।

अङ्कुरार्पणपूर्वे तु तद्दिने ध्वजमारभेत् ।
त्रिगुणे द्विगुणे काले कारयेद्देशिकोत्तमः ।। १२ ।।

उत्सवं च प्रतिष्ठायां प्रदोषदिनमारभेत् ।
पूर्वाह्ने रविमध्ये तु सायाह्ने रोहणं भवेत् ।। १३ ।।

तद्दिने तु मुहूर्तं वा एवं वापेच्च बुद्धिमान् ।
पूर्वाह्ने ब्रह्मवर्गस्य मध्याह्ने * * * * नम् ।। १४ ।।

सायाह्ने सर्वरक्षार्थं सदा विजयवर्धनम् ।
ध्वजोत्थानादि तीर्थान्तं साकल्यं चेति कथ्यते ।। १५ ।।

वृषध्वजं विना भौमं शेषं पूर्वदेव तु ।

प्. १८७)

वापनान्तं समाख्यातं शान्तं तत्तद्यदृच्छया ।। १६ ।।

भक्त्या केचित् काले शिवात्सवम् * * * * * * ।
शान्तमेवं समाख्यातं मङ्गलं तु तथोच्यते ।। १७ ।।

पूर्वाह्ने वा पराह्ने वा केवलं चोत्सवं कृतम् ।
एतं मङ्गलमित्युक्तं त्रि * * * * * * * ।। १८ ।।

सौरं च सावनं चैव चन्द्रनक्षत्रमेव च ।
एतच्चतुर्विधे मासे कारयेदुत्सवं तदा ।। १९ ।।

सौरं सावनतीर्थान्तं सालोक्यादिफलं भवेत् ।
चन्द्रनक्षत्रतीर्थान्तं सर्वसंपत्सुखावहम् ।। २० ।।

भास्करस्य गतिर्यावत् सौरराशौ तमेव च ।

प्. १८८)

स्थण्डिलस्य ददेद्देवं हस्तेनैव त्रयस्तथा ।। २१ ।।

पश्चात् प्रतिसरं बद्ध्वा त्र्यंबकेनैव मन्त्रतः ।
देवानां दक्षिणे हस्ते बन्धनं प्रतिसरस्य वै ।। २२ ।।

बृहत्सामेति मन्त्रेण देव्याः प्रतिसरं तथा ।
मन्त्रवासस्य मन्त्रेण मन्त्रवासं ददेद्बुधः ।। २३ ।।

आयुष्मान् पञ्चभिर्मन्त्रैर्घोषयेद् ब्रह्मसंघकैः ।
अक्षतांश्च ददेद्देवे धूपं दीपं च दापयेत् ।। २४ ।।

मुद्गान्नं तड्डुकं चैव अपूपानेक भक्षणैः ।
सर्वोपदंशसंयुक्तं आज्यं दुग्धेन संयुतम् ।। २५ ।।

मधुवाता ऋतो येति हविर्निवेदयेत् तदा ।

प्. १८९)

पश्चात् विसृज्य निर्माल्यं * * * * * * * * त् ।। २६ ।।

पश्चात् ताम्बूलकं दत्त्वा दर्पणं दर्शयेत् ततः ।
छत्रं च चामरं चैव दापयेत्तु विचक्षणः ।। २७ ।।

ब्राह्मणान् दर्शयेच्चैव ब्रह्मजज्ञानमन्त्रतः ।
गौर्धेन भव्या मन्त्रेण संवत्साङ्गं प्रदर्शयेत् ।। २८ ।।

नन्दीशं प्रतिसरं बद्ध्या महावाद्यं प्रताडयेत् ।
आहूय वाद्यकान् सर्वान् महानाड्यां च दर्शयेत् ।। २९ ।।

  • * * * * * * * गीतं वाद्यं च घोषयेत् ।

गीतं चैव समायुक्तं पूतो त्येन सनर्तकैः ।। ३० ।।

शिबिकां रोपयेद्धीपान् सर्वालङ्कारसंयुतम् ।

प्. १९०)

हर्म्य प्रदक्षिणं कृत्वा आस्थानमण्टपं विशेत् ।। ३१ ।।

नृत्तगेयादि संयुक्तं रात्रौ जागरमेव च ।
प्रभाते विमले स्नानमाचार्यश्च समाचरेत् ।। ३२ ।।

सोष्णीषं चोत्तरीयं च सर्वगन्धानुलेपनम् ।
सर्वाभरण संभूष्य सर्वमाल्यैपि भूषयेत् ।। ३३ ।।

नटेश्वरं वस्त्रेणाच्छाद्य सर्वालंकारसंयुतम् ।
स्थण्डिलद्वितयं कृत्वा प्रतिमां चैकतो न्यसेत् ।। ३४ ।।

आगरो कृष्णसत्गन्धैः द्वितीये संस्थिलोपरि ।
तस्मिन् गन्धं त्रिधा भज्य पूण्याहं वाचयेत्ततः ।। ३५ ।।

गन्धशुद्ध्यर्थकंरेण देवं व्रत समाचरेत् ।

प्. १९१)

होमयेत्तु विशेषेण अग्निकार्यं सुबुद्धिमान् ।। ३६ ।।

गन्धशुध्यर्थकारेण गन्धद्वारेति मन्त्रतः ।
अष्टोत्तरशतं हुत्वा आज्येन समिधान्नकैः ।। ३७ ।।

व्रतस्य सदृशं चैव वनपरैः मूलमन्त्रकैः ।
आज्येन चरुणा चैव तिलमुद्गयवैस्तथा ।। ३८ ।।

लाजेन जुहुयाद्धीमान् प्रत्येकं तु शताहुतिः ।
होमं कृत्वा विशेषेण देशिकश्चैव बुद्धिमान् ।। ३९ ।।

होमव्यापिनमेवोक्त्वा गामदत्त्वा वकुर्वतान् ।

  • * * * * * * * गन्धं चैवाधिकं भवेत् ।। ४० ।।


मासनक्षत्रमेवोक्तं जात्वैवं ह्येवमेव च ।

प्. १९२)

प्रतिसंवत्सरं मासं तिथिं निश्चित्य ऋक्षयुक् ।। ४१ ।।

आरम्भमुत्सवे हीने यथेष्टं मासि वा नयेत् ।
उत्तमं मध्यमं चैव कन्यसं त्रिविधं भवेत् ।। ४२ ।।

  • * * * र्थनक्षत्र व्यक्ता सोत्य प्रतिक्रिया ।

यागारम्भस्य पूर्वे तु व्यत्यासो ज्ञातये सति ।। ४३ ।।

  • * * * * * * * * * * * * * * * ।
  • * * * * * * श्चा तद्भावारोपयेत् पुनः ।। ४४ ।।


