सामग्री पर जाएँ

गौतमतन्त्रम्

विकिस्रोतः तः
गौतमतन्त्रम्
[[लेखकः :|]]

पृ० १अ) ओं नमः श्रीकृष्णाय ।।
प्रणम्य द्वारकानाथं गोपीजन मनोहरम् ।
लिख्यते गौतमितंत्रं सर्वतंत्रोत्तमोत्तमम् ।।
सिद्धाश्रमे वसन् धीमान् कदाचिद्गौतमो मुनिः ।
तपः स्वाध्याय निरतो भक्तिमान् पुरुषोत्तमः ।।
नमस्थन् शिरसा विष्णुं स्तवन् वाचा जनार्द्दनम् ।
जपन कराभ्यां यज्ञेशं हृदाध्ययन तत्परः ।
समस्त श्रुति तत्त्वज्ञ इतिहासपुराणवित् ।
मंत्रौषधि क्रिया वश्य योगसिद्धांत तत्तवित् ।
धर्म्मार्थकाममोक्षार्थी नारदं प्रणिपत्य च ।
विनयावनतो भूत्वा पर्ययपृच्छद्द्विजोत्तमः ।
भगवन् कामदा मंत्राः शूद्रस्त्र्याह्यधिकारकाः ।
विभिन्नफलदास्ते तु नैकत्र फलदा भताः ।
एतत् समफलाः सर्वे न मंत्रा इति न श्रुतम् ।
येन सर्वफलावाप्तिः सर्वेषां बंधुरेव यः ।
सर्ववर्णाधिकारश्च नारीणां योग्य एव च ।
तं ब्रुहि भगवन्मंत्रं भम सर्वार्थसिद्धये ।
तवना विदितं किंचिद्विह्यते स चराचरे ।
इति श्रुत्वा मुनिश्रेष्टो नत्वा विष्णुमुवाचह ।
साधुपृष्टं मयाप्येकं पृष्टः प्रोवाच पद्मजः ।
तथा ते कथयिष्यामि यथाप्रोक्तं स्वयम्भुवा ।
सर्वे कामाः प्रसिद्ध्यंति कृष्णमंत्र जपाद्विज ।
सर्वेषु मंत्रवर्गेषु वैष्णवं श्रेष्टमुच्यते ।
गाणपत्येषु शैवेषु तथा शाक्तेषु सुव्रत ।
वैष्णवेषु समस्तेषु कृष्णमंत्राः फलाप्तये ।
विशेषतो दशार्णोऽयं जपमात्रेण सिद्धिदः ।
मंत्रस्थ ज्ञानमात्रेण लभेन्मुक्तिं चतुर्विधाम् ।
समस्त पापराशीनां ज्वलनोऽयं मुनीश्वर ।
अनेन सदृशो मंत्रो जगतस्वपि न विद्यते ।

पृ० १ब) अनेनाराधितः कृष्णः प्रसीदत्येव तत्क्षणात् ।
तस्य संक्षेपतो वक्ष्ये सर्वं सम्यक् शृणु स्वमे ।
पद्मयोनिखायाग्र्यं दैवराज्यं शचीपतिः ।
अवापुस्त्विदशाः स्वर्गं वागीशत्वं वृहस्पतिः ।
पक्षिणामधिपः सोऽभूद्गरुडो़ऽपि द्विजोत्तम ।
कश्चित् कृष्णं समाराध्य धनेशत्वमवाप्तवान् ।
मंत्रेण कृष्णमाराध्य चन्द्रः सर्वजन प्रियः ।
करोति स्ववशे कामः सर्वान् कामानमेन च ।
मंत्रणां परमो मंत्रो गुह्यानां गुह्यमुत्तमम् ।
मंत्रराजमिमं ज्ञात्वा कृतार्थो जायते नरः ।
पुत्रवान् धनवान् वाश्मी लक्ष्मीवान् पशुवान् भवेत् ।
सुभगः सस्मतः श्लाघ्यो यशस्वी कीर्त्तिमान् भवेत् ।
सर्वलोकाभिरामः स्यात् सर्वज्ञश्च भवेन्नरः ।
अनेन त्रिषु लोकेषु गता मुक्तिं मुमुक्षवः ।
मंत्रेणानेन मंत्रज्ञो भक्तिः स्यात् प्रेमलक्षणा ।
समस्ततीर्थपूतश्च समस्त क्षेत्रपावनः ।
रवेरिवदुराधर्षः ष्युचेरिव शुचिः सदा ।
शंकरस्येव सिद्धीशो विष्णोरिव समाष्प्रयः ।
बहुना किमिहोक्तेन रहस्यं श्रृणु गौतम ।
निर्वाण फलदो मंत्रः किमन्यैर्बहुजल्पितैः ।।

इति श्रीगौतमीये महातंत्रराजे सर्वतंत्रोत्तमोत्तमे दशांक्षर फलाध्यायः ।। १ ।।

गौतम उवाच
समस्त वेदतत्त्वज्ञ सर्वागमविशारद ।
अधुना ब्रुहि मे ब्रह्मन् मंत्रराजं दशाक्षरम् ।

नारद उवाच
अधुना संप्रवक्ष्यामि विधानं मुनि निर्म्मितम् ।
यावन्मंत्र ऋषिछन्दो देवतादीन्यनुक्रमात् ।
खांताक्षरं समुद्धृत्य त्रयोदशस्वर(रा)न्वितम् ।
पार्णतूर्ययस्वरयुतं छांतं धांतं तथा द्वयम् ।

पृ० २अ) अमृताक्षरमुद्धृत्य चैकतो मांसयुग्मकम् ।
पतूर्ययं मुखवृत्तेन पवनः स्वाहयान्वितम् ।
दशाक्षर मनुः प्रोक्ती दृष्टादृष्टफलप्रदः ।
तेन गोपीजनवल्लभाय स्वाहा ।
बीजं शक्तिं च वक्ष्यामि ब्रह्मचिच्च परात्परः ।
ब्रह्माणं मायया सार्द्धं मांसार्णं नादबिन्दुकम् ।
एतद्बीजं समाख्यातं कृष्णतत्त्वं परात्परम् ।
शुक्रार्ण ममृतार्णेन * खवृत्तेन संयुतम् ।
गगनं मुखवृत्तेन प्रोक्ता शक्तिः परात्परा ।
एषा शक्तिः परासूक्ष्मा नित्या सम्वित् प्रदायिनी ।
ईश्वरो जगतां बीजं शक्तिर्गुणमयी तथा ।
परमात्मा तथा बुद्धिर्व्वायुः कुंडलिनीति च ।
चतुर्विधे बीजशक्ती सर्वमंत्रेषु चिंतयेत् ।
त्रितयं तत्र सामान्यं तदिदानीं निरुप्यते ।
ईश्वरो जगतां बीजं आद्यं ब्रह्म तदुच्यते ।
तस्य माया समाख्याता शक्तिर्गुणमयी तथा ।
प्रकृतिः पुरुषश्चैव नित्यः कालश्च सत्तम ।
तत्वानि चेश्वरश्चैव ब्रह्मेति पंचमं स्मृतम् ।
सर्गांतः पुरुषश्चेति तूर्ययाख्या प्रकृतिः परा ।
तत्वानि मांसरुपाणि कालश्च तत्त्वरुपकः ।
ईश्वराख्या भवेन्नादो बिन्दुश्चैतन्य चिन्मयः ।
एतद्विज्ञानमात्रेण जीवन्मुक्तो महीं चरेत् ।
नास्यकालकलापे ज्ञान तीर्थायतनानि च ।
क्लींकारादसृजद्विश्वमिति प्राहः श्रुतेर्गिरः ।
लकारात् पृथिवीजाता ककाराज्जलसम्भवः ।
ईकारादग्निरुत्पन्नो नादाद्वायुरजायतं ।
बिन्दीराकाशसम्भूतिरिति भूतार्थको मनुः ।

पृ० २ब) स्वशब्देन च क्षेत्रज्ञः हेति चित् प्रकृतिः परा ।
तयोरैक्यसमुद्भूतिमुकवेष्टन कार्णकः ।
अतेव हि विश्वस्य लयः स्वाहार्णके भवेत् ।
गोपीति प्रकृतिं विन्द्याज्जनस्तत्त्वसमूहकम् ।
अनयोराश्रयव्यात्था कारणत्वेन चेश्वरः ।
सान्द्रानन्दः परंज्योतिर्वलभेन च कथ्यते ।
त्रिपादूर्द्ध उदैत् पुरुष इत्याहुः ।
प्रथमागिरः ।
बीजोच्चारणमात्रेण चित्स्वभावः प्रजायते ।
वल्लभेन च तादात्म्यं स्वाहया ज्ञानदायकम् ।
इत्येवं कथितं तत्वं मुने वै ब्रह्मसन्मतम् ।
अथवा गोपीप्रकृतिर्ज्जनस्तदंशमंडलम् ।
अनयोर्वलभः स्वामी कृष्णाख्य ईश्वरः स्मृतः ।
कार्ययकारणयोरीशः श्रुतिभिस्तेन गीयते ।
अनेक जन्म सिद्धानां गोपीनां पतिरेव वा ।
नन्दनन्दन । इत्युक्तस्तैलोक्यानन्दवर्द्धनः
चिन्तयेद्विरजो मंत्री सर्वसम्पति हेतवे ।
दशानामपि तत्वानां साक्षी वेत्ता तथाक्षरं ।
दशाक्षर इति ख्यातो मंत्रराजः परात्पर ।
लुप्तबीजस्वभावत्वात् दशार्ण इति कथ्यते ।
बीज पूर्वो जपश्चास्य रहस्यं कथितं मुने ।
नारदोऽस्य मुनिः प्रोक्तश्छन्दो विराडिति़ स्मृतम् ।
श्रीकृष्ण देवता चास्थ दुर्गाधिष्ठातृ देवता ।
महेश्वर मुखाज ज्ञात्वा यः साक्षात्तपसामनुम् ।
संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ।
गुरुत्वात्मस्तके चास्य पुरुषार्थ चतुष्टये ।
ऋषिश्छन्दोऽपरिज्ञानान्न मंत्रः फलभाग् भवेत् ।
दौर्बल्यं याति मंत्राणां विनियोगमजानताम् ।
मंत्रन्यासमथो वक्ष्ये दृष्टादृष्ट फलप्रदं ।
प्रणवाभ्यां पुटं कृत्वा नमोऽन्ताद्दशवर्णकान् ।

पृ० ३अ) दक्षांगुष्ठादि वामांतं न्यासः स्यात् सृष्टिरीरिता ।
वामांगुष्ठादि दक्षांतं संहृतिः परिकीर्त्तिता ।
उभयोः करयोर्ज्येष्ठा पूर्विका स्थिति रुच्यते ।
संहृतिः परिकीर्तिता ।
उभयोः करयोर्ज्येष्ठा पूर्विका स्थिति रुच्यते ।
संहृतिर्देव संघानां हारिणी परिकीर्त्तिता ।
विद्याप्रदा च सृष्ट्यंता वर्णानां शुद्ध चेतसां ।
स्थित्यंतंस्थादगृहस्थानां त्रयं कामानुरुपतः ।
सहाजिने वानप्रस्थे स्थित्यंतं कश्चिदिच्छति ।
संहारांतो मुनीनां च विविक्तस्य च सर्वशः ।
न्यासत्रयं सदा कार्ययमशक्तावेकमेव हि ।
वर्नन्यासांस्तथा मंत्री देहे च परिविन्यसेत् ।
हस्तमुले कूर्परके मणिबन्धेऽङ्गुलिमूले ।
अंगुल्यग्रे च विन्यस्य पादयोरुपरि न्यसेत् ।
हस्तमुलादि सृष्टिः स्थान्मणिबंधात् स्थितिः स्मृत्वा ।
अंगुल्यग्रात् संहृतिः स्थातस्थित्यंतं त्रितयं न्यसेत् ।
ततः करांगयोर्न्यासास्तथैव परिकीर्तिताः ।
आचक्राय तथा स्याहा अंगुष्ठाभ्यां नमो भवेत् ।
विचक्राय स्वाहेति च तर्जनीभ्यां तथोच्चरेत् ।
सुचक्राय तथा स्वाहा मध्यमाभ्यां तथोच्चरेत् ।
त्रैलोक्यरक्षणचक्राय स्वाहेत्यनामिके तथा ।
असुरांतचक्राय स्वाहा कनिष्टयोर्नमः ।
रुक्मिणी प्रकृतिर्वामा साक्षादमृतविग्रहा ।
दक्षिणः पुरुषः प्रोक्तो ज्योतिस्तु विषविग्रहः ।
संयोगात् करयोरेवं परातत्वं प्रजायते ।
अतेव समस्तानां वस्तूनां शोधनं स्मृतं ।
पंचगानि ततः कुर्ययादंगमंत्रेण देशिकः ।
पंचांगानि मनोर्यत्र तत्र नेत्रं विवर्जयेत् ।
आचक्राय तथा स्वाहा हृदयाय नमो वदेत् ।
अंगुष्टरहिते नैव कराग्रेण हृदं स्पृशेत् ।
विचक्राय तथा स्वाहा शिरसे स्वाहेति संवदेत् ।

पृ० ३ब) शिरसि विन्यसेत्तद्वत् तथैव करशाखया ।
शुचक्राय तथा स्वाहा शिखायै वषडुच्चरेत् ।
तथाधोऽङ्गुष्ठमुष्ट्या तु शिखायां परिविन्यसेत् ।
त्रैलोक्यरक्षणचक्राय स्वाहेति कवचाय हुं ।
हस्ताभ्यां शिर आलभ्य पादांतं संस्पृशेद्यतिः ।
असुरांतकचक्राय स्वाहा स्वाय फडुच्चरेत् ।
जर्द्धोर्द्ध तालत्रितयछोटिकाभिर्द्धिशोदश ।
बन्धयेम्मुनि शार्दूल नित्य न्यासोऽयमीरितः ।
इक्ष्यमाणो हृदात्मानां हृदये स्याच्चिदात्मकः ।
क्रियते तत् परात्मा च हृन्मंत्रेण च देशिकः ।
सर्वज्ञादि गुणात्तुंरी संविद्रुपे परात्मनि ।
क्रियते विषयाहारः शिरोमंत्रेण धीमता ।
हृछिरोरुपचिन्नाममयताभाव चेतना ।
क्रियते निजदेवस्य शिरोमंत्रेण सादरम् ।
मंत्रात्मकस्य देवस्य मंत्रवाच्येन तेजसा ।
सर्वतो वर्म्ममंत्रेण क्रियतेऽनन्य संभृतिः ।
यद्ददाति परंज्ञानं संविद्रुपे परात्मनि ।
हृदयादि मयं तेजः स्थादेतन्नेत्र संज्ञकम् ।
आध्यात्मिकादिरुपं यत् साधकस्य विनाशयेत् ।
अविद्याया तु मंत्रं तत् परं धाम समीरितम् ।

गौतम उवाच
ब्रह्मन् ब्रह्मविदां श्रेष्ट सर्वभूतहितेरतः ।
त्वमेव कृष्णदेवस्य अंतर्यामी निरामयः ।
अविद्या दोषनिर्मुक्तः सुमंत्र व्रतसंयतः ।
सर्वलोकैकगमनः सर्वलोकैक तत्ववित् ।
सर्वानुभव साक्षीत्वं सर्वदेव नमस्कृतः ।
इदानीं श्रोतुमिच्छामि मंत्रराजं परात्परम् ।
अष्टादशोर्णमंत्रस्तु गुह्याद्गुह्यातरः स्मृतः ।
तं मंत्रं श्रोतुमिच्छामि यदि योग्योस्मि सत्तम ।
भवार्णव निमग्नं मां त्वमुद्धर्त्तु मिहार्हसि ।
इत्यादि स्तुतिभिः स्तुत्वा प्रणम्य च पुनः पुनः ।

पृ० ४अ) पार्श्वमासाद्यतद्वक्वमतिरासीन्मुनीश्वरः ।

नारद उवाच
साधु पृष्टं त्वया ब्रह्मन् मयापि ब्रह्मणः स्मृतः ।
मंत्रराजो मुनिश्रेष्ट सर्ववेदागमानुगः ।
ततः प्रभृति विप्रषें हरितामाप्तचानहं ।
तव स्रेहात् प्रवक्ष्यामि यतस्त्वं पुरुष प्रियः ।
क्लींकारं पूर्वमुचार्यय कृष्णं तूर्ययपदान्वितं ।
गोविन्दं च तथोक्ता तु दशाक्षरं तथोच्चरेत् ।
भक्त्या ते प्रणिपत्या च कथितो मंत्रनायकः ।
गुह्याद्गुह्यतरो ह्येष वांछा चिंतामणिः स्मृतः ।
शौनकाद्याश्च मुनयस्तप्यान्ये देव मुख्यकाः ।
मंत्रराज परिज्ञानात् सद्यस्तत् साम्यतां गताः ।
कृष्ण शब्दश्च सत्तार्थो नश्च नन्दस्वरुपकः ।
सुखरुपो भवेदात्मा भावानन्दमयस्ततः ।
गोशब्देन ज्ञानमुक्तिं तेन विन्देत तत् प्रभुं ।
गो शब्दाद्वेद इत्युक्तस्ते नरा लभते विभुं ।
एवं ते कथिता मंत्र वासना मुनिसत्तम ।
एतज्ञ ज्ञानानुभावेन जीवन् कृष्णो न चान्यथा ।
किमन्येन बहूक्तेन स्मरणाच्चास्य मंत्रवित् ।
जीवन्मुक्तो न सन्देहो विष्णुरेव न संशयः ।
नारदोऽस्य मुनिः प्रोक्तो गायत्रीछन्द उच्यते ।
कृष्णः प्रकृतिरेतस्य दुर्गाधिष्ठातृ देवता ।
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः ।
नारायण इति ख्यातः पद पंचात्मकः परः ।
अक्षरार्थस्तु कथितः पदनाम इतीरितः ।
तस्माद्विज्ञाय वै मंत्री पुरुषार्थ चतुष्टयं ।
लभते नात्र संदेहः सत्यं सत्यं हि गौतम ।।

पृ० ४ब) बीजशक्ती पुरा प्रोक्तो विनियोगश्च पूर्ववत् ।
पंचांगानि मनीरस्य पदपंचक योजनात् ।
ब्रह्मरन्ध्रे भ्रुवोर्म्मध्ये जिह्वा कूपे तथा पुनः ।
कंठदेशे हृदि तथा नाभौ लिंगे च मूलके ।
घ्राणद्वये चक्षुषोश्च कर्णयोर्विन्यसेदिति ।
ब्रह्मरन्ध्रे पुनः सर्वं व्यापक त्रयमाचरेत् ।
मूद्धिण् वक्त्रे हृदि नाभौ मूले च पद पंचकम् ।
रोहावरोहतो न्यस्य केशवाद्यानथी न्यसेत् ।
वर्णन्यासं पुनः कृत्वा केशवाद्यांस्ततो न्यसेत् ।
भूतशुद्धिं लिपिन्यासं विना यस्तु प्रपूजयेत् ।
विपरीत फलं दद्यादभक्त्या पूजनं याथा ।
मातृका द्विविधा प्रोक्ता परा चाप्य परा तथा ।
सुषुम्नांतः परा न्यास्या अपरा बाह्यदेशके ।
अथांतर्म्मातृकान्यासो मूलाधारे चतुर्द्दले ।
स्वर्न्नाभेवशषस चतुर्वर्णा विभूषिते ।
षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।
वभमैर्यरलैर्युक्तैर्बिन्दूद्भासित मस्तकैः ।
अनाहते द्वादशारे प्रवाल रुचि सन्निभे ।
कादिठांतदलैर्युक्ते योगिनां हृदयंगमे ।
विशुद्धे षोडशदिने धूम्नाभे स्वरभूषिते ।
आज्ञाचक्रे तु चंद्राभे द्विदले हक्षरंजिते ।
सहस्रारे मणिनिभे सर्ववर्णविभूषिते ।
अकथादि त्रिरेखात्महलक्षत्रयभूषिते ।
तन्मध्ये परिबिन्दुं च सृष्टि स्थिति लयात्मकं ।
एवं समाहित मनाध्यायेन्न्यासोऽयमांतरः ।
मूलादि ब्रह्मरंध्रांतं विष्णुं ध्यायेच्चिदात्मकं ।
बिन्दुश्रुत सुधासारैस्तर्पयेन्मातृकां न्यसेत् ।
एकैकं वर्णमुच्चार्यय मूलाधाराद्भ्रुवांतकं ।
नमोनंतमिति न्यास आचांतः परिकीर्तितः ।

पृ० ५अ) बाह्यं वै मातृकान्यासं शृणुष्वावहितो मम ।
ललाट मुख वृत्ताक्षि श्रुति घ्राणेषु गंडयोः ।
ओष्ठ दंतोत्तमांगास्येदोः यत् संध्यग्रकेषु च ।
पाश्वयोः पृष्टतो नाभौ जठरे हृदयंऽशके ।
ककुद्यंशे च हृतपूर्व पाणिपादयुगे तथा ।
जठराननयोर्नस्येन्मातृकार्णान् यथा क्रमात् ।
चतुर्द्धा मातृका प्रोक्ता केवला बिन्दुसंयुता ।
सविसर्गासोभया च रहस्यं शृणु कथ्यते ।
विद्याकरी केवला च सोभया भक्तिदायिका ।
सविसर्गा पुत्रप्रदा सबिन्दुर्वित्तदायिनी ।
केशवादि ततो न्यासं कुर्ययात् साधकसत्तमः ।
ऋषिः प्रजापतिच्छंदो गायत्री देवता पुनः ।
अर्द्धलक्ष्मी हरिः प्रोक्तः श्रीबीजेन षडंगकं ।
करशुद्धिविधानं च विधाय ध्यान माचरेत् ।
उद्यदादित्यशंकाशं तप्तजाम्बूनदप्रभं ।
कमला वसुधा शोभि पार्श्वद्वन्द्वं परात् परं ।
विचित्ररत्नविहित नानालंकारभूषितं ।
पीतवस्त्रपरीधानं शंख कौमोदकीकरं ।
वामतश्चक्रपद्मे च ध्यात्वैवं विन्यसेत्ततः ।
प्रणवं पूर्वमुच्चार्यय श्रीबीजं तदनंतरं ।
मातृकार्णं ततोन्यस्येद्वक्ष्यामि तत् प्रकारकं ।
केशवं विन्यसेत् कीर्त्या कांत्या नारायणं न्यसेत् ।
माधवं तुष्टि सहितं गोविन्दं पुष्टिसंयुतं ।
धृत्या विष्णुं शांतियुतं मधुसूदनमेव च ।
त्रिविक्रमं च क्रियया वामनंदयया न्यसेत् ।
श्रीधरं मेधया हृषीकेशं हर्षयुतं न्यसेत् ।
श्रद्धयांबुजनाभं च लज्जा दामोदरौ ततः ।
वासुदेवं ततो न्यस्येल्लक्ष्म्या संकर्षणं ततः ।

पृ० ५ब) सरस्वत्या ततः प्रीत्या प्रद्युम्नं चानिरुद्धकं ।
रत्याचक्रि जये दुर्गा गदिनौ शांर्गिणा प्रभा ।
खड्गिसत्ये शंखि चंडे वाण्या चहालिनं न्यसेत् ।
विलासिन्या मूषलिनं शूलिनं विजयायुतं ।
पाशिनं विरजायुक्तं विश्वयांकुशिनं न्यसेत् ।
मुकुन्दश्च विनदया सुनदानंदजौ न्यसेत् ।
स्मृत्या च नन्दिनं ऋद्ध्या नरं नरकजित् समृद्धया ।
हरिशुद्धी कृष्णभक्ती बुद्धि सत्यौ च सात्वतं ।
मत्पाशौरीक्षमे शूररमे तथोमा जनार्द्दनौ च ।
क्लेदिन्या भूधरं विश्वमूर्तिं क्लिन्या ततो न्यसेत् ।
वैकुंठ वसुधे चैव वसुधा पुरुषोत्तमौ ।
बली च परयायुक्तो बलानुजपरायणे ।
बालश्च सूक्ष्मया युक्तो वृषघ्नः संध्ययायुतः ।
वृषश्च प्रज्ञयायुक्तो हंसश्चैव प्रभायुतः ।
वराहो निशयायुक्तो विमलोऽमोद्ययायुतः ।
विद्युता नरसिंहेन कथिताः शिवशक्तयः ।
एवमंगेषु विन्यस्य ध्यात्वा पूर्वं समाहितः ।
भक्त्या तु पूज *(ये) द्देवं सोऽभीष्टं फलमाप्नुयात् ।
केशवादिरयं न्यासी न्यासमात्रेण देहिनां ।
अच्युतत्वं ददात्येव सत्यं सत्यं न संशयः ।
केशवाद्या इमे श्यामाः सर्वे नारायणाः स्मृताः ।
शंख चक्र गदा पद्म लसद्भुजचतुष्टयाः ।
शचेगीपीशगीपीचशपचंगंशपांग च ।
शंगं चम्यं शपंगं च दक्षिणोर्द्धं करं क्रमात् ।
नमोन्तार्णं समुच्चार्यय नारायण मनुं वदेत् ।
प्राणात्मानं तथोच्चार्यय केशवाय इति स्मरेत् ।
कीत्यै च मनसायुक्त इत्यादि न्यासमाचरेत् ।
मुमुक्षवश्च यतयश्च रेयुर्न्यासमुत्तमं ।
एवं वा विन्यसेन्न्यासं लक्ष्मी बीज पुरःसरं ।

पृ० ६अ) स्मृतिर्धृतिर्म्महालक्ष्मीः प्राप्यांते हरितां व्रजेत् ।
वाग्भवाद्यं न्यसेन्न्यासं वागीशत्वमवाप्नुयात् ।
यद्यदाद्यं न्यसेन्न्यासं तद्बीजैरंगकल्पनं ।
तत्वन्यासं ततः कुर्ययात् साधकः सिद्धिहेतवे ।
कृतेन येन श्रीदेवरुपतामेव यान्यसौ ।
मादिकांतामथार्णांश्च बीजान्येकैकशोच्चरेत् ।
नमः परायेन्युचार्यय ततस्तत्वात्मने नमः ।
जीवं प्राणद्वयं चोक्ता सर्वांगेषु प्रविन्यसेत् ।
ततो हृदयमध्ये च तत्वत्रयं च विन्यसेत् ।
वं बीजं मतितत्वं च फमहंकारमेव च ।
पं बीजं च मनस्तत्वमित्येवं त्रितयं न्यसेत् ।
नं बीजं शब्दतत्वं च न्यसेन्मौलौ ततः परं ।
वं बीजं स्पर्शतत्वं च विन्यसेदानने सुधीः ।
दं बीजं रुपतत्वं च हृदये विन्यसेत्ततः ।
थं बीजं रसतत्वं च विन्यसेदथ गुह्यके ।
तं बीजं गंधतत्वं च पादयोरथ विन्यसेत् ।
णं बीजं श्रीत्रतत्वं च श्रीत्रयोरेव विन्यसेत् ।
टं बीजं त्वक्तत्वं च विन्यसेत्त्वचि साधकः ।
डं बीजं नेत्रतत्वं च नेत्रयोरेव विन्यसेत् ।
ठं बीजं रसनातत्वं रसनायामथो न्यसेत् ।
ढं बीजं घ्राणतत्वं च नासिकायां प्रविन्यसेत् ।
ञं बीजं वाक्यतत्वं च विन्यसेद्वाचि साधकः ।
झं बीजं पाणितत्वं च पाण्योरेव प्रविन्यसेत् ।
जं बीजं पादतत्वं च पादयोरेव विन्यसेत् ।
छं बीजं पायुतत्वं च पायौ न्यसेत् समाहितः ।
चं बीजं लिंगतत्वं च विन्यसेदथ शिश्नके ।
ङं बीजं तत्वमाकाशं पुनर्म्मौलौ प्रविन्यसेत् ।
घं बीजं वायुतत्वं च वदने विन्यसेत् पुनः ।
गं बीजं तेजस्तत्वं च विन्यसेत् हृदये सुधीः ।

पृ० ६ब) खं बीजं जलतत्वं च पुनः शिश्ने प्रविन्यसेत् ।
कं बीजं पृथिवीतत्वं विन्यसेत् पादयोः पुनः ।
शं बीजं हृत्पुण्डरीकतत्वं हृदि प्रविन्यसेत् ।
हं बीजं सूर्ययमंडलतत्वं हृदि प्रविन्यसेत् ।
सं बीजं चन्द्रमण्डलतत्वन्तत्र प्रविन्यसेत् ।
वं बीजं वह्निमण्डलतत्वं तत्रैव विन्यसेत् ।
षं परमेष्ठीतत्वं च वासुदेवं च मूर्द्धनि ।
यं बीजमथ पुंस्तत्त्वं संकर्षणमथो मुखे ।
लं बीजं विश्वतत्वं च प्रद्युम्नं हृदि विन्यसेत् ।
वं बीजं निवृत्तितत्त्वं अनिरुद्धमुपस्थके ।
लं बीजं सर्वतत्त्वं च पादे नारायणं न्यसेत् ।
क्ष्रौं बीजं कोपतत्त्वं च नृसिंहं सर्वगात्रके ।
एवं तत्त्वानि विन्यस्य प्राणायामं समाचरेत् ।
दशाक्षरेण चेत्तत्र अष्टाविंशति रेचयेत् ।
पूरयेद्वामया तद्वद्वारयेत्तत् प्रमाणतः ।
प्राणायामो भवेदेको रेचक पूरक कुम्भकैः ।
अष्टादशार्णं चेत्तद्वद्वाशैवं समाचरेत् ।
एकेन रेचयेत् कामबीजेनैव पृथक् पृथक् ।
पूरयेत् सप्तजप्तेन विंशत्या तेन धारयेत् ।
सर्वेषु कृष्णमंत्रेषु बीजेनानेन चाचरेत् ।
अथवा सर्वमंत्रेषु वर्णानुक्रमतो जपन् ।
प्राणायामं चरेन्मंत्री रेचकपूरक कुंभकैः ।
मंत्र प्राणायामः प्रोक्तो यौगिकं कथयामिते ।
रेचयेद्दक्षया विद्वान मात्रा षोडशकेन च ।
द्वात्रिंशन्मात्रयापूर्यय चतुःषष्ट्या तु धारयेत् ।
एकश्वासश्चैक मात्रा मात्रायां नियमो मतः ।
वाम आनुनि हस्तस्य भ्रमणं यावता भवेत् ।
कालेन मात्रा सा ज्ञेया मुनिभिर्व्वेदपारगैः ।
प्राणायामी द्विधा प्रोक्तः सगर्भश्च निगर्भकः ।
सगर्भो मंत्र जापेन मात्रया संख्यया भवेत् ।

पृ० ७अ) प्राणायामात् परंतत्वं प्राणायामात् परं तपः ।
प्राणायामात् परंज्ञानं प्राणायामात् परं पदम् ।
प्राणायामात् परं योगं योगः प्राणायामात् परं धनं ।
नास्ति नास्ति पुनर्नास्ति कथितं तव सुव्रत ।
वत्सराभ्यासयोगेन ब्रह्मसाक्षाद्भवेद्ध्रुवम् ।
चैतन्यावरणं यद्यत् क्षीयते नात्र संशयः ।
प्राणायामं विना मुक्ति मार्गो नास्ति मयोदितं ।
प्राणायामं विना यच्च साधनं तद फलं भवेत् ।
प्राणायामेण मुनयः सिद्धिमापुर्न चान्यथा ।
प्राणायामपरो योगी न योगी शिव एव सः ।
गमनागमनं वायोः प्राणस्य धारणं तथा ।
प्राणायाम इति प्रोक्तो योगशास्त्र विशारदः ।
प्राणो वायुरिति ख्यात आयामंतन्निरोधनं ।
प्राणायाम इति प्रोक्तो योगिनां योगसाधनं ।
आद्यत्तयोर्विधीयंते नासिकापुटचारिणः ।
रेचयेद्दक्षया नासा पूरयेद्वामतस्ततः ।
द्वात्रिंशदभ्यसन् मंत्रं प्राणायामः स उच्यते ।
ब्रह्महत्या सुरापानमगस्यागमनं तथा ।
सर्वमाशुदहत्येव प्राणायामेन वै द्विज ।
भ्रुणहत्यादिपापानि नाशयेन्मासमात्रके ।
प्रातः सायं चरेन्नित्यं षोडश प्राण संयमं ।
नाशयेत् सर्वपापानि तूलराशि मिवानलः ।
सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् ।
स्वदेहस्थं यथा संचवर्म्मोत्सृज्य निरामयः ।
प्राणायामात्तथाधक्षत्य विद्यां कामकर्म्मजां ।
अथवा किं बहुक्तेन शृणु गौतममद्वचः ।
प्राणायामान्न हि परोयोगिनां मुक्तिसिद्धये ।
प्राणायामं विधायेश्चं देहे पीठानि विन्यसेत् ।
आधारशक्तिं प्रकृतिं कूर्म्मं शूकरमेव च ।

पृ० ७ब) पृथिवीं क्षीरसिन्धुं च श्वेतद्वीपं च मध्यतः ।
तन्मध्ये रत्नगेहं च सर्वाभीष्ट फलप्रदं ।
गेहमध्ये कल्पवृक्षं सर्वरत्न महोज्ज्वलं ।
दक्षांशे दक्षिणकटौ तथा वामद्वये पुनः ।
धर्म्मं ज्ञानं च वैराग्यं विन्यसेदैश्वरं तथा ।
मुखपार्श्वे नाभिपार्श्वे न ञ पूर्वांस्तु विन्यसेत् ।
विन्यस्यैवं पुनर्हृदि पद्मं विश्वमयं न्यसेत् ।
प्रकृत्यष्टलसत्पत्रं विकारमयकेशरं ।
तन्मध्ये विन्यसेन्मंत्री पंचाशद्वर्ण कार्णिकां ।
प्रणवस्य त्रिभिर्म्मंत्रैर्विन्यसेन्मण्डलत्रयं ।
कलाभिः सहितं तद्वद्दश द्वादश षोडशैः ।
आकारोकारमपराः प्रणवांशोद्भवाक्षराः ।
ब्रह्मविष्णुमहेशाख्याः समष्टि व्यष्टिरुपकाः ।
समष्ट्या केवलं ब्रह्म सच्चिदानन्दलक्षणं ।
स्वबीजपूर्वकांस्तत्र सत्त्वदीनथ विन्यसेत् ।
तदंशे नैवमतिमान् न्यसेदात्म चतुष्टयं ।
आत्मांतरात्म परमात्म ज्ञानात्मानश्च ते मताः ।
आत्मासौ जगवस्तूलो विश्वात्मा विश्वरुपकः ।
नामाद्यबीजसहितं हृन्मध्ये च व्यवस्थितं ।
अतेव हृदि न्यस्येद्वाग्वृत्तिर्हृदये स्थिता ।
अंतरंगतया चायं अंतरात्मा हृदंतरे ।
मनोमयस्तैजसाख्यश्चांतरिन्द्रिय वृत्ति धृक् ।
अतेव मुने चायं अंतरात्मेति कीर्त्यते ।
अं बीजां चास्य गदितं तत् पूर्वं विन्यसेत् सुधीः ।
रमाद्यात्मसुषुप्त्याख्यो मनोव्यावृत्तिहारकः ।
विलये चेन्द्रिये तत्र सुमुखः केवल स्थितः ।
यं बीजात् परमात्मानं यजेत् सर्वार्थसिद्धये ।
संकर्षणश्चानिरुद्धः प्रद्युम्नश्चेतितत्रयं ।
ज्ञानात्मासौ वासुदेवः स्वयम्भू प्राज्ञरुपकः ।
वृत्तित्रये विलीनेति केवलं सुख चित् कलः ।

पृ० ८अ) सुखात्मा वासुदेवोऽसौ चितकला प्रकृतिः परा ।
बीजं तस्य प्रवक्ष्यामि केवलं सुख चिन्मयं ।
वेदत्रयोद्धृतं सारं सर्वे कारण कारणं ।
केशवेष्ट पृशक्तीश्च चाष्टप्रकृति रुपिणी ।
मध्यशक्तिः पराख्या च चिदानन्दस्वरुपिणी ।
विमलोत् कर्षिणी ज्ञाना क्रियायोगा च शक्तयः ।
प्रह्वी सत्या तथेशानानुग्रहा नवमी स्मृता ।
नवशक्तीः प्रविन्यस्य न्यसेत्तत्र महामनुं ।
नमो भगवते प्रोक्ता सर्वभूतात्मने पदं ।
वासुदेवपदं ङेन्तं सर्वात्मयोगसंयुतं ।
विज्ञेयं च ततो योग पद्मपीठात्मने नमः ।
अयं पीठ मनुः प्रोक्तः सर्वभूतात्मकः परः ।
श्यामलं कोमलं धाम तत्रोपरि विचिंतियेत् ।

इति श्रीगौतमीयतंत्रे सर्वतंत्रोत्तमोत्तमे द्वितीयोऽध्यायः ।। २ ।।

अथाखिलं न्यासजालं शृणुष्वावहितो नद्य ।
नित्य न्यासाः पुरा प्रोक्तायैर्विना विफला भवेत् ।
मंत्रतंत्रात्मना सर्वाः प्रकारेणाप्यनुष्ठिताः ।
फलाधिक्येछ्यान्यासान् समस्त पुरुषार्थ दान् ।
शृणु वक्ष्यामि विप्रेन्दयेत् विष्णुमयो भवेत् ।
स्वरषट्कं यथा पूर्वं पश्चात्यं स्वरषट्ककं ।
मूर्त्ति द्वादशकं तद्वद्वासुदेवेन संयुतं ।
कलापे विन्यसेद्दात्रा केशवं सुसमाहितः ।
नारायणं च जठरे अर्ययम्ना सहसंयुतं ।
हृदये माधवं चैव मंत्रेण सहसंयुतम् ।
गोविन्दं गलकूपे च वरुणेन प्रविन्यसेत् ।
भुजांते दक्षिणे न्यसेद् भर्गेण मधुसूदनं ।
पद्मनाभं दक्षगले न्यसेद्धिन्ध्यसुतायुतं ।
दामोदरमखेन्द्रेण वामपार्श्वे न्यसेत् सुधीः ।
भुजांते वासुदेवं च पुष्णा सह प्रविन्यसेत् ।।

पृ० ८ब) वाभगले संकर्षणं पर्ययन्येन च विन्यसेत् ।
पृष्टदेशे च प्रद्युम्नं त्वष्ट्रा सह प्रविन्यसेत् ।
कक्षदेशेऽनिरुद्धंतं विष्णुना सह विन्यसेत् ।
द्वादशाक्षरं मंत्रवरं विन्यसेद्ब्रह्मरन्ध्रके ।
वासुदेवो भवेत् साक्षाद्व्याप्तितस्तस्य तेजसा ।
त्रिमात्रिकं समुद्धृत्य नमो भगवते लिखेत् ।
वासुदेवं चतुर्थ्या च मंत्रोऽयं सुरापादयः ।
अस्य विज्ञानमात्रेण वासुदेवः प्रजायते ।
मनु संपुटितां न्यसेन्मातृकां विश्यामातरम् ।
तेनैव मंत्रं सिद्धिः स्याद्दोषसंघात नाशनात् ।
दशार्णगोलक न्यासं वक्ष्ये संभूतिदायकम् ।
मंत्रदशावृत्तिमयं गोपनीयं प्रजायते ।
आधारेण ध्वजे नाभौ हृदि गल मुखांशके ।
ऊरुद्वये कन्धरायां नाभ्यां कुक्षौ स्तनद्वये ।
पार्श्वद्वये तथा श्रोण्योर्मस्तकास्ये च नेत्रयोः ।
कर्णनासिकयोस्तद्वत् कपोलो करसन्धिषु ।
तदग्रे पादयोः सन्धौ तदग्रेष्वपि चादरात् ।
मस्तके तत् प्रतीच्यादि दिशासु व्यापकं न्यसेत् ।
दोष्णोस्तथोरुद्वये मंत्री शिरोक्षास्य कंठदेशके ।
अक्षि हृद्दंतकं वामजानु प्रयत् सुविन्यसेत् ।
श्रोत्रगण्डांशयोर्नस्येद्वक्षोजपार्श्वस्फि गुरौ ।
जानुजंघांघ्रियुगले इच्छं वर्णान् प्रविन्यसेत् ।
विभूति पंजर न्यासः सर्वभूति प्रवर्त्तकः ।
दशतत्वं ततो न्यसेद्दर्शणं शीघ्र सिद्धये ।
पृथिव्यपतेजोमरुद्वयद्विपंचतत्त्वकम् ।
अहंकारो महत्तत्वं तथा प्रकृति पुरुषौ ।
पर (+इमानि) इमानि तत्वानि यथा वदवधारय ।
पादान्धु हृदये वक्त्रे मूर्द्धिण्यं च न्यसेत्ततः ।
हृदि

पृ० ९अ) द्वयं त्रयं व्यात्था सर्वांगे विन्यसेत् सुधीः ।
मस्तकादि ततो न्यस्येद् यावत् पदावसानकम् ।
अयं न्यासो गुप्ततमोमंत्राणां शीघ्रसिद्धिदः ।
कर्ययौन्येष्वपि गोपालमंत्रेष्वपि विशालधीः ।
दशाक्षरस्यवर्णांश्च संहारक्रमतो न्यसेत् ।
सृष्टिन्यासे मनोरस्य वर्णान् विपरीतान्न्यसेत् ।
एकैकाक्षरमुच्चार्यय नमोऽनंतं ततः पठेत् ।
परायेति च तत्त्वानि तदंते नमसा सह ।
मनसा वा न्यसेन्न्यासान् पुष्पे नैवाथ वा मुने ।
अंगुष्ठानामिकाभ्यां वा अन्यथा विफलं भवेत् ।।

इति श्रीगौतमीये महातंत्रं सर्वतंत्रे सर्वतंत्रोत्तमोत्तमे काम्यन्यासो नाम तृतीयोऽध्यायः ।। ३ ।।

अथ वृन्दावनं ध्यायेत् सर्वदेव नमस्कृतम् ।
सर्वर्त्तु कुसुमोपेतं पतत्रिगणनादितं ।
भ्रमद् भ्रमर झंकार मुखरीकृत दिंमुखम् ।
कालिन्दीजल कल्लोल शीतला निलसेवितम् ।
नानापुष्पलतावद्दवृक्षषण्डैश्च मण्डितम् ।
समानोदित चन्द्रार्क तेजोदीप न दीपितम् ।
कमलोत्पल कह्लार धूलीधूषरितांतरम् ।
शाखामृग गणाकीर्णं नानामृग निषेवितम् ।
द्वात्रिंशद्वनसंवीतं वैकुंठादतिसौख्यदम् ।
पुरन्दरमुखैर्द्देवैः सर्वतः समधिष्ठितम् ।
तन्मध्ये रत्नभूमिं च सूर्ययायुत समप्रभाम् ।
तत्र कल्पतरुद्यानं नियतं रत्नवर्षणम् ।
माणिक्यशिखरोल्लासि तन्मध्ये मणिमण्डपम् ।
नानारत्नगणैश्चित्रं सर्वतेजो विराजितम् ।
फलभागुल्लसच्चित्रवितानैरुपशोभितम् ।
रत्नतोरण गोपूर माणिक्यवेदिकावितम् ।
दिव्यघंटायुक्त मुक्तामणि श्रेणी विराजितम् ।

पृ० ९ब) कोटिसूर्यय समाभासं निर्म्मुक्तं षट्करंगकैः ।
वुभुक्षा च पिपासा च प्राणमनसस्तथा ।
शोकमोहौ शरीरस्य जरामृत्यु षडूर्म्मयः ।
चतुर्द्वारसमायुक्तं कपाटाष्टकशोभितम् ।
तत्र कल्पतरुं ध्यायेत् स्थविष्ठं रत्नवर्षिणम् ।
सेवितं ऋतुभिः सर्वैः सुधाशीकर वर्षिणम् ।
गारुत्मतलसत्पत्रं प्रवाल रत्नपल्लवम् ।
मुक्तारत्नप्रसरितं पद्मराग फलीज्ज्वलम् ।
संसारतापविच्छेदि कुशलच्छायमद्भुतम् ।
तन्मूले चिंतयेन्मंत्री रत्नसिंहासनं शुभम् ।
तत्र सूर्ययसमाभासं पंकजं चोष्टपत्रकम् ।
सर्वतत्वमयं तत्र चिंतयेज्जगदीश्वरम् ।
संसारसागरात्तीर्णं धर्म्मकामार्थ सिद्धये ।
पीताम्बरधरं कृष्णं पुण्डरीक निभेक्षणम् ।
रक्तनेत्राधरं रक्त पाणिपादतलं शुभम् ।
कौस्तुभीद्भासितोरस्कं नानारत्नविभूषितम् ।
उद्दामविलसन्मुक्ता रत्नहारोपशोभितम् ।
नानारत्नप्रभोदमासि मुकुटं दीप्ततेजसम् ।
हारकेयूरकटककुण्डलैरुपशोभितम् ।
श्रीवत्सवक्षसंचारु नूपुराद्युपशोभितम् ।
रत्नैर्नानाविर्धंर्युक्तं कदिसूत्रांगुरीकैः ।
गोरोचना कुंकुमेन ललाट तिलकावितम् ।
अलकाशोभिसंयुक्तं पीताम्बर युगावृतम् ।
बिम्बाधर पुटोद्भासि वंश्यामृतरसान्वितम् ।
वर्हिपत्र कृता पीड़ं वन्यपुष्पैरलंकृतम् ।
कदम्बकुसुमोद्वद्व चारुमाला विराजितम् ।
कोटिकन्दर्पलावण्यं विलसद्बन्धुरोदरम् ।
वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य वादिनम् ।
गायंतं दिव्यगानैश्च वृन्दावन गतं हरिम् ।

पृ० १०अ) स्वर्गादिवपरिष्ट कन्यकाशतमण्डितम् ।
गो गो वत्स गणाकीर्णं वृहत् षण्डैश्च मण्डितम् ।
गोपकन्यासहस्रैस्तु पद्मपत्रापते क्षणैः ।
अर्च्चितं भाव कुसुमैस्त्रैलोक्यैक गुरुं विभुम् ।
तुम्बुरुर्नारदश्चैव हाहा हूहूस्तथैव च ।
किन्नरी मिथुनं चापि श्रुत्वा गीतं तथा हरेः ।
वीणादि साधनं त्यक्ता विस्मयाविष्ट चतसः ।
ते स्तुवंति महात्मानं गायवाविरति स्थिताः ।
सिद्धगंधर्वयक्षैश्व अप्सरोभिर्विहंगमैः ।
स्थावरैः पन्नगैश्चापि सिद्धौर्विद्याधरैस्तथा ।
शाखामृगैर्मनुष्यैश्च वीक्ष्यमाणैः सुविस्मितैः ।
सर्वलक्षणसम्पन्नं सौन्दर्ययेणाभिशोभितम् ।
मोहनं सर्वं गोपीनां लोकानां पतिमव्ययम् ।
नारदेन च सिद्धेन विश्वामित्रेण धीमता ।
पराशरेण व्यासेन भृगुणांगिरसेन च ।
दक्षेन सनकाद्यैश्च सिद्धेन कपिलेन च ।
वास्तु वागीशहारीत याज्ञवल्क्योशनःक्रतुः ।
मार्कण्डेय भरद्वाज पुलस्य पुलहादिभिः ।
वशिष्ठाद्यैर्मुनीन्द्रैश्च स्तूयमानं सुरासुरैः ।
ब्रह्मलोकगतैः सिद्धैर्नागलोकगतैरपि ।
अन्यैरपि सुरश्रेष्ठैः स्तूयमानं स्मरेद् विभुम् ।
एवं यश्चिंतयेन्मंत्री चेतसा कृष्णमव्ययम् ।
संसारसागरं घोरमपिवत्सपदायते ।।

इति श्रीगौतमीये महातंत्रे सर्वतंत्रोत्तमोत्तमे चतुर्थोऽध्यायः ।। ४ ।।

गौतम उवाच
यद्यदुक्तं त्वया ब्रह्मन् तत्त्वं सर्वं श्रुतं मया ।
इदानीं परिपृच्छामि केनात्र चाधिकारितम् ।

नारद उवाच
दीक्षायामधिकारित्वमाप्नोति गुरुसेवकः ।
द्विजानामनुपनीतानं स्वकर्म्माध्यापनादिषु ।

पृ० १०ब) यथाधिकारो नास्तिह सन्ध्योपसन कर्म्मसु ।
तथाह्यदीक्षितानां तु मंत्रतंत्रार्च्चनादिषु ।
नाधिकारोऽस्त्यतः कुर्ययादात्मानं शिव संस्कृतम् ।
अतेव हि दीक्षार्थं सर्वज्ञं गुरुमाश्रयेत् ।
सुन्दरः सुमुखः स्वच्छ सुलभो बहुतंत्रवित् ।
असंशयः संशयछिन्निरपेक्षो गुरुर्म्मतः ।
वेदवेदांग वेदांत सिद्धांत ज्ञानपारगः ।
वांमनः कायचित्तैश्च विष्णोः सुश्रुषेणरतः ।
विष्णु तंत्रानुसंधायी विष्णु विज्ञानवेदकः ।
विष्णौ समर्पकः सम्यक् त्रिविधोत्पातकर्म्मणि ।
सन्मतः सत्सुदांतश्च मंत्रार्थ ज्ञानपारगः ।
षट्चक्रभेदकुशलः षड्ध्वज्ञानपारगः ।
पिण्डे पदे तथा रुपे रुपीतीते विवेचकः ।
संध्यात्रय विशेषज्ञोऽध्वषट्कं च विशोधकः ।
मंत्र चैतन्य विज्ञाता गुरुरुक्तः स्वयम्भुवा ।
नमोऽस्तु गुरवे तस्मै प्रत्यक्षाय यदाज्ञया ।
मृद्भस्म दारुदृशदः फलन्य विफलं फलं ।
पंचाम्नाय विशेषज्ञो निग्रहानुग्रहक्षमः ।
शिष्यस्य संशयच्छेत्ता गुरुर्भवति नापरः ।
वैष्णण्वान्वयसिद्वांत चिंतामणिरिवापरः ।
आश्रमी ज्ञानकुशलो गुरुर्भवति नापरः ।
मंत्रतंत्रार्थ चैतन्य कुण्डली गति वेदकः ।
मंत्रसिद्धांत विधिवद् गुरुर्भवति नापरः ।
स्वदूरमपि गंतव्यं यथाम्नाय विदोज्वनाः ।
तेऽपि स्तुत्या नमस्याश्च सेव्याश्चाभीष्टमिच्छता ।
एवं विधो गुरुर्ज्ञेयस्त्वन्यथा शिष्य दुःखदः ।
शिष्यः कुलीनः शुद्धात्मा पुरुषार्थ परायणः ।
अधीत वेदकुशलः पितृमातृहितेरतः ।
धर्म्मविद्धर्म्मकर्ता च गुरुशुश्रुषणेरतः ।

पृ० ११अ) सदा शास्त्रार्थ तत्वज्ञो दृढ़देहो दृढ़आशयः ।
हितैषी प्राणिनां नित्यं परलोकार्थ कर्म्मकृत् ।
वांमनःकायवसुभिर्गुरु शुश्रुषणेरतः ।
अनित्यकर्म्मणस्त्यागी नित्यानुष्ठानतत्परः ।
जितेन्द्रियो जितालस्यो जितमोहो विमत्सरः ।
गुरुवद गुरुपुत्रेषु तत् कलत्रादिषु भक्तिमान् ।
एवम्विधो भवेच्छिष्यस्त्वितरो गुरु दुःखदः ।
वर्षैकेण भवेद्योग्या विप्रः सर्वगुणान्वितः ।
वर्षद्वये तु राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः ।
चतुर्भिर्वत्सरैः शुद्रः कथिता शिष्य योग्यता ।
यदा शिष्यो भवेद्योग्यः कृपया सद्गुरुस्तदा ।
कृपया परया सम्यग् दीक्षाया विधिमाचरेत् ।
मंत्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः ।
वैशाखे रत्नलाभः स्याज्ज्यैष्ठे तु मरणं ध्रुवं ।
आषाढे बन्धुनाशः स्यात् पूर्णायुः श्रावणे भवेत् ।
प्रजानाशो भवेद्भाद्रे आश्विने रत्नसंचयः ।
कार्त्तिके मंत्रसिद्धिः स्यान्मार्गशीर्षे तथा भवेत् ।
पौषे तु शत्रुपीडा़ स्यान्माद्ये मेधाविवर्द्धनं ।
फाल्गुणे सर्वकामः स्युर्म्मलमासं विवर्ज्जयेत् ।
पंचांगशुद्धिदिवसे स्वोदये चन्द्रसूर्यययोः ।
गुरुशुक्रोदये चैव शस्यते मंत्रसंस्क्रिया ।
रवौ गुरौसिते सोमे कर्त्तव्यं बुधशुक्रयोः ।
शुक्लपक्षे शुभा दीक्षा कृष्णे स्यात् पंचमावधि ।
द्वादश्यां सर्वथा कार्यया चामलायां शुभेऽनि *।
कृष्णप्रिया द्वादशी सा कृष्णदीक्षा प्रवर्त्तिनी ।
उत्तरात्रय रोहिण्यां रेवती पुष्यवासरे ।
धनिष्ठा वायुमित्राश्विपित्र्यंत्वष्ट्रिं च नैरृतं ।
ऐश्व वैष्णव हस्ता च दीक्षायां तु शुभावहाः ।
आश्विनी रोहिणी स्वाति विशाखा हस्तभेषु च ।

पृ० ११ब) कृष्णोत्तरात्रयेष्वेवं कुर्ययान्मंत्राभिषेचनं ।
शुभयोगेषु सर्वेषु दीक्षा सर्व शुभप्रदा ।
शुभानि करणान्याहुर्द्दीक्षायां च विशेषतः ।
शकुन्यादीनिविष्टिं च विशेषेण विवर्जयेत् ।
चरः सर्वे विपर्ययः स्यात् स्थिर राशिषु सौख्यदा ।
त्रिषडाय गताः पायाः शुभाः केन्द्र त्रिकोणगाः ।
दीक्षायां च शुभाः सर्वं रन्ध्रस्थाः सर्वनाशकाः ।
शिष्यस्य जन्मसंक्रांत्यो विषुवे अयते तथा ।
अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्यययोः ।
शिष्यानुकुलकाले वा दीक्षा सर्व शुभावहा ।
सूर्ययग्रहणकालेषु नान्यदन्वोषतं भवेत् ।
तत्र यद्यत्कृतं सर्वमनंतफलदं भवेत् ।
विनायासेत् मंत्रस्य सिद्धिर्भवति नान्यथा ।
भूमेः परिग्रहं कुर्ययाद्यावदायतनं भवेत् ।
शुक्लमृत्स्ना च या भूमिर्ब्राह्मी सा परिकीर्त्तिता ।
क्षत्त्रिया रक्तमृत्स्ना च हरिद्वैश्या प्रकीर्त्तिता ।
कृष्णा भूमिर्भवेत् शूद्रा चतुर्द्धा परिकीर्तिता ।
ब्राह्म्या सर्वार्थसिद्धिः स्यात् क्षत्त्रिया राज्यदा मता ।
धनधान्यकरी वैश्या शूद्रा तु निन्दिता मुने ।
ततो भूमिं परीक्षेत वास्तुज्ञान विशारदः ।
शस्यादि शोधनं कुर्ययात्तुषांगारादीनि दूरयेत् ।
एतस्याकरणे मंत्री न किंचित् फलमाप्नुयात् ।
विप्राशिषावेदघोषैर्मंगलाचारपूर्वकं ।
वास्तोर्म्मण्डलकं कुर्ययाद्यथाशोभं तथाविधि ।
पूर्वापरायतं सूत्रं विन्यसेद्धस्तामानतः ।
तन्मध्ये किंचिदालक्ष्यमत्स्यौ द्वौ परितो लिखेत् ।
तयोर्म्मध्ये स्थितं सूत्रं विन्यसे दक्षिणोत्तरं ।
द्वाभ्यां द्वाभ्यां तथा ग्राभ्यां कोणेषु मकरान् लिखेत् ।

पृ० १२अ) मत्स्यमध्यस्थिताग्राणि तत्र सूत्राणि पातयेत् ।
चतुरस्रं भवेत्तत्र चतुष्कोष्ठ समन्वितं ।
ईशानाद्राक्षसं यावद यावदग्रे प्रभंजनं ।
एवं सूत्रद्वयं दद्यात् कर्णसूत्रं समाहितः ।
ब्राह्मणं पूजयेदादौ मध्यकोष्ठ चतुष्टये ।
दिक्चतुष्केषु पूर्वादि यजेदावाह्यसत्तमः ।
विवस्वंतं ततो मित्रं महीधरमनंतरं ।
कोणार्द्धकोष्टद्वन्द्वेषु वह्न्यादि परितः पुनः ।
सावित्रं सवितारं च शक्रमिन्द्रजयं पुनः ।
रुद्रं रुद्र जयं विद्वानापंचाप्य परांशकं ।
तत कर्णसूत्रो भयतः क्रोष्ठद्वन्देषु देशिकः ।
शर्वं गुहं चार्प्यमणं जातकं पिलिपिच्छकं ।
चरकीं च विदारीं च पूतनामर्च्चयेत् क्रमात् ।
अर्च्चयेद्दिक्षु पूर्वादि सार्द्धाद्यष्टपदेष्ठिमान् ।
अष्टावष्टविभागेन देवता देशिकोत्तमः ।
क्रमादीशानपर्ययन्यौ जयंतुः शक्र भास्करौ ।
सद्यो वृषांतरीक्षौ च दिशि प्राच्यां व्यवस्थिताः ।
अग्निः पुषा च वितथो यमश्च गृहरक्षकः ।
गन्धर्वां भृंगराजश्च मृगो दक्षिण दिग्गताः ।
निरृतिर्द्धौवारिकश्च सुग्रीव वरुणौ ततः ।
पुष्पदंता सुरौ शोष योगौ प्रत्यग्दिशिस्थिताः ।
वायुर्नागश्च कृकरः सोमो भल्लाट एव च ।
अकुलाख्योदित्यदिती कुबेरस्य दिशि स्थिताः ।
भक्तानामपि देवानां पादान्यापूर्यय पंचभिः ।
रजोभिस्तेष्वथो तेभ्यः पायसान्नैर्बलिं हरेत् ।
पायसैर्म्मधुरैः सर्वान् संयजेन्मधुरान्वितान् ।
तत्तद्रव्यैर्वां मतिमान् पूजयेद्दोषशांतये ।
पायसौटनलाजैश्च युक्तं धूप प्रमूलकैः ।
अन्नादिभिरसंयुक्तं माषभक्तादि मण्डितम् ।

पृ० १२ब) गृहाणेमं बलिं ब्रह्मन् वास्तुदोषं प्रणाशय ।
गन्धादि शर्करा पूर्व पायसोपरिसंयुतं ।
आर्ययकाख्य गृहाणेमं सर्वदोषं प्रणाशय ।
चन्दनाद्यर्च्चितेनाथ कर्पूरा गुरुमण्डितं ।
विवस्वन् वै गृहाणेमं सर्वदोषं प्रणाशय ।
सगुड़ं पायसं नाथ पुष्पादिषु समन्वितं ।
गृहाणेमं बलिं हृद्यं नित्य शांतिं प्रयच्छ मे ।
माषोदनं समांसं च गन्धादि क्षीरसंयुतं ।
गृहाणेमं महीभृत्त्वं सर्वदोषं प्रणाशय ।
एवं मध्ये तु संपूज्य ईशानादि बलिं हरेत् ।
क्षीरं खण्ड समायुक्तं पुष्पादिभिरलंकृतं ।
गृहाणेमं बलिं हृद्यमापच्छांतिं प्रयच्छ मे ।
दधीदं गुड़ संयुक्तं गन्धादिभिः सुसंस्कृतं ।
गृहाणेमं बलिंवत्सविघ्नमवप्रणाशय ।
पुष्पादि कुशपानीयं शर्करा गुरु वासितं ।
सावित्र वै गृहाणेमं शांतिमत्र प्रयच्छ मे ।
पिष्ठकं सगुड़ं नाथ रक्तगन्धादिशोभितं ।
गृहाणेमं बलिं सूर्यय विघ्नमत्र प्रणाशय ।
शितमत्रं तथा पुष्पं कुंकुमादि समन्वितं ।
गृहाणेमं बलिं हृद्यं शक्रदेव नमोस्तुते ।
ओदनं घृतसंयुक्तं वस्त्रगन्धादि मण्डितं ।
गृहाणेमं बलिं हृद्यमिन्द्र जय नमोस्तुते ।
पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतं ।
गृहाणेमं बलिं हृद्यं रुद्रदेव नमोस्तुते ।
समांसं घृतसंपक्वं गन्धपुष्पाद्रिसंयुतं ।
गृहाणेमं बलिं रुद्र जय स्वस्तिं प्रयच्छ मे ।
रक्तपुष्पं समांसं वै गृहाणेमं रक्षो विघ्नं विनाशय ।
पित्त रक्तास्थि संयुक्तं रक्तगन्धादि मंडितं ।
गृहाणेमं पुतनेत्वं रक्षो विघ्नं विनाशय ।

पृ० १३अ) सघृतं मांसभक्तं च वस्त्रगन्धाद्यलंकृतं ।
बलिं गृहाण शर्वेमं रक्षो विघ्नं विनाशय ।
मांस पुष्पादि संयुक्तं माषभक्तोपरिस्थितं ।
गृहाणेमं बलिं स्कन्द रक्षो विघ्न विनाशय ।
समांसं पिष्ठकैर्युक्तं पक्वमांसोदकान्वितं ।
अर्घमन् वै गृहाणेमं रक्षो विघ्नं विनाशय ।
रक्तमांसोदनं मत्स्यं गंध धूप समन्वितं ।
जन्भकत्वं गृहाणेमं रक्षो विघ्न विनाशय ।
सघृतं चाक्षतं नेत्र वस्त्र गन्धा च लंकृतं ।
गृहाणेमं बलिं स्कन्द रक्षो विघ्नं विनाशय ।
समांसं पिष्टकैर्युक्तं पक्वमांसोदकान्वितं ।
अर्घनन् वै गृहाणेमं रक्षो विघ्नं त्वीश वास्तुदोष प्रहारकं । ??????
उत्पलं पापसैर्युक्तं वस्त्रादिक समन्वितं ।
गृहाणेमं बलिं हृद्यं भास्कराय नमोस्तुते ।
वितानं धूम्नवर्णाभां गन्धादिक सुशोभितं ।
वस्तुयुक्तं गृहाणेमं वलिं सद्यो नमोस्तुते ।
इदं तु माषभक्ते वै वस्त्रगन्धादि पूजितं ।
गृहाणेमं वृषबलिं वास्तुदोषं प्रणाशय ।
इदं तु शार्द्दूलं मांसं नैवेद्यादिक संयुतं ।
गृहाणेमं बलिं हृद्यं व्योमशांतिं प्रयच्छ मे ।
सुवर्णं पिष्टकं चाथ वस्त्र गंधादिभिर्युतं ।
घृतान्वितं गृहाणेमं सप्तजिह्व नमोस्तुते ।
क्षीरं लाजानां सयुक्तं रक्तपुष्पादिसंयुतं ।
गृहाणेमं बलिं हृद्यं पूष देव नमोस्तुते ।
दधि गन्धादिभिर्युक्तं पीतपुष्पसमन्वितं ।
बलिं प्रगृह्यतां सोम सर्वदोषं प्रणाशय ।
ओदनं घृतसंमिश्रं गन्धपुष्प समन्वितं ।
गृहाणेमं बलिं हृद्यं भल्लाटक नमोस्तुते ।
माषान्नं तु घृताभ्यक्तं गंधपुष्पादि मण्डितं ।
गृहाणेमं बलिं हृद्यं अर्गलाख्य नमोस्तुते ।

पृ० १३ब) पूलिकां मधुसंमिश्रां वस्त्रगंधादि संयुतां ।
गृहाणेमं बलिं हृद्यं देव मातर्नमोस्तुते ।
क्षीरं खण्डसमायुक्तं नानापुष्पोपशोभितं ।
दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय ।
स्वर्गपातालमध्ये च ये देवा वास्तुदेवताः ।
गृह्न त्विमं बलिं हृद्यं तुष्टायां तु स्वमन्दिरं ।
मातरो भूतवेताला ये चान्ये बलिकांक्षिणः ।
विष्णोः पारिषदाये च तेपि गृह्नं त्विमं बलिं ।
पितृभ्यः क्षेत्रपालेभ्यो बलिन्दत्वा प्रकामतः ।
अभावे रक्तसूत्रैश्च कुशपुष्पादिभिर्यजेत् ।।

इति गौतमीयतंत्रे सर्वतंत्रोत्तमोत्तमे पंचमोऽध्यायः ।। ५ ।।

पातयेत्तत् प्रणतः
चतुरस्रं चतुष्कोष्ठं भवेदति मनोहरं ।
कोणसूत्रद्वयं दद्यात् प्रमाणं तेन रक्षयेत् ।
चतुरस्रं भवेत् कुण्डं सर्वलक्षण लक्षितं ।
ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्च समनुष्ठितं ।
सर्वकर्म्मकरं प्रोक्तं शांत्यादि षट्सु कर्म्मसु ।
अनेन जनयेत् सर्वं कुण्डानि मनुरुत्तमः ।
ततः कुण्डं खनेन्मंत्री यथा शास्त्रं विधानवित् ।
त्यक्त्वा सर्पस्य गात्रं च शिरोदेशं प्रयत्नतः ।
शिरोद्याताद्भवेन्मृत्युः पिण्डेषु पिण्डघातनं ।
पुच्छे च दुखः संभूतिः क्रोडे सर्वार्थसाधनं ।
यावान् कुण्डस्य विस्तारः खननं तावदीरितं ।
कंठमेकांगुलिं त्यक्त्वा मेखलास्तिस्र एव हि ।
कुण्डस्यांगुलमानेन वेदाग्नि नयनांगुलाः ।
चतुरस्रे भवेयुस्ता चतरस्राः सुशोभनाः ।
होतुरग्ने योनिवासां कुंजराधरसन्निभां ।
षट्चतुर्थ्यंगुलायामो विस्तारोन्नति शालिनी ।

पृ० १४अ) षडंगुला भवेद्दीघी चतुरंगुल विस्तृता ।
द्व्यंगुला चोन्नता योनिर्विना लक्षण लक्षिता ।
स्थलादारभ्य नालं स्यात् सरंध्री योनिमध्यतः ।
सूक्ष्माग्रं स्थूलमूलं च सरन्ध्रं नालमीष्यते ।
योन्यामध्य विलं कुर्ययात्तदा ह्यग्राहि संज्ञकं ।
कुण्डमध्ये भवेन्नाभिः पद्मं वा चतुरस्रकम् ।
द्व्यंगुलं चोन्नतं तत्तु चतुरंगुल विस्तृतम् ।
अर्द्धांगुलं तु योन्याग्रं कुर्ययादीषदधोमुखम् ।
एव द्वय प्रमानेन कुण्डेष्वन्येषु वर्द्धयेत् ।
कंठस्तु द्व्यंगुलं तत्र वर्द्धयेत् कुण्डमानतः ।
चुतरस्रस्य कुण्डस्य एकहस्तमितस्य च ।
कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमुद्धरेत् ।
सर्वकुण्डेषु सर्वत्र वर्द्धयो द्विधिनामुना ।
कुण्डं तु प्रकृतिः सूक्ष्मा सर्वलक्षणलक्षिता ।
उभौ पादौ करौ तस्य भवेत् कोणचतुष्टयम् ।
उदरं कुण्डमित्युक्तं योनिः कारणरूपिणी ।
तेन तत्रैव हव्यानां निधास्तु तन्मयं ततः ।
फलं वितनुते सम्यगन्यथा विफलायते ।। १ ।।
चतुरस्रं समं कृत्वा पंचभागैकभागकम् ।
वर्द्धयेत् पुरतस्तस्य मध्यसूत्र समानतः ।
कर्णात् कर्णगतं सूत्रं कृत्वा भागचतुष्टयम् ।
भागेनैकेन कोणार्द्धे संस्थाप्य भ्रामयेत्ततः ।
आमध्यसूत्रादा मध्यात् सूत्रयुग्मंत्ततो न्यसेत् ।
तन्मानाद्धृद्धिपर्ययंतमेवं स्याद्योनि सन्निभम् ।। २ ।।
चतुरस्री कृते क्षेत्रे चतुर्द्धा भेदिते तथा ।
भागमेकं न्यसेत् पूर्वे पश्चिमे चैक भागकम् ।
मध्ये सूत्रं समादाय तन्मानाद्भ्रामयेत्ततः ।
दक्षिणार्द्धेनार्द्धचन्द्रमेवं स्यात् सुमनोहरम् ।। ३ ।।

पृ० १४ब) समस्य चतुरस्रस्य अधः सूत्रस्य पार्श्वयोः ।
अंगुलत्रितयं दद्यादूर्द्धं दद्यात् षडंगुलं ।
मध्यसूत्रसमानेनं सूत्रयुग्मं ततो न्यसेत् ।
त्र्यस्रं कुण्डमिदं प्रोक्तं पूर्वाननमभीष्टदम् ।। ४ ।।
अष्टधा भेदितं क्षेत्रं परिकल्प्य समानतः ।
एकैकभागं मध्यस्य पार्श्वयोः परिकल्पयेत् ।
मध्ये सूत्रं तु संस्थाप्य तन्मानाद्भ्रामयेत्ततः ।
वर्तुलं कुण्डं भवेदति मनोहरम् ।। ५ ।। पंचास्रकुण्डम्
विभज्य सप्तधा क्षेत्रं वेदास्रस्यैकभागकम् ।
तद्वहिर्न्यस्य सूत्राग्रं पूर्ववत् संप्रसार्यय च ।
तन्मानाद्भ्रामयेद्वृत्तं भूयोऽपि चतुरस्रकं ।
युगांशीकृत्य लोकांशैस्तद्वृत्तं पूर्वमादितः ।
पंचधा चिह्नितं कृत्वा चिह्नाच्चिह्नी विचक्षणः ।
भूयश्च पंचसूत्राणि सम्यागास्फालयेत् क्रमात् ।
एतत् पंचास्रकुण्डं स्यात् सप्तकोणमिहोच्यते ।। ६ ।।
अष्टधा भेदिते क्षेत्रे मध्यसूत्र समानतः ।
वर्द्धयेद्भागमेकैकं चतुर्द्दिक्षु विचक्षणः ।
चतुर्द्दशांगुलं चाध उर्द्धंस्तन्मानतो न्यसेत् ।
यथा मध्ये भवेन्मध्ये सूत्रं च त्रिंशदंगुलम् ।
षड्सूत्रलांछनात्तत्र जायते तु षड़स्रकम् ।। ७ ।।
पूर्वोक्त वृत्तकुण्डस्य सर्वोच्च मेखलोपरि ।
षोड़शाति सुरम्याणि पद्मपत्राणि संलिखेत् ।
अब्जकुण्डमिति ज्ञेयं वेदवेदांत पारगैः ।। ८ ।।
अथ सप्तास्रकुण्डम् ।
दशांशीकृत्य वेदास्रं एकांशेनैव बाह्यतः ।
मध्य प्राक् सूत्र पूर्वाग्रं वर्द्धयित्वा ते देशिकः ।
तन्मानाद्भ्रामयेद्वृत्तं भूयोऽपि चतुरस्रकम् ।
चतुःषष्टि विभागेन विभज्य विंशदंशकैः ।

पृ० १५अ) सन्नित्रिकैश्च रेखायां सप्तधा लांछयेत् सुधीः ।
चिह्नाद्विचिह्नंतदीर्घं सप्तसूत्राणि पातयेत् ।
सप्तकोणात्मकं कुण्डं भवेदेवं मनोहरम् ।। ९ ।।
चतुरस्रे समे क्षेत्रे कोणे कृते गुरुः * * ।
मध्यसूत्रं समादाय क्षेत्रार्द्धं परिकल्पयेत् ।
मध्ये सूत्रं तु संस्थाप्य कोणार्द्धं स्थापयेद्बुधः ।
ततोऽतिरिक्तं यत्कोणे तदर्द्धं दिशि वर्द्धयेत् ।
अन्यत्तेनैवमानेन चतुरस्रं वाहिर्भवेत् ।
वह्यस्य चतुरस्रस्य द्वादशांगुलमानतः ।
अष्टदिक्षु क्षिपेत् सूत्रमष्टास्त्रं कुण्डमुत्तमम् ।। १० ।।
वृत्तं वा चतुरस्रं वा अष्टास्रं वा गुरौ भवेत् ।
एवम्विधानि कुण्डानि परिकल्प्य समंततः ।। ११ ।।
सात्विकी मेखला पूर्वा द्वितीया राजसी स्मृता ।
तृतीया तामसी ज्ञेया इत्युक्तं कुण्डलक्षणम् ।
मण्डपस्योत्तरे भागे शालां पूर्वापरोत्ततां ।
गूठां कुर्ययाद यथा शोभां सर्वदृष्टि मनोहराम् ।
पूर्वापरायतं तत्र पंचसूत्राणि पातयेत् ।
मध्ये मध्ये विलुप्ये च तस्या द्वादश कोष्ठकम् ।
पंचवर्ण रजोभिस्तु पदानि तानि पूरयेत् ।
पालिकाः पंचमुख्याश्च सरावाणि च पातयेत् ।
द्विषड् द्व्यष्टचतुर्व्विंशदुश्रितानि यथाक्रमम् ।
तावन्मात्र मुखान्यूर्द्धपदानि परिकल्पयेत् ।
तत्त्रिभागोगुलिमुखैर्व्विस्तृतानि प्रकल्पयेत् ।
नारायण महेशान ब्रह्मरूपाणि तानि च ।
पालिकाः पंचमुख्याश्च सरावणि ततः परम् ।
प्रक्षालितानि मंत्रेण पुण्यानि तानि (चैव नि) चैव हि ।
संवेष्टितानि परितः त्रिगुणैः शुभ तंतुभिः ।
मृद्वालुकाकरीयैश्च पूरितानि समंततः ।

पृ० १५ब) समर्च्चित स्वदेवश्च पाश्चिमादि क्रमेण च ।
विन्यस्य पालिका श्यामा(क)प्रियंगुफल सर्षपान् ।
मुद्गमासौ तिलशिम्वी कुलस्यं चाटुकीन्तथा ।
प्रक्षालितानि शुद्धेन जलेन तदनंतरम् ।
अभ्यर्च्चित स्वदेवानि मूलमंत्रार्च्चितानि वै ।
विप्रा शिषा पंचघोषैः सह निःसार्ययतानथ ।
विषिच्य तु हरिद्राभिर्नमस्य च पुनः पुनः ।
वसनेन समाच्छाद्य नवीनेन ततः परम् ।
शुद्धाभिरद्भिः सिच्याथ सायं प्रातर्मुहुर्मुहुः ।
इत्येवं सप्तरात्रं वा नवरात्र मथापि वा ।
स्थापयेद्वापयेच्चैव रात्रि शेषे बलिं निशि ।
लाजतिल हरिप्राश्च शक्तु चूर्णं तथा दधि ।
एतैः प्रथमरात्रौ च भूतेभ्यो बलिमुत्सृजेत् ।
द्वितीयायां क्षिपेद्रात्रौ पितृभ्यस्तिलतण्डुले ।
तृतीयायां च यक्षेभ्यः सलजादधिशक्तुभिः ।
चतुर्थ्यां रजन्यां दद्यान्नागेभ्यश्च पुनर्बलिम् ।
नारिकेलोदकैर्मिश्रं शक्तु चूर्णं मनोहरम् ।
पद्माक्षतं ब्राह्मणैश्च पंचम्यामुत्सृजेद्बलिम् ।
सपूपमन्नं भागाय षष्ठ्यामथो समाहरेत् ।
गुर्डोदनं विष्णवे च सप्तम्यां विचरेद्बलिम् ।
अष्टम्यां मातृकाभ्यश्च छागैर्म्मांसैश्च पक्षिभिः ।
मीनैस्तथा च मधुभिराहरेद्बलिमुत्तमम् ।
तिलौदनं विष्णवे च नवम्यामाहरेद्बलिम् ।
प्रणवादि चतुर्थ्यंतं स्वनाम च नमोऽन्तकम् ।
बलिमंत्रस्तथैव स्यादावाहन विसर्ज्जनम् ।
विविधानां च पत्राणां परितो बहिरेव च ।
अष्टदिक्षु च संदद्याल्लोकपालेषु यत्नतः ।
योक्तेषु तेषु पात्रेषु विष्णु ब्रह्म हरान् यजेत् ।

पृ० १६अ) मुदगप्रियं तु निषा?वे वायुरग्निः कुलप्त्यके ।
आवारक्यां रक्षसां चिंत्या छेषं सिद्धान्तके तथा ।
प्राणपतिं शालिराजे देवो वैवस्वतस्तिले ।
इन्द्रः श्यामे राजमासे वरुणश्च तथा मुने ।
वस्तु खण्डे दृढ बध्वा किंचित् किंचिद्यवं क्षिपेत् ।
उद्धृत्य यामद्वितये समतीते च वापयेत् ।
बीजानां दैवतं सोमः स रात्रौ कांतिमान् यतः ।
तस्मादाहृत्यबीजानि निशायामेव वापयेत् ।
प्ररूढान्यं कुराण्येव नादीक्षेत कदाचन ।
आचार्यय एव प्रविशेत् तछिष्यो वा तदाज्ञया ।
प्ररूढैरंकुरैः कर्तुर्निर्दिशेच्च शुभाशुभम् ।
श्यामैः कृष्णैरंकुरैश्च अर्थहानिश्च दुःखवान् ।
कुजैर्धनं विप्ररूढैर्मृतिं कुर्ययान्न संशयः ।
आचार्ययः कारयेच्चैव प्रलपद्वीक्ष्य यत्नतः ।
शांतिकं सर्वथा कुर्ययात् कर्त्तुरीप्सित सिद्धये ।।

इति श्रीगौतमीये महातंत्रोत्तमोत्तमे षष्ठोऽध्यायः ।। ६ ।।

अथ दीक्षां प्रवक्ष्यामि सर्वसिद्धि प्रवर्त्तिकाम् ।
यां विना नैव सिद्धिः स्यात्मंत्रो वर्ष शतैरपि ।
तदंगं कथितं पूर्वमिदानीं कथ्यते शृणु ।
ददामि दिव्यभावं चेत् क्षिणुयात् पाप संततिः । पारगैः
शिष्यः स्नातः सुवेशश्च सर्वद्रव्य समन्वितः ।
आचार्ययं वृणुयाद्भक्त्या वस्त्रालंकारभूषणैः ।
कुर्ययान्नान्दीमुखं श्राद्धं ब्राह्मणान् परितोषयेत् ।
गोभूहिरण्य वस्त्राद्यैस्तोषयेत् गुरुमात्मनः ।
यथा ददाति संतुष्टः प्रसन्नवदनो मनुम् ।
इदानीं पूर्वकृत्यं च प्रसंगात् कथयामिते ।
यत् कृत्वाधिकारितां याति मंत्रयंत्रार्च्चनादिषु ।
येन विना सिद्धिः स्यात् नरकं च प्रलभ्यते ।

पृ० १६ब) ब्राह्मे मुहूर्त्ते चोत्थाय चिंतयेद् गुरु दैवतम् ।
स्वमूर्द्धनि सहस्रारे कृष्णाख्ये परिविनुके ।
शशांकायुतसंकाशं वराभय लसत्करम् ।
शुक्लाम्बरधरं श्रीमच्छुक्लमाल्यानुलेपनम् ।
वामोरौ बहुशक्त्या च युतं कृष्णाख्यमव्ययम् ।
शिवेनैक्यं समुन्नीय ध्यायेत् परगुरुं धिया ।
मानसैरुपचारैश्च संतर्प्य मनसा सुधीः ।
स्तोत्रैः स्तुत्वा नमस्कुर्ययान्मंत्रदेवेशमर्च्चयेत् ।
अज्ञानतिमिरान्धस्य ज्ञानांजन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै स्वगुरुवे नमः ।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै स्वगुरवे नमः ।
मूलाधारे त्रिकोणाख्ये कोटिसूर्यय समत्विषि ।
ध्यायेत् कुण्डलिनीं नित्यां कामबीजोपरिस्थिताम् ।
श्यामां सूक्ष्मां च विश्वस्य सृष्टिस्थितिलयात्मिकाम् ।
विश्वातीतां ज्ञानरूपां चिंतयेदूर्द्धवाहिनीम् ।
चक्र षट्कं विनिर्भीज्य प्रापयित्वा परे शिवे ।
तद्भेद समापन्नामनाकुलमनाः स्मरेत् ।
प्रापयित्वा सुधां पूर्वं प्लावयेच्छाक्तिमण्डलम् ।
तेनैव चक्रभेदेन मूलाधारं समापयेत् ।
अनेन ध्यानयोगेन मंत्राः सिध्यंति नान्यथा ।
वैरिपक्षे स्थिता ये च वृद्धा यौवन गर्व्विताः ।
ये चान्यादासदुष्टाश्च सिध्यंत्येव न चान्यथा ।
परेण च स्वमात्मानं कृष्णाख्येन विभावयेत् ।
अहं कृष्णो न चान्योऽस्मि ब्रह्मैवाहं न शोक भाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् ।
त्वमेवाहमहं त्वं च सच्चित्मात्र वपुर्भवान् ।
आवयोरंत वा कृष्ण नश्यत्याज्ञावलात्तम ।

पृ० १७अ) अहं तीर्णो भवं घौरं कृत्यं किंचिन्न मेऽस्ति हि ।
तथापि देहि मे नाथ आज्ञां तव निषेवणै ।
जानामि धर्म्मं न च मे प्रवृत्तिर्जानाम्य धर्म्मं ।
न च मे निवृत्ति त्वया हृषीकेश हृदि स्थितेन ।
यथा नियुक्तोऽस्मि तथा करोमि एवं संप्रार्थ्य मनसा कुर्ययात् पौर्वाह्निकीं क्रियाम् दीक्षितस्य विधानेन तथा च । ब्रह्मचारिणाम् वाणप्रस्था स्थितानां च शौचादि द्विगुणा क्रिया सन्ध्याशिनां विशेषेण कृत्यं चतुर्गुणं भवेत् ।
आचन्य विधिठन्मंत्री शुचौ देशे च सात्विशेत् ।
तथा प्रातस्तनीं सन्ध्यां कुर्ययाद् गुरु निषेवकः ।
जले संपूज्य तीर्थानि विवारं मूलमंत्रतः ।
क्षिप्त्वा भूमौ कुशाग्रेण सप्तधा मूर्द्धिण् सेचयेत् ।
वामे जलं समाधाय मंत्रेयेद्दक्षिणेन तु ।
पुनर्वामेन तं क्षिप्त्वा मूर्द्धिण् सिंचेद्विवारकम् ।
गुरुणाचोपदेशैन मुद्रया दिव्यसंज्ञया ।
ईड़याकृष्य तत्तोयं क्षालितांतर्मलं पुनः ।
दक्षपार्श्व स्थिता वज्रशिलायां प्रोक्षयेच्च तत् ।
अस्त्रमंत्रेण विधिवत् पुनराचमनं भवेत् ।
अद्यमर्षणमेतद्धि सर्वपापनिकृंतनम् ।
तोयांजलिं पुनः क्षिप्त्वा सूर्यया मण्डल मध्यगाम् ।
गायत्त्रीं भावयेद्देवीं सूर्ययासनकृता श्रयाम् ।
तद्यदादित्यसंकाशां पुस्तकाक्षकरां स्मरेत् ।
कृष्णाजीनाम्बरां ब्राह्मीं ध्यायेत्तारकितेम्वरे ।
उत्थाय कृष्ण गायत्त्रीं तदभेद शतं जपेत् ।
कृष्णाय विद्यहे इत्युक्ता दामोदराय धीमहि ।
तन्नो विष्णुः प्रचोदयाद्गायत्र्यैया प्रकीर्त्तिता तेन कृष्णाय विद्महे दामोदराय

पृ० १७ब) धीमहि । तन्नो विष्णुः प्रचोदयात् ।
सर्व देवमयी सर्व पावना वरदायिनी ।
सर्ववेदमयीति पाठः ।
प्रणवाद्या मुक्तिकरी श्रीबीजाद्या च भोगदा ।
हृल्लेखाद्या महासिद्धीकरी सर्ववशंकरी वाग्भवाद्याचरे प्व?श्या कामाद्या जनरंजनी ।
एवं ते कथिता मंत्र सन्ध्या मंत्र फलाप्तये ।
न कुर्ययाद्यदि मोहेन न दीक्षा फलमाप्नुयात् ।
संक्षेप सन्ध्यामथवा कुर्ययान्मंत्री ह्यशक्तितः ।
सायं प्रातश्च मध्याह्ने कृष्णं ध्यात्वा मनुं जपेत् ।
इति सन्ध्या त्रयं प्रोक्तं कर्म्मणां सिद्धिदायकम् ।
सन्ध्यायां पतितायां वा पतितायां वा गायत्त्रीं दशधा जपेत् ।
यथा प्राणं यथा ज्ञानं यथा कुर्ययादतन्द्रितः ।
यद्यत् कृत्यं मंगलार्थं तत्तत्कुर्ययात्तथा तथा ।
आदर्श दर्शनं कुर्ययाद्घृतस्पर्शं च कज्जलं ।
मत्पोष्य पोषणार्थाय क्षेमं योगं च चिंतयेत् ।
स्त्रायाच्च कृष्णपूजार्थं नद्यादौ विमले जले ।
पूजा च पंचधा प्रोक्ता तासां भेदान् शृणुष्व मे ।
अभिगमनमुपादानं योगः स्वाध्याय एव च ।
इज्या पंचप्रकारार्च्चा क्रमेण कथयामिते ।
तत्राभिगमनं नाम देवतास्थानमार्ज्जनम् ।
उपलेपन निर्म्माल्य दूरीकरणमेव च ।
उपादानं नाम गन्धपुष्पादि चयनं तथा ।
इज्यानाम चेष्टदेव पूजनं च यथार्थतः ।
स्वाध्यायो नाम कृष्णाख्यो ह्यात्मानुपूर्वको जपः ।
सूक्तस्तोत्रादि पाठश्च हरिसंकीर्त्तनं तथा ।
तत्वादि शास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः ।
योगो नाम स्वदेवस्य स्वात्मनैव विभावना ।
इति पंचप्रकारार्च्चा कथिता तव सुव्रत ।
सामीप्य सारूप्य सादृश्य सायुज्य फलदा क्रमात् ।

पृ० १८अ) प्रातःकाले वा मध्याह्ने स्नानार्थं तीर्थ माश्रयेत् ।
स्नानं तु द्विविधं प्रोक्तमंतर्वाह्य विभेदतः ।
अनंतादित्यसंकाशं वासुदेवं चतुर्भुजम् ।
शंख चक्र गदा पद्म मुकुटं वनमालिनम् ।
तत्पादोदकजां धारां नियतंत्रीं स्वकांतनुम् ।
तया संक्षालयेत् सर्वमंतर्द्देहगतं मलम् ।
तत्क्षणाद्विरजोमंवरंचांतस्तीर्थ कोटिशताधिकम् ।
योगिनां स्रानमेतद्धि कथितं परमाद्भुतम् ।
वाह्यस्नानं तथा कुर्ययाद्यथा शास्त्रं विधानवित् ।
मलप्रक्षालनं स्नानं स्वशाखोक्तं समाचरन् ।
मंत्रस्नानं ततः कुर्ययात् कर्म्मणां सिद्धिहेतवे ।
अस्त्रेणालोज्य मुत्स्नां वै विभागं तां तु कारयेत् ।
जले चैकं द्वादशयोर्न्निःक्षिपेदस्त्रमुच्चरन् ।
एकं मूर्द्धादि नाद्यंतं पठन् मूलं विलेपयेत् ।
शेषं पादादि नाद्यंतं तथैव प्रविलेपयेत् ।
गंगे च यमुने चैव गोदावरि सरस्वति ।
नर्म्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ।
आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि ।
एहि गंगे नमस्तुभ्यं सर्वतीर्थ समन्विते ।
एवमावाह्य विधिवन्मूलमंत्रेण मंत्रयेत् ।
आमंत्र्यम्भसि संयोज्य सोमसूर्ययाग्निमण्डलम् ।
विचिंत्य मंत्री तन्मध्ये निमज्जेन्मूलमुच्चरन् ।
उत्थायाचम्य तत्पश्चात् षडंगं न्याससंयुतम् ।
आत्मानं दशधा सिंचेन्मुद्रया कलसाख्यया ।
सप्तकृत्वोऽभिषिंचेद्वामनुना मंत्रितैर्जलैः ।
वामहस्तकृता मुष्टिर्दक्षहस्तेन वेष्टयेत् ।
कलसाख्या भवेन्मुद्रा सर्वपाप हरा शुभा ।
शालग्रामशिला तोयं तुलसीदल मिश्रितम् ।
कृत्वा शंखे भ्रामयन् त्रिर्निःक्षिपेन्निनमूर्द्धनि ।

पृ० १८ब) शालग्रामे शिलातोयंमपीत्वा यस्तु मस्तके ।
प्रक्षेपणं प्रकुरुते ब्रह्महासनिगद्यते ।
विष्णुपादोदकान् पूर्वं विप्रपादोदकं पिवेत् ।
विरुद्धमाचरन् मोहादात्महास तु गद्यते ।
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
सागरे यानि तीर्थानि पदे विप्रस्य दक्षिणे ।
सुसागराणि तीर्थानि पदे विप्रस्य दक्षिणे ।
इति वा पाठः ।
ततः संक्षेपतो देवान् मनुष्यांस्तर्पयेत् पितृन् ।
पीडयित्वाम्बरं तोयम् प्रक्षाल्याचम्यवाग्यतः ।
धारयेद्वाससी शुद्धे परिधानोत्तरीयके ।
अच्छिन्ने सदृशे शुक्ले आचामेत् पीठ संस्थितः ।
ऊर्द्धपुण्ड़ं चन्दनेन कृत्वा सन्ध्यां समाचरेत् ।
पूर्वं तु कथिता सन्ध्या ध्यायेद्देवीं समहितः ।
श्यामवर्णां चतुर्बाहुं शंखचक्र लसत्कराम् ।
गदापद्माधरां देवीं सूर्ययासन कृताश्रयां ।
ध्यात्वा जलांजलिं कृत्वा तर्पयेत् कृमव्ययां ।
गुरु पंक्तिं पुरातर्प्य तर्पयेदिष्ट दैवतम् ।
नारदं पर्वतं जिष्णुं निशठोद्भवदारुकम् ।
विश्वकसेनं च शैलेयं गुरुंश्च तर्पयेत्विशः ।
पंचविंशतिसंख्या वा दशधा वा विधापि वा ।।
मूलमंत्रं सम्मुच्चार्यय श्रीकृष्णं तर्पयाम्यहम् ।
नमोऽन्तोयं मनुः प्रोक्तस्तर्पणे विधितत्परैः ।
क्लीं श्रीकृष्णं तर्पयामि नमः सायाह्ने । वरदां देवीं गायत्रीं संस्मरेद्यतिः ।
शुक्लां शुक्लाम्बरधरां वृषासनकृता श्रयाम् ।
विनेत्रां वरदां पाशं शूलं च नृकरोटिकाम् ।
सूर्ययमण्डलमध्यस्थां ध्यायन् गायत्त्रीमभ्यसेत् ।

पृ० १९अ) ललाटे च गदा कार्यया मूर्द्धिण् चापं शरं तथा ।
नन्दकं चैव हृन्मध्ये शंखं चक्रं भुजद्वये ।
शंखचक्रांकितो विप्रः श्मशाने म्रियते यदि ।
प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य गौतम ।
पूजार्थं जलमादाय सूर्यये तीर्थानियोजयेत् ।
ब्रह्मज्योतिर्मयं विष्णुं गायत्त्रीं मनसा स्मरन् ।
शतावृत्या जपेत् तां तु धर्म्मकामार्थसिद्धये ।
सर्वपापक्षयं याति ज्ञानमुतपद्यतेऽचिरात् ।
मूलमंत्रं हृदि स्मृत्वा पायाद्वै यागमण्डपम् ।
हस्तौ पादौ च प्रक्षाल्य आचम्य वाग्यतः सुधीः ।
सूर्ययपूजां ततः कुर्ययाद्विशेषार्थेन दीक्षितः ।
पुनर्हस्तौ च पादौ च प्रक्षाल्य विधिना यतिः ।
आचमनं ततः कुर्ययाद्विशेषाद्वैष्णवान्वये ।
केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ ।
द्वाभ्यामौष्ठे च संमृज्य द्वाभ्यां मृज्यान्मुखं ततः ।
एकेन हस्तौ प्रक्षाल्य पादावपि तथैकतः ।
संप्रोक्ष्यैकेन मूर्द्धानं ततः संकर्षणादिभिः ।
आस्य नासाक्षिकर्णाश्च नाभिरुदरकं भुजौ ।
एवमाचमनं कृत्वा साक्षान्नारायणो भवेत् ।
केशवाद्याः पुरा प्रोक्ता वक्ष्ये संकर्षणादिकान् ।
संकर्षणो वासुदेवः प्रद्युम्नश्चानिरुद्धकः ।
पुरुषोत्तमाधोक्षज नृसिंहाश्च तथाच्युतः ।
जनार्द्दनोपेन्द्र हरिर्विष्णवो द्वादशेरिताः ।।

इति श्रीगौतमीयतंत्रे सर्वतंत्रोत्तमोत्तमे सत्तमोऽध्यायः ।। ७ ।।

अथ द्वादश शुद्धिस्तु वैष्णवानां इहोच्यते ।
गृहोपसर्पणं चैव तथानुगमनं हरेः ।
भक्त्या प्रदक्षिणं चैव पादयोः शोधनं पुनः ।
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः ।

पृ० १९ब) करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते ।
तत्रामकीर्त्तनं चैव गुणानामपि कीर्त्तनम् ।
भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते ।
तत् कथाश्रवणं चैव तस्योत्सव निरीक्षणम् ।
श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते ।
पादोदकस्य निर्म्माल्य मालानामपि धारणम् ।
उच्यते शिरसः शुद्धिः प्रणामस्य हरे पुनः ।
आघ्राणं गन्धपुष्पादेर्निम्माल्यस्य च गौतम ।
विशुद्धिः स्यादनंतस्य घ्राणस्यापि विधीयते ।
पत्रपुष्पादिकं यच्च कृष्णपादयुगार्पितम् ।
तदेव पावनं लोके तद्वि सर्वं विशोधयेत् ।
वृन्दावनं ततो ध्यायेत् पूर्वोक्तेनैव वर्त्मना ।
तन्मध्ये स्वर्णभूमि च ध्यायेन्नवगृहं ततः ।
पूर्वद्वारं ततो गत्वा सामान्यार्घं विशोधयेत् ।
अस्त्रेण शंखं प्रक्षाल्य कृष्णमंत्रेण पूरयेत् ।
मंत्रयेत् प्रणवे नैव सामान्यर्थमिदं स्मृतम् ।
द्वार्ययावाग्नयजेत्तत्र सर्वविघ्नोपशांतये ।
नन्दः सुनन्दश्चण्डश्च प्रचण्डो बल एव च ।
प्रबलो भद्रनामा च सुभद्रो विघ्नवैष्णवाः ।
द्वौ द्वौ विघ्नौ प्रतिद्वारे पुरतो विनता सुतम् ।
प्रणवादि नमोऽन्तेन नाममंत्रेण पूजयेत् ।
ततोऽक्षतान् समादाय दक्षे नाराचमुद्रया ।
प्रक्षिपेदस्त्रमंत्रेण गृहांतर्विघ्नशांतये ।
अपसर्पंतु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्त्तारस्ते नश्यंतु शिवाज्ञया ।
भूतसंघान् समुच्चार्यय दक्षपाद पुरःसरम् ।
ध्यायेदिह गृहाभ्यंतः प्रविशेन्नत कन्धरः ।
यजेत्तत्रैव ब्रह्माणं वास्तुदोषोपशांतये ।
प्रांमुखः संयतात्मा च संविशेद्विहितासने ।

पृ० २०अ) तथा मृदासने मंत्री पटाजिन कुशोत्तरे ।
काष्ठासने भवेद्रोगो वंशे वंश क्षयं भवेत् ।
शैलासने च वाग्रोधः पल्लवे मति विभ्रमः ।
धरण्यां दुःख संभूतिः पीडनं राजने भवेत् ।
विष्णुः कालांत्मकश्चात्मा ततः पूर्वमुखो भवेत् ।
गन्धपुष्पादि पत्राणि स्वदक्षे च निवेशयेत् ।
दीपं बलिं च नैवेद्यं क्षुन्दरं पुरतो न्यसेत् ।
सुवासिताम्बुसंपूर्णं वामे कुम्भं सुशोभनम् ।
पृष्ठदेशे पात्रमेकं करक्षालनाय संन्यसेत् ।
पद्मासनं स्वस्तिकम्बा आत्वार्ययो विधिना विशेत् ।
ऊरोरुपरि विन्यस्य सम्यक्पादतले उभो ।
पद्मासनमिदं प्रोक्तं योगिनो हृदयंगमम् ।
जानुर्वोरंतरे कृत्वा सम्यक् पादतले उभे ।
ऋजुकायो विशेद योगी स्वस्तिकं तत् प्रचक्ष्यते ।
मंगलांकुर पात्राणि चतुर्द्दिक्षु निवेशयेत् ।
आशीर्वागभिर्द्विजातीनां वैष्णवं यागमारभेत् ।
शिष्यश्च वृणुयाद्भक्त्या आचार्ययं भक्तितत्परः ।
वासोऽलंकारविभवैर्वित्तशाठ्य विवर्ज्जितः ।
ऋत्विजं वृणुयात्तत्र दश पंच त्रयं तथा ।
पुण्याहं वाचयित्वा च पंचघोष पुरःसरम् ।
भूतशुद्धिं ततः कुर्ययात् सर्वार्थत्वविशुद्धये ।
कृतांजलि परो भूत्वा वामे गुरु त्रयं यजेत् ।
गुरुं च परमादिं च परापर गुरुं तथा ।
दक्षपार्श्वे गणेशं च मूर्द्धिण् देवं विभावयेत् ।
ततो मण्डपमध्ये च स्थण्डिलं गोमयाम्बुना ।
उपविश्य यथा न्यायं तस्य मध्ये निधापयेत् ।
सूत्रं प्राक् प्रत्यगग्रं च विप्राशीर्वाचनैः सह ।
गुणितो नाभितो मत्स्यो मध्यारभ्य प्रविन्यसेत् ।
तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत् ।