प्रायश्चित्तं तु कर्तव्यं शान्तिहोमं समाचरेत् ।
आर्द्रान्तं वैष्णवान्तं वा रोहिण्यन्ममथापि वा ।। ४५ ।।

सर्वमासेषु कर्तव्यं किं कर्तव्यमिति स्मृतौ ।

प्. १९३)

एकमासे विधानेन का * * * * * * * ।। १४६ ।।

  • * * * * * * * * * * * * * * * ।
  • * * * * * * * * * * तीर्थमाचरेत् ।। ४७ ।।


शिवोत्सवारम्भकाले तु नैष्टमन्योत्सवं ततः ।
अन्यदेवोत्सवे काले महादेवोत्सवं कृतम् ।। ४८ ।।

पुरारब्धान्य देवानामुत्सवं न च दोषभाक् ।
तस्मात् शिवोत्सवान्मध्ये त्वारब्धस्सर्वदोषभाक् ।। ४९ ।।

शिवयागं च योऽन्यं च एककाले कृतं यदि ।
विफलं तदवाप्नोति चैकस्मिन् न च वस्तुनि ।। ५० ।।

ध्वजाध्वजं न कर्तव्यं कर्तव्यं वृषभध्वजम् ।

प्. १९४)

देवानामपि कल्याणे नृकल्याणं न कारयेत् ।। ५१ ।।

कारयेद्यदि शोकं तु व्याधिशोकमवाप्नुयात् ।
ग्रामे वा नगरे वापि पत्तने राजधानिके ।। ५२ ।।

सर्वदेवोत्सवं कुर्याद् दोषमत्र न विद्यते ।
त्रिविधं उत्सवारम्भं कारयेत्तु विचक्षणः ।। ५३ ।।

सप्तविंशतिनक्षत्रे ध्वजारोहणमारभेत् ।
अष्टाविंशद्दिनानां तु भेरीताडन पूर्ववत् ।। ५४ ।।

अङ्कुरार्पणपूर्वे तु सद्योऽधिवासनं शृनु ।
ध्वजारोहणपूर्वे तु पश्चात् भेरीं तु ताडयेत् ।। ५५ ।।

भेरीघोषणपूर्वे तु पश्चादारोहणं भवेत् ।

प्. १९५)

अङ्कुरार्पण पूर्वं स्यात् पश्चात् भेरीं तु ताडयेत् ।। ५६ ।।

एतद्दिनं समासेन एवं वै प्रथमेऽहनि ।
सद्योऽधिवासनं कुर्यात् तद्दिनं सर्वमेव च ।। ५७ ।।

ध्वजपटलक्षणं कुर्यात् द्वादशं हस्तमेव च ।
दशहस्तं समायुक्तं सप्तहस्तमथापि वा ।। ५८ ।।

षट्तालं पञ्चतालं वा चतुस्तालमथापि वा ।
त्रिपुच्छं शिखरं ज्ञेयं पुच्छद्वयसमायुतम् ।। ५९ ।।

तत्पदं पञ्चधा भज्य मध्यमं वृषपालिके ।
श्वेतपद्मासनं युक्तं स्थितं वा शयनं तु वा ।। ६० ।।

श्वेतवर्णं च धूम्रं च रक्तवर्णमथापि वा ।

प्. १९६)

कृष्णवर्णं लिखित्वा चेत् नृपराष्ट्रं विनश्यति ।। ६१ ।।

वृषभं श्वेतवर्णेन राजराष्ट्रं विवर्धयेत् ।
सर्वशान्तिकरं पुण्यं सर्वलोकसुखावहम् ।। ६२ ।।

श्वेतवर्णं तु रूपाणां श्रीगौ चारक्तबाहुकौ ।
कर्णौ तु पीतवर्णं स्यात् पुच्छं तद्वर्णमालिखेत् ।। ६३ ।।

कृष्णं श्वेतं तथा नीलं नयनं लेख्यमेव च ।
पादाग्रान् रक्तवर्णेन नीलवर्णं प्रसारयेत् ।। ६४ ।।

पार्श्वे तु दीपमेवोक्तं शूलवत् कारयेद् बुधः ।
छत्रं च चामरे चैव स्वस्तिकं चोर्ध्वमेव च ।। ६५ ।।

धूपं घण्टा इति प्रोक्तं दीपं चापि लिखेत्ततः ।

प्. १९७)

अङ्कुरं पूर्णकुम्भं च पुष्पवत् कारयेद्बुधः ।। ६६ ।।

सर्वालंकार संयुक्तं शिवज्ञानस्य कारणम् ।
हेत्नानयन मोक्षं च द्वितियं वृषयागकम् ।। ६७ ।।

देवाग्रे स्थण्डिलं कुर्याद् अष्टद्रोणैश्च शालिभिः ।
पद्ममष्टदलं लिख्य तन्मध्ये कर्णिकां कुरु ।। ६८ ।।

मध्यमे * * * * * * * * * * * * * * ।

  • * * * * * * * परितोष्टौ घटा न्यसेत् ।। ६९ ।।


मध्यमे वृषभं स्थाप्य लोकपालान् घटेषु च ।
तत्तत्स्वानाम मन्त्रेण लोकपालन् समर्चयेत् ।। ७० ।।

वृष बीजेन गन्धाद्यैरचयेच्चैव बुद्धिमान् ।

प्. १९८)

समिदाज्यचरुणां च होमयेत् द्रव्यमेव च ।। ७१ ।।

जयादिरभया धानं च राष्ट्रभृच्च हुनेत् क्रमात् ।
पूर्णाहुतिं च शिरसा कुम्भं संस्थाप्यमेव च ।। ७२ ।।

एवं मन्त्रं स * * * * * * * * * * * ।

  • * * * * * * * * सद्वृषभदेऽपि च ।। ७३ ।।


त्रिमूर्तिश्च * * * * * * * * * * * * ।
धूपं दीपं तु तत्काले नैवेद्यं तु निवेदयेत् ।। ७४ ।।

वृषयागं समाख्यातं अस्त्रयागं ततः क्रमात् ।
द्वितीय मा * पूज्य तृतीयमावाहनं भवेत् ।। ७५ ।।

पुण्याहं वाचयेत् तत्र कौतुकं शूलमध्यमे ।

प्. १९९)

त्रिमूर्तिं च त्रिपत्राणां पत्रमूले त्रिशक्तिका ।। ७६ ।।

पालिका गुहमेव * * * कं तत्र मेव च ।
चण्डेशं क्षेत्रपालं च भास्करं तु तथैव च ।। ७७ ।।

महाशास्ता महाकाली महामोदी तथैव च ।
मातरस्सप्त ताश्चैव विघ्नेशं वीरभद्रकौ ।। ७८ ।।

विद्येश्वराणां पादौ तु दण्डमूले तु पृथ्वीकाम् ।
शूलवत् कारयेद्धिमान् सर्वदेवप्रियार्थकम् ।। ७९ ।।