पृ० २०ब) ततो मध्यान्न्यसेद्धस्तमानमात्रं दिशं प्रति ।
सत्रेषु मकरान्न्यस्येन्मत्स्यान् वान्य तमः पुमान् ।
सूत्राग्रमकरेभ्यश्च न्यसेत् कोणेषु मत्स्यकान् ।
कोणमत्स्या स्थिताग्राणि दिक्षु सूत्राणि पातयेत् ।
ततो भवेच्चतुष्कोणं चतुरस्रं तु मण्डलम् ।
तत्राग्निमारुतं सूत्रं निरृतेशं तु पातयेत् ।
प्राग्याम्य वरुणो दीच्य सूत्राग्र मकरेषु च ।
विहिताग्रं लग्नसूत्रं चतुष्कं प्रतिपादयेत् ।
कृत हस्तं भवेयुस्ते काणे कोष्ठेषु मत्स्यकाः ।
एष प्राग्वरुणो याम्योदीच्यानि च प्रपातयेत् ।
षट्पंचाशत्पदानि स्युरधिकानि शतद्वयात् ।
यदा तदाथो विभजेत् पदानि क्रमशः सुधीः ।
पदैः षोडशकैर्मध्ये पद्मं वृत्तत्रयंमितं ।
तैरष्टचत्वारिंशद्भीराशिः स्याद्दीपशोभितम् ।
सद्वादशैः शतपदैः शोभाख्याः स्युश्चतुष्पदाः ।
चतुष्पदाश्च शोभाः स्युः षट्पदं कोणकं भवेत् ।
वृत्तवीख्यो वा रचयेन्मध्ये सूत्र चतुष्टयम् ।
प्राग्याम्य वरुणो दीच्यं तद्भवेद्राशिमण्डलम् ।
कर्णिकायाः केशराणां दलस्यार्द्ध दलस्य च ।
दलाग्रवृत्तराशीनां वीथ्याः शोभां पशोभयोः ।
वृत्तानि चतुरस्राणि व्यक्तं स्थानानि कल्पयेत् ।
भवेन्मण्डलमध्यांकः करेण चतुरंगुलऽ ।
द्व्यंगुलाः केशराणिल्युः संध्यग्रं चतुरंगुलम् ।
तथा दलानां मानादग्रं द्व्यंगुलो न भवेत् *।
अंतराल पृथग् वृत्तत्रये द्व्यंगुलमुच्यते ।
ततश्च राशिचक्रं स्यात् स्व स्व वर्ण विभूषितम् ।
वामे मण्डलकं कुर्ययात् षड्भिरष्टभिरेव वा ।

पृ० २१अ) द्वात्रिंशदंगुलं ह्येतत् परत्वात्तावदिष्यंते ।
वृत्तं चक्रमुशंत्येके चतुरस्रं तु तद्विदः ।
यदि वा वर्त्तुलं चैव वा स्युर्द्वादशराशयः ।
ते स्युः पिपीलिका मध्या मातुलुंगु निभा अपि ।
चक्रं च चतुरस्रं चेत्त्रयद्वादशराशयः ।
भवेयुः पंकजदलनिभा वा कथिता बुधैः ।
तद्वही रुचिरान् कुर्ययाच्चतुरः कल्पशाखिनः ।
जलजैः स्थलजैश्च पिसुमनोभिः समन्विताम् ।
हंस सारसकारण्ड शुक भ्रमर कोकिलैः ।
मयूर चक्र वाकाद्यैरारुढ़ विटपाततान् ।
सर्वेषु निवृत्तिकरान् विलोचन मनोहरान् ।
तद्बहिः पार्थिवं कुर्ययान्मण्डलं कृष्णकोणकम् ।
मण्डलानि च तत्त्वज्ञो राश्यस्तान्येव कारयेत् ।
नामावल्यत्र रचयेत् प्रमाणादन्य मण्डलम् ।
आवाह्य देवता यस्यामर्च्चयंस्त्वन्य देवताः ।
उभाभ्यां लभते शायं मंत्रीतरलदुर्म्मुतिः ।
कालात्मकस्य देवस्य राशि व्याप्तिमजानता ।
कृतं समस्तं न्यर्थं स्यादाज्ञावज्ञानमानिना ।
तस्मात् सर्वं प्रयत्नेन राशीन् साधिपतीन् क्रमात् ।
अवगम्यानुरूपाण्डि मण्डलानि न चान्यधीः ।
उपक्रमेदर्च्चयितुं होतुं वा सर्व देवताम् ।
रजांसि पंचवर्णाणि पंचद्रव्यात्मिकानि च ।
पीत शुक्लारुण श्यामकृष्णान्येतानि भूतले ।
हारिद्रं स्यात्तथा पीतं ताण्डूलं च सितं भवेत् ।
तथा दोषाय वक्षार संयुक्तं रक्तमुच्यते ।
कृष्णं दग्धपुलाकोष्ट्यं श्यामं विलदलादिकम् ।
सितेन रजसा कार्यया सीमारेखा विपश्चिता ।
अंगुलोत् सेध विस्ता प्रशस्ता सर्वकर्म्मसु ।

पृ० २१ब) पीता स्यात् कर्णिका शुक्ल पीतरक्ताश्च केशराः ।
दलान्यब्जस्यांतरालं श्यामचूर्णेन पूरयेत् ।
सितरिक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् ।
नानावर्णविचित्राः स्युश्चित्राकाराश्च वीथयः ।
द्वारशोभोपशोभाः स्युः श्वेतरक्ता हरिद्रकाः ।
राशिचक्रावशिष्टानि कोणान्यद्विक्षुयानि वै ।
पीठपादानि तानि स्युरसितान्यरुणानि वा ।
अथ वारुणानि च दलानि तथा दलसंधिरसितवत् ।
असिता वरुणाश्च रजसा विहितान्यपि कथयंत्यपरे ।।

इति श्रीगौतमीये महातंत्रे सर्वतंत्रोत्तमोत्तमे अष्टमोऽध्यायः ।। ८ ।।

पंचगव्येन तद्गेहं मण्डलं च विशोधयेत् ।
पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते ।
घृतं चपलमात्रं स्याद्गोमयं तोलक द्वयम् ।
दधि प्रसृतिमात्रं स्यात् पंचगव्यमिदं स्मृतम् ।
अथवा पंचगव्यानां समानो भाग इष्यते ।
मूलमंत्रेण संमंत्र्य कुशाग्रेणैव शोधयेत् ।
तेन सर्व विशुद्धिः स्यात् सर्वपापनिकृंतनम् ।
महांति पातकान्येव कृत्वा गव्यं पिवेद्यदि ।
नाशयेत् पानमात्रेण इत्यूचुर्वेदवेदिनः ।
भूतशुद्धिं ततः कुर्ययाद् येन पूर्णफलं लभेत् ।
ओं नमः सुदर्शनाये त्युक्तास्तेणैव देशिकः ।
तालत्रयं सम्विदध्यादूर्द्धोर्द्धं च समाहितः ।
दिग्बन्धनं छोटिकाभिर्द्दशभिः कारयेत् सुधीः ।
ततस्तेनैव जनितं तेजो रक्षत्विति स्मरेत् ।
विनिधाय करौ स्वांके उत्तानौ परिचिंतयेत् ।
हूंकारेण समुत्थाप्य शक्तिं स्वाधार संस्थिताम् ।
मूलाधारमथ स्वाधिष्ठानं च मणिपूरकम् ।

पृ० २२अ) अनाहत विशुद्धं च आज्ञाचक्रं च चिंतयेत् ।
गुदे च ध्वजमूले च नाभौ हृदय एव च ।
कंठे तथा भ्रुवोर्म्मध्ये यथाक्रम मनुं स्मरेत् ।
चिंतयेत् पुनराधारं कनकाब्जं चतुर्द्दलम् ।
तन्मध्ये चिंतयेद् योनिं चंन्द्रार्काग्नि समद्युतिम् ।
तदंतश्चिन्तयेन्मंत्री जीवात्मानं समाहितः ।
जवा बंधूक सदृशं तड़इत्कोटिप्रतीकाशं चन्द्रकोटि सुशीतलम् ।
प्रदीपकलिकाकारं कुण्डलिन्यासनं तथा ।
सुषुम्नावर्त्मना सोहऽमिति मंत्रेण योजयेत् ।
सहस्रारं शिवस्थाने परमात्मनि देशिकः ।
तथैव पंचुभूतानि संहारक्रमः तस्तथा ।
वाक्पाद्पाणिपायूपस्थ वचनादानमेव चे ।
गतिर्विसर्गानन्दश्रोत्रत्वक्चक्षूरसनाः पुनः ।
नासाशब्दस्तथा स्पर्शो रूपं रसोऽपि गन्धकः ।
तत्त्वान्येतानि पंचविंशत् पुरुषेण च योजयेत् ।
अहंकारं मनोबुद्धिं चित्तं तत्रैव योजयेत् ।
जीवभावेन लीनानि सर्वाणि परिचिंतयेत् ।
धूर्मवर्णं(धूम्रवर्णं) ततो वायु बीजं षट्बिंन्दु लांछितम् ।
पूरयेदीड़या वायु सुधीः षोड़शमात्रया ।
मात्रया च चतुःषष्ट्या कुम्भयेत्तु सुषुम्नया ।
द्वात्रिंशन्मात्रया मंत्री रेचयेत् पिंगलाध्वना ।
पूरयेदनया चैव संचिंत्य नील मारुतम् ।
रक्तवर्णं वह्निबीजं त्रिकोणं स्वस्तिकान्वितम् ।
तेन पूरकयोगेन मात्रया षोड़शाख्यया ।
चतुःषष्ट्या मात्रया च निर्द्दहेत् कुम्भकेन च ।
वामपार्श्व स्थितं पाप पुरुषं कज्वलप्रभम् ।
ब्रह्महत्या शिरस्कं च स्वर्णस्तेय (य) भुजद्वयम् ।

पृ० २२ब) सुरापान हृदायुक्तं गुरुतल्प कटिद्वयम् ।
तत् संसर्गि पदद्वन्द्वमंगप्रत्यंग पातकं ।
उपपातक रोमाणं रक्तश्मश्रु विलोचनम् ।
खड्गचर्म्मधरं क्रुरं क्रुद्धाः कुक्षौ विचिन्तयेत् ।
मूलाधारोत्थिते नैव वह्निना निर्द्दहेच्चतम् ।
एवं संदह्य परितो द्वात्रिंशन्मात्रया ततः ।
भस्माना सहितं मंत्री रेचयेत् पिंगलाध्वना ।
वामनाड्यां चन्द्रबीजं कुन्देन्द्वयुत सप्रभम् ।
भालेन्दुबीजं संयोज्य ततः षोडशमात्रया ।
सुषुत्रया(सुषुम्नया) चतुःषष्टि मात्रया बीजमैन्दवम् ।
ध्यात्वा मृतमयीं वृष्टिं पंचाशद्वर्णरूपिणीम् ।
तया देहं विचिंत्यैवं मनसापि कुलाध्वना ।
द्वात्रिंशन्मात्रया मंत्री लं बीजेन दृढ़ं नयेत् ।
स्वस्थाने हंसमंत्रेण पुनस्तेनैव वर्त्मना ।
जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः ।
इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् ।

गौतम उवाच
भूतशुद्ध्या वद ब्रह्मन् कस्य शुद्धिः प्रजायते ।
नात्मनः सर्वशुद्धीनां कारणं स तु कथ्यते ।
न जीवस्य ब्रह्मणा च सहैक्यं तस्य नित्यशः ।
न देहस्य तदारभ्य नित्यता तस्य कथ्यते ।
मनसां वापि बुद्धेश्च कस्य स्यात् कुरु वीक्षणम् ।
इत्यादि संशयं छिन्धि त्वं हि ब्रह्म समः स्मृतः ।

नारद उवाच
शरीराकार भूतानां भूतानां यद्विशोधनम् ।
अव्यय ब्रह्मसंयोगाद् भूतशुद्धिरियं मता ।
अंतःकरण मध्ये तु ज्योतिरात्मा प्रवर्त्तते ।
लिंगदेहं तु तं प्राहुर्योगिनस्तत्त्ववेदिनः ।
तस्य शोधनमात्रेण सर्वशुद्धिः प्रजायते ।
तदेव विश्वजनककारणं जन्मकारणम् ।
तद्वियोगे भवेन्मृत्युर्नान्यथा जन्म कोटिभिः ।

पृ० २३अ) इत्येत् कथितं सर्वं पुरुपार्थस्य निगमे ।
योगाद्यभ्यासयोगेन मंत्राभ्यासेन नाशयेत् ।
भूतशुद्धिं विधायेह्यं योग्यस्तु देशिकोत्तमः ।
न्यासं देहस्य सन्नाहं विदेधीतानुपूर्वकम् ।
भूतशुद्धिर्मातृकाचक्रेश वाद्या तथा च सा ।
तत्त्वन्यासं तथा कुर्ययात् प्राणायामस्ततः परम् ।
न जीवस्य ब्रह्मणा च सह्यैकं तस्य नित्यशः ।
न देहस्य तदारभ्य नित्यता तस्य कथ्यते ।
मनसो वापि बुद्धेश्च कस्य स्यात् कुरुवीक्षणम् ।
इत्यादि संशयं छिन्धि त्वं हि ब्रह्म समः स्मृतः ।

नारद उवाच ।
वर्णन्यासं तथा कृत्वा दशतत्तुं तथाचरेत् ।
विष्णुपंजरनामानमित्युक्तः क्रमसंग्रहः ।
तथार्घ्यस्थापनं कुर्ययाद् यथावदनुपूर्वशः ।
स्ववामाग्रे चतुरस्रं मंडलं परिचिंतयेत् ।
पुष्पैरभ्यर्च्यतं मंत्री तवाधारं प्रतिष्ठयेत् ।
मं वह्निमंडलाय नमो मंत्रोऽयं तस्य चेष्ट्यते ।
वृत्ताकारेण तत्रैव वह्नेर्द्दशकला यजेत् ।
वृत्ताकारेण तत्रैव कलाद्वादश पूजयेत् ।
कं भं तापिन्यै इत्युक्ता खं वं तापिनिका तथा ।
गं फं उच्चार्यय धारिण्यै धूम्रां च परिपूजयेत् ।
द्यं पं मरीचिमभ्यर्च्च्य ङं नें ज्वलिनिकां तथा ।
चं धं रुचिं छं दं चैव सुषुम्नां पूजयेद् गुरुः ।
जं थं च भोगदां मंत्री पूजयेत् कुसुमाक्षतैः ।
झं तं विश्वामभ्यर्च्च्य अं णं च बोधिनीं न्यसेत् ।
ठं टं च धारिणीं तद्वत् ठं डं क्षमां च पूजयेत् ।
नमोऽन्नेनैव मंत्रेण चतुर्थी प्रत्ययान्विता ।
एवं शं खं समभ्यर्च्च्य कलासौरेर्धनपदाः ।
विलोम मातृकां नप्त्वा स्वेष्ट मंत्रं तथा सुधीः ।
पाथसा तीर्थं तेनैव पूरयेद्विमलेन च ।

पृ० २३ब) उंकारेणैव मंत्रेण चन्द्रं तत्र प्रपूजयेत् ।
अमृता मानदा पूषात्पुष्टिः पुष्टीरतिर्धृतिः ।
शशिनी चन्द्रिका कांतिर्ज्योत्स्ना श्रीः प्रीति वृद्धिदा ।
पूर्णापूर्णामृता चेति षोडशलामदोः ।
षोड़शखरयीमेन नमोऽन्तेन प्रपूजयेत् ।
तत्राक्षतानि पुण्याणि स दूर्वाणि विनिक्षिपेत् ।
वामेनाछाद्य हस्तेन षडंगं दक्षहस्ततः ।
दशकृतो जपेन्मूलं गालिनीं शिखया न्यसेत् ।
करौ प्रसार्यय चान्योऽन्यं संपुट क्रमयोगतः ।
प्रयोज्य दक्षिणांगुष्टं तथा वामकनिष्टया ।
वामया दक्षिणांगुष्टं मुद्रेयं गालिनी मता ।
अर्घस्य फलदा प्रोक्ता शंखस्योपरिचालिता ।
गंधादिभिः समभ्यर्च्च्य कृष्णाख्यं धामयोजपेत् ।
अस्त्रादिभिः सुसंरक्ष्य धेनुं योगी प्रदर्शयेत् ।
तद्दक्षिणे तु शंखं वा ताम्रं वा पार्थिवं तथा ।
पात्रमेकं निधायाथ तथा तोयेन पूरयेत् ।
ताभ्र(म्र)पात्रं च विप्रर्षे विष्णो रतिप्रियं मतम् ।
तथैव सर्वपावाणां मुख्यं शंखं प्रकीर्त्तितम् ।
मृत्पात्रं च तथा प्रोक्तं स्वर्णं वा राजतं तथा ।
पंचपात्रं हरेः शुद्धं नान्यत्तत्र नियोजयेत् ।
तेनामृतेन सर्वत्र द्रत्यं मंत्रमयं भवेत् ।
ततो धर्म्मादिभिर्म्मंत्री गात्रे पीठानि विन्यसेत् ।
गंधाक्षतैः कुसुमुकैः पवित्रैर्ज्वलयोजितैः ।
इति पीठं समभ्यर्च्च्य ध्यायेन्मंत्रात्मदेवताम् ।
मूलादि ब्रह्मरंध्रांतं विषतंतुस्वरूपिणीम् ।
कुण्डर्लां त्रिविधां तत्र तथा बीजाक्षरं त्रिधा ।
तुरीयां कुण्डलीं मूर्द्धिण् वासुदेवं तुरीयकम् ।
ओंकारं मूलदेशे च द्रवत् स्वर्णनिभं स्मरेत् ।

पृ० २४अ) मूलादि हृदयं यावत् वह्नि कुण्डलिनीं तथा ।
हृदये कामबीजं च सूर्ययायुत समप्रभम् ।
सूर्ययकुण्डलिनीं तत्र सूर्ययकोटि समप्रभाम् ।
हृदया कुलपर्ययंतं ध्यायेदनाकुलः सुधीः ।
भ्रुमध्याद्ब्रह्मरन्ध्रांतं मायामिन्द्वयुत प्रभाम् ।
चन्द्रकुण्डलिनीं तद्वत् स्ववेदमृतविग्रहाम् ।
बिन्दुनादमयं वासुदेवं बिन्दौ तुरीयकम् ।
देशकालाथवच्छिन्न सर्वतेजोमयं स्मरेत् ।
तुर्यय कुण्डलिनीं तद्वत् केवलं ज्ञानविग्रहाम् ।
एवं ध्यात्वा पुनर्बीजं संपूर्णं मनसा स्मरेत् ।
चिदानन्दमयं स्वच्छं एका चैकतया गुरुः ।
सुधावृष्ट्यनिपतंत्या तर्पयेत् परदैवतम् ।
ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सहजानन्दविग्रहः ।
विनुस्नुत सुधाभिस्तु तर्पयेच्च पुनः पुनः ।
अंतर्याग इति प्रोक्तो जीवतो मुक्तिदायकः ।
मुनीनां च मुमुक्षूणामधिकारोऽत्र केवलम् ।
अथवा मानसैर्द्रव्यैः प्रकटेनापि पूजयेत् ।
ध्यात्वा हृत्पद्ममध्ये तु वासुदेवं यथोदितम् ।
स्वागताद्यैरुपचरेत् पाद्याद्यैः स्नानभूषणैः ।
गंधपुष्पधूपदीपैर्नैवेद्यविधिना विना ।
पुष्पांजलीन् ततो दद्यात् बहुमालां निवेदयेत् ।
अथवा घृतसंभूतैः प्रकद्वै(टै)रर्च्चयेत् प्रभुम् ।
स्वागताद्यैर्निवेद्यांतैरात्मभेदेन पूजयेत् ।
चन्दनागुरु निष्पन्द चर्चितांगः स्वयं गुरुः ।
विष्णपंजरमंत्रेण तञत्स्थाने विधानवित् ।
रचयेत्तिलकं भक्त्या प्रदीपकलिका निभम् ।
पुष्पांजलिं पंच कृतो विधिवत्तनुयाद् गुरुः ।
तुलसी युगलं वामपादे दक्षिणके तथा ।

पृ० २४ब) हयारियुगलं पार्श्वद्वये गन्धाद्वयान्वितं ।
पद्मयुग्मं मूर्द्धिण् देशे मूलेन दक्षवामके ।
षड्भिः सर्वतनौ न्यसेत् पुनः सर्वैश्च सर्वतः ।
एवं पुष्पांजलि प्रोक्तो हरिसान्निध्यकारकः ।
श्रीखण्डं दक्षिणे दद्यात् सितपुष्पेण संयुतम् ।
वामे च चन्दनं दद्यात्तथा रक्तेन संयुतम् ।
सर्व पुष्पांजलौ दद्यात् सर्वगन्ध समन्वितः ।
दक्षिणं वासुदेवाख्यं स्वच्छचैतन्यमव्ययम् ।
वामे च रुक्मिणी नित्या रक्ता रजोगुणान्विता ।
तेन सत्त्वरजोरूपं आत्मानं चिंतयेद्गुरः ।
मूलमंत्रं जपन् बुद्ध्या सुषुम्ना मूलदेशके ।
मंत्रार्थं तस्य चैतन्यं बीजं ध्यात्वा पुनः पुनः ।
उदयादि लयांतं च मंत्रमेव समभ्यसेत् ।
उदयः शब्दरूपश्च लपश्चात्मा प्रकीर्तितः ।
ज्ञानाज्ञान विभागेन तन्मयो भव गौतम ।
मनः सहरसं शौचं नौमं मंत्रार्थचिंतनम् ।
अथग्रत्वमनिर्वंदो जप सम्पति हेतमः ।
एवं ते कथितं सम्यक् त्रिविधं यजनक्रमम् ।
यान् कृत्वा सम्पदायेन मंत्री वांछितमश्नुते ।।
अथ मण्डल मध्ये तु पूजनं बाह्य गोचरम् ।
आरभेत् प्रकटैर्द्रव्यैर्नानारससुविस्तरैः ।
पाद्यार्घ्याचमनीयानि पात्राणि च स्वदक्षिणे ।
संस्थाप्य तत्तद्द्रव्यैश्च पूरितानि च देशिकः ।
अर्घ्यास्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ।
तथा चाचमनीययनि पात्राणि च विभागशः ।
तथाकरण दौर्बल्यादेकमेकं प्रशस्यते ।
पूरयेद्विधिना मंत्री मण्डलं शुभ तंडुलैः ।
शुद्धैरेवाक्षकैः सम्यग् यावत् पंकजमंडलम् ।

पृ० २५अ) कुशान् विस्तार्यय तत्रैव पंकजं विष्टरान्वितं ।
पुष्पाणि च विकीर्ययाथ कुम्भस्थापनमाचरेत् ।
हैमं रूप्यं ताम्रमयं मार्त्तिकं वा स्वशक्तितः ।
वित्तशाठ्यं न कुर्वीत कुतेऽनिष्टमवाप्नुयात् ।
द्वात्रिंशदंगुलं कुम्भं विस्तारोन्नतिशालिनं ।
पोड़श द्वादशांगुलमतो न्यूनं न कारयेत् ।
पुण्यस्त्रीनिर्म्मितैः सूत्रैर्विधिवन्विगुणीकृतैः ।
तेन संवेष्ट्य परितः यथानक्षरते क्वचित् ।
भग्ने मृत्युः साधकस्य क्षरणे चापदां पदं ।
तस्माद्दोषापि विज्ञाय कुर्ययात् सर्वमतन्द्रितः ।
प्रक्षाल्यांतरमंत्रेण गंधैः परिमलान्वितं ।
वेदविद्भिर्द्विजैः सार्द्धं स्थापयेतारमुच्चरन् ।
समीवृक्ष त्वचांतोयैरथवाप्यैक्षवौषधीः ।
विष्णु गन्धाष्टकैर्वाथ तीर्थोदैर्वाथ पूरयेत् ।
चन्दनागुरुह्नीवेरं कुष्ठ कुंकुम रोचनाः ।
जढामांसी मुरामांसी विष्णोर्गन्धाष्टकं स्मृतं ।
गन्ध्याष्टकमिदं हृद्यं विष्णोः सान्निध्यकारकं ।
वह्निरूपमथाधारं कलाभिः सह पूजयेत् ।
तथा सूर्ययमयं कुम्भं तत् कलाभिः प्रपूजयेत् ।
जलं सोममयं तद्वत् तत कलाभिः समर्च्चयेत् ।
तेजस्त्रयमिदं प्रोक्तं जलं तदात्मकं स्मृतं ।
विलोम मातृकावर्णैः सर्वत्र पूरणं स्मृतं ।
तथा मूलं समुच्चार्यय पूरयेद्विगतामयः ।
तीर्थमंत्रेण तीर्थानि योजयेत् सूर्ययमण्डलात् ।
वृहत् शंखं तथा स्थाप्य स्वपुरो भागमग्रतः ।
तत्राधारं प्रतिष्ठाप्य पूजयेद्वह्निमण्डलं ।
ततः शंखं प्रतिष्ठाप्य सूर्ययात्मकमथार्च्चयेत् ।
प्रदक्षिणक्रमेणैव कलाः सर्वत्र पूज * ।

पृ० २५ब) विलोम मातृकां जप्त्वा तथा मंत्रं प्रपूरयेत् ।
क्वाथोदकैर्व्वा दुग्धैर्वा पूर्वोक्तैर्वा प्रपूरयेत् ।
तेजस्त्रयकलाऽभ्यर्च्च्य प्राणस्थापन पूर्वकं ।
आवाहनादिकं कृत्वा कला एकैकशः क्रमात् ।
संपूज्य विधिवद्विद्वान् देवसान्निध्यहेतवे ।
प्रणवांशोद्भवः सम्यक् कलास्तत्र प्रपूजयेत् ।
स्थापनांते तु संयोज्य गन्धपुष्पादिभिर्यजेत् ।
एकैकमृक्पठंस्तत्र तत्र तत्र जपं क्षिपेत् ।
पाथस्तेजोमायं तत्रा योजयेद् गुरु सत्तमः ।
प्रथमं प्रकृते हंसः प्रतद्विष्णुरनंतरं ।
त्र्यम्बकं च तृतीये स्यात्तद्विप्रासां चतुष्टयं ।
विष्णुर्योनिं कल्पयेत्तु पंचमं परिकीर्त्तितं ।
ऋक् पंचकमिदं प्रोक्तं प्रणवार्णस्वरूपकं ।
तारस्य पंचभेदेने पंचाशद्वर्णगाः कलाः ।
सृष्टिरृद्धिः स्मृतिर्म्मेधा कांतिर्लक्ष्मीर्ययुतिः स्थिरा ।
स्थिति सिद्धिरिति प्रोक्ताः कचवर्गगताः क्रमात् ।
अकाराद्ब्रह्मणोत्पन्ना तप्तचामी करप्रभाः ।
एता करधताक्षस्रक् पंकजद्वय कुण्डिका ।
जरा चपोलिनी शांतिरीश्वरी रति कामिके ।
वरदाह्लादिनी प्रीतिर्दीघाः स्युश्च तवर्गगाः ।
उकाराद्विष्णुनीत्पन्नास्तमालदलसन्निभाः ।
अभीति दवचक्रेष्ट वाहवः परिकीर्तिताः ।
तीक्ष्णारौप्री भयानि शतं प्रीक्षुप्तां धनी क्रिया ।
उतकारी मृत्युरेतः स्युः कथिताः पयवर्गकाः ।
वज्रेणनार्णादुत्पन्नाः शरच्चन्द्रनिभा प्रभाः ।
उद्वहंत्यभयं शूलं कपालं बाहुभिर्वरं ।
ईश्वरेणोदिताविन्यो पीतश्वेतारुणासिताः ।

पृ० २६अ) अंता च यकवर्गस्था जवाकुसुमसन्निभाः ।
अभयं हरिणं टंकं दधाना बाहुभिर्वरं ।
निवृत्तिः संप्रतिष्टा स्याद्विद्या शांतिरनंतरं ।
इक्षिका दीपिका चैदरोचिका मोचिका परा ।
सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायनी तथा ।
व्यापिन व्योमरूपाः स्युरंतरा स्वरशक्तयः ।
सदाशिवेन संजाता नादादेताः सितुष्ठिषः ।
अक्षस्रक् पुस्तक गुण कपालवर तर्ज्जनी ।
तत्रत् कलाः समावाह्य कृत्वा प्राणस्य संयमं ।
संपूज्या गंधपुष्पाद्यैस्तस्यांते जलमर्पयेत् ।
कुम्भे तेजस्त्रयकला अष्टविंशज्जपन् ततः ।
जपेत कलाश्च पंचाशत् प्रणवांश्च समुद्भवाः ।
पुनश्च पंच ऋक् जप्या मूलमंत्रं जपेततः ।
चतुर्नवति मंत्रोऽयं देवसान्निध्यकारकः ।
नवरत्नं तद्वदेव निःक्षिपेन्मातृकां जपन् ।
नवरंध्रमयं चाप्यान् नवरत्नं तदात्मकं ।
वज्रमौक्तिक पुष्पाख्य विद्रुमं पद्मरागकं ।
नीला मकरतं चैव माणिक्यं स्वर्ण एव च ।
नवरत्नमिति प्रोक्तं सर्वदेवाश्रमं महत् ।
स्थापयेत्तन्मुखे मंत्री चपकं फलसंयुतं ।
विष्टरं तन्मुखे दत्त्वा दत्वा च पंचपल्लवं ।
शुद्धेन क्षौमयुग्मेन निर्न्मलेनांशुकेन वा ।
वेष्टयेद्विधिना मंत्री सर्वाश्चर्ययं यथा भवेत् ।
बहुमालां ततो दद्यात् गंधं च सुमनोहरं ।
हरिमावाहयेत्तत्र छायायां कल्पशाखिनः ।।

इति श्रीगौतमीयमहामंत्रे नवमोऽध्यायः ।। ९ ।।

अथ पुष्पांजलि करः समायत नभस्थलः ।
हृत्पद्मसंस्थितं तेजः कुंडल्या सहमेलयेत् ।
चिदानन्दघनं शुद्धं सर्वतेजोमयं स्मरन् ।

पृ० २६ब) षट्चक्रभेदने नैव उन्मन्या सह योजयेत् ।
जीवानन्दमयं तत्तु प्राप्तनैश्वर्ययमद्भुतं ।
आराध्य मानसैर्द्रव्यैर्व्वहन्नासापुटं क्रमात् ।
करस्थ मातृकाम्भोजे चैतन्यं योजयेच्च तत् ।
कुम्भमध्ये मंत्रमुर्त्ता वावाह्य परिपूजयेत् ।
कृष्ण कृष्ण महायोगिन् सर्वे सत्त्व हृदि स्थिते ।
सर्वंत्र सर्वग ब्रह्मन् कृपया सन्निधी भव ।
मंत्रेणानेन संस्थाप्य तत्तन्मुद्रा प्रदर्शयेत् ।
ऊर्द्धांजलिमधः कुर्ययादियमावाहनी भवेत् ।
सेयं तु विपरीतास्यान्मुद्रास्थापनकर्म्मणि ।
वाह्यांगुष्टद्वयं मुष्टीनुशस्यात् सन्निधापनी ।
अंगुष्टगर्ब्भिणी सैव मुद्रा स्यात् सन्निरोधनी ।
अन्योऽन्यतर्ज्वनीयामभ्रमणादवगुंठनी ।
आवाह्य पंचमुशभिः प्राणस्थापनमाचरेत् ।
पाशांकुश पुटा शक्तिस्ततोऽहंस मनुं वदेत् ।
कृष्णस्य प्राणा इह प्राणाः कृष्णस्य जीव इह स्थितः ।
तेष्ट्य सर्वेन्द्रियाणि च वांमनश्चक्षुरित्यथ ।
इहागत्य सुखं चिरं तिष्ठंतु स्वाहयायुतं ।
अयं प्राण मनुः प्रोक्तः सर्वजीव प्रदायकः ।
अनेन तु विहितायेर्म्मनवोनिर्जीविता मताः ।
रहस्यं चस्य गुरुतस्तंत्रतो ज्ञानवैभवे ।
किं न सिध्यति विप्रर्षे देशिकस्य न चान्यथा ।
मातृकां केशवाख्यां च तत्वं संन्यस्य येन वै ।
करांग दश तत्त्वानि न्यासनात् सन्निधिर्भवेत् ।
सर्वात्मा सर्वगो देवो मण्डलाधारधिष्टितः ।
शालग्रामेमणौ यंत्रे मण्डले प्रतिमासु च ।
नित्यं पूजा हरेः कार्यया न तु केवल भूतले ।

पृ० २७अ) गण्डक्याश्चैक देशे च शालग्रामस्थलं महत् ।
पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतं ।
शालग्रामशिलास्पर्शात् कोटिजन्मा च नाशनं ।
किं पुनर्यजनं तत्र हरेः सान्निध्यकारकां ।
शालग्रामैक यजनाच्छत लिंग फलं लभेत् ।
बहुभिर्ज्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् ।
गीष्पदेन च चिह्नेन तेन समाप्यते जनुः ।
कामक्रोधादिदोषोस्य सर्वदुःख निपंवणात् ।
एवं मित्याहुरे तस्मिन् देवः प्रीणाति पूजितः ।
पद्ममष्टपलांशं च चतुरस्रं सुलक्षणं ।
चतुर्द्वारसमायुक्तं कामगर्वित कर्णिकं ।
सामान्ययंत्रमुद्दिष्टमष्टादशाक्षरं श्रणु ।
चतुरस्रं चतुर्द्वारं पद्ममष्टदलान्वितं ।
षट्कोणमध्ये कामाख्यं सप्तदशार्णवेष्टितं ।
षडक्षरं मनुवरं षट्कोणे विलिखेत्ततः ।
एतद्यंत्रं महाभाग कृपया कथितं तव ।
अस्य विज्ञानमात्रेण कृष्णात्मा साधको भवेत् ।
अखण्डमण्डलाकारं व्याप्त विश्यं विजृम्भते ।
सर्वदेवमयं येन तेन मण्डलमुच्यते ।
प्रतिमा कृष्णदेवस्य यत्नतः कारयेत् सुधीः ।
शिल्पिना कृष्णा भक्तेन विश्वकर्म्मो क्रजानतो ।
दशपंचांगुला मुख्या मध्यमा द्वादशांगुला ।
अष्टांगुलाधमासा तु न्युनाधिक्यं न कारयेत् ।
अज्ञानेनापि मोहेन यदि कुर्ययान्नराधमः ।
प्रतिष्टा विफला तस्य पूजनात्न फलं भवेत् ।
मानांगुल विहीना सा प्रतिमा यत्र तिष्ठति ।
राजानं पीड़यत्येव गृहस्थो नरकं व्रजेत् ।
मानांगुलेन सा कार्यया नान्यथामुनिसत्तम ।

पृ० २७ब) काश्मरी ज्ञानदा प्रोक्ता स्वर्णजापि च मुक्तिदा ।
सम्पत्ति दातु शिलजा राजती बहुमुक्तिदा ।
तेजोजादारुजायाचरैक्तिकी शत्रुनाशिनी ।
ताम्री धर्म्मविवृद्धिं च करोति बहुसौख्यदा ।
मृदेव मृण्मयी प्रोक्तां प्रतिमा शुभलक्षणा ।
भोगदा मोक्षदा सानु प्रतिमा कथिता तव ।
लंप्या सेख्या द्विधा सापि प्रतिमा परिकीर्त्तिता ।
पर्वताग्रे नदीतीरे चत्वरे गोष्टभूमिषु ।
समुद्रकुलेऽन्यो वा मानहीनान्न दूषणं ।
कृष्ण प्रतिकृतिं कुर्ययादिव्यां पंशस्वचिह्नतां ।
तां तु संस्थापयेन्मंत्री गृहे वा गोष्टमध्यतः ।
समाहितस्ततो मंत्री पूजयेदुपचारकैः ।
षोडशोपचारमंत्रेण यमनाख्येन सिद्धये ।
यस्य दर्शनमिच्छंति देवा ब्रह्महरादयः ।
कृपया देवदेवेशमदग्रे सन्निधी भव ।
उच्चते परमेशान स्वागतं स्वर्गतं भवेत् ।
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं तु ने ।
यदागतोऽसि देवेश चिदानन्द मयाव्यय ।
आज्ञाना द्वा प्रमादाद्वानैकः स्यात् साधकस्य च ।
यदपूर्णं भवेत् कृत्यं तथाप्यभिमुखो भव ।
पाद्यं श्यामाक दूर्वार्क विष्णुक्रांताभिरिष्यते ।
यद्भक्तिर्लेस सम्पर्कात् परमानन्द संप्लवः ।
तस्य ते परमेशान पाद्यं शुद्धाय कल्पते ।
जातीलवंगकक्कोलैर्दद्यादाचमनीयकं ।
स्वधा मंत्रेण मतिमाम् स्मृत्वा वै दक्षिणकरं ।
वेदानामपि वेदाय देवानां देवतात्मने ।
अत्वामं कल्पषामीश शुद्धानां शुद्धिहेतवे ।
गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपान् ।
दुर्वाभिर्द्देव शिरसि शिरोमस्रेण चार्पयेत् ।

पृ० २८अ) एतदर्घ्यमिदं प्रोक्तं तुष्टये शार्ङ्ग धन्वनः ।
तापत्रय हरं दिव्यं परमानन्दलक्षणं ।
तापत्रय विमोक्षाय तवार्घ्यं कल्पयाम्यहं ।
घृतदधिमधुभिश्च मधुपर्कं स्वधान्वुना ।
सर्वकल्मषहीनाय परिपूर्णं स्वधात्मकं ।
मधुपर्कमिमं देव कल्पयामि प्रसीद मे ।
मुखे च त्वमनं दद्यात् केवलेन जलेन च ।
उच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरण मात्रतः ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकं ।
चन्द्र चन्दन काश्मीर जलैः स्नानं विधीयते ।
परमानन्दबोधाब्धि निमग्न निजमूर्त्तये ।
सांगोयांगमिदं स्नानं कल्पयाम्यहमीशाते ।
पीताम्बरयुगं दद्याद् यथाशक्या परिष्कृतं ।
मायाचित्रपटाछत्र निजगुह्योका तेजसे ।
निरावरण विज्ञान वासस्ते कल्पयाम्यहं ।
उत्तरीयं ततोद्याद्वासोऽर्द्धं नियमान्वितं ।
यमाश्रित्य महामाया जगत् सन्मोहनी सदा ।
तस्मैते परमेशाय कल्पयामुरत्तरीयकं ।
यज्ञसूत्रं ततो दद्यादथवा स्वर्णनिर्म्मितं ।
यस्य शक्ति त्रयेणेदं संप्रोतमखिनं जगत् ।
यज्ञसूत्राय तस्मैते यज्ञसूत्रं प्रकल्पयेत् ।
हाराद्या भरणं दद्यात् सुवर्णाश्म समन्वितं ।
स्वभाव सुन्दरांगाय सत्या सत्याश्रयायते ।
भूषणानि विचित्राणि कल्पयाम्यमरार्च्चित ।
अर्घ्योक्षितजलं दद्यादुपचारांतरांतरे ।
समस्त देवदेवेश सर्वदृष्टिकरं परं ।
अखण्डानन्द संपूर्ण गृहाणजलमुत्तमं ।
चन्दनागुरुकर्पूरमिश्रो गन्ध इहोच्यते ।
सर्वांगं लेपयेत्तेन तापत्रय प्रशांतये ।
परमानन्द सौरभ्य परिपूर्ण दिगंतरं ।

पृ० २८ब) गृहाण परमं गन्धं कृपया परमेश्वरं ।
पंचपुष्पांजलीन् दद्यात् पूर्वोक्ते नैव वर्त्मना ।
तान्यन्यान्यपि च योग्यानि पुष्पाणि वैष्णवे मनौ ।
कमले करवीरे द्वे तुलस्यौ जाति केतकी ।
कह्लारचम्पकोत्पल कुन्दमन्दारनागकेशर पावंती । नद्यावर्त्तन्तु माल्लिकायुथी नवमालिका सौगन्धिकं च कोरकं कोरण्डा लोकसर्ज्जन बिल्वार्जुन मुनिपत्रकं ।
पत्रं चामलकं शुद्धं कर्णिकारं तथा शुभं ।
पलाशादि यथा लाभं गोविन्दाय समर्पयेत् ।
मलिनं भूमि संसृष्टं क्रिमिकेशादि दूषितं ।
पर्ययुषितानि पुष्पाणि वर्ज्जयेद्देवतार्च्चने ।
तिष्ठेद्दिनत्रयं शुद्धं पद्ममामलकं तथा ।
तुलसी सर्वथा शुद्धा तथा बिल्वदलानि च ।
दिनैकं करवीराणि योग्यानि च तपोधन ।
तुरीय गुणसम्पन्नं नानागुण मनोहरं ।
आनन्द सौरभं पुष्पं गृह्यतामिदमुत्तमं ।
मंत्रसंपुटितां न्यस्य मातृकां देव वर्ष्मणि ।
तत्तन्न्यासस्थले तां स्तान् गन्धपुष्पाक्षतैर्यजेत् ।
पंचात्मिकायां दीक्षायां गणेशादि क्रमाद् यजेत् ।
यदा मध्ये तु गोविन्दं नैरृत्यां गणनायकं ।
आग्नेययां हं समभ्यर्च्च्य ऐशान्यां शिवमर्च्चयेत् ।
वायव्यामर्च्चयेद्देवीं भोग मोक्ष फलाप्तये ।
गन्धादिभिरथाभ्यर्च्च्य षडंगस्यार्च्च्यनं ततः ।
शक्तौ तत्तद्रस्मि सर्वमन्यथा केवलं यजेत् ।
विंशत् कृत्तो जपेन्मंत्रं नमस्कृत्य समापयेत् ।
तत्तदंगे षडंगानि वक्ष्यमाणेन वा जपेत् ।
आग्नेययां शिवकोणे च (च) राक्षसे वायुकोणके ।

पृ० २९अ) मध्ये दिक्षु च पूर्वादि अंगषट्कं समर्च्चयेत् ।
हारस्फाटिक कालांजन मुक्ता वह्निरोचिषां ललना ।
अभयवरोघतहस्तां प्रधानतोऽङ्गदेवताः कर्थिताः ।
एवमभ्यर्च्य मतिमान् देहेतद्भेदतो यजेत् ।
मुखस्थं वेणुयंत्रं यत् पूजयेत् सुसमाहितः ।
वर्णव नम इत्यस्य मंत्रोऽयं समुरीरितः ।
कौस्तुभं हृदये रत्नं सूर्ययायुत समप्रभं ।
कौस्तुभाय नम इति तस्य मंत्र उदीरितः ।
तदधो वनमालां च चन्द्रायुत सम * भं ।
प्रणवं पूर्वमुच्चार्यय वनमालायै नतिं वदेत् ।
वनमाला मनुः प्रोक्तः सर्वपापौघनाशनः ।
कौस्तुभोर्द्धे च श्रीवत्सं चन्द्रायुत समप्रभं ।
श्रीवत्साय नम इति मनुस्तस्य महर्षिभिः ।
सहस्रसूर्ययसंकाशे कर्णे मकर कुण्डले ।
मकरकुण्डलाय नम इत्यस्य मनुरीरितः ।
किरीटं मस्तये दीप्तं सूर्ययायुत समप्रभं ।
सूर्यायुतसमाभास किरीटाय नमो वदेत् ।
प्रणवादिरयं प्रोक्तः किरीटस्य महर्षिभिः ।
पूर्वादिदिशमारभ्य प्रादक्षिण्य क्रमाद् यजेत् ।
दामसुदामवसुदाम किंकिणी गन्धपुष्पकैः ।
अंतःकरणरूपास्ते कृष्णस्य परिकीर्त्तिताः ।
आत्मा भेदेन ते पूज्या यथा कृष्णस्तथैव ते ।
प्रणवादि नमोऽस्तैश्च मंत्रैस्तान् परिपूजयेत् ।
नवांगमुक्तं देवस्य भोगांगं शृणु गौतम ।
प्रष्टौ महिष्यो देवस्य पुर आदिं प्रपूजयेत् ।
प्रदक्षिण क्रमेणैव रुक्मिण्याद्याष्णुता मताः ।
रुक्मिणी सत्यभामा च लक्षणा च सुलक्षणा ।

पृ० २९ब) कालिन्दी ऋक्षजानग्नाजित्याख्या च सुनन्दका ।
द्रुतहेम समप्रख्या रुक्मिणीरूद्धयौवना ।
सितवस्त्रपरीधाना सर्वाभरणभूषिता ।
देवस्य वदनाम्भोज मिलिताक्षि मधुव्रता ।
वराभय करोपोता भक्ताय मुक्तये सतां ।
इयं लक्ष्मीः पराशक्तिर्विश्वानुग्रहरूपिणी ।
कलाय कुसुम श्यामा सर्वाभरणभूषिता ।
पीताम्बर वृहच्छ्रीणी सत्याख्या धरणि स्मृता ।
रत्नपूरकरा वामे दक्षिणे च वरप्रदा ।
अन्याश्च गौराः श्यामाभाः क्रमेण परीकीर्त्तिताः ।
पीताम्बर परीधाना देवार्पित मनोमुखाः ।
तद्बहिर्वसुदेवं च यशोदां देवकीं पुनः ।
वसुदेवो हेमगौरो वराभय करस्थितः ।
देवकी श्याम सुभाग सर्वाभरण शोभना ।
सितवस्त्र युगान्या च सर्वेप्सित फलप्रदा ।
यशोदा हेमशंकासा सितवस्त्र युगप्रदा ।
सर्वाभरण सन्दीप्ता कुण्डलोद्भासितानना ।
रोहिणीं च यजेत्तत्र नन्दं गौरं समर्च्चयेत् ।
वरदाभयसंयुक्तं समस्तपुरुषार्थदं ।
बलदेवं तथा चैव पूजयेत् कुन्दसन्निभं ।
हालालोलं कुण्डलिलं हेमवंतं स्मरेत्तथा ।
ततो यजेत् सुभद्रां च श्यामलं रूढ यौवनां ।
तद्वहिर्वष्णयः सर्वे गोपं गोपी शमर्च्चयेत् ।
इन्द्रनील मुकुन्दाद्यान् तद्वहिः परिपूजयेत् ।
इन्द्रनीलं मुकुन्द च तथा चानन्द कच्छपौ ।
पुष्करं शंख पद्मौ च निधायाष्टौ प्रकीर्तिताः ।
तद्बहिः कल्पवृक्षांश्च इन्द्रादींस्तद्बहिर्यजेत् ।
इन्द्रमैरावतारूढ़ं श्यामं वज्रधरं तथा ।
साधिपं सपरिवारं च तद्बहिः परिपूजयेत् ।

पृ० ३०अ) अग्निं हेमसमाभासं शक्तितोमरधारिणां ।
मेषारूढं शक्तियुक्तं तेजसां पतिमर्च्चयेत् ।
दक्षिणे पितृदेवं च महिषोपरि संस्थितं ।
यजेद्दण्डधरं चैव यमं पित्रधि दैवतं ।
राक्षसाधिपतिं तद्वन्नैरृत्यां खड्गधारिणं ।
तुरगावस्थितं देवं परिवारैः समर्च्चयेत् ।
पाश्चात्ये वरुणं शुक्लं मकरारूढ़मुज्जलं ।
अपां पतिं पाशधरं परिवारै समर्च्चयेत् ।
वायव्यां वायुदेवं च प्राणाधिप समाह्वयं ।
दक्षहस्तांकुशमेण चाहनं परिपूजयेत् ।
शरदिन्दु समाभासं कृपया शशलांछनं ।
सोमं सोमदिगधीशं नरारूढं समर्च्चयेत् ।
ईशानं वृषभारूढं चन्द्रायुत समप्रभं ।
रुद्राधिपं शूलहस्तं गन्धमुख्यैः प्रपूजयेत् ।
इन्द्रेशान मध्यदेशे ब्रह्माणं हंसवाहनं ।
हेमगौरं चतुर्वक्तुं पद्महस्तं समर्च्चयेत् ।
रक्षो वरुणयोर्म्मध्ये विष्णुं चक्रधरं यजेत् ।
नागाधिपं सुपर्णस्थं विष्णोः पारिषदान् यजेत् ।
वज्रादीनायुधान् भद्रान् तेषां च वहिरर्च्चयेत् ।
यथा सिन्धु समुद्भुतां तरंगा भिन्नतां युयुः ।
तथा कृष्ण समुद्भुता एते तदायतां ययुः ।
तद्ध्यानेन च त ह्येयं साधकेन शुभं युना ।
एवं सप्तावृत्तिमयं देशिकः कृष्णमर्च्चयेत् ।
धर्म्मार्थकाममोक्षाश्च करे तस्य सुनिश्चितं ।
अथवांग दिक्पतिभिस्तदस्त्रैरपि चार्च्चयेत् ।
एवं वा स्वर्च्चयत् कृष्णं काममुक्त्योः सभाजनं ।
य एतद् यजनाशक्तः कृष्णाष्टकेन पूजयेत् ।
श्रीकृष्णो वासुदेवश्च नारायण समाह्वयः ।
देवकीनन्दनः श्रेष्टो वार्ष्णोयस्तदनंतरं ।
असुरांतक भारहारी धर्म्मसंस्थापकः स्मृतः ।
अयं वा पूजयन् कृष्णां यथा वित्तानुसारतः ।
इह भुक्तावरान् भोगानंते तु हरितां व्रजेत् ।