गन्धं पुष्पं च धूपं च दीपमर्घ्यं च पाद्यकम् ।
तृतीयं पूज्य विधिवत् चतुर्थं भेरिताडनम् ।। ८० ।।

सप्ततालं तु पटहं पञ्चतालं तु भेरिका ।

प्. २००)

चतुस्तालमध्यमं प्रोक्तं त्रितालमधमं भवेत् ।। ८१ ।।

समदं चर्णकं चैव देवदारुकमेव च ।
उशिलान्ते तरु ग्राह्य भेरिकालक्षणं भवेत् ।। ८२ ।।

दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुं समर्चयेत् ।
मध्ये प्रजापतिं तस्य प्रहारे स्कन्दमेव च ।। ८३ ।।

वासुकीमपि सूत्रे च वलये ह्यपि चन्द्रमाः ।
जयखण्डीं तु दैवत्य कर्मणाश्चापि रुद्रकः ।। ८४ ।।

वश्यं तम्बुरुदैवत्यं वीणायां चैव नारदम् ।
शङ्खं चन्द्रासिदैवत्यं तिमिले दित्यदेवता ।। ८५ ।।

सर्ववाद्यादिदैवत्यं आचार्यः पुष्पमेव च ।

प्. २०१)

आहूय वाद्यकं चैव सुस्नाताश्शुद्धवस्त्रधृत् ।। ८६ ।।

दीक्षिता शुद्धपरा शिवा अन्यजातीं तु वर्जयेत् ।
रोगिणं अङ्गहीनं च शक्तिहीनं च वर्जयेत् ।। ८७ ।।

सर्वलक्षणसंपन्नो सर्वसंपत्कराय च ।
धूपं दीपं हृदा दत्त्वा कौतुकं बन्धयेत् क्रमात् ।। ८८ ।।

यज्ञोपवीतमेवं तु उत्तरीयं च वस्त्रकम् ।
वाद्यकान् सर्वमेवं तु अर्चयेत् भेरिमेव च ।। ८९ ।।

सप्ततालविधि प्रोक्तं आचार्यश्शिष्य एव च ।
भेरिघोष समायुक्तं सन्धिदेवान् समर्चयेत् ।। ९० ।।

त्रिशूलं चान्नलिङ्गं च वाद्यकाले समर्चयेत् ।

प्. २०२)

ब्रह्मजज्ञानमेवं तु पूर्वं घोरेण ताडयेत् ।। ९१ ।।

इदं विष्ण्विति मन्त्रेण द्वितीयं ताडयेद् बुधः ।
त्रियम्बकेन मन्त्रेण तृतीयप्रहरमेव च ।। ९२ ।।

वाद्यको पुष्पहस्तश्च नमस्तुत्वा च भेरिकाम् ।
सप्ततालविधिः प्रोक्तं आचार्यश्शिष्य एव च ।। ९३ ।।

भेरीघोषसमायुक्तं सन्धिदेवान् समर्चयेत् ।
त्रिशूलं चान्नलिङ्गं च बलिपात्रं तथैव च ।। ९४ ।।

वृषभध्वजसंयुक्तं चन्द्रशेखरमेव च ।
ग्रामप्रदक्षिणं कृत्वा सन्धिदेवान् समर्चयेत् ।। ९५ ।।

वृषभं पूजयेत्तत्र ध्वजदण्डं विधीयते ।

प्. २०३)

चम्पकं चन्दनं चैव क्रमुको वेणुदण्डकम् ।। ९६ ।।

बिल्वं च देवदारुं च अकनं खदिरं तथा ।
वक्रभिन्नं च सुषिरं कृमिकोटर वर्जयेत् ।। ९७ ।।

ध्वजदण्ड विमानेन उत्सेधं तु विधीयते ।
वक्षस्थलसमायुक्तं गुलान्तं स्थूप्यन्तमेव वा ।। ९८ ।।

त्रितालस्य समं वापि गोपुरस्य समं तु वा ।
एकतालसमं वापि स्थूप्यन्तं वा विशेषतः ।। ९९ ।।

पूर्वं विमानहीनं च शिवोत्सव निवर्तयेत् ।
जीर्णोद्धारकृतिं कृत्वा शिवयागं समाचरेत् ।। १०० ।।

  • * * * * * * * * * * * * मेव च ।


प्. २०४)

एकविंशत्समायुक्तं दण्डोत्सेधं विधीयते ।। १०१ ।।

दण्डोत्सेधविमानं हि ध्वजस्थानं विधीयते ।
गोपुरे पीठमध्यस्थं पीठाग्रे वा वृषाग्रगे ।। १०२ ।।

महामययादिमध्ये वा ध्वजस्थानं विधीयते ।
हस्तद्वयं तथायामं खानयेत् पृथिवीं ततः ।। १०३ ।।

स्थण्डिलं शालिभिः कुर्यात् हेमकूर्चं च विन्यसेत् ।
षट्तालं पञ्चतालं वा नवतालं तथोत्तमम् ।। १०४ ।।

उपदण्डं समासेन ध्वजयष्ट्यन्तु दैर्घ्यकम् ।
त्रिविधं तत्समं कृत्वा रूपं तत् चादुवाकृति ।। १०५ ।।

सुषिरद्वयान्वितं चैव अर्धं सुषिरमेव वा ।

प्. २०५)

सन्धित्रयं तु दण्डाग्रे त्रिप्रदेशसमं तरम् ।। १०६ ।।

अष्टाङ्गुलिपरीणाहं रज्जुवत् कारयेद् बुधः ।
वलयं रज्जुवलयं द्विगुणं मूलमाशृतम् ।। १०७ ।।

दर्भमालां समविष्ट्य वेदिकालक्षणं शृणु ।
हस्तद्वयं तु विस्तारं उत्सेधं हस्तमानतम् ।। १०८ ।।

त्रिमेखलासमायुक्तं एकैकं पर्वताङ्गुलम् ।
मध्यमे कर्णिकां कुर्यात् कल्पयेत् कल्पवित् सुधीः ।। १०९ ।।

एकमेखलयुक्तं वा कर्णिकामध्यमे न्यसेत् ।
उपवेदिसमं रक्तं त्रियङ्गुलं च तत्समम् ।। ११० ।।

गोमयालेपनं कृत्वा शिल्पिमुद्वासयेत्ततः ।

प्. २०६)

पञ्चगव्येन शुद्धेन जलसंप्रोक्षणं कुरु ।। १११ ।।

दण्डमूले ब्रह्मतत्त्वं मध्यमे विष्णुतत्त्वकम् ।
अग्रे तु रुद्रतत्त्वं स्यात् शिवतत्त्वं पटे च तु ।। ११२ ।।

दण्डे तु सव्यदेवानां इत्येवं कल्पयेत् सुधीः ।
पूर्वे तु कुम्भसंस्थाप्य दण्डमूलेऽभिषेचयेत् ।। ११३ ।।