पृ० ३०ब) अगुरूशीरगुग्गुलसिताज्य मधू चन्दनैः ।
सारज्ञौ वैरि निक्षिप्तैर्नासाध्यो मधुमर्पयेत् ।
वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ।
आघ्नैयः सर्वदेवानां धूपोऽयं प्रतिगृह्यतां ।
वर्त्त्या कर्पूर गर्भिण्या सर्पिषा तिलजेन वा ।
संस्थापयतु पात्रादौ सुदीप्तशिखया ततः ।
अध्योदकेन संस्कृत्य नन्दजाय निवेदयेत् ।
उत्तार्ययं दृष्टिपर्ययंतं घंटां वामदिशि स्थितां ।
वादयन् वामहस्तेन दक्षहस्तेन वापंयेत् ।
सुप्रकाशो महातेजाः सर्वत्रतिमिरापहः ।
सराह्याभ्यंतं ज्योतिर्दीपोऽयं प्रकाशो महातेजाः । सर्वत्र तिमिरापहः सराह्याभ्यंतं ज्योतिर्दीपोऽयं प्रतिगृह्यतां ।
स्वर्णे वा ताम्रपात्रे वा रौप्ये वा पंकजे दले ।
शितोपदंशशाल्पत्रं सगुड़ं मधुना युतं ।
दधिदुग्धघृतोपेतं कदल्पादि फलान्वितं ।
आनीय देव पुरतः पं बीजेन विनिक्षिपेत् ।
अस्त्रमंत्रेण विधिवद्धेनुमुद्रां प्रदर्शयेत् ।
चन्द्रबीजं चाम्बुसंस्थं चतुर्द्दशस्वरान्वितं ।
नादबिन्दुसमायुक्तं बीजं तदमृतात्मकं ।
परायेति च संप्रोच्य अनिरुद्धं वदेत् पुनः ।
नैवेद्यं च तथेत्युक्ता कल्पयामि नमो वदेत् ।
प्रोक्तो नैवेद्य मंत्रोऽयं अनेन च निवेदयेत् ।
अमृतोपस्तरणमसि स्वाहेति जलमर्पयेत् ।
अन्वाहार्ययाय प्राणाय स्वाहेति प्रथमाहुतिः ।
अंगुष्ठानामिकामध्या प्राणाख्या मुदिका मता ।
आहवनीयाय अपनाय स्वहेति च द्वितीयिका ।
कनिष्टांगुष्ठनामा च मुद्रा तत् परिकीर्त्तिता ।
गार्हपत्याय व्यानाय स्वाहेति तृतीयाहुतिः ।

पृ० ३१अ) तर्ज्जन्यंगुष्टमध्याभिस्तन्मुद्रा परिकीर्त्तिता ।
सत्याय च उदानाय स्वाहया च चतुर्थिका ।
मध्यमानामिकांगुष्ट चतुर्थी च कनिष्ठिका ।
आवसत्याय समानाय स्वाहा च पंचमी तथा ।
सर्वाभिरंगुलीभिस्तु तन्मुद्रा परिकीर्तिता ।
प्रणवाद्यैरेभिरेव देववक्त्रे हुनेद् गुरुः ।
ओं निवेदयामि भवते गृहाणेदं हरिर्हरे ।
निवेद्यार्पण मंत्रोऽयं सपर्यया सुप्रकीर्त्तितः ।
क्षणं विमृष्य मतिमान् दद्याद् गण्डूषकं ततः ।
अमृतोपस्तरणमसि स्वाहेति जलमर्पयेत् ।
विश्वकसेनाय वै दद्याच्छेषं नैवेद्यमुत्तमं ।
उच्छिष्ट भोजिनो ह्येते एतेषामवधारय ।
शिवे चण्डेश्वरायेति विष्णौ विश्वक्सेनाय च ।
शक्त्युच्छिष्टं शोषकायै दद्यादर्च्चन सिद्धयो ।
अन्यथा नैव सिद्धिः स्यादर्च्चको नरकं ब्रजेत् ।
नैवेद्य जातमुद्धृत्य स्थानशुद्धिं विधाय च ।
आचमनीय जलं दद्याद्दंतशोधनमेव च ।
हस्तलेपं ततो दत्त्वा पुनः पानीयमर्पयेत् ।
सूक्ष्मवस्त्रद्वयं दत्त्वा दद्याच्च स्वर्णपादुके ।
पूजा स्थानं समानीय बहुमालां तथार्पयेत् ।
दिव्यगन्धं ततो दद्यात्ताम्बूलं शशि संयुतं ।
स्तोत्रैः स्तुत्वा च विधिवत् कृत्वा प्रदक्षिणं हरिं ।
वेद विद्भ्यो धनं दत्त्वा यत्फलं लभते नरः ।
तत्फलं लभते भक्त्या कृत्वा कृष्ण प्रदक्षिणं ।
सप्तद्वीपां धरा दत्त्वा वेद विद्भ्यो महामुने ।
तत्फलं लभते भक्त्या कृत्वा कृष्णा प्रदक्षिणं ।
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दूशा ।
वचसा मनसा चेति प्रणामोऽष्टांग ईरितः ।
भूमौ निपत्ययः कुर्ययात् कृष्णेऽष्टांगनतिः सुधीः ।

पृ० ३१ब) सहस्रजन्मजंपापं त्यक्ता वैकुंठमाप्नुयात् ।
नवीन नीरद श्यामं नीलेन्दीवरलोचनं ।
वल्लरी नन्दनं वन्दे कृष्णं गोपालरूपिणं ।
स्फुरद्वर्हदलोद्वद्वनीलकुंचितमूर्द्धजं ।
कदम्बकुसुमोद्वद्ववनमालाविभूषितं ।
गण्डमण्डलसंसर्गि चलत् कांचन कुण्डलं ।
स्थूल मुक्ताफलोदार हारोद्व्योतित वक्षसं ।
हेमांगद तुला कोटि किरीटोज्जवल विग्रहं ।
मन्दमारुत संक्षोभवलगिताम्बर संचयं ।
रुचिरौष्ठ पुट न्यस्त वंशी मधुर निस्वनैः ।
ललदेगापालिका चेतो मोहयंतं मुहुर्म्मुहुः ।
वल्लरी वदनाम्भोज मधुपान मधुव्रतं ।
क्षोभयंतं मनस्तासां सस्मेरापांग वीक्षणैः ।
यौवनीद्भिन्नदेहाभिः संसक्राभिः परस्परं ।
विचित्राम्बरभूषाभिर्गोपनारीभिरावृतं ।
प्रभिन्नांजन कालिन्दी जलकेलिकलोत्सुकं ।
योधयन्नं क्वचिद् गोपान् व्याहयंतं गवां गणं ।
कालिन्दीजलसंसर्गि शीतला निलकम्पिते ।
कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ।
रत्नभूधरसंलग्न रत्नासन परिग्रहं ।
कल्पपादपमध्यस्थ हेममण्डपिका गतं ।
वसंतकुसुमामोद सुरभीकृत दिंमुखे ।
गोवर्द्धन गिरौ रम्ये स्थितं वासरसोतसुकं ।
सव्यहस्ततलन्यस्त गिरिवर्ययातपत्रयं ।
खण्डिता खण्डलोन्मुक्त मुक्तासार घनाघनं ।
वेणुवाद्य महील्लास कृत हुंकार निस्वनैः ।
स वत्सैरुन्मुखैः शश्वदे गोपालैरभिवीक्षितं ।

पृ० ३२अ) कृष्णमेवानुगायद्भिस्तच्चेष्टा च शवर्त्तिभिः ।
दण्डपाशोद्यत करैर्गोपालैरुपशोभितं ।
नारदाद्मैर्म्मुनिवरैर्वेदवेदांगपरिगैः ।
प्रीति सुस्निग्धया वाचा स्तूयमानं परात्परं ।
य एवं चिंतयेद्देवं भक्त्या संस्तौति मानवः ।
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितं ।
राजवल्लभतामेति भवेत् सर्वजन प्रियः ।
अचलां श्रियमाप्नोति सवाग्मी जायते ध्रुवं ।
अथ मुद्रां प्रदर्श्याथ अग्निसंस्कारमाचरेत् ।
मोदनात् सर्वदेवां द्रावणात् पापसंततेः ।
मुद्रास्ताः कथिताः सद्भिर्देवसान्निध्यदायिकाः ।

गौतम उवाच
भगवन्मे त्वया मुद्राः सूचिता न प्रकाशिताः ।
कथं विरचनं तासां कारुण्याद् ब्रुहि मे गुरौ ।

नारद उवाच
कनिष्ठांगुष्ठकौ शक्तौ करयोरितरे तवं ।
तर्ज्जनीमध्यमानामाः संहताभुग्नवर्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शस्ता गोपाल पूजने ।
वनमालाभिनयवत् कराभ्यामागलादधः ।
जानुपर्ययंतमित्येषा मुद्रा स्याद्वनमालिका ।
ओष्ठे वामकरांगुष्टौ लग्नस्तस्य कनिष्टिका ।
दक्षिणांगुष्टसंयुक्ता तत् कनिष्ठा प्रसारिता ।
तर्ज्जनीमध्यमानामाः किंचित् संकोच्य चालिताः ।
वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ।
अंगुलीः संहताः कृत्वा करयोर्वामदक्षयोः ।
वामनासासमायुक्ता दक्षपाणि कनिष्ठिका ।
दक्षस्य मध्यमाक्रांता वामहस्तस्य तर्जनी ।
वाममध्यमयाक्रांता दक्षहस्तस्य तर्ज्जनी ।
संयुतौ कारयेद्विद्वानंगुष्ठावुभयोरपि ।
धेनुमुद्रानिगदिता गोपिता साधकोत्तमैः ।
करौ संपुटितौ कृत्वा वामपाणि कनिष्ठिका ।

पृ० ३२ब) निष्पीड्य दक्षपाणिस्थ दक्षिणांगुलिभिर्दृढं ।
तथा वामांगुलिभवैरति गाढं निपीडयेत् ।
इतीयं बिल्वमुंद्रा स्यात् प्रशस्ता कृष्ण पूजने ।
कायेन मनसा वाचा बुद्ध्या बुद्ध्या च यत् कृतं ।
इह जन्माने पूर्वस्मिन् अथवा पापसंचयं ।
इमां जानन् योजनं तन्मुंचत्याशु न संशयः ।
देवाः सर्वे नमस्यंति प्रणम्यंति तथा जनाः ।
काममुच्चार्यय विधिवन्निक्षिपेद्धृदयोपरि ।
कृत्वेतरं करं वामे कृत्वा सम्यक् समांगुलीः ।
अन्योन्य पृष्ठ करयौर्म्मध्यमानामिकांगुलीः ।
वामकनिष्टया दक्षकनिष्ठां च निपीड्य च ।
वामानामिकया दक्ष तर्जनीं च निपीडयेत् ।
वामांगुलत्रयोपरि कुर्ययाद्दक्षिणहस्तांगुलित्रयं ।
एकत्रयोजितं कृत्वा मुद्रा स्यात् कौस्तुभात्मिका ।
दक्षिणे मणिबन्धे च वामांगुष्ठं नियोजयेत् ।
मुद्रेये कौस्तुभाख्योक्ता दर्शनीया प्रयत्नतः ।
कृत्वेतरं करं वामे कृत्वा सम्यक् समांगुलीः ।
तर्जन्युपरि वामं च न्यसेत् करतलं ततः ।
अंगुष्ठौ चालनीयौ च मत्स्यमुद्रै च मीरिता ।
करौ संपुटितौ कृत्वा मणिबन्धौ सुयोजितौ ।
अंगुष्ठे च कनिष्ठे च प्रविधाय सुयोजिते ।
शेषा अंगुलयः सर्वा उभयोर्वाम भंगुरः ।
परस्परमसंलग्ना शून्यमध्ये च कारयेत् ।
उक्ता कलसमुद्रेयं गोपालार्च्चा विधौ शुभा ।
कृत्वेतरे करतले अंतरांजलि संयुते ।
अन्योन्यमतिसंलग्ने अंगुष्ठान्तरमाहिते ।
कथिता कूर्म्ममुद्रेयं सर्वतंत्रेषु गोपिता ।
आकुंचितं ततः कृत्वा वामांगुलि चतुष्टयं ।

पृ० ३३अ) प्रसार्यय च तदंगुष्ठं दक्षहस्तेन वेष्टयेत् ।
प्रसार्यय तर्जनीं दक्षां तदंगुष्ठं च मंत्रवित् ।
शंखमुद्रेय मुद्रिता दर्शनात् पापनाशिनी ।।

इति गौतमीये महातंत्रे दशमोऽध्यायः ।। १० ।।

अथाग्निजननं कृष्ण इह मंत्रानुसारतः ।
धर्म्मार्थ काम मोक्षाणां यत् कृत्वा फलमश्नुते ।
गोमयांतः समालिप्य कुण्डं सर्वत्र मंत्रवित् ।
सामान्यार्घ्यं प्रकल्प्याथ पंचगव्येन सेचयेत् ।
त्रिकोणं तद्बहिः षट्कोणं च पद्मं प्रकल्पयेत् ।
चतुरस्रं चतुर्द्वारमेवं वा वह्निमण्डलं ।
कुण्डस्योत्तरभागे च त्रिरेखां हस्तमात्रकं ।
दक्षिणोत्तरतस्तद्वत् कुर्ययाद्रेखात्रयं शुभं ।
अर्घ्याद्भिः प्रोक्ष्य सर्वं हि पंचशुद्धिं समाचरेत् ।
वीक्षणं मूलमंत्रेण कवचेनाथ लेपयेत् ।
अस्त्रेण रक्षितं कृत्वा वह्नेः संस्कारमाचरेत् ।
पाषाण भवमग्निं च अथवा योनि सम्भवः ।
श्रोत्रियाणां गृहोत्थं वा वनस्थं चाथवा हरेत् ।
यदृच्छालाभ संप्राप्तो योग्योऽयं होम कर्म्मणि ।
निरग्नि ब्राह्मणाल्लध्वो ह्यर्थ लाभकरो भवेत् ।
क्षत्त्रबन्धश्चतुर्थांश फलं दद्याद्धुताशनः ।
वैश्यात् शूद्राच्च विफलं जायते होमकर्म्मणि ।
तस्मात् सर्वप्रयत्नेन वह्नि मुक्तं समाहरेत् ।
आनीय कांश्यपात्रस्थं क्रव्यादांशं परित्यजेत् ।
क्रव्यादेभ्यो नमस्कृत्य प्रणवाद्यो मनुर्भवेत् ।
रेखाणामुद्गग्राणां ब्रह्मवैवस्वतेन्दवः ।
प्रागग्राणां च रेखाणां मुकुन्देश पुरन्दराः ।
ततो वह्नेर्योगपीठमर्च्चयेत् कर्णिकोपरि ।
धर्म्मं ज्ञानं च वैराग्यमैश्वर्ययमादितो यजेत् ।
पूर्वादि दिक्षु चा पूर्वान् तथा धर्म्मादिकान् यजेत् ।

पृ० ३३ब) मध्ये च पूजयेद्वहेर्न प्रशक्तीर्विधानवित् ।
पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिंगिनी ।
रुचिरा ज्वालिनी प्रोक्ता कृशानोर्णवशक्तयः ।
अमर्कमण्डलं पूज्यं उं सोममण्डलं यजेत् ।
मं वह्निमण्डलं तद्वदर्च्चयेद् गन्धपुष्पकैः ।
वागीश्वरी मृत्युस्नातां नीलेन्दीवर सन्निभां ।
वागीश्वरेण सहितामुपचारैः प्रपूजयेत् ।
शक्तिप्रण च बीजाभ्यां तयोरर्च्चनमीरितं ।
वागीश्वरी मृतुमतीं पुरुषाधिष्ठितां स्मरेत् ।
वह्निं संस्कृत्य पात्रस्थं रं बीजेन तु मंत्रयेत् ।
चैतन्यं प्रणवेणैव योजयन तं प्रपूजयेत् ।
आत्मनोऽभिमुखे वह्निं जानु पृष्ठ महीतलः ।
शिव बीजधिया देव्या योनावेनं विनिक्षिपेत् ।
ततो देवाय देव्यै च दद्यादाचमनीयकं ।
गर्भनाड्याधृतं ध्यायेद्वह्निरूपं परंगुरुः ।
पश्चादगर्भस्य रक्षार्थं प्रदद्यार्द्दर्भकं कणं ।
भूषाभिभूषयोद्दवीं त्रैलोक्योत्पत्ति मातृकां ।
रेफवायुषदस्वरैश्च नादबिन्दु विभूषिताः ।
सादिषांताश्च जिह्वानां मनवः परिकीर्त्तिताः ।
पायौ लिंगे तथा नाभौ हृदये कंठमूलतः ।
लम्बिकायां भ्रुवोर्म्मध्ये जिह्वा ज्वाला रुचौ न्यसेत् ।
हिरण्या कनका रक्ता कृष्णाख्या सुप्रभा मता ।
बहुरुपाति रक्ता च जिह्वाक्वपीटयोनिनः ।
सहस्रार्च्चिः स्वस्ति पूर्ण उत्थितः पुरुषस्तथा ।
धूमव्यापि सप्तजिह्वो धनुर्धर इति स्मृतः ।
षडंगमंत्रा वह्नेश्च प्रणवाद्या नमोऽन्तकाः ।
हृदयादि क्रमेणैव न्यस्तव्या अंगदेवताः ।
भूर्द्धिण् स्कन्धे तथा पार्श्वे कट्यां तु कटिपार्श्वके ।

पृ० ३४अ) स्कन्धे मूद्धिण् च विन्यस्य प्रादक्षिण्य क्रमेण तु ।
जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः ।
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः ।
कौमार तेजा विश्वामुखोऽन्ते देवमुखस्तथा ।
एवं विन्यस्त देहः सन् ज्वालयेन्मनुनामुना ।
चित्पिंगलस्तद्वयं दह द्वयं तथापि च ।
सर्वज्ञो ज्ञापय स्वाहा मंत्रोयं समुदाहृतः ।
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं ।
सुवर्णवर्णममलं समृद्धं सर्वतोमुखं ।
समिद्धेन च मंत्रेण त्रिभिर्म्मंत्रैर्हुताशनं ।
ज्वालयेन्मतिमान्मंत्री अन्यथा विफलं भवेत् ।
दर्भैरगर्भैः शुद्धैश्च मूल मध्याग्रछादितैः ।
संस्तरेद्विधिवन्मंत्री प्रदक्षिण वशादथ ।
एवं संस्तरणं कुर्ययाद्वर्जयित्वान्मनो दिशं ।
यज्ञवृक्षोद्भवैस्तद्वत् काष्ठैश्च परिधि त्रयं ।
मध्यस्थ मेखलायां तु संस्तरेत्तंत्रवित्तमः ।
अथ चेत् स्थण्डिले मंत्री भूमौ सर्वं परिस्तरेत् ।
गन्धादिभिः समभ्यर्च्च्य वह्निदेवं विभावयेत् ।
त्रिनयनमरुणाभं वद्धमौलिं शुक्लाम्बूजां ।
शुकमरुणमणिका कल्पमम्भोसंस्थं अभिमतवशक्ति स्वस्तिका भीतिमुच्चैर्म्मरकत कमलमालालंकृतां शंकृशानुं ।
सुवर्णवर्णममलं लसत् स्वर्णे पवीतकं ।
चतुर्भुजं द्वि शिरसं हव्यकव्य द्विनासिकं ।
कमण्डलु तालवृंत शक्ति स्वस्तिक धारिणं ।
चतुःश्रोत्रं शब्दायमानमुत्तमं ।
एवं वा मनसा ध्यायेच्छात्तिकादौ गुरुत्तमः ।
कृष्णं कृष्णं गतेर्व्वर्णं ध्यायेन्मारणकर्म्मणि ।
मूर्त्तिरष्टौ सम्मुभ्यर्च्च्य षट्कोणे तु षडंगकं ।
मध्ये जिह्वां यजैष्वह्नेर्वह्निं तन्मंनुना यजेत् ।

पृ० ३४ब) वैश्वानरपदं पूर्वं जातवेदमनंतरं ।
लोहिताक्षं ततश्चोक्ता इहावह ततः परं ।
सर्वकर्म्मशि देहि मे स्वाहा मनुः समृद्धिदः ।
आन्यस्थालीं समानीय क्षालयेदस्तुमुच्चरन् ।
कुण्ठेऽड्गगरान् समुत्तौल्य न्यसेत्तत्रांग मंत्रतः ।
तस्या माज्यं विनिक्षिप्य जानीयात्तापनं हितं ।
प्रज्वाल्य कुश गुच्छं तु आज्ये क्षिप्त्वानले क्षिपेत् ।
अभिद्योतनमित्युक्तं सर्वत्र सर्वकर्म्मसु ।
पुनः कुशान् समुज्ज्वाल्य निक्षिपे दाह्य मध्यनः ।
मूलमंत्रेण मतिमानाज्य संस्कार ईरितः ।
अभिमंत्र्य च मूलेन रक्षयेदस्रमुच्चरन् ।
प्रदर्श्य वेनुयोनी च आज्यं तदमृतात्मकं ।
सुक्स्रुवौ च समादाय विधिना निर्म्मितो गुरुः ।
त्रिशः प्रतापयेद्वह्नौ पुनः प्रक्षाल्य वारिणा ।
पुनः प्रतप्यतौ मंत्री स्थापयेत्तौ स्वदक्षिणे ।
प्रादेशमात्रं सग्रस्थि दर्भयुल्मं घृते क्षिपेत् ।
कृत्वा भागौ शुक्ल कृष्ण पाक्षौ स्मृत्वा तु नाड़इकाः ।
वामदक्षमाध्यभागेष्वीडाद्याः संस्मरेत्ततः ।
श्रुवेण दक्षिणाद्भागादग्रये स्वाहयामुना ।
जुहुयाद घृतमादाय वह्नेर्द्दक्षिणलोचने ।
वामतस्तद्वदादाय सोमाय स्वाहया ततः ।
मंत्रेणानेन जुहुयादग्नेर्वाम विलोचने ।
मध्यात्तद्वत् समादाय अर्ग्नर्भालस्थलोचने ।
जुहुयादग्निसोमाभ्यं स्वाहेति मनुनामुना ।
हृन्मंत्रेण श्रुवेणाज्य भागादादाय दक्षिणात् ।
जुहुयादग्नये सृष्टि कृते स्वाहेति तन्मुखे ।
इत्यग्नेर्नेत्र वक्त्राणां कुर्ययादुर्घ्घटनं गुरुः ।
पुनव्याहृतिभिर्हुत्वा जिह्वांगं मूर्त्तितो हुनेत् ।
वैश्वानरेण मंत्रेण त्रिवारं जुहुयाद् गुरुं ।

पृ० ३५अ) संस्कारार्थं ततो वह्नेर्हुनेत्र वनवाहुतीः ।
प्रणवाद्येन मतिमान् स्वाहांतेन तदुच्चरन् ।
गर्भाधानं पुंसवनं सीमंतोन्नयनं तथा ।
जातकर्म्म तथा नाम उपनिष्क्रमणं तथा ।
चूड़ओपनयने भुयो वेदाध्यायनमेव च ।
गोदानं च विवाहं च संस्काराः शुभकर्म्मणि ।
अशुभे मरणांतांते प्रयुक्तास्तंत्रवेदिभिः ।
ततश्च पितरौ वह्नेः संपूज्य हृदयं नयेत् ।
वह्निमंत्रेण विधिवद्दद्याहुतिपंचकं ।
समिधः पंच जुहुयान्मलाग्र घृतसंप्लुताः ।
गुरुर्हृदयमंत्रेण विधिवत् स्वाहया विना ।
महागणेशमंत्रेण हुनेदेकादशाहुतीः ।
सामान्यं सर्वदेवानामेतदग्नि मुखं स्मृतं ।
बहुरूपायां च जिह्वायामावाह्य परमेश्वरं ।
गन्धादिभिः समभ्यर्च्च जुहुयात् षोड़शाहुतीः ।
मूलमंत्रेण विधिना वक्त्रैह्येकी? करणन्त्विदं ।
पुनस्तेनैव जुहुयादाहुतीः पंचविंशतिं ।
नाड़ईसन्धानमुद्दिष्टं वह्नि देवनयोरपि ।
अंगादि परिवाराणामेकैकामाहुतिं हुनेत् ।
पुनर्व्याहृतिभिर्हुत्वा होमं कुर्ययाद्यथाविधि ।
तिलेनाज्येन जुहुयात् सहस्रादि यथाविधि ।
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते ।
जुहुयाद्रक्तपद्मं वा मधुरत्रयसंयुतं ।
पायसं मधुरोपेतं जुहुयाद्वा यथामतिः ।
आस्यान्तर्जुहुयाद्वह्नेः पण्डितः सर्वकर्म्मसु ।
बधिरत्वं कर्णहोमे नेत्रेत्वन्धत्वमाप्नुयात् ।
नासिकायां मनः पीड़आ शिरोहोमीहि मृत्युदः ।
यतः काष्ठं ततः श्रोत्रं यतो धूमोऽथ नासिका ।
यतोऽल्पज्वलनं नेत्रं यतो भस्म ततः शिवः ।
यतः प्रज्वलितो वह्निस्तन्मुखं जातवेदसः ।

पृ० ३५ब) एवं होमं समाप्याथ मतिमान् श्रपयेच्चरुं ।
पात्रे ताम्रमये शुद्धे दुग्धं न कापिलेन वै ।
शुद्धतण्डल संभूत प्रसृते विंशतिं क्षिपेत् ।
घृतधारां ततो दद्याद्यावत् स्विन्नो भवेच्चरुः ।
आवतार्यय ततो विद्वान् भागत्रयमथार्च्चयेत् ।
अथाचरेत् ।
भागमेकं समादाय नित्यहोमं समाचरेत् ।
कुण्डे वा स्थाण्डेले मंत्री स्थले वा शोधिते तथा ।
एकहस्तामिते देशे कुशपुष्पाम्बुसेन्विते ।
वह्नि तत्र समाधाय जातवेदो मनोर्ज्जपात् ।
मनुं जपेत् ।
व्याहृतिभिस्ततो हुत्वा कृष्णमावाह्य भक्तितः ।
गन्धादिभिः समभ्यर्च्च्य मूलेन पंचविशतिं ।
आहुतीर्जुहुयान्मंत्री षडंगहोममाचरेत् ।
नतांगश्च ततो भूत्वा नमस्कृत्य च मंत्रवित् ।
विसृजेद्विन्दुगे धाम्नि नित्यहोमोऽयमीरितः ।
स्वगृह्योक्र विधानेन बलि वैश्वमथाचरेत् ।
भागद्वयमथचरुं कृष्णाय विनिवेदयेत् ।
एक भागं स्वयं भुक्ता शिष्टं शिष्ये समर्पयेत् ।
शयीतः संयतः शिष्य कम्वलेपलालेवा कुशास्तरे ।
भूतेश्वरस्य मंत्रेण स्वाशिखां बन्धयेद गुरः ।
ततः शयीत तां रात्रिमधिवासोऽयमीरितः ।।

इति गौतमीये एकादशोऽध्यायः ।। ११ ।।

ततः प्रातः समुत्थाय कृत नित्यक्रियो गुरुः ।
कृतकृत्योऽपि शिष्यस्तु निषीदेद् गुरुसन्निधौ ।
कथयेद्रात्रि वृत्तांतं शुभं वा यदि वा शुभं ।
सुमंगलीतिर्नारीभिः सहसं भोजनं मिथः ।
गिरिशृंगारोहणं च हस्त्यश्वरथरोहणं ।
आरोहणं सौधगेहे देवोत्सवनिरीक्षणं ।

पृ० ३६अ) मंगलं च स्ववामांश दर्शनं स्पर्शनं तथा ।
मंत्रसिद्धस्य लिंगानि प्रोक्तानि तव सुव्रत ।
अनाकुलानि कथये शृणु निन्द्यानि सर्वतः ।
कृष्णवर्णैर्भटैः स्वप्ने प्रहारस्तैललेपनं ।
विप्राणां रोषवादे च परस्त्रीणां निषेवणं ।
सिद्धिविघ्नानि चोक्तानि अन्यानि निन्दितानि च ।
एवं दोषं समाज्ञाय क्षणात् परिहरेद गुरुः ।
होमं कुर्ययात् सहस्रादि द्रव्यैः कल्पोक्त दर्शितैः ।
सांगं सपरिवारं च हुत्वा बलिमथाचरेत् ।
मण्डलस्य बहिर्भागे लोकेशादि बलिं हरेत् ।
नक्षत्राणां सवाराणां सराशीनां यथाक्रमं ।
गन्धाद्यैः सम्यगभ्यर्च्च्य तत्रन्मंत्रैस्तु मंत्रवित् ।
शुद्धान्नेनत् दद्याद्बलिं गन्धपुष्प धूपदीपकमादरात् ।
ताराणामश्विन्यादीनां राशिः पादाधिक द्वयं ।
मेषादिमुक्ता नक्षत्र संज्ञा पूर्वमनंतरं ।
देवताभ्यः पदं प्रोक्ता दिवानक्तं वदेत्तथा ।
चरेभ्यश्वाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् ।
एवं राशौ तु संपूर्णे तस्मिंस्तदवत् प्रयोजयेत् ।
तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु ।
मीन मेषांतराले तु करणानां बलिं वदेत् ।
मेषस्य वृश्चिकस्मारः शुक्रो वृष तुलाधिपः ।
बुधुवै कन्यका नाथश्चन्द्रश्च कर्कटाधिपः ।
सिंहराश्यधिपो भानुश्चाप मीनाधिपो गुरुः ।
मकरस्यापि कुम्भस्य मन्दोराश्यधिपा इमे ।
लां इन्द्रायेत्यादि विष्णुपारिषदमर्च्चयेत्तथा ।
दद्याद्बलिं दिगीशेभ्यो विधिनथ गुरुत्तमः ।
ओं आश्विनी देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः भरणी कृत्तिकापाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।

पृ० ३६ब) कृत्तिका त्रिपाद रोहिणी देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
कृत्तिका त्रिपाद रोहिणी देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
रोहिणी मृगशीर्ष पूर्वाषाढार्द्धदेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
मृगशीर्षोत्तरार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
आर्द्रापुनर्वसुत्रिपाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
पुनर्वसुपादपुष्प देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
अश्लेषा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
मघा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
पूर्वफल्गुण्यत्तराफल्गुणी पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
उत्तराफल्गुणी द्विपादहस्ता देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
हस्ताचित्रार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
हस्ताचित्रार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
चित्रोत्तरार्द्धस्वाती देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
स्वाती विशाखा त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
विशाखा पादानुराधा त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वदेवताभ्यो नमः ।
ज्येष्ठादि देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
मूलादि देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
पूर्वाषाढोत्तराषाढा पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।

पृ० ३७अ) उत्तराषाढ श्रवणा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
श्रवणा धनिष्ठार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
धनिष्ठार्द्ध शतभिषग् देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
शतभिषक् पूर्वभाद्रपद त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
पूर्वभाद्रपदोत्तरभाद्रपद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
रेवती देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
मेषाश्विनी भरणी कृत्तिका पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
वृषभ कृत्तिका त्रिपाद रोहिणी मृगशिरः पूर्वार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
मिथुन मृगशिरार्द्रा पुनर्वसु त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
कर्कट पुनर्वस्वेकपाद पुष्पाश्लेष देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
सिंहमघा पूर्वोत्तरापाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
कन्योत्तरा त्रिपाद हस्त चित्रार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
तुला चित्रोत्तरार्द्ध स्वाती विशाखा त्रिपाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
वृश्चिक विशाखा पादानुराधा ज्येष्टा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
धनुर्मुल पूर्वाषाढोत्तराषाढ पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
मकरोत्तराषाढ़ त्रिपाद श्रवणा धनिष्ठार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।

पृ० ३७ब) कुम्भधनिष्ठोत्तरार्द्धशतभिषक् पूर्वभाद्रत्रिपाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
मीन पूर्वभाद्रपद उत्तरभाद्र रेवती देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः ।
आवरणा देवताभ्यो नमः । शुक्र देवताभ्यो नमः । बुध देवताभ्यो नमः । चन्द्र देवताभ्यो नमः । आदित्य देवताभ्यो नमः । बृहस्पति देवताभ्यो नमः । शनैश्चर देवताभ्यो नमः । सिंह देवताभ्यो नमः । व्याघ्र देवताभ्यो नमः । वराह देवताभ्यो नमः । खर देवताभ्योः नमः । गज देवाताभ्यो नमः । वृषभ देवताभ्यो नमः । कुक्कुर देवताभ्यो नमः । हर देवता दुर्गा गुह विष्णु ब्रह्म लक्ष्मी धनाधिपा द्वारदेवता । इत्युक्ता तेभ्यो बलिं हरेद् गुरुः । इत्थं बलि विधिः प्रोक्तः सर्वविघ्नौघ नाशनः ।
गोपुच्छमधिकं त्यक्ता तृणैरास्तरणं भवेत् ।
जम्बीरं कलि वृक्षं च त्यक्ता चैधांसि कल्पयेत् ।
शुद्ध सिन्दूर बालार्क वर्णो वह्नेः सुशोभनः ।
भेरी वादित्र गम्भीर शब्दो वह्नेः शुभप्रदः ।
चन्द्र चन्द्रन कुन्दाभ धूमः सर्वार्थसिद्धिदः ।
खरवाय सवच्छन्दो वह्नेः सर्व विनाश कृत् ।
कृष्णः कृष्णातेर्वर्णो राज्यं चापि विनाशयेत् ।
पूर्णाहुतिं ततो दद्यात् सन्धिश्चैव विधानवित् ।
ओं भूरग्नये पृथिव्यै महते स्वाहया ततः । भूवो वायवे चांतरीक्षाय च दिवे च महते च स्वाहया ततः । स्वश्चन्द्रमसे दिग्भ्यश्च नक्षत्रेभ्यः स्वाहा । ओं भूर्भुवः स्वश्चन्द्रमसे नक्षत्रेभ्यश्च दिगभ्यश्च महते स्वाहा । स्रुक्स्रुवौ च समादाय ।

पृ० ३८अ) घृतेनापूर्ययतौ पुनः होमद्रव्याणि निक्षिप्य ।
नाभौ संस्थाप्यतौ पुनः । ब्रह्मार्पणं न मधुना दद्यात् । पूर्णाहुतिं पुनः । इतः पूर्वं प्राणबुद्धि देहधर्म्माधिकारतो जाग्रत्स्वप्न सुषुप्त्यवस्थासु च मनसा वाचा कर्म्मणा हस्ताभ्यां पद्भ्यां मुदरेण शिश्नायत् ।
स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा । ब्रह्मार्पण मनुः सोऽयं ब्रह्मार्पण विधौ स्मृतः ।।

इति श्रीगौतमीये द्वादशोऽध्यायः ।। १२ ।।

एवं होमविधिं कृत्वा कुण्डस्थण्डिल देवताः । दिक्पालदेवताश्चापि अंकुरार्पण दैवता आनयेत् । कलसे चापि कृष्णौक्यं भावयेद् गुरुः ।
कृष्णं स्वधा युतं नीत्वा शिष्यमारूप तंत्रवित् ।
वाससा नेत्रे बध्नीयान्नेत्र मंत्रेण यत्नतः ।
पापयित्वा पंचागव्यंमत्रामृतमयं शुभं ।
स्पृष्ट्वातं तंत्रमंत्रज्ञोऽध्वषदकं विशोधयेत् ।
विष्णुतत्त्वानि संशोध्य अभिषेक गृहं नयेत् ।
वर्णः कलापदं तत्त्वं मंत्रो भुवनमेव च ।
अध्वषदकमिति प्रोक्तं मुनिभिस्तंत्र वेदिभिः ।
वर्णाध्वा वर्णशंखश्च फलाध्वा षडभिरीरिता ।
पादाध्वा पदसमूहः स्यांत्तत्त्वाध्वा पंचविंशति ।
षट्त्रिंशदेवं तत्त्वानि इति तत्त्वविदो विदुः ।
मंत्राध्वा मंत्रराशिः स्यात्ते हि वैदिक तांत्रिकाः ।
भुवनाध्वेति कथिता भुवनानि चतुर्द्दश ।
शोधयाम्यमुमध्वानममुकस्य हि पर्वतः ।
वेदगर्भो नमश्चांते मनुरध्व विशोधने ।
नवाहुतीर्गुरः कुर्ययात् एकैकाध्व विशोधने ।
हस्ते गृहीत्वा तं शिष्यमभिषेक गृहं नयेत् ।
निवेश्य मातृकायंत्रे सेचयेत् कलसा मृतैः ।

पृ० ३८ब) कृष्णानुभव पूर्णात्मा आचार्ययश्चानयेद् घटं ।
गोरोचना पल्लवानि कल्पवृक्षधियामृषन् ।
शिशोः शिरसि संयोज्य विलोम मातृकां जपत् ।
मूलमंत्रं तथा जप्त्वा कुर्ययाद्देवाभिषेचनं ।
कृष्णात्मकं तु तत्तोयं शिव आदि पदावधि ।
अभिषिंचे चेन मंत्री कृष्णात्मा भवति ध्रुवं ।
ननौषधि कलाभिश्च जलं कृष्णात्मकं भवेत् ।
तेन तत् संकमात्रेण शिशुः कृष्णो न चान्यथा ।
एवं यः कुरुते भक्त्या आत्मानं विष्णु संस्कृतं ।
इह भुक्ता यथा कामं देहांते तत्पदं व्रजेत् ।
चन्दनालेपितांगश्च द्विजाशीर्भिश्च संयुतः ।
कृष्णात्मकं देशिकं तं प्रणम्य च पुनः पुनः ।
निषीदेत् सन्निधौ तस्य नियतो विनयान्वितः ।
न्यासजालं तस्य देहे गुरुः साम्यस्य यत्नतः ।
दक्षकर्णे वदेन्मंत्रं त्रिवारं पूर्णमानसः ।
गणेशादि मनुं चोक्ता समयान् कथयेद् गुरुः ।
मंत्रार्थं मंत्रबीजं च तच्छक्तिं तत् कलापि च ।
आत्मानं दर्शयेत् साक्षात् स्वनाम्ना तन्मयं ततः ।
मंत्रकुण्डलि देवानामेकार्थत्वं प्रकाशयेत् ।
सिद्धांतं वैष्णवं यत्नाद् बाधयेत् कृपया गुरुः ।
एकं चोपदिशेच्छिष्यं यथा तन्मयतां व्रजेत् ।
यथा ग्राम शतं तोयं विष्ठादि मूत्रदूषितं ।
गंगायां मिलितं तत्तु गंगे व भवति ध्रुवं ।
यथा मा तृप्ताममे यत्र पातीतो भवेच्छिशुः ।
शिष्योऽपि पूर्णा तां ज्ञात्वा गुरुं यत्नेन तोषयेत् ।
गुरवे दक्षिणां दद्याद्वित्रार्द्धं भक्ति तत्परः ।
तदर्द्धं वा ततो दद्याद् यथाशक्त्याथ भक्तितः ।
वित्तशाठ्यं न कुर्वीत कृतेनार्थं समाहरेत् ।

पृ० ३९अ) गो भू हिरण्य वस्त्रादीन् गुरवेऽथ निवेपयेत् ।
गुरु पुत्रेऽपि तत् पत्न्यै ताछिष्योऽपि स्वशक्तितः ।
वस्त्रालंकरणं दद्याद्भोज्यं मिष्टं यथा रुचि ।
ऋत्विग्भ्यो दक्षिणां दद्याद् वस्त्रालंकार भूषितं ।
सात्वतां तर्पयेद्भक्त्या यथा विभव विस्तरात् ।
ततः प्रभृति मंत्रज्ञो गुरुशासन संस्थितः ।
यथा मंत्रे तथा देवे यथा देवे तथा गुरौ ।
पश्येदभेदतो मंत्री एवं भक्ति क्रमो मुने ।
अभक्तिं जनयंल्लोके देवता क्लेशदायकः ।
त्रिदिनं निवसेद्भक्त्या सिद्धये गुरुसन्निधौ ।
अन्यथा तद्भुतं तेजो गुरुमेति न संशयः ।।

इति श्रीगौतमीये त्रयोदेशोऽध्यायः ।। १३ ।।

चैत्रेमास्यतवा कृत्वा शुभर्क्षे गुरुशासनात् ।
द्वादश्यां शुक्लपक्षे च माधवे मासि तत्तिथौ ।
आरभेदमलायां वै पुरश्चर्ययां सुसिद्धये ।
जपहोमौ तर्पणं च सेको ब्राह्मण भोजनं ।
पंचागोपासनं लोके पुरश्चरणमुच्यते ।
आदौ पुरसक्रियां कर्त्तुं कुर्ययाद्भूमेः परिग्रहं ।
स्वेच्छाचार विहाराय ततः ऊर्द्धं न लंघयेत् ।
जीवहीनो यथा देही सर्वकर्म्मसु न क्षमः ।
पुरश्चरण हीनोऽपि तथा न स्यात् फलप्रदः ।
पर्वताग्रे नदीतीरे गोष्ठे देवालये तथा ।
पुण्यारण्ये महातीरे समुद्रस्य निजे गृहे ।
तुलसीकानने रम्ये बिल्वमूले च शस्यते ।
विष्णुक्षेत्रे च विधिवत् सिद्धये जपमारभेत् ।
पुरश्चरण कृन्मंत्री भक्ष्याभक्ष्यं विचारयेत् ।
अन्यथा भोजनाद्दोषात् सिद्धि हानिः प्रजायते ।
सत्कुलस्थानजातानि शुचीनां श्रीमतां सतां ।
गृहस्थानं वदान्यानां भीक्षाशिनोऽग्रजन्मनां ।

पृ० ३९ब) भुंजानो वा हविष्यान्नं शाकं च विहितं तथा ।
फलं क्रमुक केन्दूनां वर्ज्जयन् विहितं मुने ।
पयोदधि फलं वापि नारिकेलं यथोदितं ।
हविष्यं वा तथा श्रियात् शक्तुं यव समुद्भवं ।
रम्भा फलं तिंतिड़ईकं कमला नागरंगकं ।
फलान्येतानि भोज्यानि एषामन्यानि वर्ज्जयेत् ।
ऐक्षवं वर्ज्जयेन्मंत्री शर्करै क्षव वर्ज्जितं ।
लवणं क्षारमम्लं च गृंजनं कांश्यमेव च ।
ताम्बूलं च विभक्तं च दुःसभाय प्रयत्नतः ।
श्रुतिस्मृति विरोधं च जपं रात्रौ च वर्ज्जयेत् ।
भूशययां ब्रह्मचारि त्वं मौनं चप्यन सूयतां ।
नित्यं त्रिसवनं स्नानं क्षुद्रकर्म्म विवर्ज्जितं ।
नित्य पूजा नित्य दानं देवता स्तुति कीर्त्तनं ।
नैमित्तिकार्च्चनं चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठा द्वादशैते धर्म्मास्युर्म्मंत्रसिद्धिदाः ।
नित्यं सूर्ययमुपस्थाय तस्य चाभिमुखो भवेत् ।
देवता प्रतिमादौ च वह्नौ चाभ्यर्च्च्य तन्मुखः ।
अनिर्वेदस्तथा व्यग्रः शास्त्रोक्ताचारपालकः ।
स्नान पूजा जप ध्यान होम तर्पण तत परः ।
निष्कामो देवतायां च सर्वकर्म्म निवेदकः ।
एवमादींश्च नियमान् पुरश्चरणमुच्यते ।
शक्तौ त्रिसवनं स्नानं अन्यथा द्विः सकृत्तथा ।
अस्नातस्य फलं नास्ति नचातुर्पयतः पितृन् ।
अमेध्य सम्भवं देहं जलादिन्द्रिय शुद्धता ।
तस्मान्मुख्यं जलस्नानं सर्वेषां मुनिभिर्म्मतं ।
न वीक्ष्येत् पतितं व्रान्यं पिशुनं वेद निन्दकं ।
तथा नाश्रमिणे विप्रं विष्णुत्वस्य विनिन्दिकं ।
ऋतुकालं विना मंत्री स्वस्त्रियं नापि संस्पृशेत् ।
मैथुनं तत् कथालापं तद्गोष्ठीं परिवर्ज्जयेत् ।

पृ० ४०अ) पर्वते सिन्धुतीरे वा पुण्यारण्ये नदी तटे ।
यदि कुर्ययात् पुरश्चर्ययां तत्र कूर्म्मं न चिंतयेत् ।
ग्रामे वा यदि वा वास्तौ गृहे वा तं च चिंतयेत् ।
दीपस्थानं तथा चोक्तं मुखं पृष्टं च मंत्रिणः ।
दीपस्थाने भवेत् सिद्धि नान्यथा कोटि जापनैः ।
पूर्वोत्तर विभागेन चतुःसूत्रं निपातयेत् ।
नवकोष्ठं भवेदेतत् कूर्म्मदेहमनुत्तमं ।
पूर्वादिदिशि मंत्रज्ञः प्रदक्षिण क्रमेण तु ।
कादिवर्गान् लिखेद्विद्वान् पंच पंच विभागशः ।
यादिवर्गं शादिवर्गं लक्षमीशे च संलिखेत् ।
कूर्म्मस्यांगं च कूर्म्मं च कुर्ययाच्छोभां यथा भवेत् ।
स्वराणां युग्म युग्मं च मध्ये चाष्टसु दिक्षु च ।
एवमष्टंगवान् कूर्म्मः सर्वेषां सिद्धि दीपकः ।
दीपनाथं लिखेन्मध्ये पूजयेत्तं विभावयन् ।
यस्मिन् दिशि पतेदग्रामाद्यक्षरं दृश्यते तथा ।
कूर्म्म वक्त्रं च जानीयात्तत्र सिद्धिरनुत्तमा ।
वक्त्रपार्श्वे च कोष्ठे द्वे करौ कूर्म्मस्य विद्धि हि ।
मध्ये कुक्षी उभे ज्ञेयौ पादौ द्वौ शेष पुच्छकं ।
एवं कूर्म्मं विजानीयाद्दीपचक्र विवेचकः ।
मुखे सिद्धिर्भवेन्न्यूनं मध्ये शुद्धिश्च जायते ।
उदासीनः करस्थश्च कुक्षिस्थो दुःखमाप्नुयात् ।
पादस्थः पीड्यते मंत्री बंधनोच्चाटनादिभिः ।
पुच्छे मृत्युर्भवेन्न्यूनमेवं कूर्म्मस्य संस्थितिः ।
मंत्राक्षरेण मंत्रं चेत् कूर्म्मनाम्नो भवेद् यदि ।
साधकस्य च नाम्नाथ किं न सिद्ध्यति मंत्रिणः ।
पंचाशद्वर्णरूपेण क्षेत्रेशा विश्वविग्रहाः ।
तस्माच्च सगुणं क्षेत्रं सिद्धये स्यान्न चान्यथा ।
द्विगुणं चेन्मुखस्योऽपि कोष्ठेन सिद्धिमाप्नुयात् ।
तस्माच्चक्रं विचार्ययैवं मित्रं चेत् सर्वसिद्धिदं ।
यस्मिन् देशे दीप पतिः सगुणं नाम मंत्रयोः ।