वृषगायत्रिमन्त्रेण लोकपालान् स्वमन्त्रकैः ।
दिक्तालपादयेच्चैव नृत्तं गीतं च वाद्यकैः ।। ११४ ।।

धूपदीपं तदा दत्त्वा नैवेद्यान्तं निवेदयेत् ।
मद्गान्नं लड्डुकं सर्वं कदलीफलमेव च ।। ११५ ।।

कपित्थं फलमात्रेण पिण्डं तद्दशमेव च ।

प्. २०७)

सुमङ्गल्यावृतं चेत्तु पुत्रवत् कारयेत्ततः ।। ११६ ।।

अमङ्गल्यकन्यकानां तु कर्तव्यं न कदाचन ।
सर्वघोषसमायुक्तं षड्विधं पूजयेत् ततः ।। ११७ ।।

सप्तमां यागशालां तु यागशालां विधीयते ।
षोडशस्तम्भमेवं तु द्वात्रिंशस्स्तम्भमेव वा ।। ११८ ।।

चतुस्तम्भसमायुक्तं मण्टपं कारयेत् ततः ।
मध्यमे वेदि संस्थाप्य कुण्डान् संकल्पयेत् सुधीः ।। ११९ ।।

नवग्निमुत्तमः प्रोक्तं पञ्चाग्निं मध्यमे भवेत् ।
एकान्निरधमां विद्यात् कल्पयेत्तु विचक्षणः ।। १२० ।।

गोमयालेपनं कृत्वा पर्यग्निकरणं कुरु ।

प्. २०८)

दर्भमालिं तु संवेष्ट्य वितानोपरि शोभितम् ।। १२१ ।।

युगतोरणसंयुक्तं चतुर्दिक्षु प्रकल्पयेत् ।
अष्टमङ्गलमेवं तु वेदिवाह्ये तु पूजयेत् ।। १२२ ।।

शङ्खं च दीपमेवं च स्वस्तिकं चामरौ तथा ।
वृषभं पूर्णकुम्भं च दर्पणं लक्ष्मीं तथा ।। १२३ ।।

दशायुधधरादेव कुम्भबाह्ये तु पूजयेत् ।
मध्यमे शिवकुम्भं तु वर्धनीं तु तदोत्तरे ।। १२९ ।।

अभितोऽष्टौ घटं पूज्य लोकपालान् समर्चयेत् ।
चतुर्द्वारसमोपेतं द्वारकुम्भं तु पूजयेत् ।। १३० ।।

ऐशान्ये कुम्भसंस्थाप्य अष्टविद्येश्वरावृतान् ।

प्. २०९)

यद्वाराभिमुखं लिङ्गं तद्द्वारं कुम्भपूजयेत् ।। १२६ ।।

पूर्ववत् स्थान संकल्प्य द्वारादीन् पूजयेत्ततः ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।। १२७ ।।

निवृत्तिः पूर्वतः पूज्य प्रतिष्ठां दक्षिणे तथा ।
विद्यां वै पश्चिमे पूज्य उत्तरे शान्तिमेव च ।। १२८ ।।

द्वारतोरण संपूज्य चतुर्वेदांस्तु पूजयेत् ।
वेदिकां वेदिमूर्तिं तु चोपवेदी समुद्रिका ।। १२९ ।।

आयुधं सर्वदैवत्यं मङ्गले न्यष्टसुन्दरी ।
यागेशं पूजयेत्तत्र उमास्कन्देश्वरं यजेत् ।। १३० ।।

मण्टपाग्रे सुसंस्थित्वा कौतुकं बन्धयेत्ततः ।

प्. २१०)

स्वर्णसूत्रं विशेषेण अथ कार्पासमेव च ।। १३१ ।।

नववस्त्रेण संयुक्तं भस्मकूर्चं तु विन्यसेत् ।
परिचारहस्तसंयुक्तं प्राकारे तु प्रदक्षिणम् ।। १३२ ।।

देवसंनिधिसंप्राप्ते पुण्याहं वाचयेत्ततः ।
त्रियम्बकं सुमन्त्रेण रक्षासूत्रप्रबन्धनम् ।। १३३ ।।

धूपदीपसमायुक्तं होमकर्म समाचरेत् ।
ब्राह्मणान् भोजयेत्तत्र भक्तानां भोजयेत्ततः ।। १३४ ।।

नैवेद्यं दापयेत्तत्र ताम्बूलं तु सुयोजयेत् ।
भेरीताडनमारभ्य ग्रामे तु बलिसंग्रहे ।। १३५ ।।

ग्रामप्रदक्षिणं कृत्वा उमास्कन्देश्वरो भवेत् ।

प्. २११)

दीपयन्त्रं तदन्ते तु डोलायन्त्रं तदन्तके ।। १३६ ।।

वाजियन्त्रं ततः पश्चात् गर्भयन्त्रं नृवाहनम् ।
नानादीपसमायुक्तं नानाभक्तजनैर्युतम् ।। १३७ ।।

नानाध्वज समायुक्तं नानाछत्रसमायुतम् ।
शङ्खकाहलसंयुक्तं भेरीघोषसमायुतम् ।। १३८ ।।

गच्छेयुर्लिखित्वा तु यन्त्रदन्तिमनन्तरम् ।
यन्त्राश्वा यन्त्रवाद्यं च यन्त्रनृत्तमनन्तरे ।। १३९ ।।

नदीशमुत्तरे वा पूरो वापि प्रकल्पयेत् ।
भक्ताश्चापि तदन्तेषु ब्राह्मणानामनन्तरे ।। १४० ।।

नृपाणां त्वपरे भागे नृणा ज्ञानामनन्तरे ।

प्. २१२)

रुद्राणामपरे गत्वा पाषण्डीनामन्तरे ।। १४१ ।।

समधीना महासेना बलिद्रव्यापनं क्षिपेत् ।
चन्दनं चाक्षतं पुष्पं धूपदीपं तथैव च ।। १४२ ।।

पाद्यमाचमनं चार्घ्यं पात्रे पात्रे निधाय च ।
दिनं प्रति बलिद्रव्यं बलिपात्रे विनिक्षिपेत् ।। १४३ ।।

लड्डुकं चैव मुद्गान्नं गुलसक्तुं तिलं तथा ।
प्रथमेऽहनि दातव्यं द * * * * * न्त्रतः ।। १४४ ।।

लोकपालान् स्वनामेन बलिं नित्यं ददेत् क्रमात् ।
निशापूर्णं च पद्मे च पायसं तिलसंयुतम् ।। १४५ ।।

द्वितीयदिवसे चैव ब्रह्ममन्त्रमनुस्मरन् ।

२१३)

प्रिया घृतान्नपिष्टं च का * * * लमेव च ।। १४६ ।।

तृतीयेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् ।
निशिपूर्णं नालिकेरघृतान्नं सरलं तथा ।। १४७ ।।