पृ० ४०ब) तत्र यत्नेन गंतव्यं सपीठो दुर्लभो मतः ।
रुद्राक्षैरपि भद्राक्षैः प्रतु जीव कुचन्दनैः ।
स्फटिकैश्च प्रवालैश्च कुशग्रंथि भवैस्तथा ।।
तथा मलक सम्भूतैस्तूलसीकाष्ठनिर्म्मितैः ।
एभिश्च मालिकां कुर्ययान्मतिमान् वैष्णवे मनौ ।
रुद्राक्ष सम्भवाया तु अनंत फलदा मता ।
पुण्डरीका भवा माला गोपाल मनु सिद्धिदा ।
जीवपुत्रभनाया तु पुत्रं वितनुते चिरात् ।
कुचन्दन भवा माला राज्यभोगापवर्गदा ।
प्रवालनिर्म्मिता या तु सर्वसत्त्ववशंकरी ।
कुशग्रंथि भवामाला धर्म्मवृद्धिकरी मता ।
तुलसी सम्भवा या तु मोक्षं वितनुतेऽचिरात् ।
अष्टोत्तरशतैर्म्माला निर्म्मिता या तु मालिका ।
राज्यं वितनुते नृणां देहांते मोक्षदायिनी ।
मोक्षार्थी पंचविंशत्या पुत्रार्थी त्रिंशता जपेत् ।
चत्वारिंशन्मणि भवा अभिचाराय केवलं ।
पंचाशन्मणिभिर्म्माला सर्वकर्म्मप्रसाधिका ।
अकारादिक्षकारांता चाक्षमाला प्रकीर्त्तिता ।
क्षांतं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम ।
अनया सर्वमंत्राणं जपः सर्वसमृद्धिदः ।
नित्यं जपं करे कुर्ययान्नतु काम्यमबोधनात् ।
आरभ्यानामिका मूलात् परिवर्तेन वै क्रमात् ।
तर्ज्जनीमध्यपर्ययंतं जपेदष्टसु पर्वसु ।
गोपालतंत्रमंत्राणां करमालेयमीरिता ।
कार्पासमम्भवं सूत्रं पुण्यस्त्रीभिर्विनिर्म्मितं ।
अथवा पट्टसूत्रेण स्वर्णसूत्रेण वा तथा ।
अणिमादिक मोक्षांताः सिद्धये स्वर्णसूत्रके ।
पट्टसूत्रं वंशकरं धन पुत्र विवर्द्धनं ।
कार्पास सम्भवं सूत्रं धर्म्मकामार्थ मोक्षदां ।

पृ० ४१अ) त्रिगुणं त्रिगुणीकृत्य ग्रथयेच्छिल्पशास्त्रतः ।
मुखे मुखं तु संयोज्य पुच्छे पुच्छं नियोजयेत् ।
गोपुच्छ सदृशी माला यद्वा सर्पाकृतिः शुभाः ।
एवं निर्म्माय मालां वै शोधयेन्मुनिसत्तम ।
अश्वत्थ पत्र नवकैः पद्माकारं तु कल्पयेत् ।
तन्मध्ये स्थापयेन् मालां मातृकां मूलमुच्चरन् ।
नित्यं नैमित्तिकं कृत्वा सामान्यार्घ्यं विधाय च ।
क्षालयेदीशसूक्तेन लिम्पेत्तत् पुरुषेण तु ।
गन्धैरनल्पैर्म्मतिमान् अघोरेण तु धूपयेत् ।
अघोरेणैव सूक्तेन शतान्युनं तु मंत्रयेत् ।
वामदेवेन सूक्तेन शमी कुर्ययाद्विचक्षणः ।
एकैक मालामादाय ब्रह्मग्रंथिं प्रकल्पयेत् ।
एकैक मातृकावर्णान् ग्रथनादौ तु संजपेत् ।
तत् सजातीयमेकाक्षमेव च त्रिःप्रकल्पयेत् ।
एवं संग्रथितां मालां पुनः पद्मोपरि न्यसेत् ।
तत्रावाह्य यजेद्देवं यथा विभवविस्तरैः ।
मंत्रयेन्मूलमंत्रेण क्रमेणोत क्रमयोगतः ।
तथैव मातृकावर्णैर्म्मंत्रयेन्मंत्रतंत्रवित् ।
क्षालयेत् पंचगव्येन पुनरीशेन सूक्ततः ।
पुनर्विलिप्य गव्येन जपेन्मंत्रं यदृच्छया ।
नान्य मंत्रं जपेन्मंत्री कभ्ययेत्र विधुनयेत् ।
कम्पनात् सिद्धि हानिः स्यात् धूननं बहुदुःख कृत् ।
शब्दे जाते भवेद्रोगः करभ्रष्टो विनाशकृत् ।
छिन्ने सूत्रे भवेन्मृत्युस्तस्माद् पत्र परो भवेत् ।
जपांते कर्णदेशे वा उच्चस्थाने च विन्यसेत् ।
त्वं माले सर्वदेवानां सर्वसिद्धिप्रदा मता ।
तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तुते ।
इत्युक्ता परिपूज्याथ गोपयेद् यत्र तोयती ।
मालां मंत्रं च पशुभ्यो न प्रकल्पयेत् ।

पृ० ४१ब) प्रकाशने कार्ययहानिरित्युक्तं तंत्रविदिभिः ।
अंगुष्ठतर्जनीभ्यां च जपा छत गुणं भवेत् ।
तर्जन्यंगुष्ठयोगेन शत्रुच्चाटनकारकः ।
अंगुष्ठमध्य प्रायोगान्मंत्रसिद्धिः सुनिश्चिता ।
अंगुष्ठानामिकायोगादुच्चाटोत् सादने मते ।
ज्येष्टाकनिष्टायोगैन शत्रुणां नाशनं मंतं ।
इति ते कथितं विद्वन् मालायाः परिनिर्णयः ।
शक्त्यात्रिसवनं स्नानमन्यथा द्विः सकृत्तथा ।
त्रिसन्ध्यं प्रजपेन्मंत्रं पूजनं तत् समं भवेत् ।
एकदा वा भवेत् पूजा न जपेत् पूजनं विना ।
प्रातःकालेऽथवा पूजा जपांते वा यजेद्धरिं ।
प्रातःकालं समारभ्य जपेन् मध्यन्दिनावधि ।
पशुभावेन्मध्यन्दिनावधि पशुभावे स्थिता मंत्राः ।
केवला वर्णरूपिणः सौषुम्नध्वन्युच्चिरिताः ।
प्रभुत्वं प्राप्नुवंतिते ।
मंत्राक्षराणि चिच्छक्तौ प्रोक्तानि परिभावयेत् ।
तामेव परमव्योम्नि परमामृतवृंहिताः ।
दर्शयेत्यात्मसम्भारं पूजा होमादिभिर्विना ।
मनः संहृत्य विषयान्मंत्रार्थ गत मानसः ।
न द्रुतं न विलम्वं च जपेन्मौक्तिक पंक्तिवत् ।
जपः स्यादक्षरावृत्तिर्मानसोपांशुवात्वेकैः ।
धियायदक्षर श्रेणीं वर्ण स्वर पदात्मिकां ।
उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ।
जिह्वौष्ठौ चालयेत् किंचिद्देवता गत मानसः ।
किंचिच्छवणयोग्यः स्यादुपांशुः सजपः स्मृतः ।
मंत्रमुच्चारयेद्वाचा वाचिकः सजपः स्मृतः ।
मानसादि त्रिभिर्भेदैः कथितं जपलक्षणं ।
मानसः सिद्धिकामानामुपांशुः पुष्टिमिच्छतां ।
वाचिकामारणे शस्तः कथितं जप लक्षणं ।

पृ० ४२अ) एवं जपं पुरा कृत्वा तेजोरूपं समर्पयेत् ।
देवस्य दक्षिणे हस्ते कुशपुष्पार्घ्य वारिभिः ।
सजपं तद्विभाव्यैवं प्राणायाम त्रयं चरेत् ।
जपस्यादावथ चांते त्रितयं त्रितयं चरेत् ।
न न्यूनं नाधिकं वापि जपं कुर्ययाद्दिने दिने ।
यदि कुर्ययात् प्रमादात्ततदानेष्टमवाप्नुयात् ।
न्यूने न्यूनांग दोषः स्यादधिके चाधिकांगकं ।
यथाविधि कृतानीह फलंति तान्य यत्रतः ।
जपांते प्रत्यहं मंत्री होमयेत्तद्दशांशतः ।
तर्पणं सेकमित्येवं तत्तद्दशांशतो मुने ।
प्रत्यहं भोजयेद्विप्रान् न्यूनाधिक प्रशांतये ।
विप्रभोजनमात्रेण व्यंगं सांगं भवेद्ध्रुवं ।
गोषुशुश्रूषणं कुर्ययाद्देवताभ्यो यशः प्रदः ।
गोष्वपि प्रियमाणासु गोपालोऽयं प्रसीदति ।
कर्म्मांते संस्मरेत् कृष्णं अंतःकरण शुद्धये ।
नाम संकीर्त्तनं विष्णोः सर्वविघ्न निकृंतनं ।
अथवा लक्षपूर्णौ च होमादि कृत्यमाचरेत् ।
संपूर्णायां प्रतिज्ञायां तर्पणादि तथाचरेत् ।
विष्णोर्निवेदितान्नं यद्रात्रौ भुंजेद कुत्सयन् ।
तदन्ना देवता यस्य तदन्नः पुरुषो भवेत् ।
शयीत कुशशययायां कम्बले वा कुशास्मरे ।
एवं प्रतिदिनं कुर्ययाद् यावत् सांगं व्रतं भवेत् ।
होमं च पूर्ववत् कुर्ययात् पायसैरथवाम्बुजैः ।
होमाभावे जापं कुर्ययाद्धीमसंख्या चतुर्गुणं ।
षड्गुणं चाष्टगुणितं यथासंख्यं द्विजातयः ।
शुद्रस्य विप्र भृतस्य तत् पत्नी सदृशो जपः ।
होम शून्यस्य विप्रस्य यो जपः स तु तत् स्त्रियः ।
दशाक्षरं मनुवरं सिद्धये दशलक्षकं ।
जप्त्वा तदंते होमोऽपि विधिना कर्म्म चाचरेत् ।

पृ० ४२ब) दशांक्षरं जपेन् मंत्री सहस्र दशकं जपेत् ।
प्रत्यहं मुख्य कल्पोऽयं अन्यं न्यूनमुदाहृतं ।
अष्टादशार्णं मनुवरं पंचलक्षं जपेत्ततः ।
कृत्यमेवं समुद्दिष्टमन्यत्तत् कल्पसंग्रहात् ।
तर्पणं च ततः कुर्ययात्तीर्थोदैश्चन्द्रमिश्रितैः ।
जले देवं समावाह्य पाद्याद्यैरुदकात्मकैः ।
संपूज्य विधिन्तद्भक्त्या परिवार समन्वितं ।
एकैकमंजलिं तोयं परिवारान् प्रतर्पयेत् ।
ततो होम दशांशेन तर्पयेत् पुरुषोत्तमं ।
आदौ मंत्रं समुच्चार्यय श्रीपूर्वं कृष्णमित्यपि ।
तर्पयामाहमित्युक्ता नमोऽन्तस्मर्पणो मनुः ।
तर्पणस्य दशांशेन अभिषेकं तथा चरेत् ।
न्यासान शेखान् कृत्वा तदभेदेन प्रपूजयेत् ।
कृष्णात्मानं स्वमात्मानं ध्यात्वा राश्मि समन्वितं ।
कुसुमंतोयमेकं च सुगन्धि परिमिश्रितं ।
जलांजलिं समादाय मूलमुच्चार्यय साधकः ।
श्रीकृष्णमभिषिंचामि नम इत्यभिषेचने ।
अभिषेक दशांशेन ब्राह्मणान् परितर्पयेत् ।
क्षीर खण्डाद्धभौज्यैश्च बहुमान पुरःसरं ।
विप्रभोजनमात्रेण व्यंगं सांगं भवेद्ध्रुवं ।
सर्वथा भोजयेद्विप्रान् ते च कृष्णतनुर्यतः ।
यत्र भुक्तें द्विजस्तुष्ट्या तत्र भुंक्ते हरिः स्वयं ।
यत्र भुंक्ते श्रियः कांतस्तंत्र भुंक्ते जगत्त्रयं ।
गुरवे दक्षिणां दद्याद्भोजनाच्छादनादिभिः ।
गुरु संतोषमात्रेण मंत्रसिद्धिर्भवेद्ध्रुवं ।
गुरु मूलमिदं सर्वमित्याहुस्तंत्रवेदिनः ।
मिष्टान्नं बहु सत्कार्ययं भुंजीत बहुभिः सह ।
एवं सिद्धमनुर्म्मंत्री साधयेत् सकलेप्सितं ।
एवं नित्यक्रमं कृत्वा नैमित्तिकमथाचरेत् ।

पृ० ४३अ) कृते नैमित्तिके विप्र नित्यस्य पूर्णता भवेत् ।
अन्यथा नैव सिद्धिः स्यादनुष्ठान शतैरपि ।
मथुरायां महाक्षेत्रे वसन् कृष्णं समर्च्चयन् ।
लक्षमात्रं जपेन्मंत्रं मण्डलादीप्सितं भवेत् ।
मन्दरस्य महारण्ये सरलद्रुम कानने ।
पुष्पैर्वन्य समुद्भूतैर्दुग्धाशी विजितेन्द्रियः ।
लक्षमात्रं जपन् भक्त्या कृष्णं पश्यति चक्षुष्ण ।
वृन्दावन गतो मंत्री द्वात्रिंश स्थानमाश्रितः ।
लक्षं कृत्वा जपेद्भक्त्या अणिमादि गुणाल्लभेत् ।
समुद्रगासरिन्मध्ये कुट्टिमे निवसन् यती ।
दुग्धाहारो जपेल्लक्षं पापं कोटि भवोद्भवं ।
नाशयेन्नात्र सन्देहो वाक्सिद्धिं चापि विन्दति ।
पर्वताग्रे यजेत् कृष्णं शाकमूल फलाशनः ।
लक्षं तत्रापि संजप्य खेचरी मेलनं भवेत् ।
समुद्रगा नदीतीरे तुलसीकानने वसन् ।
लक्षमात्र जपात्तत्र कोटिजन्माद्य नाशनं ।
पुण्डरीक वकैः कृष्णं मासमेकं समर्च्चयन् ।
धर्म्मार्थकाममोक्षाणि करस्थानि लभेद् ध्रुवं ।
तुलास्थे भास्करे पद्मैर्होमयेद्दशसहस्रकं ।
लक्ष्मी स्थिरा भवेत्तस्य पुत्त्रपौत्त्रानुयायिनी ।
श्रीपुष्पैर्ज्जुहुयान्नित्यं वैशाखे मासि दुग्धयः ।
सर्वपापक्षयकरः सर्वसिद्धि प्रवर्द्धकः ।
देवाः सर्वे नमस्यंति भक्त्या तं पुरुषर्षभं ।
श्रीजलैस्तर्पयेत् कृष्णं मत्स्यण्डी चन्द्रसंयुतैः ।
अष्टोत्तरशतं कृत्वा पूजांते भक्ति तत्परः ।
मण्डलाल्लभते सिद्धिं द्व्यक्षरं स्वकवर्त्मना ।
यद् यत् कामयते मंत्री अनायासाल्लभेच्च तत् ।
दुग्ध बुध्या जलैर्नित्यमष्टोत्तरशतं शतं ।
तर्पयन्नखिलान् कामान् लभेम्मोक्षं च विन्दति ।

पृ० ४३ब) कुशपुष्पैः समभ्यर्च्च्य मासमात्रं निरामयः ।
यशसे धर्म्मवृध्यै च ब्रह्मचारी व्रते स्थितः ।
हयारि कुसुमैः शुक्लैर्मण्डलाद्वांछितं भवेत् ।
तथा रक्ताश्वमारेण अचलां भूतिमाप्नुयात् ।
तथा द्वाभ्यां समभ्यर्च्च्य भुक्तिं मुक्तिं च विन्दति ।
गोषु भक्तिः सदा कार्यया गोषु कण्डूपन तथा ।
गोषु नित्यं प्रसन्नासु गोपालः संप्रसीदति ।
ब्राह्मणानां क्षत्रियाणां वैश्यानां शेष जन्मनां ।
स्त्रीणां चैव महावाहो नैमित्तिकमिदं स्मृतं ।
एतेषां चैकमात्रं तु कृत्वा काम्यानि कारयेत् ।।

इति श्रीगौतमीये चतुर्द्दशोऽध्यायः ।। १४ ।।

त्रिकालाभ्यर्च्चनं वक्ष्ये गोविन्दस्य यथाविधि ।
मंत्रयोरुभयोः कार्ययमन्येषां च तदात्मनः ।
कलाय कुसुम श्यामं नीलेन्दीवरलोचनं ।
वार्षिकं च शिशुं मुग्धमासीनं पद्मविष्टये ।
भंग विद्रुम बिम्बाभ कर पादाधरोद्भवं ।
गुडालक च याच्छन्द मुखेन्दु ग्रहसंवृतं ।
कुन्देन्दुकाश संकाश हारभासितदिंमुखं ।
राजकुन्दद्वयाभास निन्दितानेक मौक्तिकं ।
महाश्मराश्रिसंकीर्ण सुवर्णानेक भूषणं ।
स्वपुष्टं धूषरांगं च धेनु धुली च योत्थया ।
गोप गोपी गवां वृन्दैर्वीक्ष्यमाणं सुविस्मितैः ।
ब्रह्मणा शंकरेणापि प्रेमोत् कंठात् सुवीक्षितं ।
पुरन्दरमुखैर्देवैर्मुनिभिः संस्तुतं परं ।
एवं ध्यात्वा यजेत् कृष्णां यजेद्भक्ति भरानतः ।
अज्ञैरिन्द्रियवजाद्यैरावृत्ति त्रितयान्वितं ।
क्षीर खण्डाज्य दुग्धं च कदली नवनीतकं ।
चोवां रम्भा फलं चाऽपि अन्यद्वाल प्रियं च यत् ।
जपं चाष्टसहस्रं च कृत्वा कृष्णं प्रसादयेत् ।
स्तोत्रैर्नानाविधैर्भक्ता नमस्कार प्रदक्षिणैः ।

पृ० ४४अ) दुग्ध बुध्या जलैरष्टशतं संतर्प्य मंत्रवित् ।
आत्मानं तत् कलाम्भोजे ह्यलभ्यः सन् समर्पयेत् ।
ब्रह्मार्पणाख्य मनुना ततो न्यस्य हृदं नयेत् ।
पूर्वेक्ति न क्रमेणाथ शेषमन्यथ समापयेत् ।
हुतशेषं निशाशी च एकाकी च निशां नयेत् ।
य एवं मासमात्रं तु भक्त्या कृष्णं समर्पयेत् ।
पूज्यो लोकैः कविर्वाग्मी लक्ष्मीं प्राप्यानुयायिनीं ।
पुत्त्रैर्मित्रैश्च सम्बन्धः प्रयात्यंते परं पदं ।
मध्याह्ने वासुदेवं तं राजमण्डलमध्यगं ।
द्वारावत्यां सहस्राकी दीपिते भवनांतरे ।
कल्पवृक्ष समाकीर्णे पुण्य पक्षि निनादिते ।
पद्मोत्पलादि कह्लरैः संकीर्णाभिरलंकृते ।
तस्मिन् सुपुलिने रम्ये छायायां कस्य च ।
रत्नस्तम्भै रत्नदीपैर्म्मुक्तादाम विभूषिते ।
नानाविचित्रांतविर्तन शत संकुले ।
तत् पार्श्वरचनं ध्यायेत् पुन्नागकेशरैः सह ।
तथा नानाविधैर्वृक्षैः पाटलैश्चम्यकादिभिः ।
वकुस्तैः सरलैर्वम्यैः कुरुवकैर्वेष्टितैरपि ।
सर्वर्त्तु कुसुमोपेतैः पुष्पावनतशाखिभिः ।
रत्नसिंहासनासीनं पुण्डरीक दले क्षणं ।
पृथूरस्कं सुपुष्पांगं राजन्य गण मोहनं ।
पुण्डरीक निभां नाभिं पुण्डरीकाक्षमव्ययं ।
सुभ्रूललाटवदनं पुष्पहासं सुलोचनं ।
सुकपोलं सुताम्रोष्टं श्यामलं मंगलाश्रयां ।
नीलकुंचित केशांतं विचित्राम्बर भूषणं ।
कम्बुग्रीवं सुविस्तीर्णं कौस्तुभोद्भासि वक्षसं ।
महाबली महोरस्कं महाभुज चतुष्टयं ।
बली बन्धुरमध्येन राजदधर शोभितं ।
प्रदक्षिण गत श्रीमद्भुवनाभि विभूषितं ।
समोरु जानुजंघाभिः स्वस्तिकांघियुगात्मकं ।

पृ० ४४ब) तुंगरत्र नखंचित्रं तुंगपादांगुरीयकं ।
अनेकविधरत्रादि पीताम्बर युगावृतं ।
स्फुरितो रस्कबन्धेन शोभितं वनमालया ।
रत्नहारैश्च सौवर्णैर्ग्रैवेयक विभूषितं ।
केयूरमणि सम्बध राजद्भुजचतुष्टयं ।
विचित्रकटकैर्युक्त नूपुरैः पादशोभितं ।
नानारत्नमयैर्हैमैरंगुरीयैर्विराजितं ।
अनंतरत्नसंछन्न स्फुरन्मकरकुण्डलं ।
सौवर्णे नाभिरुचिर नानाचित्रविचित्रितैः ।
लोलद्भ्रमरसंछन्नैः प्रसूनैर्मुकुटोज्जलं ।
शंख चक्र गदा पद्म धरं शांत मुखे क्षणं ।
दिव्यलक्षण सम्पन्नं दिव्यभूषणभूषितं ।
दिव्य मालाम्बरधरं दिव्य गन्धानुलेपनं ।
ललाटे हृदये कुक्षौ कंठ बाह्वोश्च पार्श्वयोः ।
विराजितोर्धपुण्डेण चन्दनेन विभूषितं ।
महीभारभूतारातिं तर्ज्जयंतं मुहुर्मुहुः ।
उद्धवादिममंत्रिवरैर्म्मंत्रयंतं मुहुर्मुहुः ।
तेषां निपातनायैव धर्म्मार्थनीति युक्तिभिः ।
एवं मध्याह्ण संप्राप्ते काले ध्यायन् जगद्गुरुं ।
आवाह्य विधिवद्भक्त्या पूजयन्नुपचारकैः ।
अंगं पूर्ववदुद्दिष्टं पूर आदि प्रपूजयेत् ।
रुक्मिणीं सत्यभामां च कालिन्दीं च सुलक्षणां ।
नाग्नजीतिं जाम्बवतीं मित्र विन्दां सुशीलिकां ।
इत्यष्टशक्तीर्द्देवस्य पूज्याः कृष्णस्य वल्लभाः ।
आग्नौ सुदर्शनं चक्रं नैरृते च जलोद्भवं ।
वायव्ये च गदां दिव्यां ईशाने पद्ममुज्जलं ।
ततो दलानां वाह्ये च वसुदेवं च दैवकीं ।
नन्दगोपं यशोदां च पूर आदित् प्रपूजयेत् ।
पाद्यैरर्घ्यैस्तथा पुष्पैः पूर्वादिदलतोऽर्च्चयेत् ।

पृ० ४५अ) बलभद्रं सुभद्रां च रोहिणीं च तथोत्तरे ।
सुदानं च तथा दानं वसुदामं च किंकिणीं ।
देवस्य वामपार्श्वे तु पूजयेद् गुरुपादुकाः ।
परमं च गुरुं तत्र परापर गुरुं तथा ।
पादुकांतं समभ्यर्च्च पूर्वसिद्धं तथा यजेत् ।
पूर्वे गणपतिं यष्ट्वा तद्बहिः परिपूजयेत् ।
इन्द्रादि लोकपालांश्च स्वस्वदिक्षु स्वमंत्रतः ।
कुमुदं कुमुदाख्यं च पुण्डरीकं च वामनं ।
शंकु कर्णं सर्वनेत्रं सुमुखं सुप्रतिष्टितं ।
दक्षिणावर्त्तमेतांस्तु पूर्वादिदलतोर्च्चऽयेत् ।
उत्तरेशानयोर्न्मध्ये विष्वक्सेनं समर्च्चयेत् ।
संपूज्यैवं हरिं भक्त्या नैवेद्यं च निवेदयेत् ।
पायसं शर्करा पूपं खण्डाद्यं कदलीफलं ।
सितोपदंशमंत्र च स्वर्णपात्रे निवेदयेत् ।
अथवा रौप्यपात्रे च ताम्रपात्रेऽथवा पुनः ।
अभावात् पद्मपत्रे वा अन्यथा नरकं व्रजेत् ।
सुवर्ण चसकेवाथ रौप्ये वा विधिना ततः ।
सशर्करं पक्वदुग्धं अत्र व्यंजन पायसं ।
नानाविधोपहाराणि गोविन्दाय निवेदयेत् ।
राजोपचारं दत्वा तु स्तुत्वा नत्वा विसर्ज्जयेत् ।
य एवं चिंतयेद्देवं गोपालं विगत स्पृहः ।
राजानः किंकराः सर्वे समान्याः सपरिच्छदाः ।
राजपुत्राश्च पत्न्यश्च सर्वे तस्यानुवर्तितः ।
इह भुक्त्वा वरान् भोगानंते विष्णोः पदं व्रजेत् ।
अष्टोत्तरशतं होमं कुर्ययात्तत् संख्ययादृतः ।
होमतर्पणयोर्म्मंत्री साधयेदखिलानपि ।
प्रातर्होमं प्रकुर्व्वीतं तथा मध्यन्दिनेऽथवा ।
रात्रि होमं च मध्याह्णे कुर्ययादेवं विधिः स्मृतः ।।

पृ० ४५ब) तृतीयकालपूजायामस्तिकाल विकल्पना ।
सायाह्णे निशि वेत्यत्र वदत्त्येके विपश्चितः ।
अष्टादशार्णं सायाह्णे शत्रौ चेद्दशवर्णकं ।
उभयोमुभये नैव वदंते ब्रह्मवादिनः ।
सायाह्णे द्वारवत्यां तु चित्रकोद्यान मध्यगः ।
सौगन्धिकोत्पलमती दीर्घिका शत वेष्टिते ।
नन्दनोद्यान् मध्ये तु कदम्बवनमध्यगं ।
ज्वलद्रत्नमयैः स्तम्भैः सुरत्नवीथिकम्विते ।
नानारत्नमयोल्लासि प्राचीर द्वार शोभिते ।
महारत्नमयं गेहं मुनिभिः परिवेष्टितं ।
नारदाद्यैर्म्मुनिवरैः शौनकैः पिप्पलादिभिः ।
सनकादि ब्रह्मपुत्रैः परीतं तत्त्वनिर्णये ।
नारदं पर्वतं जिष्णुं निशबोद्धवदारुकं ।
विश्वक्सेनं च शैलेयं कृपादृष्टि विलक्षितं ।
तेभ्यो मुनिभ्यः स्वधाम दिशंतं परमक्षरं ।
चन्द्रकोटि प्रतीकाशं विश्वावकाशदीपितं ।
नानारत्नगणाकीर्णं महामुकुट भूषितं ।
अनेक रत्नराश्यर्कलसन्मकरकुण्डलं ।
भावहारावली राजल्लसत् कौस्तुभ वक्षसं ।
नानारत्नगणाकीर्ण केयूर वलयाष्टकं ।
विद्रवत् कनकाभास पीताम्बर युगावृतं ।
बन्धुरोदार जठरं गभीर नाभि पंकजं ।
उत्तुंग चरणाम्भोज लसत् स्वर्णांगुरीयकं ।
प्रदीप्त रत्नकटक तुला कोटि द्वयान्वितं ।
शशरक्ताधर पुटमारक्त पदपंकजं ।
शंख चक्र गदा पद्म धारिणं वन मालिनं ।
शुद्ध ज्ञान स्वभाव त्वात् सुशुक्लं तं परात्परं ।
अज्ञाननाशकाद्यद्वन्नववारिजसन्निभं ।
सूर्ययकोटि प्रतीकाशमविद्या ध्वांत नाशनात् ।
इत्येवं परमात्मानं ध्यायंति ब्रह्मवादिनः ।
एवं ध्यात्वा मध्यमार्च्चा विधानेन प्रपूजयेत् ।

पृ० ४६अ) सहस्रैकं जपेन्मंत्रं होमाद्दशांश तर्पणं ।
रजता राजिते पात्रे खण्डे दुग्धं निवेदयेत् ।
पूर्वोपचारान् दत्वाथ नमस्कृत्य विसर्ज्जयेत् ।
गृहस्थानां वनस्थानां न्यासिकां हृदयाम्बुजे ।
ध्यात्वा संपूज्य मुनिभिर्मानसैरुपचारकैः ।
विविक्तो गृहमेधी च मुनिभिः सह पूजयेत् ।
वासुदेवादिभिरपि निर्वाणं पदमाप्नुयात् ।
सायाह्ने वासुदेवं च पूजयेद्विधिना नरः ।
देवाः सर्वे नमस्यन्ति किं पुनर्नरमर्कटाः ।
संसार सागरं घोरं निषमं नक्र संयुतं ।
संतीर्ययविषयान् भुक्त्वा ज्ञानीते पदमाप्नुयात् ।
दुर्वासनां परित्यज्य कोटिजन्मसमुद्भवं ।
एकेन जन्मना मुक्तिं याति कैवल्य निर्म्मितं ।
तद्विष्णोः परमं पदं सदा पश्यंति शूरयः ।
रात्रौ चेन्मन्मथाक्रांतं मानसं देवकी सुतं ।
रासगोष्ठी परिश्रांतं गोपी मण्डलमध्यगं ।
वृन्दावन गतं ध्यायेत् छायायां कल्पशाखिनः ।
सुस्थितं वेणु गायंतं वनमाला परीवृतं ।
पीताम्बरधरं श्यामं गोपिका संख्यवेष्टितं ।
देवासुरैश्च गन्धर्वैरप्सरोभिश्च सेवितं ।
यक्षैर्विद्याधरगणैर्विहंगैर्भूवि यद्गतैः ।
ब्रह्मर्षिभिर्देवर्षिभिः स्तूयमानं सुविस्मितैः ।
नानाविवैरप्सरोभिर्वीक्ष्यमाणं सुविस्मितैः ।
लेलिह्यमान गन्धर्वैर्देवस्त्री शतकोटिभिः ।
इन्दीवर निभं रत्नं सुन्दरेन्दु वराननं ।
संफुल्ल पद्मवदनं पद्मपत्र निभेक्षणं ।
पद्मनाभि पाणिपादं पद्मनाभि निभाधरं ।
शरणं सर्वभूतानां गोपिकाजनवल्लभम् ।

पृ० ४६ब) क्वचिद्भंगपरिमिलत पंकजोपरि संस्थितं ।
कल्पितानैकदेहेन नारीणां शतकोटिभिः ।
वेष्टितं रममाणं च गायंतं दिव्यमूर्छनैः ।
द्वाभ्यां द्वाभ्यां वल्लभाभ्यां मध्ये मध्ये विराजितं ।
यथा मरकत स्तम्भं सुवर्णेनाभिवेष्टितं ।
क्वचिद्गोपांगना वस्त्र हारिणं हेलयान्वितं ।
क्वचिद्वसंतं हासंतं स्त्रीवृन्दमुपहासकैः ।
निर्म्मितं देव निकरैरर्च्चितं पुष्पवृष्टिभिः ।
देवस्त्रीभिर्वीज्यमानं कामोत्कंठिक चेष्टितम् ।
एवं ध्यात्वा मधु रिपुं यजेत्तंसं शितव्रतः ।
मिथुनैश्च षोडशकैः केशरादिभिरावृतं ।
महीषिभिस्तथा वीतं गोयीभिरपि सर्वतः ।
एवमभ्यर्च्च्य विधिना कांश्ये वा राजतो विते ।
पात्रे दुग्धं निवेद्याथ मिथुनेभ्यस्तथार्वयेत् ।
जप्त्वा स्तुत्वा नमस्कृत्य हृत्पद्मे तं विसर्ज्जयेत् ।
एवमभ्यर्च्च्य जगतां पतिं शुद्धमनायतिः ।
धर्म्मार्य काममोक्षाणां दायादो भवति ध्रुवं ।
विप्रो वेदाधिपो भूयात् साक्षाद्भूमिपुरन्दरः ।
क्षत्त्रियो राजवर्ययश्च वैश्यो धनसमृद्धिमान् ।
शूद्रः सुखानि सर्वाणि भुक्त्वा चांते परं व्रजेत् ।
एवं ते कथितं विप्र संसारभयनाशनं ।
अर्च्चनं त्रिविधा या तु मूलविद्या निकृंतनं ।।

इति श्रीगौतमीये पंचदशोऽध्यायः ।। १५ ।।

गौतम उवाच
ब्रूहि मे बालकृष्णत्वं तव सार्वज्ञ कारणं ।
ब्रह्मणा यत् पुरा प्रोक्तं सेवया तपसोऽर्च्चितः ।
यत् प्रसादान् मुनिश्रेष्ठ त्रैलोक्य विदितं न ते ।
यथाक्रमं कथय मे सर्वमेव समाहितः ।
सुश्रुषामेव नवती गोपालस्यार्च्चनं प्रति ।

नारद उवाच
बाल्यंते कथयामाद्य देवस्य परमाद्भुतं ।
 
पृ० ४७अ) गोपनीयं न ते किंचित्वं हि वेद विदाम्बर ।
तपसा कल्मष मनाः कृष्णो भक्तोऽसि निश्चयात् ।
तारः प्रजापतिः शक्रो माया च बिन्दुरेव ।
एतन्मंत्रवरं विद्धि रहस्यं परमाद्भुतं ।
महाचमत्कारकरं रिपुक्षोभणकारकं ।
चतुर्वर्गफलं चास्य जपमात्रेण सिध्यति ।
गोपालस्यापि ये मंत्रा वक्ष्यंतेऽत्रैव तंत्रके ।
सदीपित मनेनैव फलप्रदमवेक्ष्यतां ।
चूडामणिरयं प्रोक्तो देवस्य शिशुरूपिणः ।
अहं मुनिः समाख्यातो गायत्त्रीछन्द उच्यते ।
देवता कथितः कृष्णः सर्वकाम फलप्रदः ।
समाहारोच्चारणोऽयं मध्यम स्वर ईरितः ।
नेत्राब्धितर्क सूर्ययेन्द्रैः कालवर्ण विभेदितैः ।
यंत्रागानि मनोः कृत्वा ध्यानं कुर्ययात् समाहितः ।
मथुरायां पुरे ध्यायेत् कंसस्यान्तः पुराजिरे ।
सूतिका गृह मध्यस्थं जातमात्रं जगत्पतिं ।
सिध चारण गन्धर्व देव दानव किन्नरैः ।
यक्ष राक्षस वेतालैः खेचरैर्दिक्चरैरपि ।
विद्याधरीभिर्देवीभिः किन्नरीभिः समंततः ।
ब्रह्मणा तनयैः सार्द्धं वीक्ष्यमाणं मुदान्वितैः ।
इन्द्रादिभिश्च दिक्पालैर्लसत् कुसुम वर्षणैः ।
चतुर्भूजं शंख चक्र गदा शांर्गधरं हरिं ।
दक्षस्योर्द्धे स्मरेच्चक्रं गदां च तदधः करे ।
वामस्योर्द्धे शांर्ग धनुः शंखं च तदधः करे ।
नवीन जलद प्रख्यं पीतकौषेय वाससं ।
विलसत् कुण्डला भोग भास्वरे निजमूर्द्धनि ।
विहिता शेष सद्रत्नशोभि स्वर्णकिरीटकं ।
सुगन्धि पारिजातैश्च शोभिता शेष कुन्तलं ।
ललाटतटविन्यस्त कस्तूरी तिलकोज्ज्वलं ।

पृ० ४७ब) अष्टमी चन्द्र शकल भाल भाल तलोज्ज्वलं ।
उत्फुल्ल पुण्डरीक श्रीनयनद्वय भासितं ।
मनोभव धनुः कल्प चिल्ली चाप विराजितं ।
तिल प्रसून विजयि नासा वंश विभूषितं ।
परार्धचन्द्रसंकाश मुख चन्द्र विराजितं ।
दाडिमी बीजकुन्दाभ दंतपंक्ति मनोहरं ।
पक्व बिम्बफलोद्भासि दंतवासोज्ज्वलं विभुं ।
जाम्बूनदानेकरत्न स्फुरन्मकरकुण्डलं ।
महामरकतस्तम्भभासमान भुजोत् करं ।
रत्न चामीकरा भोगैरंगदैर्वलयैर्युतं ।
कम्बुग्रीवं महोरस्कं मुक्ताहार विराजितं ।
श्रीवत्स लांछनं भ्राजत कौस्तुभोज्जवल वक्षसं ।
रत्नवैदुर्यय घटित किंकिणी जाल मालिकं ।
पट्टसूत्रेण सन्नद्ध मध्यदेशोपशोभितं ।
रत्नमंजीरयुगल मंजु श्रीपादपल्लवं ।
देवक्या वसुदेवेन हरेण विधिना तथा ।
विदिक्षु तिष्टता स्तोत्र मुखे रण पुटांजलिं ।
मेरुशृंग प्रतीकाशं गरुडोपरि संस्थितं ।
एवं ध्यात्वा परात्मानं गुरुमात्मानमेव च ।
एकीभावेन संभाव्य ततः पूजनमारभेत् ।
कर्पूर मानिता लोल सितचन्दन चर्च्चिते ।
आलिखेद्देवकीपुत्र यंत्रं शोभन रेखया ।
शलाकया वैद्रुमया तथा वापि च हेमया ।
किंजल्करूपकं वृत्तं ततो लेख्यं चतुर्द्दलं ।
ततो वृत्तं चाष्टदलं लिखेद्दशदलं ततः ।
समरेखं चतुष्कोण चतुर्द्वार सुशोभितं ।
बीजशोभि चतुर्द्वारे चतुष्कोण विराजितं ।
मध्ये संपूज्य देवेशं पूजयेच्च चतुर्द्दले ।
ऐशान्यामीश्वरं देवमाग्नेययां च पितामहं ।
नैरृत्यां वसुदेवं वायव्यामम्बिकामपि ।

पृ० ४८अ) तथा चाष्टसु पत्रेषु पूजयेद्देववल्लभाः ।
रक्ताम्बरधराः सौम्याः कराम्बुज धृताम्बुजाः ।
सर्वालंकरणोद्दीप्ता लसद् यौवन विभ्रमाः ।
श्रीमद्देवमुखाम्भोज न्यस्त नेत्र मधुव्रताः ।
ततो दशदले पूज्या लोकपालास्ततो बहिः ।
गरुडं पश्चिमे द्वारे जयं पूर्वे प्रपूजयेत् ।
विजयं दक्षिणे तद्वन्नारदं च तथोत्तरे ।
पुटांजलिकराः सर्वे सुस्तोत्र मुखरा अपि ।
विलसद्वनमालाश्च पीतकौषेय वाससः ।
ततः शंखं च चक्रं च गदां कौमदकीमपि ।
शांगं धेनु च संपूज्य तद्वाह्ये पूजयेदपि ।
ऐरावतादीनभ्यर्च्च्य गणानष्टौ ततो बहिः ।
कृते लक्षं जपेन्मंत्रं त्रेतायां द्विगुणं तथा ।
त्रिलक्षं द्वापरे जप्त्वा चतुर्ल्लक्षं कलौ जपेत् ।
प्रयोगानथ कुर्वीत साधकः सिद्धि लालसः ।
लक्ष्मी प्रसूनैर्जुहुयाछ्रियमिच्छन्न निन्दितां ।
आज्येनानेन जुहुयादान्नस्य समृद्धये ।
आरण्यै कुसुमै विप्रान् जातीभिः पृथिवीपतीन् ।
प्रसूनै रसितैर्वश्यान् शूद्रान्नीलोत्पलैरपि ।
वशे पुर्लवर्णैः सर्वान् पंकजैर्वनिता जनान् ।
गोशाला सुकृतो होमः पायसेन ससर्पिषा ।
गवां शांतिं करोत्याशु गोविन्दो गोकुल प्रियः ।
शिशुवेशधरं देवं किंकिणी जालशोभितं ।
स्मृत्वा प्रतर्पयेन् मंत्री दुग्ध बुद्ध्या शुभैर्ज्जलैः ।
धनं धान्यांशुकादीनि प्रीतस्तस्मै ददाति सः ।
पिण्डं मूलेन वीतं दहन पुरयुगे कोण राजत् षड़र्णं कुर्ययात् । पद्मं दशार्णं स्फुरित दशदलं कामबीजेन वीतं ।
पद्मं किंजल्कसंस्थं मुरविकृति दल प्रोल्लसत् ।

पृ० ४८ब) षोडशार्णं किंजल्क व्यंजनाट्यं विकृति दलयुगेष्वर्पितान्नष्टवर्णं ।
पाशांकुशाभ्यामावीतं क्षौणीपुर युगान्वितं ।
अष्टाक्षरेण संवीतं यंत्रं गोविन्ददेवतं ।
धर्म्मार्थ काम फलदं सर्व रक्षाकरं स्मृतं ।
पक्षांतको धरा संस्थो मनुबिन्दु विभूषितः ।
पिण्ड बीजमिदं प्रोक्तं सर्वसिद्धिकरं परं ।
चतुर्लक्षं जपेदेतत्तद्दशांशं हुनेत्ततः ।
तर्पयेत्तद्दशांशं च दशांशं चाभिषेचयेत् ।
ब्राह्मणान् भोजयेच्चापि दशांशमिति च क्रमात् ।
गणेशं भास्करं रुद्रं गौरीं च परिपूजयेत् ।
विदिक्षु यंत्रराजस्य स्वस्वमंत्र पुरःसरं ।
एतद्धारणमात्रेण त्रिकालज्ञो भवेन्नरः ।
यद् यन्निजेप्सि सर्वं साधयेन्नात्र संशयः ।
अनेन सदृशो मंत्रो यंत्रं चापि न विद्यते ।
केवलं प्रेम भावेन कथितं तव सुव्रत ।।

इति श्रीगौतमीये षोडशोऽध्यायः ।। १६ ।।

अथ प्रयोगान् वक्ष्यामि मंत्रयोरुभयोः समान् ।
यान् कृत्वा साधकवरलौकद्वय सुपूजितः ।
तदात्मकारि मंत्रान् वै वक्ष्यामि च क्वचित् क्वचित् ।
वन्दे तं देवकीपुत्रं सद्योजाताम्बुज प्रभं ।
शंख चक्र गदा पद्म धारिणं वन मालिकं ।
एवं ध्यात्वा मनुवरं लक्षं ब्राह्मे मुहूर्त्तके ।
जप्त्वा मेधां परां प्राप्य कवीनामग्रणीर्भवेत् ।
अथवा स्फटिकाभासं द्विभुजं लेख पुस्तकं ।
धारिणं तं विचिन्त्याथ लक्षं ब्राह्म्ये मुहूर्त्तके ।
जप्त्वा मंत्रं त्रिकालज्ञो बृहस्पति समो भवेत् ।
अथ वै तत् समो मंत्रः प्रोच्यते शृणु तत्त्वतः ।
श्रीमत् पदं तथा चोक्ता मुकुन्द चरणौ ततः ।

पृ० ४९अ) सदेति शरणमहं प्रपद्ये स्वाहयायुतः श्यामलं कोमलं बालं क्रीडंतं ।
मातुरंकके
द्विभुजं स्तनपातारं चित्तत् श्रुतिधरो भवेत् ।
लक्षम्बा प्रजपेदेनं समानं लभते फलं ।
कामबीजाद्य मंत्रोऽयं किं न सिध्यति भूतले ।
उपसंहृत दिव्यांगं गुरोवन्मातुरं कगे? ।
चलद् गोश्चरणं बालं ध्यानाद्ब्राह्म्ये मुहूर्त्तके ।
जप्त्वा मनुवरौ विद्वान् सर्वशास्रार्थविद्भवेत् ।
सर्ववेदार्थकुशलो ज्ञानवान् भवति ध्रुवं ।
नन्दांगने पर्ययटन्तं धूली निचय धूषरं ।
प्रदीप्त मणिगणोद्दीप्तं यशोदा लोकनोत्सुकं ।
एवं ध्यात्वा मनुवरं जपेन्नियममास्थितः ।
लक्षैक जप नादस्य किं न साध्यति भूतले ।
प्रातः प्रातः पिवेत्तोयमष्टोत्तरशतं जपन् ।
अनेन मूको दुष्टार्थो जडः पाषाणवत्तथा ।
अनेन जलपानेन साक्षाद्वाक्पतिसन्निभः ।
जायते नात्र सन्दैहः सत्यं सत्यं न चान्यथा ।
पद्भ्यां निःक्षिप्य शकटं रुदंतं प्राकृतं तथा ।
लक्षं जप्यादिति ध्यात्वा आपद्भ्योमुच्यते ध्रुवं ।
शत्रुभ्यो न भयं तस्य राजतो दस्युतोऽपि वा ।
न तस्य विद्यते भीतिः कदाचिदपि सुव्रत ।
अथापरं प्रवक्ष्यामि रहस्यं सुरपूजितं ।
यज ज्ञात्वा साधक वरः प्रयोग फलमाप्नुयात् ।
ब्रह्माणं सोमसंयुक्तं मूर्द्धिण् स्वर विभूषितं ।
बिन्दुनाद समाक्रांतं कल्पराजं समुद्धरेत् ।
एवं न वीति होत्रस्थं महामाया स्वरान्वितं ।
बिन्दुनाद समाक्रांतं द्वितीयं बीजमुद्धरेत् ।
वां तं रेफ समायुक्तं चतुर्थस्वरभूषितं ।
नादबिन्दुसमायुक्तं तृतीयं बीजमुद्धरेत् ।

पृ० ४९ब) थान्तं शम्भु समायुक्तं इन्दु बिन्दु समन्वितं ।
दौर्गबीजमिति ख्यातं समस्तापन्निवारणं ।
शम्भोः पदं वह्नियुतं मायाबिन्दु समन्वितं ।
अशेष जगतो बीजं महामायेति विश्रुतं ।
अनया योजितो मंत्री असाध्यमपि साधयेत् ।
वां तं वह्णिसमायुक्तं चतुर्थस्वर भूषितं ।
श्रियो बीजमिति प्रोक्तं नृणां सर्वसुखप्रदं ।
विरिंचीन्द्र समायुक्तं चतुर्थस्वरभूषितं ।
नादबिन्दु कलाक्रातं बीजं त्रैलोक्यमोहनं ।
प्रोक्तं सांताक्षरं तत्तु षष्ठस्वर समन्वितं ।
नादबिन्दु कलायुक्तं कुर्च्चबीजमिति स्मृतं ।
एतेषां बीज वर्ष्याणां ज्ञात्वा कर्म्माणि मंत्रवित् ।
गुरुतः शास्त्रतः सम्यक् सर्वकर्म्माणि साधयेत् ।
अन्यथा नैव सिद्धिः स्यान्मंत्रः कल्पशतैरपि ।
मेरुश्चतुर्द्दशस्वरः अधो वह्नि समन्वितः ।
नृसिंह बीजमित्युक्तं भूतापस्मार नाशनं ।
समाहित मना भूत्वा पद्माक्षैः कृतमालया ।
अयुतैकं जपेन् मंत्रं ब्रह्मचारि व्रतेरतः ।
अल्पयासेन कामाः स्युर्दरिद्रश्च न जायते ।
सर्वे मनोरथास्तस्य सिध्यन्तीति न संशयः ।
नित्यं कर्म्मरतः कृष्णं चन्य पुष्पैः समर्च्चयेत् ।
वश्या भवंति सर्वे च ब्राह्मणा नात्र संशयः ।
गोपाल वेशं मनसा जाती पुष्पैः समर्च्चयेत् ।
वश्या भवंति राजानो नात्र कार्यया विचारणा ।
तमेव रक्तपुष्पैस्तु वैश्या वश्या भवंति हि ।
नीलोत्पलैश्च शूद्राः स्युर्म्मांसं कृष्णं समर्च्चयेत् ।
जुहुयाद्रक्तकुसुमैर्म्मिश्रितैस्तिलतण्डुलैः ।

पृ० ५०अ) मंत्रेणाष्टसहस्रं तु जप्त्वा भस्मधरेद्यतिः ।
ललाटे विधृते तस्य सर्वे घश्या भवंति हि ।
अनेन च शरीरेण राजानो वशतामियुः ।
स्त्रियो वश्या भवं तस्य पुत्रामात्याश्च सर्वथा ।
विवाहार्थी जपेन्मंत्रं मासमष्टसहस्रकं ।
रासमण्डलमध्यस्थं कृष्णं ध्यात्वा व्रते स्थितः ।
विवाहयेदुत्तमांतां रम्यां सर्वकुलोज्ज्वलां ।
पुत्रं मे रक्ष रक्षेति द्विजेन प्रार्थितो हरिः ।
हृतं पुत्रं समाहृत्य ददौ यस्तं विचिन्तयेत् ।
पुत्रकामो लभेत् पुत्रं मासेनैकेन सुन्दरं ।
दीर्घयुरप्रतिहत बलवीर्यय समन्वितं ।
कुन्दपुष्पैः समाराध्य कृष्णं ध्यायेच्च कन्यका ।
मासद्वयं तथा मंत्रं जपेदष्टसहस्रकं ।
मनोरथ पतिं लब्धा दीर्घकालं च क्रीडति ।
अंजनं कुसुमं वस्त्रं ताम्बूलं चन्दनं तथा ।
अन्यान्यान्युपभोगानि स्पृष्ट्वा मंत्रं शतं जपेत् ।
दीयते यस्य यस्याभिसोऽचिराद्दासवद्वशी ।
स्त्रीयो वश्या अनेनैव भवंति मुनिसत्तम ।
पुरुषं वशयेन्नारी अनेनैव विधानतः ।
अन्नाद्यकामः श्रीपुष्पैः सिततण्डूलमिश्रितैः ।
अष्टोत्तरसहस्रं तु जुहुयादन्नवान् भवेत् ।
विश्वरूपधरं ध्यात्वा शतमष्टोत्तरं जपेत् ।
समाहित मनाः श्रीमान् यशस्वी कीर्तिमान् भवेत् ।
प्रेतभूतपिशाचाश्च स्कन्दादिग्रहपीडितैः ।
पूतनास्तनपातारं ध्यात्वा मंत्रं शतं जपेत् ।
प्रणश्यंति ग्रहा दुष्टाः पलायंत इतस्ततः ।
सर्पमण्डल दंष्टाश्च मूषिकाद्यैश्च दंशितान् ।
कृष्णं कालीय दमनं चिन्तयित्वा जपेन्नरः ।

पृ० ५०ब) तर्ज्जयंतं विषं घोरं हुंकारेण विनाशयेत् ।
अत्राप्यन्योमत्र क्रूंच बीजद्यं शृणु तत्त्वतः ।
कालीयस्य फणा मध्ये दिन्यं नृत्यं करोति च ।
नमामि दैवकीपुत्रं नृत्यराजाननच्युतं ।
ज्वरार्त्तोऽभ्यर्च्चयेन्मंत्री जपेदष्टशतं तथा ।
ज्वरेण संस्तुतं कृष्णं बल प्रद्युम्नसंयुतं ।
दहंतं वाणनगरीं गरुडो़परि संस्थितं ।
निज ज्वरेण संपिष्टं ध्यात्वा नाशयति क्षणात् ।
शीतला कामलादीनि तथा चातुर्थकोद्भवान् ।
प्लीहगुल्मयकृद्वायु अपस्मार भवं तथा ।
नाशयेन्नात्र सन्देहो दृष्टिमात्रेण मंत्रिकः ।
गोपालं यष्टिपाशं च धेनुमादाय संस्थितं ।
ध्यात्वा कृष्णं जपेन्मंत्रं पत्र्युमान्स तु मासतः ।
राज्ञः पुरोधा भवितुमिति यस्यमतिर्भवेत् ।
मधुसिक्तैः सितैः पुष्पैर्हुत्वा तन्मण्डलाल्लभेत् ।
महैश्वर्ययमथ प्राप्य विश्वख्यातो भवेद्ध्रुवं ।
गोवर्द्धनधरं कृष्णं ध्यात्वा मंत्रं जपेन्नरः ।
वातवर्षादिभिर्घोरैर्भये सम्यगुपस्थिते ।
भयमाशु विनश्येत नात्र कार्यया विचारणा ।
वृन्दावनगतं कृष्णां वृष्टिकामो विचिन्तयन् ।
जपेदष्टसहस्रं तु वृष्टिमाप्नोत्य संशयं ।
एवं च मनसा ध्यात्वा वृष्टिं वर्षाषु चारहेत् ।
एवं जलाशये ध्यात्वा जपेदष्टसहस्रकं ।
वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः ।
गायंतं वेणुना कृष्णं गान कामो विचिन्तयन् ।
आज्यमष्टशतं हुत्वा किन्नरैः सह गीयते ।
जय कामो जपेद्यस्तु हरंतं कल्पकद्रुमं ।
संस्तुतं देवताभिस्तु गरुडारूढमच्युतं ।
ध्यात्वा रक्तकरवीरसमिद्भिर्जुहुयाद्वशी ।

पृ० ५१अ) अष्टोत्तरसहस्रं तु पक्षात् पराजितो रिपुः ।
राजादि भयमापन्ने संशयैर्द्दुर्गसंसदि ।
हुत्वा दशसहस्रं तु तत्क्षणन्नाशयेद् ध्रुवं ।
नीलोत्पलादिभिः पुष्पैरष्टोत्तरसहस्रकं ।
शंखादिनिधिसंयुक्तं द्वारकामध्यगं हरिं ।
ध्यात्वा तण्डूल दूर्वाभिर्हुत्वा शांतिकमाहरेत् ।
कदम्बमूले गायंतं गोपालं वनमालिनं ।
कदम्बपुष्पैः संस्पृष्टं चिन्तयित्वा जनार्द्दनं ।
अपामार्गशतैर्हुत्वा जपेदष्टसहस्रकं ।
सर्वान् कामान् वशीकृत्य आशु विज्ञो भवत्यपि ।
राजद्वारे सभायां च व्यवहारे च मंत्रवित् ।
मंत्रमष्टशतं जप्त्वा प्रथमं वाक्यमुच्चरेत् ।
अनेनैव विधानेन सर्वत्र विजयी भवेत् ।
मोक्षकामो जपेद्यस्तु पुण्डरीकाक्षमव्ययं ।
सनकाद्यैः स्तुतं कृष्णं शुक्लाम्बरधरं परां ।
शंख चक्र धरं ध्यात्वा मंत्रं लक्षं जपेन्नरः ।
ताराभ्यां पुटितं कृत्वा विधिवत् स्थानमाश्रितः ।
चक्राब्जमण्डले कृष्णं पूजयन् भक्तिमावहन् ।
संसारसागरात् साभ्यामुच्यते नात्र संशयः ।
यदृच्छेद्ब्राह्मणो मंत्री वशीकर्त्तुं जगत्रयं ।
वन्यैर्म्मनोहरैः पुष्पैर्वेनुं गायंतमच्युतं ।
ध्यात्वा संपूज्य विधिवल्लक्षमेकं सहोमकं ।
जप्त्वा समस्तलोकानां प्रियो भवति नान्यथा ।
दैवोपमं सुखं भुक्ता याति विष्णुं तनुं द्विज ।
अर्च्चयेन्मानसा कृष्णं सहस्रं प्रत्यहं जपेत् ।
वत्सराल्लभते मोक्ष यज्ञ ज्ञात्वा न निवर्त्तते ।
वर्णिनां च गृहस्थानां न्यासिनामप्ययं विधिः ।
मेधा कामोहुनेदग्नौ पालाशैराज्यमिश्रितैः ।

पृ० ५१ब) समिद्भिः पूर्ववद्ध्यात्वा मेधा स्यादति मानुषी ।
वाचमिच्छेल्लभेद्वाचं ब्राह्मे जप्त्वा मुहूर्त्तके ।
शतं शतं च षण्मासं वाग्मी चापि सुधीर्भवेत् ।
शत्रूणां जय कामस्तु पारिजात हरं हरिं ।
गरुडारोहणं ध्यात्वा जिता शेष दिवौकसं ।
समिद्भिश्चापि जुहुयात् करवीर समुद्भवैः ।
लक्षं जप्त्वा तथा लक्षं जुहुयान्मंत्रवित्तमः ।
जित्वा शत्रु गणानेतान् नाक्रांतांश्च यथाविधि ।
प्रतिष्ठां कारयेद् यस्तु भगवंतं विचिन्त्य च ।
शंख पद्म निधि युक्तं वसंतं द्वारकां पुरीं ।
ध्यात्वा तिलाज्य करणान् जुहुयात् सित तण्डुलान् ।
अष्टोत्तरसहस्रं वै प्रतिष्ठां लभते ध्रुवं ।
सर्वांल्लोकान् वशीकर्त्तुं कामयम् पंकजासने ।
कदम्ब मालया नित्यं भगवंतमलंकृतं ।
सनकाद्यैः प्रार्थ्यमानं योगिभिर्गोपवेशकं ।
विचित्र पुष्पमालाभिर्भूषितं वनमालया ।
कदम्बमूले गायंतं चिन्तयेत् सर्वनायकं ।
समिद्धिरप्ययामार्गैरष्टोत्तरसहस्रकं ।
मध्वाज्ययुक्तै जुहुयात् सर्वलोक वशी भवेत् ।
मुमुक्षुभिर्भगवंतं पुण्डरीक दले क्षणं ।
सनकाद्यैश्चिन्त्यमानं सिद्धैरन्यैश्च योगिभिः ।
ब्रह्मेन्द्र शंकर मुखैर्गणैश्चापि दिवौकसां ।
प्रह्लादं प्रमुखैर्भक्तैरन्यैश्चापि महात्मभिः ।
हूतपद्मकर्णिकोत्तुंग दिव्यसिंहासनोपरि ।
ध्यात्वैवं परमात्मानं यशोदानन्दवर्द्धनं ।
पलाशतुलसीपत्रैः सौवर्णकुसुमैः शुभैः ।
मानसैर्वा यथाशक्त्या अर्च्चयेत् पुरुषोत्तमं ।
आत्मानं दैवकीपुत्रं लीला यष्टिधरं स्मरेत् ।
यद् यत् कामयते मंत्री तत्तदाप्रोत्य यत्रतः ।

पृ० ५२अ) अनेन विधिना सर्वं साधयेत् परमात्मनः ।
योजयेच्च चतुर्थेन विष्णोश्चैव बुद्धिमान् ।
तृतीयमष्टमं विद्याद्ब्रह्मणा विष्णुना सह ।।

इति श्रीगौतमीये सप्तदशोऽध्यायः ।। १७ ।।

अथापरान् प्रवक्ष्यामि प्रयोगान् भुवि दुर्ल्लभान् ।
यत् कृत्वा मानवः सम्यक् सद्यो देवत्व मृच्छमा ।
साध्यं विद्यते तस्य भुवि स्वर्गे रसातले ।
निशीत शरनिभिन्नं भीष्मताप हरं हरिं ।
दृष्ट्वा पीयूष वर्षिण्या कारुण्यात्तं विलोकयन् ।
एवं ध्यात्वा युत जापादसाध्य ज्वरनाशनं ।
मूर्छा दाह गदा स्फोट विष कीट समुद्भवं ।
नाशयेद्दाहमत्विराद् अमृतां शांशतो हुतेत् ।
काशीराजेन प्रहितां कृत्यां तां द्वारकापुरीं ।
निजारिणा तां छित्वा तत्तत् पुरीं चक्र तेजसा ।
दहंतं तं हरिं स्मृत्वा जपेदयुतमादरात् ।
स्वस्नेहाक्तैः सप्तर्यैश्च हुनेद्रात्रो तथा युतं ।
कृत्याः परेरितास्तीन्तु न ग्रसंति कदाचन ।
डाकिनी पूजना कृत्या यक्ष पन्नग राक्षसाः ।
अन्ये वै क्रूर सत्वाश्च प्रयोगाज्जपहोमयः ।
देशाद्देशांतरं यांति न समर्थाश्च हिंसितुं ।
ध्यात्वा विश्वेश्वरे देवं व्याप्ति विश्वावकाशकं ।
सूर्ययकोटि प्रतीकाशं चन्द्रकोटी सुशीतलं ।
एवं ध्यात्वा च मतिमान् लक्षमेकं जपेन्मनुं ।
जुहुयादयुतं भक्त्या शतवीर्ययं कुरन्निकैः ।
दूर्वा यस्य ख्यातिः अकालमृत्यु नाशाय सत्येमेतत् परं पदं ।
मृत्युजयं हरिं ध्यात्वा सर्वपापैर्विमुच्यते ।
आसीनमाश्रमे दिव्ये वदरीषण्डमण्डिते ।।

पृ० ५२ब) स्पृशन् वृहद्भ्यां हस्ताभ्यां घंटा कर्ण कलेवरं ।
एवं ध्यात्वा जपेन्मासमष्टोत्तरसहस्रकं ।
समस्त विपदां मंत्री प्रशमाय शमाय च ।
समता सर्वभूतेषु आशु निर्वाण दायकं ।
विशीथे रथमारूढ़ं तर्ज्जयंतं मुहुर्मुहुः ।
धावमानं रिपुगणं अनुधावनमच्युतं ।
विसृजद्वाणसंघेन नयंतं दूरदेशतः ।
उद्घाटनं भवेत् सद्योरिपूर्णा लक्ष जापतः ।
द्वेषयंतं रुक्मि वलौ पाण्ड्य मध्य स्थितं हरिं ।
ध्यात्वा लक्षं मनु वरं निस्वप्नेह विमिश्रितं ।
तैलेनेत्यर्थः ।
तदंते जुहुयान्मंत्री गुलिका गोमयद्भवाः ।
एवं प्रयोगमात्रेण वैरस्यं जायते मिथः ।
अन्योन्य कलहे नैव देशाद्देशांतरं व्रजेत् ।
विद्विष्टस्तत्र तत्रापि काकवत् पर्ययटेन्महीं ।
पार्श्वे दिशंतं गीतार्थं रथस्थं मधुसूदनं ।
राजमण्डलमध्यस्थं चन्द्रायुत समप्रभं ।
ध्यात्वा युतं मनुवरं शमाय प्रजपेत् सुधीः ।
अनेन जपमात्रेण किं न सिध्यति भूतले ।
स्थाने हृषीकेश तवेत्यादि चार्ज्जुन वार्षकं ।
गायत्रीछन्दोवलितं विश्वात्मा विश्वदैवतं ।
सपर्यया पूर्ववत् प्रोक्ता साधयेत् सकलेप्सितं ।
श्रीबीजाद्यैर्ज्जपेन्मंत्रो वरौ ध्यात्वा च पूर्ववत् ।
लक्षैक जपमात्रेण कुबेर खमोदते ।
अन्नदैवत गोपालं वक्ष्येऽन्यं श्रृणु तत्त्वतः ।
अन्नरूप रसरूप तुष्टिरूप पदोपरि । अन्नाधिपतये स्वाहा ।
सोऽयमत्राधिपो मनुः श्रीबीजाद्यो मनुः प्रोक्तोऽत्र रत्नसमृद्धिदाः आचक्राद्यंग कॢप्तिः स्यान्नारदोऽस्य मुनिः स्मृतः गायत्री छन्द इत्युक्तं देवश्चान्नप्रदो हरिः ।

पृ० ५३अ) ध्यानार्च्चनादिकं सर्वमस्य पूर्ववदाचरेत् ।
य एवं चिंतयेन्मंत्री स तु सर्वसमृद्धिमान् ।
आहृत्य स्वर्णपात्रं च क्षालितं शुद्ध वारिणा ।
विलिप्य गन्धपंकेन लिखेदष्टदलाम्बुजं ।
कर्णिकायां लिखेद्वह्नेः पुटितं मण्डल द्वयं ।
द्विवह्निपुटितं षट्कोणमित्यर्थः ।
तन्मध्ये विलिखेत् कामं साध्याख्यं कर्म्मसंयुतं ।
तत इष्टैर्म्मनोर्वर्णैस्तत कामं वेष्टयेत् सुधीः ।
श्रियं षट्कोणकोणानामैन्द्रनैऋत वायुषु ।
आलिखेच्च लिखेन्मायां वह्णि वरुण शूलिषु ।
अक्षरैः काम गायत्र्या वेष्टयेत् केशरेषु च ।
मारमालामनोर्वर्णैर्द्दलेष्वष्टषु मंत्रवित् ।
लिखेद् गुहान्तरैर्वर्णैर्म्मातृकां तद्वहिर्ल्लिखेत् ।
भूबिम्बं च लिखेद्वाह्ये श्रीमाये दिग्विदिक्ष्वपि ।
मंत्रं मेवं समालिख्य जातरूपमये तटे ।
राजते ताम्रपात्रे वा भूर्ज्जे क्षौममयेऽपि वा ।
सूक्ष्मतंतु मये वापि प्रतिष्टाप्य समीरणं ।
आकर्षणं सुरस्त्रीणां नागलोक विलासिनीं ।
पिशाच यक्ष रक्षांसि क्रूरग्रहाश्च ये स्थिताः ।
दुष्ट सत्वाश्च ये सर्वे परि सर्पंति भूतले ।
यंत्रराज धरं दृष्ट्वा विद्रवंति द्रसंति च ।
बहुना किमिहाक्तेन सर्वलोके सुखावहं ।
स्त्रीणामाकर्षणं राज्ञां लोकवश्यकरं भूवि ।
योग सिद्धिकरं पुंसां भवसागरतारकं ।
भुक्ति मुक्ति करं यंत्रमिति प्रोक्तं स्वयम्भुवा ।
वांतं यांतं समारूढं मायाबिन्दु विभूषितं ।
श्रियो बीजमिति प्रोक्तं नृणां सद्यः सुखप्रदं ।
आदौ क्लींकारमुच्चार्यय कामदेव पदं वदेत् ।
आयांतं विद्महे पुष्पं बाणायेति पदं तथा ।

पृ० ५३ब) धीमहीति पदं प्रोक्ता तत्रोऽनंग प्रचोदयात् ।
एषा मन्मथ गायत्री प्रोक्ता मन्मथ दीपनी ।
कामं नाडी च संभाव्य ततः कामपदं वदेत् ।
देवायेति पदं ब्रूयात्तथा सर्वजनं पदं ।
प्रियायेति पदांते च वदेत् सर्वजनं पुनः ।
ब्रूयात् सन्मोहनायेति ज्वलशब्दं च वीप्सयेत् ।
प्रज्वलेति पदं सर्व जनस्य हृदयं तथा ।
उक्त्वा मम वशं पश्चात् कुरु शब्दं च वीप्सयेत् ।
वह्निजायां तथेत्युक्ता मालाख्या मंत्यथो मनुः ।
भूगृहं चतुरस्रं स्यादष्टवज्र विभूषितं ।
अस्मिन् मंत्रे समावह्य वासुदेवं जगद्गुरुं ।
किं न सिध्यति मंत्रज्ञो यत् कथ्यं कथितं च ते ।
एवं ते कथितं यंत्रं प्रयोगांतमिहोच्यते ।
लक्षं जप्त्वा पलाशानां कुसुमैस्तत्समं हुनेत् ।
व्याख्याता सर्वशास्त्राणां अचिरादेव जायते ।
स योगी स च विज्ञानी विष्णु योगी तथात्मवित् ।
शुक्लवस्त्रस्य लाभाय शुक्लादि पुष्पमाहुनेत् ।
अष्टोत्तरशतं कृत्वा राजतो वान्यतो लभेत् ।
मुंचंतौ पितरौ कृष्णं मथुरा निर्द्दतार्द्दितौ ।
ध्यात्वा युत जपांते च तावत् संख्यं च होमयेत् ।
निगडान्मुच्यते सद्यो यमुद्दिश्य कृत्वा क्रिया ।
पुरन्दर मुखैर्द्देवैः स्थितं वृन्दावनं हरिं ।
सुरभ्याः पयसा तोयैरभिषिच्य संस्तुतं ।
राजराजेश्वरं कृत्वा मंगलाचार पूर्वकं ।
ऊर्व्वशी प्रमुखाभिस्तु स्वर्वेश्याभिरधिष्ठितं ।
एवं ध्यात्वा जपेल्लक्षं पंकजैरयुतं हुनेत् ।
सार्वभौमो भवेत् सोऽपि येनेयं विहिता क्रिया ।
आत्मानं कंसमथनं रिपुं कंसात्मकं स्मरन् ।

पृ० ५४अ) निशीथे प्रजपेन्मंत्री दक्षिणामुख संस्थितः ।
लक्षमेकं जपांते तु वाणीरतरतर्पणैः ।
अयुतं होममात्रेण म्रियतेऽरिर्न चान्यथा ।
अरिष्टपलक्षं तत् पादपांशुन ईक्षितं ।
हरणाम्म्रियते शत्रः शंकरेणापि रक्षितः ।
अरिष्टदलकार्पास व्योमास्थिकणसंयुतं ।
हरणाल्लक्षमात्रेण यदि भूरस्थितो भवेत् ।
अपि पीयुष सेवी च म्रियतेऽरिर्न चान्यथा ।
हरिद्राग्रंथि होमेन स्तम्भये दरिद्राग्रंथि होमेन स्तम्भयेदरिवाहिनीं ।
न शस्तं मरणं कर्म्म कदाचिद्वैष्णवे मनौ ।
क्रूरं क्रूराशयं कष्टमायिनं च सतामपि ।
ईदृग्विधं जनं प्राप्प अभिचाराय योजयेत् ।
प्रायश्चिताय गायत्रीं लंक्षं जप्त्वा च साधकः ।
तदंते पायसैर्म्मंत्री अयुतं होममाचरेत् ।
अपि प्रयोग कर्त्तृणां शांतिः स्यान्नैव चान्यथा ।।

इति श्रीगौतमीयेऽष्टादशोऽध्यायः ।। १८ ।।

कर्म्मांतरमथो वक्ष्ये शृणुष्वावहितोऽनघ ।
यं कृत्वा मन्दभाग्योऽपि लभेन्मंत्र फलानि वै ।
प्रणवद्वयमध्यस्थं जपेद्युतसंख्यया ।
त्रिरात्र जप मात्रेण वृहस्पति समो भवेत् ।
व्याख्याता सर्वशास्त्राणां वेदानामपि जायते ।
शनिवारेऽश्वश्य वृक्षमालभ्याष्टोत्तरं शतं ।
भूयो भूयो भवेच्छांतिर्ज्जीवेदष्टोत्तरं शतं ।
तस्य शांतिर्भवेन न्यूनं यमुद्दिश्य कृता क्रिया ।
आशुकैरर्च्चयेत् कृष्णं मासमात्रं तु निर्म्मलैः ।
मुच्यते मलिनैः कृच्छ्रैः पापैर्घोरतरैरपि ।
पट्टवस्त्रे यजेद्भक्त्या संपत्ति मण्डलां भवेत् ।
विक्रमैः पूजयन् कृष्णं त्रैलोक्यं वशमानयेत् ।

पृ० ५४ब) माणिक्यैः पूजयन् भक्त्या सर्वे भौम समो भवेत् ।
षद्मरागैर्यजेत् कृष्णं राजा भवति निश्चयं ।
क्षत्रियः सार्वभौमः स्यात् साधयेत् सकलां महीं ।
गारुत्मतमयै रत्नैः पूजयन् ज्ञानवान् भवेत् ।
अपि हीरकरत्नेन पूजयन् किं न साधयेत् ।
सुवर्णपुष्पैरभ्यर्च्च्य मासभक्ति परायणं ।
कुबेर सम सम्पत्तिं संप्राप्य मोदते चिरं ।
देहांते हरितां प्राप्य निर्वाण पद मृच्छति ।
रविवारेऽर्कपुष्पैश्च कह्लारैः सोमवारके ।
मंगले रक्तपुष्पैश्च बुधे तगर सम्भवैः ।
चम्पकैर्गुरुवारे तु शुक्ते मुकुन्द सम्भवैः ।
शनिवारे शमीपुष्पैः पूजयेद्भक्तितो यतिः ।
रविवारे घृतात्रं तु पयोऽभ्यक्तं निवेदयेत् ।
सोमवारे पिष्टकादि सितया सह योजयेत् ।
मंगले गुडसंमिश्रं अन्नं बहुगुणान्वितं ।
बुधवारे यावकं तु गुरवे पूपसम्भवैः ।
दुग्धान्नं शुक्रवारे तु शनौ सघृतपायसं ।
वैशाखे मासि विधिवत् तर्पयेद्धिमवज्जलैः ।
ज्यैष्ठे मासि प्रयत्नेन फलैः संपूजयेद्धरिं ।
आषाढे भासि विधिवत् पवित्रैः पूजयेद्विभुं ।
एकैकं स्वर्णसूत्राणि ग्रंथि युक्तानि कारयेत् ।
अथवा पट्टसूत्राणि पद्मसूत्राणि वा पुनः ।
पूजांते देव देवाय महिषीभ्यो निवेदयेत् ।
मिथुनेभ्यस्तथा दत्त्वा महांतमुतसवं चरेत् ।
तोषयेद्भक्षभोज्यैस्तु ब्राह्मणान् संशित ब्रतान् ।
एवं सम्वत्सरे मंत्री कृत्वाभीष्टमवाप्नुयात् ।
नत्रेद्वर्ष कृता पूजा वास्तोर्भक्षय कल्पते ।
श्रावणे मासि कृष्णं तं पूजयेत् केतकोद्भवैः ।
चन्द्र चन्दन कस्तूरी कुंकुमादि सुवासितैः ।

पृ० ५५अ) एलालवंग कक्कोल फलानि बहुधार्पयेत् ।
भाद्रे मासि यजेत् कृष्णं भक्षैर्बहुर्गुणान्वितैः ।
इषे मासि यजेद्भक्त्या भक्षैर्भोज्यैः सुविस्तरैः ।
कार्पासनिर्म्मितैर्वस्त्रैर्नानाभरणसंयुतैः ।
तुलास्थे भास्करे कृष्णं पूजयेन्मासमात्रकम् ।
रात्रौ प्रदीपैर्होमे * * * * * * * * * ।
घृतदीपमविच्छिन्नं दद्यान्मासं महोज्ज्वलं ।
एकादश्यामुपोष्यैव द्वादश्यां पारणा दिने ।
शुक्लायां विष्णुमभ्यर्च्च्येट्वस्त्रालंकरणादिभिः ।
अस्यान्तिथौ च मतिमान् वर्षतोतसवमाचरेत् ।
भोज्यानि बहुभक्ष्याणि ब्राह्मणेभ्यो निवैदयेत् ।
एवं कृते देवतास्य तुष्टा चेष्टं प्रयच्छति ।
संतलोकमवाप्नोति पुनरावृत्तिवर्ज्जितं ।
मार्गशीर्षे यजेद्देवं नवान्नैर्घ्यं जनैः शुभैः ।
न्यरिकेल फलक्षोदं मिश्रितं गुडजीरकैः ।
स्रेहपक्वं च देवाय भक्त्या तस्मै निवेदयेत् ।
पौषे मासि च माषं वै पूतपूपैः प्रपूजयेत् ।
माघे मासि यजेत् कृष्णमक्षतैः सुशुभैः सितैः ।
दुग्धार्थं शर्करायुक्तं मिष्टान्नं च निवेदयेत् ।
अस्मिन्मासि शुभदिने वस्त्रेणाछादयेद्विभुं ।
फाल्गुणे देवकीपुत्रं पूजयेत् स्वर्णपुष्पकैः ।
चूत(घृत)सौगन्धिकुसुमैर्धूपैर्दीपैः सुविस्तरैः ।
चैत्रे मासि वासुदेवं सर्व पुष्पैः समर्च्चयेत् ।
पौर्णमास्यां यजेद्भक्त्या मदनैश्च सगुच्छकैः ।
अस्मिन् दिने रतिं कामं पूजयेद्भक्तितत्परः ।
न चेत् साम्वत्सरी पूजा वृथा भवति निश्चितम् ।।

पृ० ५५ब) भस्मीभूतं स्मरं दृष्ट्वा रुदितास्य रतिः सती ।
तां दृष्ट्वा कृपया विष्टोवरं दातु स्वयं शिवः ।
प्रत्युवाच रतिस्त्वियं सुभगत्वमवाप्नुयात् ।
सुन्दरः सर्वलोकेषु क्रीडार्थं व्रजसुन्दरि ।
ततोऽभवत् क्रन्दजवलात् पुष्पं मदनकं शुभं ।
तेन पूजनमात्रेण सम्वत्सर फलं लभेत् ।
होमयेल्लक्षमात्रं यः पिष्टकैर्घृतभर्ज्जितैः ।
तावत् संख्यं मनुं जप्त्वा कृष्णं पश्यति मंत्रवित् ।
इति ते कथितं सम्यक् पूजनं वार्षिकोद्भवैः ।
कृत्वानेन विधानेन किं न साध्यति भूतले ।
पुण्यस्त्रियो गृहस्थाश्च मुनयो ब्रह्मचारिणः ।
वनस्थाश्च तथा कृत्वा वांछितं प्राप्नुयः क्षणात् ।
स्त्रियः शूद्राश्च विधिवत् कृत्वा फलमवाप्नुयः ।
इह भुक्ता वरान् भोगान् न भूयो भव सम्भवः ।
एवं कृष्णं यजन् भक्त्या यत्कृतं जन्मकोटिभिः ।
तत् पापैर्न विलिप्येत पद्मपत्र मिवाम्भसा ।।

इति श्रीगौतमीये ऊनविंशोध्यायः ।। १९ ।।

गौतम उवाच
विस्तरेण मम ब्रह्मन् कृष्णमंत्रान् ब्रवीहि मां ।
भक्तोऽहं तव शिष्योऽहं योग्योऽस्मि श्रवणे गुरो ।

नारद उवाच
श्रृणु ब्रह्मन् कृष्णमंत्रान् सर्वदेवैक सम्मतान् ।
यदेक ज्ञानमात्रेण पुनर्ज्जन्म न विद्यते ।
प्रणवं पूर्वमुद्धृत्य नमस्तदनुचोच्चरेत् ।
कौस्तुभायेति संप्रोच्य मनुरष्टाक्षरः परः ।
एतद्विज्ञानमात्रेण साक्षाद्विष्णुर्भवेद्यतिः ।
षडदीर्घस्वरसंभेद्य कामेनांग क्रियामता ।
कलाय कुसुम श्यामं शंख चक्र गदाम्बुजं ।
अनेक रत्नसंछन्नं कौस्तुभोद्भासि वक्षसं ।

पृ० ५६अ) तार हारावलीरम्यं गरुडोपरि संस्थितं ।
ध्यात्वैवं परमानन्दं दशलक्षं जपेन्मनुं ।
होमयेत्तद्दशांशेन साधितैर्यूषपायसैः ।
पुरश्चरणमंगं यच्छेषमन्यत् समापयेत् ।
य एनं भजते मंत्री भोगमोक्षैककारणं ।
कर प्रचेयाः सर्वार्था अंते तत् परमं व्रजेत् ।
दशाक्षर समानं हि पूजनं समुदीरितं ।
अथान्यत् संप्रवक्ष्यामि षड्वर्णं मंत्रराजकं ।
यस्य विज्ञानमात्रेण जीवन्मुक्तो महींचरेत् ।
त्रिमात्रं नमसायुक्तं चतुर्थ्या कृष्णा इत्यपि ।
षडक्षर मनुः प्रोक्तो दृष्टादृष्ट फलप्रदः ।
नारदोऽस्य मुनिः प्रोक्तो गायत्त्री छन्द उच्यते ।
कृष्णोऽपि देवता साक्षाद् दुर्गाधिष्ठातृ देवता ।
विमात्रं बीजमित्युक्तं नमः शक्ति रुदीरिता ।
कृष्णाय कीलकं चास्य मंत्रराजस्य कीर्त्तितं ।
विनियोगोऽस्य मंत्रस्य पुरुषार्थ चतुष्टयं ।
पंचांगानि मनोरस्य आचक्राद्यैरुर्दर्ययते ।
नीलजीमुतसंकाशं किंकिनी जालमालिनं ।
सर्वाभरणसंदीप्तं रक्तपद्मोपरि स्थितं ।
सनकाद्यैर्म्मुनिवरैः स्तुतं ध्यायेद्दिगम्बरं ।
आलोल कुण्डलोद्भसि मुखचन्द्र विराजितं ।
शशरक्ताधरं रक्त पाणिपादविराजितं ।
कराभ्यां पायसं श्लक्ष्ण सद्योहैयंगतीयकं ।
दधतं चिंतयेद्देवं भोगमोक्ष फलप्रदं ।
ध्यात्वैवं परमात्मानं दशलक्षं जपेन्मनुं ।
जपांते पायसैः शुद्धै सेमं कुर्ययात् सशर्करैः ।
तर्पयेत्तद्दशांशेन जलैः कर्पूर वासितैः ।
अभिषेकं दशांशेन दशांशैर्विप्रभोजनं ।
तदंते दक्षिणां दत्त्वा साधयेद्धितमात्मनः ।
भिक्षाहारो जपेन्मंत्रं वर्षमेकं व्रतो स्थितः ।

पृ० ५६ब) कविर्वाग्मीसमृद्धश्च सर्वज्ञो जायते ध्रुवं ।
जवनीताशनं देवं ध्यात्वा लक्षजपात् सुधीः ।
दिव्यज्ञानमवाप्नोति त्रिलोकीं प्राप्य मोदते ।
य एवं मंत्रराजं तु भजते भक्तितत्परः ।
इह भुक्ता वरान् भोगान् देहांते परमं विशोत् ।
अथापरं प्रवक्ष्यामि षोडशार्णं महामनुं ।
यस्य विज्ञानमात्रेण कृष्णात्म परमं विशेत् ।
प्रणवं मनसायुक्तं कृष्णा गोविन्दकौ तथा ।
श्रीपूर्वं ङेन्तमुच्चार्यय हुं फट् स्वाहेति कीर्तितः ।
नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टवुदाहृतं ।
परमात्मा हरिर्द्देवो भुक्ति मुक्ति फलप्रदः ।
दशार्णक च देवास्य जप होमौ प्रकीर्त्तितौ ।
प्रयोगस्तत्समः प्रोक्तो बीजशक्ती च तत् समे ।
य एनं चिन्तयेन्मंत्रं सोऽधीते श्रुति चतुष्टयं ।
अनेन सदृशो मंत्रो जगत्स्वपि न विद्यते ।
अनेनाराधितः कृष्णः प्रसीदत्येव तत्क्षणात् ।
अथ संत्तान संसिद्ध्यैवालदं मंत्रनायकं ।
यस्य विज्ञानमात्रेण मंत्राः सिध्यंति मंत्रिणः ।
देवकीपुत्र शब्दांतो गोविन्द पदमीरयेत् ।
वासुदेव पदांते तु ततो ब्रूयाज्जगद्गुरो ।
देहि मे तनयं देव त्वामहं पदमीरयेत् ।
शरणंगत इत्युक्ता मनुश्चानुष्टुभाव्ययः ।
नारदोऽस्य ऋषिश्छन्दो गायत्री कथितं बुधैः ।
सन्तानदो हरिः साक्षाद्देवता च प्रकीर्त्यते ।
वास्तैः समस्तैरंगानि कृत्वा देवं विचिंतयेत् ।
नीलोत्पलदल श्यामं पीताम्बर युगावृतं ।
चतुर्भुजं शंख चक्रमूर्द्धपाणिद्वये स्थितं ।
अधः पाणिद्वये वेणुं वादयंतं मुदान्वितं ।

पृ० ५७अ) अनेकरत्न सन्नद्ध किरीटोज्ज्वलविग्रहं ।
नानालंकारसुभगं गरुडोपरि संस्थितं ।
वेदस्तोत्रं पठेन्नित्यं मुनिभिः परिवेष्टितं ।
एवं ध्यात्वार्च्चयेत् कृष्ण पंचांगः परमावृत्तिः ।
इन्द्रादिभिर्द्वितीया स्यात् तृतीया तु तदायुधैः ।
एवमभ्यर्च्च्य देवेशं लक्षमात्रं जपेन् मनुं ।
पुत्रजीवेन्धनचिते तत्फलैरयुतं हुनेत् ।
अनंतरं दशांशेन् तर्पणादीनि चाचरेत् ।
य एवं प्रभजेन्मंत्री संतानाख्यं महामनुं ।
पुत्रपौत्रेर्विनस्येत देहान्ते परमं ब्रजेत् ।
अविच्छिन्नं भवेद्वंशं यावदाहुत संप्लवं ।
दशभ्यां शुक्लपक्षे तु निशीथे स्वस्ति मण्डले ।
हरिमावाह्य विधिवत् पूजयेदुपचारकैः ।
एवमर्च्चनमात्रेण वत्सरात् पुत्रवान् गृही ।
दीर्घायुरप्रतिहत बलवीर्यय समन्वितं ।
वत्सराल्लभते पुत्रं सत्यं सत्यं मयोदितं ।
यस्यार्थे कुरुते मंत्री प्रयोगं सप्तपुत्रवान् ।
बन्ध्याऽपि लभते पुत्रान् शतहायन जीवितान् ।
प्राप्तवाचं यमानारी बोधि द्रुमदले जलं ।
मंत्रयित्वाष्टोत्तरशतं पिवेत् पुत्री यति ध्रुवं ।
एवं प्रयोगमाशंसेत्तनयं लभते ध्रुवं ।
अनेन मंत्रितं त्वाज्यं पुत्रसिद्धि करं परं ।
अनेन जलपानेन बन्ध्या वर्षाल्लभेत् प्रजां ।।

इति गौतमीये विंशोऽध्यायः ।। २० ।।

गौतम उवाच
सर्वं जानामि त्वं विद्वन् स्वयम्भू सदुश प्रभो ।
त्वदुदीरितमाकर्ण्य कृतार्थोऽहं न चान्यथा ।
तपस्तप्त्वा पुरा ब्रह्मन् प्रार्थितो हरिमीश्वरः ।
तेनैवोक्तं न चेदैनं कथितव्यमखण्डितं ।
तदारभ्य पुरा ब्रह्मन् तव दर्शन लालसः ।
गंगो प्रवाहणं मंत्रं श्रोत्तुमिच्छामि तत्त्वतः ।

पृ० ५७ब) नारद उवाच
बहवः कथिता मंत्रा मया ते मुनिसत्तम ।
तन्मंत्रं कथयामाद्य येन ज्ञानं प्रसीदति ।।
यस्य विज्ञानमात्रेन भक्तिः स्यात् पेम लक्षणा ।
चतुर्विधं च पाण्डित्यं ज्ञानमात्रेण सिध्यति ।
मन्दभायोदरिशेऽपि शठो मूढोऽति पातकी ।
उपास्य मंत्रराजं तु वागीश सुमतां व्रजेत् ।
मयाप्येवं पुरापृष्टं पद्मयोनिर्यथावदत् ।
तथा ते कथयिष्यामि गुह्यद्गुह्यतरं मुने ।
द्वाविशन्दक्षरो मंत्रो वागीशत्वपवर्त्तकः ।
सर्वतंत्रेषु गुप्तोऽयं गोपनीयस्त्वया मुने ।
वेदः प्रादुरभूदस्ये मंत्रेणानेन वेधसः ।
कवीन्द्र त्वं भार्गवश्च वागीशत्वं बृहस्पतिः ।
श्रियमिंत्रादयो देवा ज्ञानं च सनकादयः ।
सौभाग्यं चन्द्रमाः प्रापत् कुबेरोऽपि धनेशतां ।
इमं मंत्रवरं ज्ञात्वा सर्वज्ञो भवति ध्रुवं ।
अदृष्टा श्रुत शास्त्रस्य व्याख्याता शिल्पगो भवेत् ।
महाकविर्महाप्राज्ञो वाक्पतेः समतां ब्रजेत् ।
ज्ञानं तु परं लब्ध्वा विष्णोः सयुज्यतां व्रजेत् ।
यं यं काममभिध्यायन् मनुष्ये भजते मनुं ।
तं तं काममवाप्नोति भुविस्वर्गे रसातले ।
अस्योद्धारमहं वक्ष्ये मम सार्वज्ञकारणं ।
कृष्णा गोविन्द कौङेन्तौ तथा गोपीजनां ततः ।
वल्लभोऽग्निप्रिया सर्गीह पूर्वः समनुस्वरः ।
नाम्नामादौ क्रमात् काम मायालक्ष्मीर्नियोजयेत् ।
द्वाविंशत्यक्षरो मंत्रो वाग्भवाद्यः प्रकीर्त्तितः ।
अहमस्य मुनिश्छन्दो गायत्त्री देवता मनोः ।
गंगाप्रवाहणः कृष्णः सर्वदेव नमस्कृतः ।
गंगाप्रवाहवद्वाणी जायते तेन तत्तथा ।
गंगाप्रवाहणो नाम कीर्त्यते परमार्थतः ।

पृ० ५८अ) बीजं तु मान्मथं प्रोक्तं शक्तिः पत्नी हविर्भुजः ।
कृष्णाय कामबीजाभ्यां हृदयं परिकीर्तितं ।
गोविन्दाय शिरस्तद्वन्मायाद्योऽसौ महामनुः ।
गोपीजन शिखा तद्वत् श्रीबीजाद्येन विन्यसेत् ।
वल्लभायेति कवचं अस्त्रं जाया हविर्भुजः ।
शेष बीजेन सहिताः पंचाग मनवः स्मृताः ।
मूर्द्धिण् भाले भ्रुवोर्मध्ये नेत्रे कर्णे तथा नसि ।
आस्ये कंठे च दोर्मूले हृदयोदर नाभिषु ।
लिंगमूले तथा धारे ऊव्वोज्जान्वोश्च गुल्फयोः ।
समस्तेन च मंत्रेण व्यापकं न्यस्य चिंतयेत् ।
कलाय कुसुम श्यामं पूर्णचन्द्रनिभाननं ।
बर्हिबर्हकृतोत्तंसं वनमालिनमीश्वरं ।
किरीटहारकेयुर रत्नकुण्डल मंडितं ।
श्रीवत्सवक्षः संभ्राजत् कौस्तुभोद्भासितो रसं ।
युवतीवेश लावण्य रमणीय तनुं हरिं ।
दिव्य पीताम्बरधरं चारुहार विभूषितं ।
स्मेरारुणाधरन्यस्त वेणुं त्रैलोक्यमोहनम् ।
ऊर्द्धवेदमयं वेणुं वादयंतं चतुर्भूजं ।
स्फाटिकीमक्षमालां च विद्यामूर्द्धकरद्वये ।
दधतं पुण्डरीकाक्षं दिव्यगान परायणं ।
अतुल्यानल्पसौन्दर्ययं मोहयंतं जगत्त्रयं ।
तपनीय लसत्कांत्या चीणाकमलहस्तया ।
निरीक्ष्यमाण चरणं वामपार्श्वस्थया श्रिया ।
हैमसिंहासने रम्ये सर्वरत्नोपशोभिते ।
रुक्मिण्यादि महिषीभिर्निषेवित मनारतं ।
चन्द्रमण्डल संकाश श्वेतछत्रोपशोभितं ।
नारदाद्यैर्मुनिगणैर्ज्ञानार्थिभिरुपासितं ।
इन्द्रादि देवतावृन्दैः प्रणतं परमेश्वरम् ।

पृ० ५८ब) सर्वज्ञं जगदीशानं ध्यात्वा हृदयपंकजे ।
जपेदेवं मनुवरं ध्यात्वा लक्षचतुष्टयं ।
स्वाद्वक्तैः कुसुमैर्ब्रह्मवृक्षजैर्होममाचरेत् ।
दशांशेन च मंत्रोऽयं सिद्धो भवति नान्यथा ।
पूजा दशाक्षरे पीठे अंगावृत्तिरनन्तरं ।
महीषीभिर्द्वितीयापि तृतीया दिगधीश्वरैः ।
चतुर्थी तत् प्रहरणैश्चतुरावृत्तिरीरिता ।
प्रातः प्रातः पिवेत्तोयं मंत्रेणानेन मंत्रितं ।
वागीश्वर समो भूत्वा काव्यकर्त्ता महान् भवेत् ।
अनेन मंत्रितं नित्यं ब्रह्मा पात्रं प्ररक्षयेत् ।
मण्डलादेव भतिमान् महाश्रुति धरो भवेत् ।
ब्राह्मी कुष्ठवचाकल्कं घृतेन द्विगुणेन च ।
चतुर्गुणं भवे दुग्धं पाचितं घृतमुत्तमं ।
अवतार्यय जपेदत्र अयुतं जपमादरात् ।
वर्षमेकं प्रातरेव भक्षयेन्मौनमास्थितः ।
एतद्भक्षणमात्रेण बृहस्पति समो भवेत् ।
हस्तमारोप्य जिह्वायां जपेदयुतमादरात् ।
प्रतिभा जायते दिव्या सर्वलोकैक भाविता ।
धवलैरुपचारैस्तु यदि देवं प्रपूजयेत् ।
दिव्यज्ञानमवाप्नोति प्रतिभा विश्वजित्वरी ।
श्रीविद्यायां यदा जप्त्वा तदा लक्ष्मीरचंचला ।
कामाद्यं जपनादेव सर्वलोकवशं नयेत् ।
मायादि जपनादेव वाक् सिद्धिर्जायंतेऽचिरात् ।
शक्तिबीजादिको मंत्रो निर्वाणमचिराद्दिशेत् ।
पुटनात् प्रणवाभ्यां तु मोक्षमाप्नोति निश्चितं ।
एवं मनुवरं जप्त्वा किं न सिध्यति मंत्रवित् ।
एवं मंत्रवरं यस्तु भजते भक्ति तत्परः ।
इह भुक्ता वरान् भोगान् समस्त ऋद्धि संयुतान् ।
सम्पत्तिं परमां लब्धा भूयादंते परं पदं ।
कामेन्द्राद्या परा शक्ति नदिविन्दुसमन्विता ।

पृ० ५९अ) कथितः कृष्णमंत्रोयं मंत्राणां मंत्रनायकं ।
ऋषिर्ब्रह्मा समाख्याता विराट्छन्द उदीरितं ।
त्रैलोक्यमोहनादेव श्रीकृष्णः परिकीर्त्तितः ।
कल षड्दीर्घबीजेन षडंगः परिकीर्त्तितः ।
अंशालम्बित वामकुण्डलधरं मन्दोल्लसत् भ्रूतलं ।
किंचित् कुंचित कोमलाधर पुटं साचि प्रभा वेक्षणं ।
आलोलांगुलिपल्लवैर्मुरलि कामा पूरयंतं मुदा ।
मूले कल्पतरोस्त्रिभंगललितं ध्यायेज्जगन्मोहनं ।
एवं ध्यात्वा जपेन्मंत्रं श्रद्धया दशलक्षकं ।
तद्दशांशेन जुहुयात् पायसैरथवाम्बुजैः ।
दशाक्षरोदिते पीठे पूजयेत्तद्विधानतः ।
प्रयोगानपि सर्वत्र तदुक्तेनापि कारयेत् ।
अथवा बालकृष्णं च नीलेन्दीवरसन्निभं ।
रत्नाभरणसंदीप्तं द्विभुजं नीलकुन्तलं ।
पायसं नवनीतं च कराभ्यां दधतं स्मरेत् ।
लक्षमेकं जपेन्मंत्रं पायसैर्होमयेत् शुभैः ।
दशांशं विधिवद्भक्त्या पूजांगेन्द्रादिकायुतैः ।
होमयेदयुतं मंत्री घृतभर्जितपिष्टकैः ।
अलक्षिर्नश्यति क्षिप्रं कांतिं तेजश्च विन्दति ।
पलाशकुसुमैर्हुत्वा वाक्सिद्धिं लभते ध्रुवं ।
पंकजैर्जुहुयान्मंत्री अयुतं श्रियमाप्नुयात् ।
नवनीतस्य होमेन कविर्वाग्मी प्रजायते ।
वासुदेव पदं चोक्तानि गडाच्छादनाय च ।
वासुदेव द्वयं चोक्ता स्वाहेति तन्मनुर्म्मतः ।
नारदोऽस्य मुनिः प्रोक्तच्छन्दोऽष्टुवुदाहृतं ।
निगडच्छेदनो लक्ष्मीर्वासुदेवोऽस्य देवना ।
पंचांगानि मनोरस्य आचक्राद्यैस्तु कल्पयेत् ।
राजमण्डलमध्ये तु कंसं निपात्य हेलया ।

पृ० ५९ब) ज्ञातीनां वर्द्धयन् हर्षं आनीय पितरौ स्वयं ।
निगडान्मोचितौ भक्त्या प्रणम्य च पुनः पुनः ।
बाह्ये संस्थाप्य विधिवद्देवकीं वीक्षितैर्नृपैः ।
एवं ध्यात्वा जपेल्लक्षं जहुयात्तद्दशांशतः ।
अंगन्यसादिकं सर्वं तदग्रवचनोदितं ।
य एवं चिंतयेन्मंत्री ससम्यक् सम्पदां निधिः ।
राजदुर्गभयादिभ्यो मुच्यते स्मरणात् क्षणात् ।
निर्गुण्डीमूल होमेन मुच्यते बन्धनादिभिः ।
राजद्वारे भये घोरे स्मरणान्मुच्यते भयात् ।।

इति श्रीगौतमीये एकविंशोऽध्यायः ।। २१ ।।

गोपालं पिण्डसंज्ञ च कथयामि मुने शृणु ।
यदाकर्ण्य गुरोर्भक्त्या परत्रेहवमोदते ।
अनेन सदृशो मंत्रो जगत्स्वपि न विद्यते ।
पंचातको धरासंस्थः सबिन्दुक मनुस्वरः ।
कथितो मंत्रराजोऽयं भुक्ति मुक्ति फलप्रदः ।
ऋषिर्ब्रह्मास्य गायत्री छन्दः श्रीकृष्ण देवता ।
गलाभ्यां बीजशक्ती तु कीलकं लेषमुच्यते ।
षड्दीर्घभाजा बीजेन षडंगानि प्रकल्पयेत् ।
वृन्दावनगतं कृष्णं रत्नसिंहासन स्थितं ।
कदम्बमूल देशे तु गोपिकाजन वेष्टितं ।
नारदाद्यै मुनिवरैर्दिव्यगानावसन्वकैः ।
सहितं परया भक्त्या वनमालिनमीश्वरं ।
रत्नालंकारसन्दीप्तं शंख चक्र लसत् करं ।
शब्द ब्रह्ममयं वेणुमधः पाणि द्वयोरितं ।
एवं ध्यात्वा मनुवरं लक्षमात्रं जपेद्वशी ।
सितान्वितैः पायसैस्तु युतं होमं समाचरेत् ।
य एनं भजते मंत्री सिद्धयस्तस्य हस्तगाः ।
धवलैः कुसुमैर्होमाद्वाक्सिद्धिं लभतेऽचिरात् ।