चतुर्थे दिवसे चैव गान्धर्वं च मनुस्मरन् ।
प्रियङ्गुघृतमिश्रं च * * * * * * * * ।। १४८ ।।

प्. २१४)

  • * * * * * * * नां दोष पृष्ठे तु सेव ।

पानीयं मुखवासं च ताम्बूलं हस्तमेव च ।। १४९ ।।

आचार्यो दापयेत्तत्र सव्यहस्तेन दापयेत् ।
सव्यपाद्यसमायुक्तं रुद्रस्य गणिका भवेत् ।। १५० ।।

सर्वालंकारसंयुक्तं सर्व * * * * युगम् ।
मृगयात्रा * * * * * * * * * * * * ।। १५१ ।।

मूले शूलं तथा बिम्बं * * * * * * * * ।
बन्धयेत्तत्र कुर्वीत स्थण्डिलोपरि विन्यसेत् ।। १५२ ।।

अष्टद्रोणैस्तु शालिभ्यां तदर्धैस्तण्डुलैस्तिलैः ।
हिरण्यकूर्चवस्त्रेण पूजयेद् गन्धपुष्पकैः ।। १५३ ।।

प्. २१५)

स्नात्वा शुद्धोदकेनैव बीजमुख्येन मन्त्रतः ।
त्रिगन्धेषु त्रिव * * * * * * * * * * ।। १५४ ।।

अपरे दिवसे रात्रौ पूजयेन्मूललिङ्गकम् ।
कुम्भान् कुण्डाग्नि संयष्ट्वा गन्धादीन् पूर्ववत् क्रमात् ।। १५५ ।।

पूर्णाहुतुं ततः कुर्यात् शेषद्रव्याणि देशिकः ।
अग्निमूर्तिं विसृज्याथ पूजयेद्यागमूर्तिपान् ।। १५६ ।।

यागेशान् शास्त्रराजान मि प्रासादं तु प्रदक्षिणम् ।
प्रविशेत् गर्भगेहं तु स्थापयेत् स्थण्डिलोपरि ।। १५७ ।।

लिङ्गशुद्धि * * * * * * * * * * त्ततः ।
यागेशं पूजयेल्लिङ्गं वर्धनीं पिण्डिकोपरि ।। १५८ ।।

प्. २१६)

परितोषघटानष्टौ विन्यसेत्तु दलाग्रतः ।
स्नपनं तु ततः कुर्यात् अष्टोत्तरशतेन तु ।। १५९ ।।

प्रभूत हविषं दत्त्वा ताम्बुलं तु निवेदयेत् ।
चण्डेशं पूजयेत् रात्रौ चण्डगायत्रीमुच्चरन् ।। १६० ।।

स्नपनं नवकुम्भेषु स्नापयेत् तु विशेषतः ।
चण्डाग्रे होममेवं तु चण्डगायत्रिमन्त्रतः ।। १६१ ।।

वृषस्य तु वृषायेति वृषदेवं प्रपूजयेत् ।
वृषगायत्रिमन्त्रेण ध्वजमूले समर्चयेत् ।। १६२ ।।

वास्तुदेवान् बलिं दद्यात् यथापूर्ववदेव तु ।
विसर्जयेत् क्रमेणैव तत्तद्वास्तु वदन्तरे ।। १६३ ।।

प्. २१७)

चण्डेशं पूजयेत् पश्चात् हविषं तु निवेदयेत् ।
अपरे दिवसे चैव मूललिङ्गं तु पूजयेत् ।। १६४ ।।

नित्यपूजा तथारभ्य मौनं हस्तमनर्चयेत् ।
तस्यान्ते स्नपनं कुर्यात् शुद्धस्नानमनन्तरम् ।। १६५ ।।

महाहविषं ततः कुर्यात् * * * * * * * ।

प्. २१८)

  • * * * * * * * * वज्रं पूजयेत्ततः ।। १६६ ।।


भक्तानां परिचाराणां पूजयेत्तु विशेषतः ।

प्. २१९)

यथा विभवविस्तारं राजा सर्वान् प्रपूजयेत् ।। १६७ ।।

शिवोत्सवमिति ख्यातं प्रत्यब्दं कारयेत् ततः ।
आयुष्यं विभवं पुत्रान् पौत्रान् सर्वान् विवर्धयेत् ।। १६८ ।।

राजा राष्ट्रहितं सर्वं भुक्तिमुक्ति सुखावहम् ।
शिवसायुज्यमाप्नोति शिवोत्सव प्रभावतः ।। १६९ ।।

इति चन्द्रज्ञानभेदे देव्या मते महोत्सवविधिः पटलः ।।

हरिः ओम् ।।


प्. २२०)

श्रीः

कामिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिम् ।
एकाहमेव दाहान्ते ईशादिस्त्रिभिरेव च ।। १ ।।

तदर्धं तर्पणं कुर्यात् तदर्धं पूजयेत् शिवम् ।

ज्ञानरत्नावलाः ।

अथा * * * * नं च कथ्यते पेशतोऽधुना ।। २ ।।

अत्रोत्क्रान्त्यापिपन्नो यो योगिनिर्दिह्यकल्मजः ।
तस्य मन्त्रमयं शुद्धं दहेद्देहं शिवाग्निना ।। ३ ।।

न च पिण्डक्रिया कार्या न च चैवोदक क्रिया ।
किं तु शिष्यैस्तदा कार्यं अनृणार्थं शिवार्चनम् ।। ४ ।।

प्. २२१)

  • * * * * * * * * तत्त्वज्ञानदर्शनम् ।

अथातस्संप्रवक्ष्यामि तत्त्वज्ञाननिदर्शनम् ।। ५ ।।

सृष्टिक्रमं च संहारं स्थिति भेदमिदं परम् ।

प्. २२२)

अवस्थादर्शनं चैव अर्थपञ्चकमुच्यते ।। ६ ।।

षट्त्रिंशत्तत्त्वभेदं च पशुपाशमिति स्मृतम् ।
पतिज्ञानं च सायुज्यं आत्मलाभं तथा भवेत् ।। ७ ।।

इत्येवं दश भेदानि क्रमेणैव तु चोच्यते ।
परापरं पराशक्तिः कुटिलोत्पन्ननादकम् ।। ८ ।।

नादाद् बिन्दुस्समुद्भूतः बिन्दोत्पन्नस्सदाशिवम् ।
सदाशिवोत्पन्न ईशं तु शुद्धविद्या ततोत्भवेत् ।। ९ ।।

पूर्वबिन्दुसमुद्भूता सूक्ष्मा वैखर्यान्तकम् ।
वैखरीवर्णमुत्पन्नं वर्णो मन्त्रास्ततोत्भवाः ।। १० ।।

सप्तकोटिमहामन्त्रैश्शास्त्रजालं ततोदितम् ।

प्. २२३)