पृ० ६०अ) कर्णिकारस्य होमेन लक्ष्मीः सर्वविधा भवेत् ।
अनेन मंत्रितं तोयं प्रातः प्रातः पिवेज्जलं ।
कविर्वाग्मी श्रुतिधरः सर्वज्ञो जायतेऽचिरात् ।
अस्योपासनमात्रेण किं न सिध्यति मंत्रणः ।
इह भुक्ता वरान् भोगान् पुत्त्रपौत्त्रैः समन्वितः ।
अंते तत् परमं धाम मंत्री याति निरामयं ।
अथ वक्ष्ये महामंत्रं सर्वेप्सित फलप्रदं ।
यस्य धारणमात्रेण किं न सिध्यति भूतले ।
बीजं त्रिकोणमालिख्य षट्कोणं तद्बहिर्लिखेत् ।
षड़क्षरं लिखेत्तत्र वृत्तश्चाष्टदलं लिखेत् ।
अष्टाक्षरेण संयुक्तं तद्वहिः षोडशच्छादं ।
षोडशार्णं कृष्णा मनुं वहिदर्शदलान्वितं ।
दशाक्षरेण संयुक्तं आष्टादशदलं ततः ।
अष्टादशार्णं तन्मध्येद्वहिर्द्वात्रिंशदम्बुजं ।
देवकीसुत इत्यादि तत्रैव वृत्तमालिखेत् ।
पिण्डबीजं वेष्टत्तमालिखेत् ।
पिण्डबीजं वेष्टकत्वेन यंत्रस्य च सर्वतः ।
तद्वहिर्वृत्तं निष्पाद्य मातृकां तत्र वेष्टयेत् ।
वृत्तद्वयं पुनः कृत्वा शापांकुशेन वेष्टयेत् ।
तद्वहिर्वृत्तमेकं तु चतुरस्रं स वज्रकं ।
एतदुक्तं महायंत्रं कृपया मुनिसत्तम ।
सुवर्णपत्रे भूर्ज्जे वा नित्यं यः सुसमाहितः ।
अष्टगन्धैर्मसीं कृत्वा लिखेत् स्वर्ण शलाकया ।
अस्य धारणमात्रेण साक्षाद्भूमि पुरन्दरः ।
मुच्यते मलिने कृच्छ्र दुःखैर्घोरतरैरपि ।
शांतिं च शाश्वतीं लब्धायाति तत् परमं पदं ।
स्त्रीणां वाम भुजे नित्यं धारणात् किं न सिध्यति ।।

पृ० ६०ब) बन्ध्यापि लभते पुत्त्रं शतहायन जीवकं ।
दीर्घायुरप्रतिहत बलवीर्यय समन्वितं ।
राशिचक्रं विलिप्याथ कुम्भं संस्थाप्य पूर्ववत् ।
विक्षिप्य यंत्रं तन्मध्ये सेकात् सर्वं हि साधयेत् ।
नित्यदर्शी भवेद्विप्रो महीं शास्ति महीपतिः ।
वैश्यः समृद्धिमान् भूयात् लभेत् शूद्रो यथेप्सितं ।
एतत्तु कथितं यंत्रं पुरुषार्थैक साधनं ।
केवलं तत् प्रयत्नेन गोपयस्व मुने स्वयं ।।

इति श्रीगौतमीये द्वाविंशोऽध्यायः ।। २२ ।।

अथ वक्ष्ये मनुवरं समस्त पुरुषार्थदं ।
यज्ञ ज्ञानात् सिद्धयः सर्वा भवंति कर संस्थिताः ।
लक्ष्मीर्मायाकामबीजं ङेऽन्तं कृष्णपदं तथा ।
स्वाहेति मंत्रराजोऽयं भुक्ति मुक्ति फलप्रदः ।
नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतं ।
देवता कृष्ण इत्युक्तः समस्त पुरुषार्थदः ।
षडंगं कामबीजेन षड्दीर्घभेदनेन तु ।
कलाय कुसुम श्यामं वृन्दावन गतं हरिं ।
गोप गोपी गवावीतं पीतवस्त्र युगावृतं ।
नानालंकारसुभगं कौस्तुभोद्भासि वक्षसं ।
सनकाद्यैर्मुनिश्रेष्टैः संस्तुतं परयामुदा ।
शंख चक्र लसद्बाहुं वेणुं हस्तद्वयेरितं ।
ध्यात्वैवं परमात्मानं चतुर्ल्लक्षं जपेन्मनुं ।
दशांशं जुहुयान्मंत्री कुसुमैर्ब्रह्मवृक्षजैः ।
भक्त्या त्रिसन्ध्यं च यजेदंगैरिन्द्रादिभिस्ततः ।
तथा प्रयोगे कुर्वीत धर्म्मार्थ काम मुक्तये ।
पायसैरयुतं हुत्वा दिव्यज्ञानमवाप्नुयात् ।
तद्वच्च लवणैर्हुत्वा लोकानाकर्षयेद् ध्रुवं ।
पलाशपुष्पैर्जुहुयात् कविर्वाग्मी च जायते ।
मत्स्यण्डी कदली दुग्ध घृत पायसं तद्धिया ।

पृ० ६१अ) तर्पयेदयुतं मंत्री गांगे येन जलेन वै ।
मण्डलादीहिता सिद्धिर्भवेन्नैवात्र संशयः ।
वागभवाद्येन जायेन वागीश समतां व्रजेत् ।
ब्राह्मी तत् कुसुमैर्हुत्वा निधिमाप्नोत्पय व्रतः ।
श्रीवृक्षफलहोमेन राज्यैश्वर्ययमवाप्नुयात् ।
एवं ते कथितं भक्त्या दुर्ल्लभं मंत्रनायकं ।
सत्संप्रदायकं प्राप्तं किं न सिद्धति मंत्रिणः ।
अष्टादशार्णो मारांतो मंत्रः सुत धनप्रदः ।
नारदोऽस्य मुनिश्छन्दो गायत्त्री कथितं बुधैः ।
बालकृष्णो देवतास्य समस्तार्थ फलप्रदः ।
षडदीर्घभाजा कामेन बीजेनांग क्रिया मता ।
इन्दीवर समाभासं बालं त्रैलोक्यमोहनं ।
लसद्रत्नमयैर्द्दीप्तैन्मण्डितं बहुभूषणैः ।
नानारत्नमयोद्भासि ब्राह्म कामांकुशागलं ।
कुंतलांत समुद्भासि स्फुरन्मकर कुण्डलं ।
हस्ति हस्तकराभ्यां च नवमी तं च पायसं ।
दधतं देववृन्दैश्च वेष्टितं गोपबालकं ।
एवं ध्यात्वा जपेन्मंत्री द्वात्रिंशल्लक्षमानतः ।
जपांते जुहुयादग्नौ पायसैस्तद्दशांशतः ।
तर्पणादीनि सर्वाणि पूर्ववत् समुपाचरेत् ।
साधयेत् सर्वकर्म्माणि सिद्धेनानेन मंत्रवित् ।
रक्तपद्मायुतं हुत्वा द्विजो ज्ञानमवाप्नुयात् ।
सर्वलोकैकशास्ता च क्षत्त्रियो नात्र संशयः ।
अन्येषां यद्यदिष्टं स्यात् साधयेन्मनुनामुना ।
रत्नपद्मोपरि ध्यात्वा शर्करा पृथुलाजकैः ।
कदली गुड बुध्या च जलैः संतर्प्य केशवम् ।
वत्सराल्लभते पुत्त्रं सर्वलोक नमस्कृतं ।
अनेन च यद्यदिष्टं जपमात्रेण साधयेत् ।

पृ० ६१ब) माया रमा कामबीजश्रियाढ्यो दशवर्णकः ।
त्रयोदशक्षरो मंत्रो दृष्टादृष्टफलप्रदः ।
ऋषिरस्य स्वयं ब्रह्मा छन्दोऽनुष्टुवुदीरितं ।
श्रीकृष्णो देवता प्रोक्तो महदैश्वर्ययदायकः ।
कुर्ययादस्य मनोर्म्मंत्री ह्रीमाद्यैरंगपंचकं ।
शंख चक्र गदा पद्म पाशांकुश लसत् करं ।
कराभ्यां वेणुमादाय धमंतं सर्वमोहनं ।
सूर्ययायुत समाभासं पीताम्बर युगावृतं ।
नानालंकारसुभगं रविमण्डल संस्थितं ।
एवं ध्यात्वा जपेन्मंत्रं चतुर्लक्षमनन्यधीः ।
जपांते तद्दशांशेन पायसैर्होमयेद्द्विजः ।
पूजयेन्मंत्रंराजेन वक्ष्यमाणेन वर्त्मना ।
मध्ये कृष्णं समावाह्य षडंगविधिनार्च्चयेत् ।
वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकं ।
दिग्दलेषु समभ्यर्च्च्य बहिरस्य विदिग्दले ।
सरस्वतीं तथा लक्ष्मीं रतिं प्रीतिमनंतरं ।
स्वदिक्षु लोकपालांश्च तदस्त्राणि च तद्वहिः ।
एवमभ्यर्च्च्य विधिवत् साधयेच्च यथेप्सितान् ।
विंशत्यर्णोदितान् विप्रः प्रयोगानपि साधयेत् ।
य एनं भजते मंत्री भक्त्या च परिपूजयेत् ।
राज्यैश्वर्ययमवाप्यान्ते भूयात्तत् परमं महः ।
काम माया रमा पूर्वो दशार्णो मंत्रनायकः ।
रमा माया काम पूर्वो दशार्णः सप्रकीर्त्तितः ।
अनयोर्म्मंत्रयोर्म्मंत्री आचक्राद्यैः षडंगतः ।
कृत्वा दशार्णवत् सम्यग् ध्यान पूजादिकं सुधीः ।
सपर्ययां च रते यस्तु मंत्रयोरेवमाश्रितः ।
इह भुक्ता वरान् भोगान् महैश्वर्यय समन्वितान् ।
पुत्त्रैः पौत्त्रैः प्रपौत्त्रैश्च ब्राह्मणो हरितां व्रजेत् ।।

पृ० ६२अ) अथ वक्ष्ये शृणु मुने प्रतिपतिं जगत्पतेः ।
इन्द्रादिप्रमुखैर्द्देवैः स्वगुप्तां क्रियते तु या ।
कुबेरोऽपि च यां कृत्वा तपस्यन् ब्रह्मणो मुखात् ।
महेश सखितां प्राप्य धनेशत्वमव्यप्तरान् ।
इन्द्रोऽपि या मुपास्यैव देवराजत्वमाप्तवान् ।
त्रैलोक्यविजयी भूत्वा देव दैत्यैक शासकः ।
मायारमादिकाश्चाष्टादशार्णा विंशदर्णकाः ।
अनेन सदृशो मंत्रस्त्रिषु लोकेषु दुर्ल्लभः ।
ऋषिर्ब्रह्मा समुद्दिष्टो गायत्त्री छन्द एव च ।
देवता देवता वृन्द वन्द्यः श्रीकृष्ण ईरितः ।
अष्टादशार्णवत् कुर्ययान्मंत्रार्थैरंगपंचकं ।
द्वारवत्यां महाज्ञाने दीर्घिका शत मण्डिते ।
पारिजातवने रम्ये सुवर्णभूमि मध्यतः ।
सर्वरत्नमये चित्रे सुमेरु निभ मण्डपे ।
सिंहासने समासीनं सूर्ययकोटि समप्रभं ।
रक्तोत्पल समाभास पाणिपादाम्बुजं स्मरेत् ।
दक्षिणं चरणाम्भोजं रत्नपूर्ण घटोपरि ।
वामपादाम्बुजं दिव्यं स्वस्तिकाकारकारितं ।
शंख चक्र गदा पद्म लसद्बाहुचतुष्टयं ।
सर्वांग सुन्दरं देवं सर्वाभरण भूषितं ।
समुद्धृत्य सर्वरत्नै रत्ननद्याश्च रोचितं ।
रुक्मिणी सत्यभामा स्यात् राधिकाख्या च तिष्ठति ।
रत्नकुम्भेन रत्नेन सिंचंती परया मुदा ।
कालिन्दी ऋक्षजा रत्नं दिशंतौ कलसौ तयोः ।
नाग्नजीति सुनन्दा च मित्रविन्दा सुलक्षणा ।
आनीय रत्नकलसं रत्ननद्याः समुद्धृतं ।
दिशंत्यः सर्वमांगल्य संगत्या महिषीर्हरेत् ।
ततः षोडशसहस्र्यं सिंचंत्यः परितः प्रियाः ।
गीतैर्नृत्येश्च वाद्यैश्च शतार्द्धः सर्वदेवताः ।

पृ० ६२ब) एवं हरिं स्मरेन्मंत्री चतुर्ल्लक्षं जपेन्मनुं ।
जपांते पायसैर्दिव्यैर्ज्जुहुयात्तद्दशांशतः ।
तर्पयेत्तद्दशांशेन भक्तितप्तेदुमज्जलैः ।
अभिषिच्य दशांशेन ब्रह्मणामपि पूजयेत् ।
कर्णिकायां लिखेद्बीजं ससाध्यं तद्वहिर्लिखेत् ।
शेष सप्तदशार्णेन वह्नेर्गेह युगं ततः ।
वृत्ताद्वहिरष्टदलं चतुरस्रं सवज्रकं ।
चतुर्द्वार समायुक्तं यंत्रमेतत् सुलक्षणं ।
पूर्वदक्षिणपाश्चात्य कोणे मायां विलिख्य च ।
श्रीबीजमन्यतो लेख्यं षडर्णं कोणगं तथा ।
पत्रे तु कामं गायत्त्रीं त्रिशस्त्रिशो विभागशः ।
कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनंगः प्रचोदयात् ।
इत्युक्ता काम गायत्त्री समस्तजन मोहिनी ।
कामाद्यजापादस्यास्तु सर्वकर्म्माणि साधयेत् ।
दलमध्ये लिखेत् काम मनुं षट्शक्रमेण तु ।
नमोऽन्ते कामदेवाय सर्वजन प्रियाय च ।
सर्वसंमोहनयेति । ज्वलयुग्मं प्रज्ज्वलेति च ।
सर्वजनस्य शब्दांते हृदयं मम संवदेत् ।
वशं कुरु युगं प्रोक्ता स्वाहांतो मनुरीरितः ।
प्रोक्ता गोपाल यंत्रोऽयं कामाद्यः साधिको मुने ।
हाटकारचिते पात्रे भोज्यैर्वा प्रविलिख्य च ।
धारयेत् साधितं यंत्रं जपसेकसमन्ययात् ।
अस्याधारणमात्रेण किं न सिध्यति भूतले ।
राजानो वशतां यांति दासवच्छत्र संकुलं ।
त्रैलोक्यमोहनो मंत्रः सर्वलोकैक पूजितः ।
अस्मिन् थंत्रे समावाह्य राजराजेश्वरं हरिं ।
पूजयेद्भक्तितो मंत्री सर्वराजोपचारकैः ।

पृ० ६३अ) कोणषट्के षडंगं तु तद्वहिश्च विदिग्दले ।
वासुदेवं संकर्षणं प्रद्युम्नं चानिद्धकं ।
सरस्वतीं तथा लक्ष्मीं रतिं प्रीतिं च दिग्दले ।
तद्वहिरष्ट महिषी रुक्मिण्याद्याः प्रपूजयेत् ।
इन्द्रनील मुकुन्दाख्यान् मकरानन्द कच्छपान् ।
शंख पद्म निधी चापि तद्वहिः पूजयेत्ततः ।
इन्द्रादीन् स्व स्व दिक्ष्ववं वज्रादींस्तदनंतरं ।
इति षष्ठावृतैर्युक्तमच्युतं भक्तितोऽर्च्चयेत् ।
संसार सागरं घोरं वासनानक्रसंकुलं ।
सन्तीर्यय परमं धाम मंत्रीयाति न चान्यथा ।
चतुर्लक्षं जपेन्मंत्रं दशांशं पायसैर्हुनेत् ।
अथवा पंकजैः फुल्लैः शेषमन्यत् समापयेत् ।
तदा स्वहृदये विष्णुं मंत्र न्यासान् यथोदितान् ।
तन्मयो विहरेत्मंत्री तीर्ण संसार सागरः ।
अयुतं रक्तपद्मैस्तु हुत्वा विश्वं वशं नयेत् ।
तद्भस्म धारयेद्भाले यं स्पृशेद् यं निरीक्षयेत् ।
यैर्वाते भवंत्यस्य किं कराः ।
आरक्त हयमारैस्तु राजानो दासवद्वशे ।
शुक्लादि वस्त्रलाभाय शुक्लादि कुसुमैर्हुनेत् ।
हुनेद्धान्य समृद्धैश्च आरक्त धान्यमंजरी ।
श्रीवृक्षकुसुमैर्होमात् समा लक्ष्मीः प्रसीदति ।
बिल्वपत्रैश्च जुहुयात् पुत्त्रपौत्त्रानुयायिनीं ।
लभे लक्ष्मीं प्रसन्नां तत् फलै राज्यमवाप्नुयात् ।
केवलं घृतहोमेन ब्राह्म्यं तेजश्च जायते ।
आयुर्वृद्धिं यशो लक्ष्मीं वश्यतां सर्वयोषितां ।
लभते नात्र सन्देहः सुखं सर्वातिशायिनं ।
घृत तण्डुल होमेन बलवान् जायतेऽचिरात् ।

पृ० ६३ब) भक्ष्य भोज्यादिकं हुत्वा भोगी स्यादयावदायुषः ।
अष्टादशार्णदशयोः प्रयोगं नात्र चाचरेत् ।
आद्रवितः प्रयोगस्तु द्वाभ्यामेकं तु कारयेत् ।
रत्नाभिषेकं गोपालं यो येन विधिना भजेत् ।
सवैश्वर्ययसमृद्धोऽपि सर्वभुक् सर्वकारकः ।
देहत्यागे हरिं या यादित्येवं मुनयो जगुः ।।

इति श्रीगौतमीये त्रयोविंशोऽध्यायः ।। २३ ।।

अथातः संप्रवक्ष्यामि रुक्मिणी वल्लभं मनुं ।
यज्ञ ज्ञानात् सर्वलोकानां वल्लभो भुवि जायते ।
नमोऽन्ते भगवान् ङ्येन्तो रुक्मिणी वल्लभस्तथा ।
स्वाहांतो भावसंयुक्तः षोडशार्णो महामनुः ।
अस्य ज्ञानात्तथा मंत्री ज्ञानवान् जायतेऽचिरात् ।
धान्यादष्टांग योगस्य फलमाप्नोति निश्चितं ।
स्मरणादस्य मंत्रस्य सर्वतीर्थ फलं लभेत् ।
नारदोऽस्य मुनिः प्रोक्तच्छन्दोऽनुष्टवुदीरितं ।
श्रीकृष्णो देवता चास्य रुक्मिणी वल्लभा ह्वयः ।
व्यस्तैः समस्तैरंगानि पदैः कुर्ययात् षडंगवित् ।
अतसी कुसुम श्यामं पीतवस्त्र युगावृतं ।
नानालंकारसुभगं कौस्तुभायुक्त वक्षसं ।
श्रीवत्सलांछन श्रीमद्रत्नाभरण भूषितं ।
द्वारकावर गेहस्थं रत्नसिंहासने शुभे ।
रुक्मिण्यालापमधुरं शंख चक्र गदा धरं ।
ध्यात्वैवं परमात्मानं लक्षमेकं जपेन्मनुं ।
तदंते जुहुयान्मंत्री तिलैर्मधुरसंप्लवैः ।
पूजयेद्वैष्णवे पीठे दशाक्षर विधानतः ।
पलाशैः कुसुमैर्हुत्वा दिव्यज्ञानमवाप्नुयात् ।
पूर्ववत्तर्पणं कुर्ययात् सर्वाभीष्टानि साधयेत् ।

पृ० ६४अ) पुण्डरीकाक्षतं हुत्वा श्रियमाप्नोत्य यत्नतः ।
केवलं घृतहोमेन जीवेद्वर्षशतं सुखी ।
इत्येवं रुक्मिणीनाथ विद्यानं मुनिपूजितं ।
भोगमोक्ष करं यत्नान्मूने त्वमपि गोपया ।
प्रणवं जमसश्चांते वदेद्भव गते पदं ।
नन्दपुत्र पदं ङेऽन्तं वदेन्नन्दवपुस्तथा ।
भूत्यंते दशवर्णश्च मनुः सर्वार्थसिद्धिदः ।
नारदो मुनिराख्यातश्छन्द उक्तं विराड़पि ।
श्रीकृष्णो देवता चात्र चतुर्वर्ग फलप्रदः ।
पंचांगानि मनोरस्य आचक्राद्यैः प्रकल्पयेत् ।
ध्यायेद्वृन्दावने रम्ये गोप गोपी गणा वृतं ।
नानालंकारसुभगं पीताम्बर युगावृतं ।
सर्व प्रियकरं देवं किशोर श्याम विग्रहं ।
दोर्भ्यां वेणु पादयंतं भुवनैक गुरुं परं ।
एवं ध्यात्वा मनुवरं लक्षमेकं जपेत्तथा ।
तिलैश्च स्वादुयुक्तैश्च जुहुयात्तद्दशांशतः ।
दशाक्षरोदिते पीठे पूजयेत्तद्विधानतः ।
य एवं चिन्तयेन्मंत्री भोगमुक्त्योः सभाजनं ।
बिल्वपत्रायुतं हुत्वा सर्वकामान् प्रसाधयेत् ।
अष्टौत्तरशतं जप्त्वा सभायां विजयी भवेत् ।
सर्वलोकैक सुभगः सर्वैश्वर्यय समन्वितः ।
देहांते तत्पदं याति यत प्राप्त्वाज निवर्त्तते ।
नन्दपुत्र पदं ङेऽन्तं श्यामलांग पदं तथा ।
अमृतं मुखवृत्तं च मांसां चैव वपुस्तथा ।
दशाक्षरस्तु प्रोक्तोऽयं मनुः सर्वसमृद्धिदः ।
नारदोऽस्य मुनिः प्रोक्तच्छन्दोऽनुष्टवुदीरितं ।
देवता बालकृष्णोऽस्य मुनिभिः परिकीर्तितः ।।

पृ० ६४ब) कल्पयेत् पूर्ववन्मंत्री चक्राद्यैरंगपंचकं ।
अतसी कुसुम श्यामं शंख चक्र लसत् करं ।
दोर्भ्यां वेणुं वादयंतं पीताम्बर युगावृतं ।
नानालंकारसुभगं भाव हाष विराजितं ।
एवं ध्यात्वा यजेद्देवं पंचांगैश्च दिशोऽधिपैः ।
तदस्त्रैरपि संपूज्य जपेल्लक्षं व्रते स्थितः ।
दशांशं जुहुयान्मंत्री पायसैर्म्मधुराप्लुतैः ।
एवं संसिद्धमंत्रस्तु सर्वकर्म्माणि साधयेत् ।
तिलाज्यैरक्षतं हुत्वा ग्रह रोगान् विनाशयेत् ।
पलाशकुसुमैर्हुत्वा वागीश समतां ब्रजेत् ।
प्रणवं पूर्वमुच्चार्यय नमो भगवते पदं ।
नन्दपुत्र पदं ङेन्तं भूधरो मुख वृत्तयुक् ।
वपुः पदं तथा ङेन्तमूणविंशति वर्णकः ।
नारदोऽस्य मुनिः प्रोक्तो विराट्छन्द उदीरितं ।
देवता नन्द तनयः सर्वलोकैक नन्दनः ।
पंचांगानि मनोरस्य चक्राद्यैः परिकल्पयेत् ।
नवीन वारिद श्यामं पद्मपत्र निभे क्षणं ।
मुक्तादामलसत् कंठ केयूरांगदभूषणं ।
अनेक रत्न संबद्ध स्फुर कर कुण्डलं ।
उद्दाम कौस्तुभोद्भासि वक्षः श्रीवत्स लांछनं ।
बर्हिवर्ह कृतोत्तं सं गोप गोपी गवावृतं ।
ध्यात्वैवं परमात्मानं जपेन्मनुरवं ततः ।
चतुर्लक्षजपान्ते तु दशांशं रक्तपंकजैः ।
होमयेच्छेषमन्यत्तु पूर्ववत् समुपाचरेत् ।
दशार्णयंत्रे विश्वेशं समावाह्य प्रपूजयेत् ।
प्रथमावृत्तिरंगैः स्यान्महिषीभर्द्वितीयिका ।
तृतीयादिगधीशैस्तु वज्राद्यैस्तु चतुर्थिका ।
एवं यः प्रपूजयेत् कृष्णं चतुरावृत्ति संयुतं ।

पृ० ६५अ) धर्म्मार्थकाममोक्षाणां संपूर्णं लभते फलं ।
पायसैरयुतं हुत्वा महाधनपतिर्भवेत् ।
पूर्णायुर्लभते मंत्री अयुतं घृतहोमतः ।
दूर्वया लक्षहोमेन जीवेद्वर्षशतं सुखं ।
इत्येष कथितो मंत्रः सर्वेषां सर्वसिद्धिदः ।
अथापरं प्रवक्ष्यामि मनुं सर्वसमृद्धिदं ।
यज्ञज्ञानान्मुनयः सर्वे भोगमोक्षैक भूमयः ।
लीलादण्डधरं चोक्त्ता गोपीजन ततः परं ।
दोर्द्दण्डन्तु पदं चोक्ता मेघ श्याम पदं ततः ।
विष्णः स्वाहेति मंत्रोऽयं समस्त पुरुषार्थदः ।
नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुवुदारितम् ।
श्रीकृष्णो देवता चास्य सर्वविश्वानुशासकः ।
पदैः पंचांग कऌप्तिः स्यात्ततो ध्यायेदथाच्युतं ।
तापिंज कुसुम श्यामं सदा षोड़शवार्षिकं ।
गोपीमध्य स्थितं ताभ्यां लिंगितं काम हृच्छया ।
सर्वालंकारसुभगं पीताम्बरधरं परं ।
भुवनैक गुरुं ध्यात्वा लक्षमेकं जपेन्मनुं ।
दशांशं कमलैर्हुत्वा शेषमन्यत् समापयेत् ।
तर्पयेन्नित्यशो देवं दुग्ध बुध्या शुभैर्ज्जलैः ।
मण्डलाद्वांछिता सिद्धिर्म्महाधनपतिर्भवेत् ।
यं० इमं भजते नित्यं जपहोमादि तत्परः ।
वांछितानी हितान् लब्धा देहांते तत्पदं व्रजेत् ।
वेदादिक मना माया कामबीजादथो वदेत् ।
श्रीकृष्णं च पदं ङेन्तं गोविन्दं च तथा वदेत् ।
गोपीजना पदस्यांते वल्लभं ङेन्तमीरयेत् ।
कामांतं च रमाबीजं संप्रोक्तो मंत्रनायकः ।
सिद्धगोपालमंत्रोऽयं सर्वसिद्धि प्रदो नृणाम् ।

पृ० ६५ब) बीजैः पदैश्च पंचांगं कृत्वा ध्यायेदथाच्युतं ।
पक्षिराजकृतच्छायौ सुरद्रुमतलासिनौ ।
शंखेंदु मरुता भासौ दध्युत्थ पायसाशिनौ ।
अनेकैरावृतमुखैर्ग्रहयुक्तो यथाविधुः ।
नानालंकारसुभगौ कस्तुभौ युक्त कन्दरौ ।
तारहारावली रभ्यौ सर्वाश्चर्यय मयौ शिशु ।
त्रैलौक्यशरणौ श्रीमद्रामकृष्णौ स्मरन् जपेत् ।
लक्षमेकं मनुवरं दशांशं श्रीफलैर्हुनेत् ।
होमांते विधिवन्मंत्री शेषमन्यत् समापयेत् ।
दशाक्षरोदिते पीठे वक्ष्यमाणेन पूजयेत् ।
षड़ंगं केशरे यद्वा दिगीशाः प्रहरानपि ।
एवं त्रयावृत्तिमयं संपूज्य पुरुषोत्तमं ।
दुग्ध बुध्या जलैर्नित्यं तर्पयेदिष्टसिद्धिदं ।
मुखे करं समायुज्य जपाद्वाग्मीकावर्भवेत् ।
नवनीता युतं हुत्वा धरापति वृत्ये भवेत् ।
रविवारेऽश्वत्थमूले चाष्टौत्तरशतं जपेत् ।
पुत्त्रैर्म्मित्रैश्च सम्पन्नो म्रियते नापमृत्युतः ।
अथापरं मनुवरं कथयामि समृद्धिदं ।
लक्ष्मी माया कामबीजैर्दशार्णां पूटयेत् क्रमात् ।
षोडशार्णो मनुः साक्षान्महालक्ष्मीं प्रयच्छति ।
ब्रह्मा ऋषिः समुद्दिष्टो गायत्री छन्द ईरितं ।
महासम्पत्प्रदः श्रीमान् देवता कृष्ण ईरितं ।
दशार्णवदंग कऌप्त्या ध्यायेद्देवमनन्यधीः ।
कालाभ्रनिचयप्रख्यं पाणिपादाम्बुजारुणं ।
तारहारावली रम्यं कौस्तुभायुक्त वक्षसं ।
किरीट केयूर ग्रैवेय कंकणोर्म्मि विराजितं ।
ध्यायेद्रत्न गृहान्तःस्थं रक्तपंकजमध्यगं ।
चतुर्ल्लक्षं जपेन्मंत्रं पायसैरयुतं हुनेत् ।

पृ० ६६अ) तर्पणादीनि सर्वाणि पूर्वोक्त विधिनाचरेत् ।
य० एनं भजते मंत्री लक्ष्मी गोपाल विग्रहं ।
ससर्व सम्पदं लब्ध्वा यात्पनं तम यत्नतः ।।

इति श्रीगौतमीये चतुर्विंशोऽध्यायः ।। २४ ।।

अथापरं प्रवक्ष्यामि मंत्रराजं सुदुर्ल्लभं ।
अवायुर्येन जपेन दिव्य ज्ञानं मुनीश्वराः ।
भ्रष्ट राज्यं सुरेश्रेष्ठो ह्यवापयदुपासनात् ।
अन्येऽपि बहवो देवाः स्वस्वाधिकारतां गताः ।
त्रिमात्र हृद्भगवते गोविन्द मुकुन्दायेति तन्मनुः ।
द्वादशाक्षर इत्युक्तो मंत्रः सर्वसमृद्धिदः ।
नारदोऽस्य मुनिः प्रोक्तो विराट् छन्द उदीरितं ।
श्रीकृष्णो देवता प्रोक्तः सर्वदेव नमस्कृतः ।
विनियोगोऽस्य मंत्रस्य पुरुषार्थं चतुष्टये ।
व्यस्तैः पदैः समस्तश्च पंचागानि प्रकल्पयेत् ।
सृष्टि संहृति स्थित्या च करशोधनमाचरेत् ।
स्थित्यंतं दशतत्त्वं च मातृका मनु संपुटम् ।
तत्त्वन्यासं तथा कृत्वा केशवादि पुरःसरं ।
जनिपालन संहार विधानैक विशारदं ।
कलाय कुसुम श्यामं नीलेन्दीवरलोचनं ।
अनेक रत्नाभरणं दीप्त्या विश्वावकाशकं ।
तथैवाशनसुवात पीतवस्त्र युगावृतं ।
श्रीवत्सलक्षणं देवं कौस्तुभोद्भासि वक्षसं ।
वेणुवाद्य निनादेन मोहयंतं चराचरम् ।
मुनिवृन्दैर्द्देववृन्दै ऋषिवृन्दैस्तु (स्तु) संस्तुतम् ।
आवृतं महिषी वृन्दैर्निधिभिः परिषेवितं ।
अथवा तप्तहेमाभं कांत्याक्रांतं जगत्त्रयं ।
कल्पद्रुम ललतासीनं रत्नसिंहासनोपरि ।
ध्यात्वा जपेन्मनु वरं लक्षद्वादशमादरात् ।
वार्त्ता कर्णा न मात्रं हि स्वीणां कृत्वा व्रते स्थितः ।
पयोमूल फलाशिना पूर्वोक्ताचारपालकं ।

पृ० ६६ब) दशांशं जुहुयाद्भक्तो कुसुमैर्ब्रह्मवृक्षजैः ।
ततः पूर्वोक्तविधिना शेष मन्यत् समापयेत् ।
गोष्ठे प्रतिष्ठितं देवं पुण्यावण्येऽथवा तथा ।
प्रासादे वा प्रतिष्ठाप्य पूजयन् भोग मोक्ष भाक् ।
वृन्दावन गतं ध्यायेन्महामाणिक्यमण्डपं ।
सामान्यार्घ्यं विशोध्याथ पूजये द्वारपालकान् ।
द्वाराग्रेऽवनिपीठे च पक्षीन्द्रं परिपूजयेत् ।
जपं च विजयं चैव बलप्रबलसंज्ञकौ ।
चण्डं प्रचण्डमथ च धातारं च विधातरं ।
द्वारो पूर्वादिषु तान् प्रादक्षिण्येन पूजयेत् ।
द्वारोर्धे द्वारश्रियं च देहल्यां देहलं जयेत् ।
द्वारस्य पार्श्वेयोस्तद्वद् गंगां च यमुनां तथा ।
विघ्नेशं क्षेत्रपालं च तयोः पार्श्वे प्रपूजयेत् ।
दूर्वाक्षतान् समादाय विघ्नानुत्सार्यय वाह्यतः ।
पादाघातकरा स्फोट समुदं चित वक्त्रकैः ।
विघ्नं त्रिविधमुत्सार्यय अस्त्रमंत्रेण मंत्रवित् ।
कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रेश मर्च्चयेत् ।
अर्च्चयेद्वास्तुपुरुषं गृहमध्ये समाहितः ।
तारं शांर्गपदं ङेऽस्तं स पूर्वं च सवासनं ।
हुं फट नम इति प्रोक्ता मद्रयाग्रे स्थितो हरेः ।
विधेय मेतत् सर्वत्र स्थापितोक्त विशेषतः ।
आसनेषूपतिष्ठेत्तु तन्मंत्रेण विधानवित् ।
न्यासान्नास्य स्वदेहे च आत्मवागावसानकं ।
दशाक्षरोक्त विधिना पीठं संपाद्य पूजयेत् ।
नारदादि गुरूंस्तद्वदिष्ट्वा भागवतान् यजेत् ।
गुकारं मरणं विद्याद्रुकारस्तद्विरोधकः ।
गुरुरित्येव मुनिभिः प्रोक्तः कृष्णैक्य योगतः ।
नारदः पर्वतं जिष्णुं निशठोद्धव दारुकं ।

पृ० ६७अ) विश्वक्सेनं च शैलेयं वायवादीशांतमर्च्चयेत् ।
गुरून् परगुरूंश्चापि परमेष्ठि गुरूंस्तथा ।
परापरगुरूंस्तद्वत् पूर्वसिद्धाननंतरं ।
सनकश्च सनत्कुमार संज्ञकः सनातनश्च इत्यादि परान् भागतांस्तथा ।
गुरुनाम्ना प्रकृत्यैव पादुकाभ्यो नमो वदेत् ।
आपायां पाति नियतं दुःशंकाद्दुर्निमित्तकात् ।
कामितार्थ प्रदानाश्च पादुका परिकीर्त्तिता ।
गत्यर्थे चरधान्तस्तुणश्चाप्यानन्द उच्यते ।
आनन्दं प्रापयेद् यस्मात्तस्माच्चारणमुच्यते ।
पीठपूजां विधायाथ तत्रावाह्य हरिं यजेत् ।
सर्वोपचारान् कृत्यांते षडंगावृत्तिमर्च्चयेत् ।
रुक्मिणीं सत्यभामां च दक्षवामे प्रपूजयेत् ।
वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकं ।
कालिन्दी नाग्नजिताख्या सुशीला च सनन्दका ।
ऋक्षजा लक्षणा चैव इत्यष्टो महिषीः स्मृताः ।
कौमोदकीं पांचजन्यं वसुदेवं च देवकीं ।
नन्दगोपं यशोदां च संपूज्य तदनंतरं ।
किंकिणीं च तथाभ्यर्च्च्य दामादींश्च पूषू जयेत् ।
दिगर्धाशान् स्वदिक्ष्ववं गजानष्टौ तथार्च्चयेत् ।
कुमुदः कुमुदाख्यश्च पुण्डरीकोऽथवा मनः ।
शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ।
एककालं द्विकालम्वा त्रिकालं अद्धयान्वितः ।
मन्द्रवित् कृष्णमभ्यर्च्च्य भोगमुक्त्योश्च भाजनं ।
गोष्ठे वा शैल शृंगे वा पुण्यारण्ये नदीतटे ।
प्रासादे स्थापयन् कृष्णं तीर्थ कोटीफलं लभेत् ।
कोटि कोटि महादानात् कोटितीर्थ परिभ्रमात् ।
तत्फलं लभते भक्त्या संप्रतिष्ठाप्य केशवं ।
महामंत्र कोटि जापात् यत् फलं लभते पुनः ।

पृ० ६७ब) तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमं ।
कोटियज्ञेन यत्पुण्यं पुण्यारण्य निषेवणात् ।
यत्फलं लभते मर्त्य-स्तच्च० संस्थाप्य केशवं ।
यावज्जन्म हरेर्नाम ग्रहणाद् यत् फलं लभेत् ।
तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमं ।
सूर्ययग्रहे कुरुक्षेत्रे गोदानायुत यत् फलं ।
तत् फलं लभते भक्त्या संस्थाप्य पुरुषोत्तमं ।
सद्यः सार्गि समायुक्तः कामः पंचस्वरान्वितः ।
मांसांते नाथाय वदेन्न मोहंतो मंत्र ईरितः ।
नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुवुदाहृतं ।
गोपवल्लभः श्रीकृष्णो देवता परिकीर्त्तिता ।
पंचांगानि मनोरस्य आचक्राद्यानि कल्पयेत् ।
ध्याये वृन्दावने कृष्णां गोप शिशु गणावृतं ।
हस्ताभ्यां वेणु शृंगं च श्यामलं विश्वमोहनं ।
बहुरत्नसमावद्ध किंकिणी हार नूपुरं ।
एवं ध्यात्वा जपेन्मंत्रं लक्षमात्रं समाहितः ।
होमयेत्तद्दशांशेन पायसैर्म्मधुरान्वितैः ।
अंगेन्द्र वज्रादि मुखैरित्यर्च्चन विधिः स्मृतः ।
य एवं लभते मंत्री श्रीगोपालवल्लभं हरिं ।
सगोगणवरैराट्यं सर्वैश्वर्यय समृद्धिमान् ।
देहांते भगवद्धाम प्राप्नुयान्नात्र संशयः ।
ऊर्द्धदंत युतः खांतो नांतो मांस द्वयं तथा ।
भीषणामुखवृत्तेन वीति होत्र समान्विता ।
सर्वार्थसाधकः प्रोक्तो नमोऽन्तोऽष्टाक्षरो मनुः ।
कामबीजं मुखे दद्यात् सर्वार्थः संप्रदायकः ।
कुण्डलीशाश्च ये मंत्रा गोपालस्य क्वचित् क्वचित् ।
कामबीजं मुखे तेषां दद्यात् सर्वार्थ सिद्धये ।
नारदोऽस्य मुनिः प्रोक्तोऽनुष्टुप्छन्दः समीरितं ।

पृ० ६८अ) श्रीकृष्णो देवता चास्य समस्त पुरुषादर्थः ।
पंचागानि मनोरस्य आचक्राद्यैः प्रकल्पयेत् ।
कलाय कुसुम श्यामं नीलेन्दीवरलोचनं ।
नानालंकरसुभगं वालंतं पंचहायनं ।
दध्युत्थपाय संस्फीतं कराभ्यां दधतं हरिं ।
तारहारावलीरम्यं गोप गोपी गवावृतं ।
ध्याचैवं परमात्मानं सृष्टिस्थित्यंत कारिणं ।
अर्कलक्षं जपेन्मंत्रं दशांशं पायसै हुनेत् ।
अथवा पंकर्हुत्वा सिद्ध मंत्रो भवेत् सुखी ।
दशाक्षरोदिते पीठे तद्विधानेन पूजयेत् ।
अथवांगेन्द्र वज्रादि पूजा चास्य समीरिता ।
नवनीताक्षतं हुत्वा सर्वसिद्धीश्वरो भवेत् ।
पुत्त्राप्तिश्च स्यकैर्हुत्वा पाटलै राजपश्यता ।
अत्राद्यैर्होमतो नित्यं लक्ष्मीस्तस्य गृहे स्थिरा ।
पूर्वोक्त तर्पणे नैव सर्वाभीष्टानि साधयेत् ।।

इति गौतमीये पंचविंशोऽध्यायः ।। २५ ।।

कामश्चाष्टस्वरारूढः सर्गवान् मंत्रनायकः ।
कृष्णेति द्यक्षरः प्रोक्तः काम पूर्वो गुणाक्षरः ।
कामाद्यंतश्चतुर्वर्णश्चतुर्वर्ग फलप्रदः ।
ङेन्तः कृष्णो नमोऽन्तश्च पंचवर्णो महामनुः ।
स एव काम पूर्वश्चेत षडक्षर मनुः स्मृतः ।
एवं जप्त्वा त्रिकालज्ञः शाता तप मुनीश्वरः ।
अस्य संस्मरणादेव सार्वज्ञं कवितांवरां ।
लभते नात्र सन्देहः सत्यं सत्यं हि मद्वचः ।
कृष्ण गोविन्दकौ ङेऽन्तौ कामाद्यश्चाष्टवर्णकः ।
आद्यंते कामबीजश्चेन्नवाक्षरमनुर्म्मतः ।
सुप्रसन्तात्मने वह्नि वल्लभा सप्तवर्णकः ।
कामबीजं धरा बीजं पुनः कामं समुद्धरेत् ।

पृ० ६८ब) श्यामलांग पदं ङेऽन्तं नमोऽन्तोऽयं दशाक्षरः ।
शिवोऽन्तो बाल वपुषे कृष्णा यान्यो मनुर्म्मतः ।
ङेऽन्तं बालवपुः कामः कृष्णो ङेऽन्तः शिवोऽन्तकः ।
कृष्णायेति स्वरद्वन्द्व मध्ये पंचाक्षरोऽपरः ।
एकादशाक्षरो मंत्रो भजतां वांछितार्थदः ।
गोपालायाग्निजायाभ्यां षड़क्षर उदाहृतः ।
यस्य संस्मरणा देवकि मलभ्यं जगत्त्रये ।
एतेषां मनुवर्ययाणां नारदो मुनिरीरितः ।
उक्तं छन्दस्तु गायत्त्री बालकृष्णश्च देवता ।
षड्दीर्घभाजा कामेन षडंगानि समाचरेत् ।
नीलपद्मसमानाक्षं बालं श्यामल विग्रहं ।
नानारत्नसमावद्धा विचित्त्राभरणन्वितं ।
रक्तपद्म समासीनं दध्युत्थं पाप संवरं ।
दधतं कर पद्माभ्यां गोपाल शिशु संवृतं ।
एवं विचिंत्य प्रजफेल्लक्षमेकं यथाविधि ।
अंते जुहुयाद्विधिवद्दशांशं श्रीफलैर्नवैः ।
दशाक्षरोदिते पीठे विधिना पूजयेद्धरिं ।
षडगावृत्तिराद्यास्याद्द्वितीयादिगधीश्वरैः ।
तृतीया प्रहरै रुक्ता समर्प्या सर्वकामदा ।
अयुतं बिल्वपत्रैस्तु हवनाल्लभते नरः ।
तेजो बीजं तथा कांतिं लक्ष्मीं सर्वानिशायिनीं ।
रक्तपद्मायुतहोमाद्राजानश्चास्य किंकराः ।
बिल्वपत्रैस्तथा हुत्वा लभेद्राज्यमकंटकं ।
एतेषां मनुवर्ययाणां एकं यो भजते सुधीः ।
इहभ्युक्ता वरान् भोगान् देहांते तत् पदं व्रजेत् ।
अथा एवं मनुवरं वक्ष्ये सर्वसमृद्धिदं ।
स्मरणाद् यस्य मंत्रज्ञो वागीश समतां व्रजेत् ।
देवानामीश्वरः शक्रो धनदो धननायकः ।
स्मरणादस्य मंत्रस्य किं न सिध्यति भूतले ।

पृ० ६९अ) वाग्भवं कामबीजं च मायां लक्ष्मीमनंतरं ।
दशवर्णं मनुवरं चतुर्द्दशाक्षरो मनुः ।
वाग्भवाद्यो यथा चायं मंत्री वाक्पतिसन्निभः ।
वेद वेदांत वेदांग सिद्धांतमतिरुज्ज्वलः ।
अमृतस्पन्दनीर्वाचः कविता सर्वजित्वरी ।
सर्ववाङ्मयवेत्ता च सर्वज्ञो जायतेऽचिरात् ।
संविदाद्यं यदा मंत्रं साधको यदि वा भ्यसेत् ।
अचिरात् सर्वसिद्धीनामधीपो जायते सुधीः ।
राजानो वश्यते यांति सामान्यैः सपरिच्छदैः ।
देवाः सर्वे नमस्यंते किं परः कथ्यते परं ।
श्रीबीजाद्यं यदा जप्याद् भक्तितो मंत्रनायकं ।
अलभ्यगार मातस्य मन्दिरे सम्पदावहा ।
तस्य वंशे स्थिरा लक्ष्मीर्यावदाहूत संप्लवं ।
काम पूर्वो यदा मंत्रो जप्यते साधकोत्तमैः ।
त्रैलोक्यं वशतामेति मनोवाक्काय कर्म्मभिः ।
स्त्रीणां कन्दर्प सदृशो दर्शनादेव मोहकृत ।
चमत्कारकरो लोके जीवेद्वर्षशतं सुखी ।
ऋषिर्ब्रह्मास्य मंत्रस्य गायत्री छन्दः ईरितं ।
देवता सर्वजगतां मोहनः कृष्ण ईरितः ।
पंचांगानि मनोरस्य आचक्राद्यैः प्रकल्पयेत् ।
सृष्टिसंहारस्थितिभिर्द्दशवर्णान् करे न्यसेत् ।
तारसंपुटितान् कृत्वा नमो मध्यगतान्मुने ।
दशार्णांग न्यासदेशे दशवर्णं विनिर्द्दिशेत् ।
केशवादि तथा तत्त्वं दशतत्त्वं क्रमात् क्रमात् ।
ऋष्यादि न्यासमापाद्य षडंगन्यासमाचरेत् ।
कामाक्षरं परं बीजं स्वाहा प्रकृतिरीश्वरी ।
केवलं चित् पराशक्तिर्म्मंत्राधिष्टातृ देवता ।
ध्यायेद्वृन्दावने रम्ये कांचनी भूमि मध्यगे ।

पृ० ६९ब) नानापुष्पलताकीर्णे वृक्षषण्डैश्च मण्डिते ।
कल्पाटवी कुले सम्यक् श्रीमन्माणिक्यमण्डपे ।
देवकिन्नरगन्धर्वमुनिभिः परिषेविते ।
नारदाद्यैर्म्मुनिश्रेष्टैः स्तुतिभिः समुपस्थिते ।
रत्नसिंहासने ध्यायेत् आसीनं कमलोपरि ।
सजल जलद श्यामं रक्तपद्मदले क्षणं ।
रक्तपद्मनिभं पादं पाणिभ्यां परिमण्डितां ।
नवरत्न समावद्ध भूषणैः परिभूषितं ।
वेणुं धमंतं पाणिभ्यां जीताम्बर युगावृतं ।
आरक्तवक्षसि श्रीमत्कौस्तुभोद्भासिताम्बरं ।
तारहारावली रम्यं श्रीवत्सांकित वक्षसं ।
रोचना तिलक प्रांते कुण्डल भ्रमरायितं ।
कन्दर्प चापसदृश चिल्ली मणि विराजितं ।
अनेक रत्नसम्बद्ध स्फुरन्नूपुरकुण्डलं ।
वर्हिवर्हकृतोत्तंसं सर्वांगं सर्ववेदिभिः ।
उपासितं मुनिगणैरुपतिष्टेद्धविं सदा ।
एवं ध्यात्वा मनुवरं दशलक्षं व्रते स्थितः ।
दशाक्षर विधानेन जपात् सिद्धो भवेन्मनुः ।
सिद्धेनानेन मनुना सर्वाभीष्टानि साधयेत् ।
दशाक्षरोदिते पीठे तद्विधानेन पूजयेत् ।
अयुतं जुहुयान्मंत्री कुसुमैर्ब्रह्मवृक्षजैः ।
महाकविर्म्महाप्राज्ञो भवेन्मंत्री न संशयः ।
मालतीकुसुमैर्हुत्वा वाक्सिद्धिमतुलां लभेत् ।
तगरैः क्षीरसिक्तैश्च होमात् सर्वज्ञतां व्रजेत् ।
वकुलप्रसवैर्होमाच्छ्रियमाप्नोति ईप्सितां ।
भक्ष्यभोज्यादि होमेन समृद्धिमतुलां लभेत् ।
केवलं घृतहोमेन ब्रह्म तेजः प्रजायते ।
श्रीफलस्य दलैर्हुत्वा राज्यमाप्नोत्य यत्नतः ।
तत् फलैर्म्मंत्रसिद्धिः स्याद् दूर्वाभिरायुषे हुनेत् ।