तत्त्वं सृष्टिं च शब्देषु शुद्धतत्त्वं च वर्धते ।। ११ ।।

अनन्तदेवकृपया अथो मायासमुद्भवाः ।
कालं नियतिश्चोत्पन्नं कला विद्या च रागकः ।। १२ ।।

रुद्रदेव कलोत्पन्ना प्रकृतिस्त्रिगुणोद्भवा ।
प्रकृत्या चैव अव्यक्ते चित्तबुद्धिसमुद्भवः ।। १३ ।।

बुद्धेरुत्पन्नेऽहंकारमहंकारस्त्रिधा भवेत् ।
तैजसो वैखरीभूतं त्रिविधं नाममुच्यते ।। १४ ।।

तैजसस्सात्त्विकगुणो मनो ज्ञानेन्द्रियोद्भवः ।
अहंकारे वैखरीयुः कर्मेन्द्रियसमुद्भवः ।। १५ ।।

तामसे भूताहंकारे तन्मात्रं च समुद्भवः ।

प्. २२४)

शब्दे आकाशमुत्पन्नं स्पर्शे वायुस्तथोदितः ।। १६ ।।

रूपे गुणाग्निस्संभूतं राजसे जलमुद्भवम् ।
गन्धे मही समुद्भूत तत्त्वकार्ये न चेष्टितम् ।। १७ ।।

पुनस्तत्त्वेषु बन्धेन गन्धे पृथ्वीं वियोजयेत् ।
सलिलं रसबन्धेषु रूपेणाग्निं सुयोजयेत् ।। १८ ।।

स्पर्शे तु वायुमिश्रं च आकाशं शब्दसंपदे ।
शब्दादि पञ्चतन्मात्रं रूपेऽहंकार बन्धयेत् ।। १९ ।।

कर्मेन्द्रियं च पञ्चैते राजसे वैखरीयुते ।
ज्ञानेन्द्रियं च पञ्चैतेऽहंकारस्तैजसे गते ।। २० ।।

भूतादि वैखरी चैव तैजसं बुद्धि चित्तयुक् ।

प्. २२५)

चित्तक्षेत्रज्ञ युक्तेषु पञ्चविंशतिरागके ।। २१ ।।

रागविद्या कला नियति काल तत्त्वेषु बन्धयेत् ।
शास्त्रजालं च मन्त्राणि मन्त्रे वर्णेषु योजयेत् ।। २२ ।।

वर्णाणि वैखरीयुक्ते वैखरीमध्यमायुते ।
मध्यमा चैव पश्यन्ति पश्यन्ती सूक्ष्म योजयेत् ।। २३ ।।

सूक्ष्माश्चतस्रो वाग्रूपा पूर्वबिन्दु सुयोजयेत् ।
शुद्धविद्या शिवान्तानि कुटिले योजयेत्ततः ।। २४ ।।

पराशक्ति परे युक्तो शृवं तत्त्वानि योजयेत् ।
सृष्टिसंहारमेवोक्तं स्थितिक्रममथोच्यते ।। २५ ।।

परश्शिवः परोत्भूतः इच्छाज्ञानक्रियात्मिका ।

प्. २२६)

पूर्वकर्म * * * * * ष्ठाग्नि चक्रवद्भ्रमात् ।। २६ ।।

व्योमादिपञ्चभूतानि श्रोत्रादीनि ह्यधिष्ठितम् ।
शब्दादि पञ्चतन्मात्रं वर्तते धामसन्निधौ ।। २७ ।।

वागादिकर्मपञ्चानि वचनादीनि वर्तते ।
मनो बुद्धिरहंकारं चित्तं चैव चतुर्थकम् ।। २८ ।।

निश्चय * * गव्यं च चिन्तनं तत् क्रिया बिदुः ।
आत्मतत्त्वमिति ख्यातं दर्शनं च ततः शृणु ।। २९ ।।

भूतं भव्यं भविष्यश्च वर्तते कालतत्त्वकम् ।
नियतिर्निश्चयं कुर्यात् कलान्नीत्वा क्रियोत्भवा ।
विद्या ज्ञानादिकं चैव रा * * * * * * * ।। ३० ।।

प्. २२७)

विषयादि पञ्च चेष्टन्ते साक्षित्वं पुरुषं भवेत् ।
माया चित्तं भ्रमं कुर्यात् * ग काण्डमिति स्मृतम् ।। ३१ ।।

ज्ञानाधिक्यं क्रियान्यूनं शुद्धविद्या च तत्त्वकम् ।
ज्ञानसूक्ष्मं क्रियाधिक्यमीशतत्त्वमिति स्मृतम् ।। ३२ ।।

  • * * * * * क समं सादाख्यं च ततो विदुः ।

शक्तितत्त्वं क्रियोत्पन्नं शिवतत्त्वं ततोऽधिकम् ।। ३३ ।।

प्रेरकाण्डं च पञ्चैते शिवतत्त्वमिति स्मृतम् ।
स्थूलं सूक्ष्मं परं चैव षट्त्रिंशत् तत्त्वदर्शनम् ।। ३४ ।।

माया * * * * * ञ्च सत्यन्तं सूक्ष्मरूपकम् ।
शिवतत्त्वं परं चैव गुरुवक्त्रे प्रदर्शयेत् ।। ३५ ।।

प्. २२८)

षण्णवत्याधिके तत्त्वे चक्रवत् भ्रमते सदा ।
विश्राम्यं च तदात्मा च पञ्चावस्थाक्रियोद्भवाः ।। ३६ ।।

जाग्रत्स्वप्न सुषुप्तिश्च कुर्याव्योमेति पञ्चधा ।
ललाटे कण्ठहृदये नाभिलिङ्गावसानकम् ।। ३७ ।।

अधो भागं च वर्तन्ते पञ्चावस्था ततश्शृणु ।
श्रोत्रादिपञ्चकं चैव शब्दादि पञ्चकं भवेत् ।। ३८ ।।

वागादि पञ्चतत्त्वानि वचनादीनि पञ्चधा ।
प्राणादि दशवायुश्च मनादि पुरुषपञ्चयुक् ।। ३९ ।।

पञ्चत्रिंशति वर्तन्ते जाग्रत् स्थाने ललाटके ।
प्राणादि वायुभिश्चैव शब्दमादिकं दश ।। ४० ।।

प्. २२९)

करणं च चतुर्थं च पञ्चविंशतिकण्टके ।
जाग्रे विषयभोगं च वासना स्नपनमेव च ।। ४१ ।।

अयसाग्नि समायोगे विदग्निरिव वायु च ।
चित्तप्राणौ च क्षेत्रन्यो हृदये च सुषुप्ति हि ।। ४२ ।।

स्पप्नं च विस्मृतिजाग्रे सुषुप्तिं चैव दर्शयेत् ।
आत्मप्राणश्च कुर्ये तु वर्तते नाभिमूलके ।। ४३ ।।

स्वप्नं नास्ति श्रुतं नास्ति स्तुर्याभावस्स मुच्यते ।
लिङ्गमूले तु क्षेत्रज्ञो तुर्यातीतन्नमश्यते ।। ४४ ।।

स्थूलं सूक्ष्मं सुसूक्ष्मं स्यात् अतिसूक्ष्मं ततोऽधिकम् ।
चतुरङ्गबलो मन्त्री राजाचान्तःपरं गतः ।। ४५ ।।

प्. २३०)

इत्येवं पञ्चधाऽवस्था जीवात्मा च वहन्नृपः ।
अथोऽवस्था च इत्येवं मध्यावस्था ततः शृणु ।। ४६ ।।

जाग्रस्थाने ललाटे तु अतीतान्तानि दर्शयेत् ।
अथोवस्था च मध्या च ज्ञात्वा चैवं विचक्षणः ।। ४७ ।।

शुद्धतत्त्वानि पञ्चैते चतुस्त्रीणि द्व्येकशः ।
परासंस्था इति ज्ञेया जाग्रादीनां च भावयेत् ।। ४८ ।।

एवं पञ्चदशावस्था त्रिधावस्था च संयुतम् ।
केवलस्सकलो शुद्धो दर्शनं च ततश्शृणु ।। ४९ ।।

जाग्रावस्थादि तुर्यान्तं सकला च इति स्मृतम् ।
अतीतं केवलावस्था शुद्धा च स्मरसीयुता ।। ५० ।।

प्. २३१)

अधोभागं च मध्यं च ऊर्ध्वभागं त्रिधा भवेत् ।
मायावस्था च एवोक्तं जाग्रद्दृश्यं ततश्शृणु ।। ५१ ।।

शिवादिश्च कलादिश्च मनादी च चतुष्टयः ।
श्रोत्रादि एकतत्त्वं च शब्दादि एकसंयुतम् ।। ५२ ।।

तत्त्वमष्टादशायुक्तो जाग्रत्कालेषु दृश्यते ।
शिवसन्निधिमात्रे तु आत्मानं वर्तते सदा ।। ५३ ।।

जाग्रत् स्थानेषु दृश्यन्ते योगान्न्यासेन बुद्धिमान् ।
जागे दृश्यप्रवृत्तिश्च प्रत्याहारेण शाम्यति ।। ५४ ।।

धारणेन जयेत् स्वप्नं ध्यानेनैव सुषुप्ति हि ।
समाधिना तु तुर्यं तु तुर्यातीतं शिवेन तु ।। ५५ ।।

प्. २३२)

सद्गुरोरुपदेशेन स्वप्रकाशेन निश्चलम् ।
इत्येवं निर्मलावस्था अर्थपञ्चकमुच्यते ।। ५६ ।।

मलं कर्मा च माया च महामाया तिरोधकम् ।
अर्थपञ्चकमेवोक्तं प्रत्यक्षं लक्षणं शृणु ।। ५७ ।।

इच्छाज्ञान क्रियारूपि आत्मबोधन्न दृश्यते ।
ताम्रकालीकवत् कृत्वा आणवं शक्तिरुच्यते ।। ५८ ।।

प्रारब्धं संचितं चैव आगामि च त्रिरूपकम् ।
माया च वस्तुरूपाणि चित्तभ्रम इति स्मृताः ।। ५९ ।।

निष्कलं शिवभेदं च नादबिन्द्वादिकारणम् ।
तनुज्जारणविज्ञाने महामाया इति स्मृताः ।। ६० ।।

प्. २३३)

आत्मा च शिवयोर्मध्ये दर्पणं च य पार्श्वयुक् ।
द्रव्यदृश्यात्मपक्वं च तिरोभाव इति स्मृतः ।। ६१ ।।

एवं पञ्चमलं नीत्वा शक्तिपादं ततश्शृणु ।
पुण्यपाप समायुक्तो शिवशक्तिनिपाततः ।। ६२ ।।

तेषां लिङ्गं च विज्ञानं मुक्तौ पुंसत्वमेव च ।
द्वेष्यं त्यवस्थितिभावो शिवभक्तेषु भक्तिभिः ।। ६३ ।।

तच्चासनेषु श्रद्धा च ज्ञानाचार्येण वाञ्छितः ।
रविसन्निधिमात्रेण सूर्यकान्तोऽग्निरुद्भवः ।। ६४ ।।

गुरुसन्निधिमात्रेण शिष्यज्ञानं प्रकाश्यते ।
मन्दं मन्दतरं चैव तीव्रं तीव्रतरं भवेत् ।। ६५ ।।

प्. २३४)

कदली चार्द्रकाष्टं च इन्धनं मूलमेव च ।
पक्वापक्वं चतुर्भेदं ज्ञात्वा भेदेन बुद्धिमान् ।। ६६ ।।

ज्ञानं योगः क्रिया चर्या सोपानं मोक्षदं पदम् ।
चर्यापादः क्रियापादः दासो * * वमुच्यते ।। ६७ ।।

शिवोऽहं भावयोगं च सायुज्यं ज्ञानपादकम् ।
एवं शैवागमे मुख्यं पाशात् पशुपतिक्रमात् ।। ६८ ।।

तत्र मन्त्रोपदेशं च त्रिविधं भेदमुच्यते ।
बाह्यभावं मनोभावं अन्तर्भावमिति स्मृतम् ।। ६९ ।।

त्रिशू * * * * लं च मनोभावं च मन्त्रकम् ।
अन्तर्भावोपदेशं च पाशः पशुपतिर्भवेत् ।। ७० ।।

प्. २३५)

निष्कलं च निराधारमाधारं चात्र योगकम् ।
लयाविकारभोगं च मणिमन्त्रौषधं भवेत् ।। ७१ ।।

इत्येव * * * * * * * * र्थेन दर्शयेत् ।
तत्सारं संप्रवक्ष्यामि शृणुष्वेकाग्रमानसः ।। ७२ ।।

षट्त्रिंशत् तत्त्वभेदं च पाशज्ञानमिति स्मृतम् ।
तत्त्वातीतं च यत् प्रोक्तं आत्मज्ञानमितिर्भवेत् ।। ७३ ।।

एकमेव द्वयोर्ज्ञानं * * * * * * * * ।
इत्येवं त्रिविधं ज्ञात्वा सायुज्यं भवति ध्रुवम् ।। ७४ ।।

ज्ञानपाशः पशोर्भावः पतिज्ञान समाश्रयम् ।
सप्तधातुमयं देहो ह्यनित्यश्च यथा विदुः ।। ७५ ।।

प्. २३६)