पृ० ७०अ) तर्पणं पूर्व विहितं कृत्वा सर्वं प्रसादयेत् ।
दशाक्षरोदितं सर्वं प्रयोगमनुना चरेत् ।।

इति श्रीगौतममीये षड्विंशोऽध्यायः ।। २६ ।।

अथापरं प्रवक्ष्यामि मंत्रं सर्वार्थसाधनं ।
कृष्णेति त्र्यक्षरं मंत्रं मध्यस्थं कामबीजयोः ।
सद्यः फलप्रदं मंत्रं कथितं भक्तितस्तव ।
अस्यावधानतः शक्रः सुरेशत्वमवाप्तवान् ।
ऋषिर्ब्रह्मास्य मंत्रस्य गायत्री छन्द ईरितं ।
देवता जगतामादिर्म्मुनिभिः कृष्ण ईरितः ।
दीर्घषट्केन कामेन षडंगविधिनाचरेत् ।
एवमंगविधिं कृत्वा मंत्रं ध्यायेदथाच्युतं ।
कलाय कुसुम श्यामं द्रुतहेम निभं भुवा ।
पारिजात वने रत्न सिंहासनोपरि स्थितं ।
देहोत्थ स्वप्रभाभिश्च भासयंतं दिगंतरं ।
शिशुवेशधरं देवं वासुदेवं जगन्मयं ।
नानालंकार सुभगं गोपीभिः परिवीक्षितं ।
कल्पवृक्षविनिष्क्रांतं रत्नौद्यैः परिसिंचितं ।
तारहारावली रम्यं पीताम्बर युगावृतं ।
चतुर्लक्षं जपेन्मंत्रं व्रतस्थः साधकोत्तमः ।
दशांशं जुहुयादंते श्रीफलैः सर्वसिद्धये ।
अष्टच्छदाम्बुजे देवमावाह्य परिपूजयेत् ।
अष्ट षट्कावृते वांतं पूजयेद्दिगधीश्वरान् ।
तदस्ताण्यपि चांते च सपर्ययैषा समीरिता ।
नवनीता क्षमं हुत्वा श्रियमाप्नोत्य निन्दिताम् ।
श्रीफलायुतं होमे नरानयाप्तिर्म्मंत्रिणो भवेत् ।
धान्यस्य मंजरीं हुत्वा धनवान् जायतेऽचिरात् ।
अन्नवान् पुष्पहोमेन घृतहोमाछ्रियं लभेत् ।

पृ० ७०ब) य एनं भजते मंत्री जपहोमादि तत्परः ।
सुतु सम्यक् श्रियं लब्ध्वा देहांते तत्पदं ब्रजेत् ।
चूडामणिमथो वक्ष्ये मंत्रराजं सुदुर्ल्लभं ।
यज्ञज्ञानान्मुनयः सर्वे भृगुस्त्रैलोक्यदर्शिनः ।
चतुर्वर्णस्य मंत्रस्य कामाधो वह्णियोगतः ।
अयं शिखामणिः प्रोक्तस्त्रैलोक्यदर्शन क्षमः ।
नारदोऽस्य ऋषिः प्रोक्तो विराट्छन्द उदाहृतं ।
श्रीकृष्णो देवता चास्य मुनिभिः परिकीर्त्तितः ।
षड्दीर्घयुक्त कामेन बीजेनांग क्रिया मता ।
मंत्रसंपुटितं कृत्या वर्णन्यासं पुटितं कृत्या वर्णन्यासं तथा चरेत् ।
दशतत्त्वं ततो न्यस्य करांगन्यासमं ततः ।
वृन्दावनगतं ध्यायेत् कल्पकोट्यानमध्यगं ।
दोलायमानं गोपीभिः सुवर्णदोलिकागतं ।
सूर्ययायुत समाभासं लसन्मकरकुण्डलं ।
नानारत्नपरिभ्राजन्नानालंकारमण्डितं ।
पंचवर्षावधिं वाले कुंतलोल्लासि सन्मुखं ।
हसतोदार कांत्या च भासयंतं दिगंतरं ।
इति ध्यात्वा चतुर्ल्लक्षं जपेन्मनु शिखामणिं ।
तद्दशांशेन जुहुयात् पलाशैरथवाम्बुजैः ।
अंगेन्द्र वज्रावृत्तीभिः स्त्रीभिः पूजनमीरितं ।
ब्रह्मवृक्षोत्थ कुसुमैर्हुमेदयुतमादरात् ।
त्रिकालज्ञो भवेन्मंत्री नवनीत हुतादपि ।
श्रीफलस्य फलैर्होमाद्राज्यं प्राप्नोत्य कंटकं ।
लक्ष्मी पुष्पं हुतान्मंत्री चैव लक्ष्मीमवाप्नुयात् ।
मूल त्रिकोणमध्ये तु ज्योतीरूपं विचिन्तयन् ।
लक्षजापान्मनोरस्य त्रिकालज्ञो भवेद्ध्रुवं ।
करस्थामल कन्यायाद्विश्ववृत्तं च पश्यति ।
हृदि स्थितं जपानां च सर्वं पश्यति चुक्षुषा ।

पृ० ७१अ) रविवारेऽश्वत्थमूले शतमष्टोत्तरं जपेत् ।
एवं च नियतं कृत्वा म्रियतेनापमृत्युतः ।
वसंस्तत्र लक्ष जपात् सर्वज्ञो जायतेऽचिरात् ।।

इति श्रीगौतमीये सप्तविंशतितमोऽध्यायः ।। २७ ।।

गौतम उवाच
एकाक्षरं मनुवरं विष्णुं त्रैलोक्यमोहनं ।
श्रवणे यदि योग्योऽस्मि मुने ब्रूहि च तत्त्वतः ।

नारद उवाच
समस्त कृष्णमंत्राणामुद्दीपन करं पदं ।
केवलं तत् प्रयत्नेन कथयामि मुने शृणु ।
कामाक्षरं धरा संस्थं शांति बिन्दु विभूषितं ।
त्रैलोक्यमोहनं विष्णुं कथितं तव यत्नतः ।
आनन्द नारदश्चास्य ऋषि छन्दो विराडपि ।
त्रैलोक्यमोहनः प्रोक्तो देवता विष्णुरव्ययः ।
सर्वेषु कृष्णमंत्रेषु मंत्रोऽयं मंत्रनायकः ।
सृष्टिस्थिति दशतत्त्वं मातृकां मनु संपुटां ।
षडदीर्घभाजा बीजेन न्यासं करांगयोरपि ।
मूर्द्ध्णिभाले हृदि गुह्ये पादयोश्च यथाक्रमं ।
पंचबाणस्य बीजानि न्यस्य ध्यायेदथायुतं ।
थांतौ रेफ समायुक्तौ अनंत शांति भूषितौ ।
बिन्दुनादसमायुक्तौ बीजौ त्रैलोक्यमोहनौ ।
कामबीजं ततः पश्चज्जलंधरा समन्वितं ।
पंचम स्वरसंयुक्तं बिन्दुनाद समन्वितं ।
बीजान्येतानि चांते च चन्द्रः सर्ग समन्वितः ।
शोधन मोहन सन्दीपन तापनोन्मादनादथ ।
नामानुरूप फलदान् पंचार्ण मनुरप्यसौ ।
भंग विद्रुमसंकाश सर्वतेजो मयं वपुः ।
किरीटिनं कुण्डलिनं केयूरवलयान्वितं ।
मुक्ताली रत्नसम्बन्ध तुला कोटि युगान्वितं ।
नानालंकारसुभगं पीताम्बर युगावृतम् ।

पृ० ७१ब) गरुडोपरि सम्बध रक्तपंकज मध्यगम् ।
उत्तप्त हेमसंकाशां लक्ष्मीं रामोरु संस्थितां ।
सर्वालंकारसुभगां शुक्लवास युगान्वितां ।
सकामां लीलया देवं मोहयंतीं पुनः पुनः ।
शंख चक्र गदा पद्म पाशांकुशधनुः शरान् ।
धारयंतं जगन्नाथं रक्तपद्मारुणे क्षणं ।
लक्ष्मीं पद्मकरां वामे दक्षिणा लिंगितं पतिं ।
संस्थितां चिंतयेन्मंत्री मोहिनीं बिम्बमातरं ।
एवं ध्यात्वा जगन्नाथं विंशत्यक्षर पीठके ।
समावाह्य यजेन्मंत्री उपचारैरशेषतः ।
न्यास क्रमेण विधिवद् गन्धपुष्पादिभिर्यजेत् ।
लक्ष्मीस्तद्वामतः पूज्या श्रीबीजेन विधानवित् ।
कौस्तुभं गल देशे च किरीटं कुण्डल द्वयं ।
श्रीवत्सं वक्षः देशे च वनमाला गलोपरि ।
सर्वतेजो मया येति किरीटाय नम-इत्यथ ।
नाम मंत्रेण विधिवत् कौस्तुभादीन् समर्च्चयेत् ।
लयांगमेवमभ्यर्च्च्य भोगांगमथ पूजयेत् ।
पक्षान्द्रमग्रे संपूज्य कुर्वंतं स्तुति मादरात् ।
केशरेषु षडंगानि कोणमध्ये च दिक्षु च ।
अग्न्यादि दलमूले च वाणानि पुरतो विभोः ।
पुर आदि दलाग्नेषु प्रदक्षिण क्रमाद् यजेत् ।
लक्ष्मीं सरस्वतीं चैव रतिं प्रीति मनंतरं ।
कीर्ति कांति तुष्टि पुष्टीस्तथास्त्यादि कराग्रतः ।
वहिरिन्द्रादयः पूर्वास्तदस्त्राणि च तद्वहिः ।
एवं यः पूजयेन्मंत्री भक्त्या श्रीपुरुषोत्तमं ।
करप्रचेताः सर्वार्थास्तस्यांते तत् पदं व्रजेत् ।
रवि लक्षं जपेन्मंत्रं जहुयात्तद्दशांशतः ।

पृ० ७२अ) अमृतत्रय सिक्तेन पायसेन विधानचित् ।
अथवा रवि सहस्रं तु हुनेत्तावच्च तर्पणं ।
रक्तपद्मा युतं हुत्वा त्रैलौक्यं वशमानयेत् ।
केवलं घृतहोमेन जीवेद्वर्षशतं सुखी ।
पलाश लक्षहोमेन भवेत् वाक्पति सन्निभः ।
व्रतस्थः कोटि जापेन कैवल्यं लभते ध्रुवं ।
दशाष्टादशवर्णोक्त कर्म्म चानेन साधयेत् ।
अनेन सदृशो मंत्रः कृष्णमंत्रेण विद्यते ।
असौ समस्त मंत्राणां जीवनं कथितं मुने ।
निर्विर्ययाये च मंत्रो वै शक्तिहीनाश्च कुंठिताः ।
अरिपक्ष स्थिता ये च केवला वर्णरूपिणः ।
एतदाद्येन जप्तेन जीवंति च पुनंति च ।
हृषीकेश पदं ङेऽन्तं नमोऽन्तः कामपूर्वकः ।
अष्टाक्षर मनुः प्रोक्तः समस्त पुरुषार्थदः ।
ऋषि छन्दो दैवतानि पूजा प्रयोग कर्म्म च ।
एकाक्षर विष्णवत् सर्वं कुर्ययात् सर्वार्थ सिद्धये ।
त्रैलोक्य मोहनेत्युक्ता विद्महे तदनंतरं ।
कामदेवाय धीमही तन्नो विष्णुः प्रचोदयात् ।
कथिता विष्णु गायत्री समस्तजन रंजिनी ।
कामादि जपमात्रेण त्रैलोक्यवशकारिणी ।
सर्वपाप प्रशमनी सर्वायत् परिमोचनी ।
मंत्रसिद्धिं करी पुंसां प्रायश्चित्त विशोधनी ।।

इति श्रीगौतमीयेऽष्टाविंशोऽध्यायः ।। २८ ।।

अथापरं मंत्रवरं वक्ष्ये सर्वसमृद्धिदं ।
यमुपास्य सुराणां तु पालकोऽभूच्छत क्रतुः ।
सद्यः शौरच्छांतजांतौ क्रमेण सहसंयुताः ।
शांति बिन्दु समारूढाः प्रोक्तं बीज चतुष्टयं ।
जय कृष्णं द्विधा प्रोक्ता नित्यांते क्रीडा संशक्तं ।

पृ० ७२ब) ततः प्रमुदित चेतसे नित्य प्रियाय प्रोक्ता वै ।
कृष्णं ङेऽन्तं ततः प्रोक्ता कामांते दशवर्णकः ।
वाक् शक्तिः कमला बीजैः संपुटो मंत्रनायकः ।
सर्वेषां कृष्ण मंत्राणामयं मंत्रः शिखामणिः ।
धर्म्मार्थकाममोक्षाणामालयं संप्रदायतः ।
संप्रदाय विहीना ये मंत्रास्ते निष्फला मताः ।
आनन्द नारद ऋषिर्विराट् छन्द उदीरितं ।
श्रीकृष्णो देवता चास्य भक्ति मुक्ति फलप्रदः ।
पद्मषट्केन मतिमान् बीजाद्येनांग कल्पनं ।
पूर्ववन्न्यासजालं हि कृत्वा करांग शोधनं ।
ततश्च विविधन्न्यास मातृकां मनु संपुटां ।
ऋषि छन्दो देवतानि मूर्द्धिण् मुखे हृदि न्यसेत् ।
ध्यायेत् शितमतिर्म्मंत्री चराचर गुरुं हरिं ।
क्षीराम्भो निधि मध्यस्थं कनकाचल मध्यतः ।
ध्यायेत् स्वर्णमयीं भूमिं तन्मध्ये रत्नमण्डपं ।
अनेक योजनमितं विस्तीर्णं बहुयोजनं ।
नानारत्नमयस्तम्भ मुक्तादाम विराजितं ।
लसत्फेणमयैर्वस्त्रैश्चन्द्रा तप विचित्रितं ।
हंस कारण्ड चाकीर्णं पंकजोत् पलशालिभिः ।
मण्डितं दीर्घिका शतैर्म्महावाटी परिस्कृतं ।
स्वर्णप्राकार विकृते रत्नतोरणचित्रिते ।
तत्र रत्नासने रम्ये संस्थितं परमेश्वरं ।
रुक्मिणी भीष्मक सुते पार्श्वयोर्धृत चामरे ।
नानालंकार सुभगे वीक्षितं परया मुदा ।
कालिन्दी ऋक्षतनये पृष्टतो धृतवर्हके ।
महामेघ प्रभं श्यामं पद्मपत्रा रुणे क्षणं ।
पीताम्बर लसछ्रीमछ्रीवत्सकौस्तुभान्वितं ।
नानालंका *(र) सुभगं तारहार विराजितं ।

पृ० ७३अ) दीप्तरत्न किरीटं च स्फुरन्मकरकुण्डलं ।
गोरोचनाल *(स)द्भास तिलकं नीलकुंतलं ।
नारदाद्यैर्म्मुनिगणैरावृतं स्निग्धलोकेनैः ।
हृष्ट पुष्ट जनाकीर्णैर्नगरैर्बहुविस्तरैः ।
सौधैर्गृहैः समुत्कीर्ण पताकैः परिमण्डितैः ।
ब्रह्म क्षत्त्रिय विट्शूद्रैराकीर्णै रथपंक्तिभिः ।
रथपंक्ति द्वीपवरैः सर्वत्र परिमण्डितैः ।
ब्रह्म क्षत्त्रिय विद्शूद्र भवनैः पर्वतोयमैः ।
कामिनीभिः सुभव्याभिः सर्वत्र परिमण्डितैः ।
नानाविचित्रचित्रैश्च मण्डिताभिः समन्वितैः ।
एवं ध्यात्वा मुनिश्रेष्ठ लक्षमेकं जपेन्मनुं ।
बेल्वैः फलैस्त्रिमध्वक्तैर्ज्जुहुयात्तदनंतरं ।
तर्पयेत्तद्दशांशेन मंत्रज्ञो विप्र मुख्यकान् ।
रत्नाभिषेका गोपालपीठे देवं प्रपूजयेत् ।
षडंगावृति बाह्ये तु महिषीः पत्रगाः यजेत् ।
रुक्मिण्याद्या महारत्न भूषिताः प्रकृतयः शुभाः ।
तद्वहिरिन्द्रवज्राद्या जात्यधिपाः सवाहनाः ।
एवमभ्यर्च्चनं कृत्वा सिधमंत्रो द्विजोत्तमः ।
प्रयोगान् साधयेद्यस्तु कर्त्ता हर्त्ता च सर्वतः ।
श्रीपुष्पैर्लक्षमात्रेण होमाद्भूमि पुरन्दरः ।
पालाशैर्लक्षहोमेन वागीश समतां व्रजेत् ।
हयारि रक्तकुसुमैर्ज्जगद्रंजनकारकः ।
केनलं घृतहोमेन जीवेद्वर्षशतं सुखी ।
अन्नहोमेन धनवान् पशुमान् दुग्धहोमतः ।
कारस्करफलैर्होमाछत्रून्यूच्चाटयेत् क्षणात् ।
मरीच होमात्मतिमान् मारयेद्रिपुमात्मनः ।
पुण्डरीकायुतं हुत्वा मुच्यते सर्वपातकैः ।
अन्वक्षमात्रहोमेन राज्यैश्वर्ययमवाप्नुयात् ।
आत्मानं कंसमथनं रिपुंर्कसात्मकं स्मरन् ।

पृ० ७३ब) दक्षिणाभिमुखो भूत्वा दशसाहस्र जापतः ।
क्रुद्धाशयस्तथा मंत्री मलिनो मारयेद्रिपुं ।
अप्यमृतासने नित्यं शक्र वैवस्वता तिथिः ।
अस्य मंत्रान तत् कश्चिन्नास्त्येव भुवनत्रये ।
न शस्तं मारणं कर्म्म यतः स्याद्वैष्णवे मनौ ।
ब्रह्मन् ब्रह्मास्त्रमादाय शशकादौ नमश्चरेत् ।
यदि कुर्ययात् प्रमादेन एषु स्थानेषु संभवेत् ।
(+ यदि कुर्ययात् प्रमादेन एषु स्थानेषु संभवेत् ।)
पापिनेहे कायापि शठाय जनतापिने ।
आत्मवित्तं गृहक्षेत्र कलत्राद्वापहारिणे ।
अभिचारेणाभिचरेत्तदा दोषौर्न लिप्यते ।
दुष्टानां दमनं शस्तं कथितं त्वयि गोतम ।
अजः स्वयं प्रजायेते तत् पथानां विनिग्रहे ।
लक्षमेकं जपेन्मंत्रं प्रायश्चित्ताय देशिकः ।
तेन पापैर्विमुक्तोऽसौ भवेत् कल्याण संयुतः ।
साध्यं संकृत्यकृत्या च साधकं भोक्तुमिच्छति ।
तेनात्मानं सदा रक्षेत् कृत्येनानेन देशिकः ।
मृत्युंजयं चा प्रजपेन्मत्रादौ गुरुवक्त्रतः ।
सर्वत्र कर्म्मसु सदा गुरवे च हि कारणं ।
गुरोरनुज्ञामादाय सर्वकर्म्मणि साधयेत् ।।

इति गौतमीये वनत्रिंशोऽध्यायः (एकोनत्रिंशोऽध्यायः)।। २९ ।।

अथ शृणु प्रवक्ष्यामि मंत्रं श्रीपुरुषोत्तमं ।
यज ज्ञानात् साधकवरो भोगमुक्त्योश्च भाजनं ।
समस्तसिद्धि संयुक्तो जीवन्मुक्तो महीं चरेत् ।
देहांते केवलं धामयाति तत् परमं पदं ।
सर्वेषु कृष्णमंत्रेषु श्रेष्ठः श्रीपुरुषोत्तमः ।
भुक्ति मुक्ति करः साक्षात् स्मरणादेव वै नृणां ।
प्रणवं मारबीजं च रमांते नम इत्यथ ।

पृ० ७४अ) पुरुषोत्तम पदं चोक्ता तथा प्रहतरूपितः ।
ततो लक्ष्मी निवासांते सकलांते जगत्तथा ।
क्षोभणेति पदं चोक्ता समाहित मना भवेत् ।
सर्वस्त्री हृदयोपेता विदारण पदं तथा ।
उल्का ततस्ति भुवनमदोन्मादकरं तथा ।
सुरासुरांते मनुज सुन्दरी जनवल्लभं ।
मनसि तापय द्वन्द्वं दीपय द्वितयं ततः ।
शोशय द्वितयं भूयो मारय द्वितयं परं ।
स्तम्भय द्वितयं पश्चान्मोहय द्वितयं पुनः ।
द्रावय द्वितयं पश्चात् खड्गेन तदनंतरं ।
सर्वबाणैश्छिन्धि युगं पाशेनेति पदं ततः ।
कट्ट द्वयांते चांकुशेन ताडय द्वितयं पुनः ।
तुरुशब्दद्वयं मथोकं किं तिष्ठसि पदं पुनः ।
तावत् यावत् पदस्यांते समाहित मनंतरं ।
ततो मे सिद्धिराभाष्य भवत्वंते च ठ द्वयं ।
जैमिनिर्म्मनिराख्यातश्छन्दश्चामितमीरितं ।
समस्त जगतामादिर्द्देवता पुरुषोत्तमः ।
पुरुषोत्तम शब्दांते वदेत्त्रिभुवनं पुनः ।
मदोन्मादकरांते हुं हृदयं सकलं ततः ।
जगत् क्षोभण शब्दांते लक्ष्मी दयित हुं शिवः ।
मन्मथोत्तम संयुक्तमंगजे कामदायिनी ।
हुं शिखा परमोपेत सुभगाक्षर संयुतं ।
सर्वसौभाग्यकरं हुं कवचं परिकीर्त्तितं ।
मनांसि हर युग्मांते दारय द्वितयं च मे ।
वशमानय हुं नेत्रं ताराभ्यां षट् नमोऽन्तिकाः ।
अंगमंत्राः समुद्दिष्टा नेत्रांतास्तंत्र वेदिभिः ।
त्रैलोक्यमोहनांते च हृषीकेश पदं ततः ।
पश्चाद प्रतिरूपादि मन्मथानंतरं पुनः ।

पृ० ७४ब) सर्वादि स्वीपदं चोक्ता हृदयाकर्षणं ततः ।
आगच्छागच्छ मंत्रोऽयं ताराद्येन समन्वितं ।
अनेन मनुना कृत्वा व्यापकस्य च वाहुषु ।
अष्टविधानि मंत्राणि मंत्रैः सार्द्धम्विचिंतयेत् ।
क्षीराम्भो निधि मध्यस्थं निरंतर सुरद्रुमं ।
उद्यदर्केन्दु किरणं दूरीकृत मनोहरं ।
देव समालोक नृत्यत्यद्वर्हि वर्ह कदम्बकं ।
उत्फुल्लकुसुमामोद प्रहर्षादंगसंकुलं ।
कूजत् कोकिलमंचेन वा चालित दिगंतरं ।
नानाकुसुमसौरभ्य वाहि गन्धवहांचितं ।
कल्पवल्ली निकुंजेषु क्रीडत् सिद्ध कदम्बकं ।
देव गन्धर्व नारीभिर्गायंतीभिरलंकृतं ।
अनेक दीर्घिका युक्तं उद्यानं सुमहाद्भूतं ।
तस्य मध्ये मणिमये मण्डपे तोरणांचिते ।
ऋतुभिः षड्भिरनिशं सेवितस्य महौजसः ।
सुरद्रुमस्य मूलस्थे महासिंहासने शुभे ।
रक्तारविन्दमध्यस्थं गरुडोपरि संस्थितं ।
ध्यायेद्दर्ल्लभया सार्द्धं जगन्नाथं जगन्मयं ।
देवं श्रीपुरुषोत्तमं कमलया स्वांकस्थया ।
पंकजं विभ्रत्या परिणद्धमम्बुजरूचा ।
तस्यां निरुद्धे क्षणं ध्यायेच्चेतसि शंख पद्म मुषलांश्चापारि खड्गान् गदां हस्तैरंकुशमुद्वहंतमरुणं स्मेरारविन्दाननं ।
एवं ध्यात्वा श्रियः कांतं मनुं लक्ष चतुष्टयं ।
जपेद्वशी विधायाथ कुण्डमर्द्धेन्दुसन्निभं ।
जुहुयाद्वैष्णवे वह्नौ पुष्पैर्ज्जाती समुद्भवैः ।
पुष्पैर्यवैश्चक्रमुखे ब्राह्मणानपि भोजयेत् ।
अर्च्चयिष्यन् जगन्नाथं गायत्र्या परिशोधितं ।
आत्मानं यागवस्तूनि यागभूमिं च देशिकः ।

पृ० ७५अ) त्रैलोक्यमोहनायेति विद्महे पदमीरयेत् ।
स्मराय धीमहि पश्चात्तन्नो विष्णुः प्रचोदयात् ।
गायत्त्रीया समाख्याता वैष्णवी सर्वसिद्धिदा ।
प्राक् प्रोक्त वैष्णवे पीठे कल्पयेदासनं ततः ।
पक्षिराजाय च द्वन्द्वमस्य मंत्रः प्रकीर्त्तितः ।
संकल्पितायां मूलेन मूर्त्तौ देवमनन्यधीः ।
आवाह्यमनुना मंत्री व्यापकेन समर्च्चयेत् ।
भृगुर्वांतयुतं सेन्दुबीजं देव्याः प्रकीर्त्तितं ।
कर्णिकायां यजेदादौ विद्यानेनांग देवताः ।
दलमूलेषु पूजयेल्लक्ष्याद्याधृतचामराः ।
मुक्ताहारलसत्कांत पयोधर भरालसाः ।
जवाकुसुमसंकाशा मदविभ्रम मन्थराः ।
ह्रस्व त्रय क्लीवसर्ग रहित स्वर शोभितं ।
देवी बीजं क्रमादासां मंत्रमाहुर्म्मनीषिणः ।
दलाग्रेषु यजेच्छंखं शांर्गं चक्र मसिं गदां ।
अंकुशं मुषलं पाशमेतान्यस्त्राणि शांर्गिणः ।
स्वमुद्राभिः स्वममुभिः कथ्यंते मनवः क्रमात् ।
आद्यो जलचरायांते ठद्वयं मुनिरीरितः ।
शांर्गी यशः शवायांते स्वाहांतं परमो मनुः ।
सुदर्शन महाचक्रे जायांते स्याद्दहद्वयं ।
सर्वदुष्टान् ततः पश्चात् कुरु छिन्धि युगं पृथक् ।
विदारय पदद्वन्द्वं परमंत्रान् ग्रस ग्रस ।
भक्षय त्रासद्वय द्वन्द्वं प्रत्येकं रक्ष फट् द्वयं ।
चक्राय नम इत्येष तृतीयो मंत्र ईरितः ।
खड्ग तीक्ष्ण पदांते स्यात् प्रत्येकमस्व फट् द्वयं ।
चक्राय नम इत्यस्य द्वितीयो मनुरीरितः ।
खड्गतीक्ष्णे पदस्यांते छिन्धि खण्ड युगं पृथक् ।
चतुर्थोऽयं मनुः प्रोक्तः कौमोदकी महामते ।
सर्वासुरांतक पदं प्रसीद युग वर्म्म फट्

पृ० ७५ब) स्वाहांतोऽयं मनुः प्रोक्तः सद्भिः कौमोदकी परः ।
अंकुशांते कट्टद्वयं षष्ठोऽयं मनुरीरितः ।
सम्वर्त्तकाले मूषलायाथ यद्वितयं पुनः ।
हुं फट् द्विठांतो मंत्रोऽयं सप्तमः परिकीर्तितः ।
पाशबद्धद्वयं पश्चादाकर्षण पद द्वयं ।
वह्णिजायावधिः सद्भिः अष्टमो मनुरीरितः ।
लोकेशान् पूजयेत् पश्चाद्वस्त्राद्यैरायुधैः सह ।
इत्थमभ्यर्च्चयेन्नित्यं यथावत् पुरुषोत्तमं ।
प्राप्नोति महतीं लक्ष्मीं सौभाग्यमतुलं यशः ।
आयुरारोग्यमन्यानि मनोऽभीष्टानि विन्दति ।
हयारि कुसुमैर्द्देवमर्च्चयित्वा मथा विधि ।
शशिप्रसुनैर्ज्जुहुयादष्टोत्तरसहस्रकं ।
मासमात्रेण वशगास्तस्य स्युः सकला नृपाः ।
हुत्वा बिल्वफलैः पत्रैः श्रियं विन्देद निन्दितां ।
प्रफुलैररूनाम्भोजैस्तामेव लभते नरः ।
हुत्वा ज्योतिष्मती तैलं सहस्रं वसुसंज्ञकं ।
सुभगो जायते सम्यक् सर्वेषां नात्र संशयः ।
विधानेनामुना मंत्री महारोगात् प्रमुच्यते ।
अश्वत्थ समिधा होमः पराकृत धनापहः ।
आज्याक्त दुर्वाहोमेन मुच्यते मृत्युतो भयात् ।
यस्म नाम युतं मंत्रं जपेदयुतं संख्यया ।
सभवेद्दासवत्तस्य नात्र कार्यया विचारणा ।
बहुना किमिहोक्तेन मनुना साधकोत्तमः ।
साधयेत् सकलान् कामान् साक्षाद्विष्णु शिवा परान् ।
अथ मंत्रं प्रवक्ष्यामि दृष्टादृष्ट फलप्रदं ।
पूर्वोत्तरं भुवं भीत्वा सूत्रं नव नवं न्यसेत् ।
जायते तत्र कोष्ठाणि चतुषष्टि प्रभेदतः ।
ईशानाद्राक्षसं यावद्राक्षसाद्वायुकोणगं ।
विलिखेन्मंत्रवर्णानि अनुष्टुभ भवानि च ।

पृ० ७६अ) यंत्रमेतत् समाख्यातं सर्वतोभद्र संज्ञकम् ।
सर्वरोग प्रमथनं समस्तपुरुषार्थदम् ।
लिखितं भूर्ज्जपत्रादौ यंत्रमेतद् यथाविधि ।
विधृतं वाहुना नित्यं सर्वकाम फलप्रदं ।
फलके खादिरे कॢप्ते गवां गोष्ठे निवेशितं ।
रक्ष कृच्चौरमारीघ्रं सवत्सानां गवांहितं ।
क्षीरगो ग गोक्षीर रक्षमा क्ष क्षमाक्षर गोनामो गगणो नागो पक्ष ग क्षय ।
इत्येवं यं तत्वं च कथितं तव सुव्रत ।
केवलं तत् प्रयत्नेन किमन्यत् श्रोतु मर्हसि ।।

इति श्रीगौतमीये त्रींशोऽध्यायः ।। ३० ।।

गौतम उवाच
सर्वज्ञ सर्वतत्वज्ञ सर्वतत्त्वार्थ पारग ।
स्वायम्भुवे नमस्तुभ्यं कृपां कुरु कृपा कर ।
तवनाविदितं किंचित् त्रैलोक्ये स चराचरे ।
इदानीं कथय ब्रह्मन् मंत्रसिद्धेस्तु लक्षणं ।
सिद्ध्युपायं कतिविधं कथय स्वानुकम्पया ।

नारद उवाच
मनोरथा नाम क्लेशं सिद्धेरुत्तमकारणं ।
मृत्युनां हरणं तद्वद्देवतादर्शनं तथा ।
प्रयोगिनां क्लेशसिद्धिः सिद्धेस्तु क्षणं परं ।
परकाय प्रवेशं च पुरप्रवेशनं तथा ।
उर्द्धोत् क्रमेण चैवं हि चराचरे मुरे गतिः ।
खेचरी मेलनं चैव तत् कथा श्रवणादिकं ।
भूछिद्राणि च वक्ष्यामि चाधमस्य च लक्षणं ।
खातिर्वाहन भूषादिर्लाभः सुचिरजीवनं ।
नृपाणां तद्गणानां च वशीकरणमुत्तमं ।
सर्वत्र सर्वलोकेषु चमत्कार करं सुखी ।
रोगापहरणं दृष्ट्या विषापहरणं तथा ।
पाण्डित्यं लभते मंत्री चतुर्विधं प्रयत्नतः ।
वैरात्पंच मुमुक्ष्वत्वं त्यागिता सर्ववश्यता ।

पृ० ७६ब) अष्टांग योगाभ्यसनं भोगेच्छा परिवर्त्तनं ।
सर्वभूतेष्वानुकम्पा सर्वज्ञादि गुणोदयः ।
इत्यादि गुण सम्पत्ति मथ सिद्धेस्तु लक्षणं ।
ख्यातिर्भूषण वाहादि लभः सुचिर जीवनं ।
नृपाणामंगनानां च वात्सल्यं लोक वश्यता ।
महैश्वर्ययं धनित्वं च पुत्त्रदारादि सम्पदः ।
अधमाः सिद्धयः प्रोक्ता मंत्री प्रथम भूमिकाः ।
सिद्धमंत्रस्तु यः साक्षात् स शिवो नात्र संशयः ।
सिद्धलक्षणमित्युक्तं तदुपायमिहोच्यते ।
पितृ मातृ विशुद्धा ये शुद्धाचारा जितेन्द्रियाः ।
संप्रदायेनोपदिष्टास्तेषां सिद्धिर्द्रुतं भवेत् ।
मलिना मलसंछन्नाः पापिनस्तरलाशयाः ।
देवार्च्चनादि विमुखा गुरवे शठवृत्तयः ।
तेषां कृतस्तेन सिध्यंति मंत्र जप हुत्वादिभिः ।
ये मंत्रा मलसंछन्ना केवला वर्णरूपिणः ।
निजीर्वाः सत्तहीना ये कुंठिताश्च तिरस्कृताः ।
अरिपक्षे स्थिता ये च पापादिगणसंयुताः ।
ये मंत्राश्च विधि प्राप्ता ये च सिद्धांत वर्जिताः ।
इत्यादि दोष दुष्टाश्च सिद्धिदानाल्पयोगतः ।
पशुभावे स्थिता मंत्राः केवला वर्णरूपिणः ।
सौषुम्न ध्वन्युच्चरिताः प्रभुत्वं प्राप्नुवंतु ते ।
वक्ष्यामि चरमेऽध्याये तदुपायं तवानघ ।
संस्कारादथकल्पांते येन मंत्रस्य सिद्धयः ।
स्वल्पयोगेन विधिवत्तांश्च वक्ष्यामि तत्त्वतः ।
जननं जीवनं पश्चात्ताडनं बोधनं तथा ।
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गोप्तिर्दशैता मंत्र संस्क्रियाः ।
स्वर्णादिपात्रे संलिख्य मातृका यंत्रमुत्तमं ।
काश्मीर चन्द्रनेनाथ भस्मना चाथ सुव्रत ।

पृ० ७७अ) काश्मीरं शक्ति संस्कारे चन्द्रनं वैष्णवे मनौ ।
शैवे भस्म समाख्यातं मातृकायंत्र लेखने ।
मंत्रारणां मातृका मध्यादुद्धारो जननं स्मृतं ।
पंक्ति क्रमेण विधिना मुनिभिस्तंत्रनिश्चयैः ।
प्रणवांतरितान् कृत्वा मंत्रवर्णान् जपेत् सुधीः ।
प्रत्येकं शतवारं तु जीवनं तदुदाहृतं ।
मंत्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ।
प्रत्येकं वायुबीजेन पूर्ववत्ताडनं मतं ।
भस्मना कुसुमेनाथ चन्दनेनाथवा पुनः ।
शैवादि तंत्रभेदेन प्रोक्तं द्रव्यत्रयं शुभं ।
विलिख्य मंत्र पिण्डं तु प्रसूनैः करवीरजैः ।
तन्मंत्रवर्ण संख्याकैर्हत्याद्रेफेण बोधनं ।
तत्तन्मंत्रोक्त विधिना अभिषेकः प्रकीर्त्तितः ।
अश्वष्यपल्लवैः सिंचेन्मंत्री मंत्रार्ण संख्यया ।
संचिंत्य मनसा मंत्रं सुषुम्नामूल मध्यतः ।
ज्योतिर्म्मंत्रेण विधिवद्दहेन्मलत्रयं पतिः ।
तारं व्योमाग्निमरुयुग् दण्डीते पतिर्म्मनुर्म्मतः ।
मार्जनं कुशतोयेन पुष्पतोयेन वा तथा ।
तेन मंत्रेण विधिवदाप्यायन विधिः स्मृतः ।
दीपयेत् सर्वमंत्राणा योगतस्ताव कामयोः ।
दीप्यमानं च मंत्रं च गोपयेत् सर्वसिद्धिदं ।
अधुना शक्ति तंत्रैषु वैष्णवे चेन्दुमज्जलैः ।
शैवे घृतेन दुग्धेन तर्पणं सम्यगीरितं ।
एते च कथितास्तुभ्यं दशैता मंत्रसंस्क्रियाः ।
यान् कृत्वा सम्प्रदायेन मंत्री वांछितमश्नुते ।।

अथान्यत् संप्रवक्ष्यामि मंत्राणां सिद्धिलक्षणं ।
यत् कृत्वा मनुवित् सम्यक् शुद्धिमाप्नोत्य यत्नतः ।
निर्वीर्यया मनवो ये च तेषु बीजानि योजयेत् ।

पृ० ७७ब) कामं वा विषबीजं वा जपनात् सिद्धिदो मनुः ।
अथान्यत् संप्रवक्ष्यामि सिद्ध्युपायं मुने शृणु ।
स्थानस्थावरदामंत्रा ध्यानस्थाश्च फलप्रदाः ।
स्थान ध्यान विहीना ये कोटिजापात् फलं नहि ।
अथातोऽन्यत् प्रवक्ष्यामि मंत्रसिद्धेस्तु लक्षणं ।
मातृका पुटितं कृत्वा स्वमंत्र प्रजपेत् सुधीः ।
वर्णग्रंथात्य वृत्याह्या द्वारलक्षं समाप्यते ।
निश्चितं मंत्रसिद्धिः स्यादित्युक्तं तंत्रवेदिभिः ।
अथ संक्षेपतो वक्ष्ये पुरश्चरणमुत्तमं ।
चन्द्र सूर्यय ग्रहे चैव शुचिः पूर्वमुपोषितः ।
नद्यां समुद्र गामित्यां नाभिमात्र जले स्थितः ।
ग्रासावधिविमोक्षांतं जपेन्मंत्रं समाहितः ।
होमयेत्तद्दशांशेन तद्दशांशेन तर्पणं ।
अभिषिंचेद्दशांशेन दशांशं विप्र भोजनं ।
इत्येवं पंचकृत्तेन सिद्धमंत्रो भवेन्नरः ।
अथवा मूर्द्धि्णदेशे च गुरुं संचिन्त्य वाग्यतः ।
पूर्वाग्रे निवसेन्मंत्री मंत्रोक्तं जपमाचरेत् ।
अनंतरं दशाशेन क्रमाद्धोमादिकं चरेत् ।
एवं कृत्वा सिद्धमंत्रो भवेन्मंत्री न चान्यथा ।
गुरु संतोषमात्रेण सिद्धिः स्यादपवर्गदा ।
ना जप्तः सिध्यते मंत्री जाहुतश्च कदाचन ।
ना पूजितश्च विधिवन्नातर्पितो ना भोजितः ।
पंच तत्तमते मंत्रे कालसंख्या न विद्यते ।
कृते चोक्त जपात् सिद्धिस्त्रेतायां द्विगुणो जपः ।
द्वापरे त्रिगुणाच्चैव कलौ संख्या चतुर्गुणा ।
कृष्णमंत्रेण देवर्षे युगसंख्या न विद्यते ।
जप होम तर्पणाद्यैः सिध्यते कृत संख्यया ।
सिद्धमंत्र तयानात्र युगसेवा परिश्रमः ।।

पृ० ७८अ) इति श्रीगौतमीये एकत्रिंशोऽध्यायः ।। ३१ ।।

अथापरं प्रवक्ष्यामि सिद्ध्युपायं महाद्भूतं ।
येन सिद्धेन मनुवित् सृष्टि स्थित्यंत कारकः ।
तत्तत्कर्म्मानुरूपेण तत्तद्योगं प्रयोजयेत् ।
ग्रथनादि प्रभेदश्च मंत्राणां वक्ष्यतेऽधुना ।
ग्रथितं संपुटं ग्रस्तं समस्तं च विदर्भितं ।
तथा चाक्रांत माद्यंतं गर्भस्थं सर्वतो वृतं ।
तथा मुक्ति विदर्भं च विदर्भ ग्रथितं तथा ।
इत्येकादशधा मंत्राः प्रयुक्ताः कार्यया सिद्धिदाः ।
साध्यनामार्णमेककं मंत्रांते संप्रयोजितं ।
ग्रथितं तत् समाख्यातं वश्याकृष्टिकरं परं ।
मंत्रमादौ वदेत् सर्वं साध्यसंज्ञमनंतरं ।
विपरीतं पुनश्चांते मंत्रं तत् संपुटं स्मृतं ।
शांति पुष्टि करं ज्ञेयं त्रैलोक्यैश्वर्ययदायकं ।
अर्द्धमर्धं तथाढ्यंते मंत्रं कुर्ययाद्विचक्षणः ।
मध्ये चास्य भवेत् साध्यं ग्रस्तमित्यभिधीयते ।
अभिग्रस्तैस्तथा मंत्रैर्म्मारणोच्चाटनेषु च ।
अभिधानं वदेत् पूर्वं पश्चान्मंत्रं तथा वदेत् ।
एतत् समस्तमित्युक्तं शत्रूच्चाटन कारकं ।
द्वौ द्वौ मंत्राक्षरौ यत्र एकैकं साध्यवर्णंकं ।
विदर्भितं तु संप्रोक्तं दुष्टघ्न वश्यलक्षणं ।
मंत्रार्णं तरितं सर्वं स मंत्रात्तिष्ठते यदि ।
आक्रांतं तद्विजानीयात् सद्यः सर्वार्थदायकं ।
क्षोभः स्तम्भः समावेश वश्योच्चाटन कर्म्मसु ।
सकृत् पूर्वं वदेन्मंत्रमंते चैव तथा पुनः ।
मध्ये चास्य भवेत् साध्यमाद्यंतमिति तद्विदुः ।।

पृ० ७८ब) अन्योऽन्यं प्रतियुक्तानां विद्वेषण करं परं ।
आदौ चांते तथा मंत्रं द्धिवारं संप्रयोजयेत् ।
साध्य नाम सकृन्मध्ये गर्भस्थं तु तदोच्यते ।
मारणोच्चाटनं वश्यं प्रयुक्तं कारयेन्नृणां ।
हेतिनौ सौम्यधीर्गर्भं स्तम्भयेच्च गते तथा ।
त्रिधामंत्रं वदेत् पूर्वन्तथैवांते पुनस्त्रिधा ।
सकृत् साध्यं भवेन्मध्यं तं विधात् सर्वतो वृत्तं ।
सर्वाभिचार शमनं महामृत्युनिवारणं ।
सर्वसौभाग्यजननं मृतानाम मृतप्रदं ।
आदौ मंत्रं ततो नाम साध्याक्षरमथा लिखेत् ।
एवमेवं त्रिधा कृत्वा भवेन्मुक्ति विदर्भितं ।
सर्वव्याधिहरं प्रोक्तं भूतापस्मारमर्द्दनं ।
एकैकं वर्णमध्यं तु कृत्वा मंत्र विदर्भितं ।
पूर्ववत् कथितं चान्यत्तस्यादांते प्रकल्पयेत् ।
विदर्भ ग्रथितं नाम मंत्ररामनुत्तमं ।
सर्व कर्म्मकरं प्रोक्तं सर्वैश्वर्यय फलप्रदं ।
एवमेते प्रयोगाः स्युः सिद्धमंत्रस्य सिद्धिदाः ।

अथापरं प्रवक्ष्यामि मंत्रसिद्धेस्तु लक्षणम् ।
यज्ज्ञात्वा साधकश्रेष्ठो मंत्रं सिद्धिं लभेद्ध्रुवं ।
सभ्यगनुष्ठितो मंत्रो यदि सिद्धिर्न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो भवेद्ध्रुवं ।
पुनरनुष्टितो मंत्रो यदि सिधिर्न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो न संशयः ।
पुनः सोऽनुष्ठितो मंत्रो यदि सिद्धिर्न जायते ।
उपायास्तत्र कर्तव्याः सप्तशंकर भाषितः ।
भ्रामणं बोधनं वश्यं पीडनं शोषपोषणं ।
दहनांतं क्रमात् कुर्ययात् ततः सिद्धो भवेद्ध्रुवं ।
भ्रामणं वारुणे बीजे ग्रथनं क्रमयोगतः ।

पृ० ७९अ) रोचना गुरु संमिश्रं एला कर्पूर कुंकुमैः ।
उशीरचन्दनाभ्यां तु मंत्रं संग्रथितं लिखेत् ।
क्षीराज्य मधुतोयानां मध्ये तल्लिखितं क्षिपेत् ।
पूजनाज्जपनाद्धोमाद् भ्रामितः सिद्धिदो भवेत् ।
भ्रामितो यदि सिध्येत बोधनं तस्य कारयेत् ।
भ्रमणं कामबीजेन संपुटीकृत्य संजपेत् ।
एवं रुद्धो भवेत् सिद्धो नचेदे तद्वशी कुरु ।
अलक्तं चन्दनं कुष्ठं हरिद्रा सदनं शिलाः ।
एतैस्तु मंत्रमालिख्य भूर्ज्जपत्रे सुशोभने ।
धार्यया कंठे भवेत् सिद्धः पीडनम्वापि कारयेत् ।
अधरोत्तर योगेन पदेन परिजाप्य वै ।
ध्यापीत देवतां तद्वदधरोत्तर रूपिणीं ।
विद्यामादित्य दुग्धेन लिखित्वा क्रम्य चांघ्रिणा ।
तथा भूतेति मंत्रेण होमः कार्ययो दिने दिने ।
पीडिते लज्जया विष्टः सदा तदथ पोषयेत् ।
वालायास्तृतीयं बीजमाद्यंते तस्य योजयेत् ।
गोक्षीरमधुना लिप्य विद्यां पाणौ विधारयेत् ।
पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वी न शोषणं ।
द्वाभ्यां च माथया बीजं धारयेत् कर कंठयोः ।
एषा विद्या गमे धार्यया बलवीर्यय समन्विता ।
शोषितोऽपि न सिद्धिश्चेद्दहनीयोऽग्निबीजतः ।
अग्ने येन तु बीजेन मंत्राद्य करमक्षरं ।
आद्यं तु मध्य उर्द्धं तु ये गोदोहन्न कर्म्मणि ।
ब्रह्मवृक्षस्य मूलेन कृत्वा दर्भमयं ततः ।
शुभे देशे तते मंत्रः सिद्धः स्याच्छंकरोदितं ।
इत्येवं कथितं सम्यक् केवलं तव भक्तितः ।
एकैन तु कृतार्थः स्याद्बहुभिः किं च सुव्रतः ।

पृ० ७९ब) अथापरं प्रवक्ष्यामि मंत्रौषधि महाद्भुतां ।
यः प्रयोग विधानेन सद्यः सिद्धो भवेद्ध्रुवं ।
करवीरस्य मूलेन पिष्टेन मधु पाणिना ।
तल्लिप्तांगा कृतः कंठे मनुं सद्यः प्रसीदति ।
विमुक्त सर्वपापौघः कृष्णं पश्यति चतुषा ।
जीवन्मुक्तो भवेन्मंत्री सत्यं सत्यं मयोदितं ।
यत्र वा कुत्रचिद्देशे गंतु कामो यथा भवेत् ।
अथवा भूतले मंत्री पाताले वापि कौतुकात् ।
तत्क्षणात्तप्रयात्येव सर्वसिद्धिश्वरो भवेत् ।
इत्येवं कथितं सम्यक् मंत्रसिद्धेस्तु लक्षणं ।
तदुपायं तदा ब्रह्मन् केवलं तव भाग्यतः ।
अनेक तंत्र संप्रोक्तमनेक मुनि सम्मतं ।
इदानीं तु पुनर्ब्रह्मन् किं पुनः श्रोतुमिच्छसि ।।

इति श्रीगौतमीये महातंत्रे सर्वतंत्रोत्तमे द्वात्रिंशोऽध्यायः ।। ३२ ।।
समाप्तः शुभम् ।।
जम्बूमध्ये लिखितमिदम्पुस्तकं सं० १९४४ भाद्रपदे मासि

"https://sa.wikisource.org/w/index.php?title=गौतमतन्त्रम्&oldid=409709" इत्यस्माद् प्रतिप्राप्तम्