व्योमादिपञ्च भूतानां नश्यते भावयेत् बुधः ।

  • * * * * तानीत्या शब्दादीनां तु चेष्टितम् ।। ७६ ।।


करणं त्वापरं तीत्वा कालादिज्ञान नश्यति ।
गुणत्रयं ततो भिन्नं शुद्धविद्या सदाशिवम् ।। ७७ ।।

नश्यन्ते प्राणवायुश्च बिन्दुशक्तिगतो भवेत् ।
देहज्ञानेन्द्रिय * * * * * गुणवायु तम् ।। ७८ ।।

एवं पञ्चाभिमानं च पञ्चावस्था च दर्शयेत् ।
तत्त्वादिशक्तिपर्यन्तं तत्त्वानि सह भावयेत् ।। ७९ ।।

तत्त्वज्ञानं जीवभावं नित्या तु शिवतत्त्वकम् ।
एवं षट्त्रिंशतत्त्वानि नश्यन्ते दर्शनं च यत् ।। ८० ।।

प्. २३७)

तत् ज्ञानं त्मदर्शनं च पतिज्ञानं तदुच्यते ।
तत्त्वातीतं यत् ज्ञानं तत्ज्ञानं परजाग्रजम् ।। ८१ ।।

विश्वभक्षण मेवोक्तं तत्भावं परस्वप्नकम् ।
तत्ज्ञानं वेदशान्तिं च सुषुप्तिः परमेव च ।। ८२ ।।

दशत्रियं ततो नीत्वा स्वप्रकाशं गुरो पदम् ।
पतिज्ञानमिति प्रोक्तं सायुज्यं च ततश्शृणु ।। ८३ ।।

तत्पदं शिवरूपं च त्वत्पदं आत्मभावकम् ।
असिशब्दं च सायुज्यं तत्त्वज्ञानमिति स्मृतम् ।। ८४ ।।

वेदान्तं यत् परं सूक्ष्मं सिद्धान्तं च ततो विदुः ।
समंरसी भावमेवोक्तं मातृभावमथोच्यते ।। ८५ ।।

प्रा * भावमुत्सृज्य शिवोऽहमिति भावयेत् ।
सर्वचिन्ताविनिर्मुक्तः एकेनैव विवर्जितम् ।। ८६ ।।

पादाङ्गुष्ठा * मूर्धा तं स्थानं ध्यानविवर्जितम् ।
आकारं च निराकारं वाच्यवाचकवर्जितम् ।। ८७ ।।

ज्ञात्वा शिवमयं मध्ये ज्योति * क्षि प्रकाशिते ।
श्रोत्रं नास्ति श्रुतिस्तत्र चक्षुर्नास्ति स पश्यति ।। ८८ ।।

घ्राणं नास्ति सुगन्धिं च वाग्विना वचनं तथा ।
जिह्वा नास्ति रसं गृह्य त्वक्विना स्पर्शनं विदुः ।। ८९ ।।

पाणिं नास्ति स गृह्णाति पादौ नास्ति स गच्छति ।
मनो नास्तीति संकल्प्य त्रैलोक्यं सचराचरम् ।। ९० ।।

२३९)

प्रकृतिर्विना महापुरुषो जगन्नास्तीति चेष्टितम् ।
चराचरमिदं सर्वं वेष्टते भुजते सदा ।। ९१ ।।

ब्रह्मादि स्तम्भपर्यन्तं परिपूर्णेन चेष्टितम् ।
ज्योतिरूपं परं दिव्यं प्रलयाम्बु पूरितम् ।। ९२ ।।

गुह्यं पवित्रमाग्राह्यमानन्दमचलं ध्रुवम् ।
सर्वतत्त्वविनिर्मुक्तमप्रतर्क्यमचिन्तनम् ।। ९३ ।।

तन्मध्ये कुरुचात्मानं आत्ममध्ये च तं कुरु ।
साक्षात् शिवमयं कृत्वा न किंचिदपि चिन्तयेत् ।। ९४ ।।

ज्ञातृज्ञानं गुरुश्शिष्यं ज्ञेयं चैव तु वर्जयेत् ।
निष्कलं शिवमातत्त्वं तन्मयामामलाभकम् ।। ९५ ।।

प्. २४०)

इत्येवं स्वप्नभूतिं च मौनमुद्रां प्रदर्शयेत् ।
तद्ध्यानं तज्जपं पूजा होमकार्यन्न साधनम् ।। ९६ ।।

तीर्थपात्रवितानं च वर्णाश्रमविवर्जितम् ।
सन्न्यासी सर्वकर्माणि शिवमेव तु भावयेत् ।। ९७ ।।

दिग्देशस्थानकालं च आसनं चैव वर्जयेत् ।
तिष्ठन् गच्छन् स्वपन् जाग्रन् स्त्रीसङ्गे भोजनेऽपि च ।। ९८ ।।

वातशीतोष्णकालेषु भयदारिद्र्यरागके ।
गर्वक्रोधमनोभावो ज्ञानाज्ञान इति भ्रमे ।। ९९ ।।

सर्वदा सर्वकालेषु शिवभावेन निश्चलम् ।
गुरुपादात् परं नास्ति आत्मलाभात् परोदयम् ।। १०० ।।

प्. २४१)

तस्माद् गुरुपदार्थं च पूर्णभावपरोदयम् ।
सृष्ट्यादि आत्मलाभान्तं दशभेदं क्रमोच्यते ।। १०१ ।।

सद्गुरोरुपदेशेन दर्शयेज्जीवमुक्तिकः ।
गुरुरूपं परं ज्ञानं गुरुरूपं परं शिवम् ।। १०२ ।।

गुरुरूपं परं ज्योतिर्गुरुरूपं परात्परम् ।
ध्यानरूपो गुरो मूर्ति पूजाभावो गुरोत्पदम् ।। १०३ ।।

मन्त्रमूलो गुरोर्वाक्यं मूर्तिमूलो गुरोः कृपा ।
गुरुः पिता गुरुर्माता सर्वं गुरुमयं विदुः ।। १०४ ।।

तस्माद् गुरुं शिवं पश्येत् सायुज्यं भवति ध्रुवम् ।
शैवराजेन्द्रतत्वज्ञो शिवभावेन राजितम् ।। १०५ ।।

प्. २४२)

नवतत्त्वज्ञदर्शनं महात्मानं क्रमाद्विदुः ।
शास्त्रार्थं गुरुवाक्यं च स्वानुभूत्या समं विदुः ।। १०६ ।।

मनोवाक्काय इत्येतदपराधं क्षमस्व मे ।
श्रीमूल शिवपादार्थदर्शनं तत्प्रभावतः ।। १०७ ।।

दृश्यं दृश्यभावं च दृश्यं चैव परोदयम् ।

इति चन्द्रज्ञाने ज्ञानदर्शनपटलः

समाप्तम् ।।

"https://sa.wikisource.org/w/index.php?title=चन्द्रज्ञानम्&oldid=409089" इत्यस्माद् प्रतिप्राप्तम्