सामग्री पर जाएँ

गौड़राज्ञाम् अभिलेखानि/धर्मपालस्य मुर्शिदाबाद ताम्रशासनम्

विकिस्रोतः तः
               




   


सम्मुखभागम्

 


पश्चाद्भागम्

 


राजमुद्रा

राजमुद्रा: श्रीमान् धर्मपालदेवः

सिद्धं स्वस्ति ॥
सर्वज्ञतां श्रियमिव स्थिरमास्थितस्य वज्रासनस्य बहुमार-कुलोपलम्भाः ।
देव्या महाकरुणया परिपालितानि रक्षन्तु वो दशबलानि दिशो जयन्ति ॥ (१)
श्रिय इव सुभगायाः सम्भवो वारिराशिः शशधर इव भासो विश्वमाह्लादयन्त्याः।
प्रकृतिरवनिपानां सन्ततेरुत्तमाया अजनि दयितविष्णुः सर्व-विद्यावदातः ॥ (२)
आसीदासागरादुर्वीं गुर्वीभिः कीर्तिभिः कृती ।
मण्डयन् खण्डितारातिः श्लाघ्यः श्री-वप्यटस्ततः ॥ (३)
मात्‌स्य‑न्यायमपोहितुं प्रकृतिभिर्लक्ष्म्याः करं ग्राहितः श्री-गोपाल इति क्षितीश-शिरसां चूड़ामणिस्तत्‌सुतः ।
यस्यानुक्रियते सनातन-यशो-राशिर्दिशामाशये श्वेतिम्ना यदि पौर्णमास-रजनी ज्योत्‌स्नातिभार-श्रिया ॥ (४)
शीतांशोरिव रोहिणी हुतभुजः स्वाहेव तेजोनिधेः शर्वाणीव शिवस्य गुह्यकपतेर्भद्रेव भद्रात्मजा ।
पौलोमीव पुरन्दरस्य दयिता श्री-देद्ददेवीत्यभूद्देवी तस्य विनोद-भूर्मुर-रिपोर्लक्ष्मीरिव क्ष्मापतेः ॥ (५)
ताभ्यां श्री-धर्मपालः समजनि सुजन-स्तूयमानावदानः स्वामी भूमीपतीनामखिल-वसुमती-मण्डलं शासदेकः ।
चत्वारस्तीर-मज्जत्करि-गण-चरण-न्यस्त-मुद्राः समुद्रा यात्रां यस्य क्षमन्ते न भुवन-परिखा विश्वगाशा-जिगीषोः ॥ (६)
यस्मिन्नुद्दाम-लीला-चलित-बल-भरे दिग्‌जयाय प्रवृत्ते यान्त्यां विश्वम्भरायां चलित-गिरि-तिरश्चीनतां तद्वशेन ।
भाराभुग्नावमज्जन्मणि-विधुर-शिरश्चक्र-साहायकार्थं शेषेणोदस्त-दोष्णा त्वरिततरमधोऽधस्तमेवानुयातम् ॥ (७)
यत्प्रस्थाने प्रचलित-बलास्फालनादुल्ललद्भिर्धूलीपूरैः पिहित-सकल-व्योमभिर्भूतधात्र्याः ।
सम्प्राप्तायाः परमतनुतां चक्रवालं फणानां मग्नोन्मीलन्मणि-फणिपतेर्लाघवादुल्ललास ॥ (८)
विरुद्ध‑विषय‑क्षोभाद्यस्य कोपाग्निरौर्ववत् ।
अनिर्वृति प्रजज्वाल चतुरम्भोधि-वारितः ॥ (९)
येऽभूवन् पृथु-राम-राघव-नल-प्राया धरित्रीभुजस्तानेकत्र दिदृक्षुणेव निचितान् सर्वान् समं वेधसा ।
ध्वस्ताशेष-नरेन्द्र-मान-महिमा श्री-धर्मपालः कलौ लोल-श्रीकरिणी-निबन्धन-महास्तम्भः समुत्तम्भितः ॥ (१०)
यासां नासीर-धूली-धवल-दश-दिशां द्रागपश्यन्नियत्तां धत्ते मान्धातृ-सैन्य-व्यतिकर-चकितो ध्यानतन्द्री-महेन्द्रः ।
तासामप्याहवेच्छा-पुलकित-वपुषां वाहिनीनां विधातुं साहाय्यं यस्य बाह्वोर्निखिल-रिपुकुल-ध्वंसिनोर्नावकाशः ॥ (११)
भोजैर्मत्स्यैः स-मद्रैः कुरु-यदु-यवनावन्ति-गन्धार-कीरैर्भूपैर्व्यालोल-मौलि-प्रणति-परिणतैः साधु-सङ्गीर्यमाणः ।
हृष्यत्-पञ्चाल-वृद्धोद्धृत-कनकमय-स्वाभिषेकोदकुम्भो दत्तः श्री-कान्यकुब्जः स-ललित-चलित-भ्रूलता-लक्ष्म येन ॥ (१२)
गोपैः सीम्नि वनेचरैर्वनभुवि ग्रामोपकण्ठे जनैः क्रीड़द्भिः प्रतिचत्वरं शिशुगणैः प्रत्यापणं पानपैः ।
लीला-वेश्मनि पञ्जरोदर-शुकैरुद्गीतमात्म-स्तवं यस्याकर्णयतस्त्रपा-विवलितानम्रं सदैवाननम् ॥ (१३)

भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणि-विभ्रमात् निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासरलक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहात् उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खरखुरोत्खात-धूली-धूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायात-समस्त-जम्बुद्वीप-भूपालानन्त-पादात-भर-नमदवनेः मुद्गगिरि-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगतो महाराजाधिराज-श्री-गोपालदेव-पादानुध्यातः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् धर्मपालदेवः कुशली ॥ श्री-पुण्ड्रवर्धन-भुक्तौ कोटीवर्ष-विषये स्नानीग्रा-मण्डल-सम्बद्धान्तरावनिकायां महासामन्त-श्री-भद्रणाग-कारित-विहार-तल-पाटके पूर्वेण चीरिकाभिधान-नद्यर्ध-स्रोतः-पर्यन्ते दक्षिणेन रहस्यादित्य-पुष्करिण्युत्तर-याग-सीम्नि पश्चिमेन प्रवर-नद्यर्ध-स्रोतः-परिच्छिन्ने उत्तरेण भद्रणाग-विहारिका-तल-पाटक-दक्षिण-सीमायते । तदैव सम्बद्ध-व्यैरद-परिच्छिन्न-षोड़शाढ़वाप-प्रमाणेऽंशं स्थल-पाटके पञ्च-कुल्यवाप-प्रमाण-नभ-ग्राम-भूमौ [*******]-द्वय-[****]-द्वय-विष्टग्रामे । सार्ध-कुल्यवाप-द्वय-प्रमाण-मञ्ज-हा[*]न्द[********]पू[***]-द्रोणवापार्धेन समेत-कुल्यवाप-द्वय-प्रमाण-वट-सद्-भृङ्गस्य कृ[**]-कुल्य-भूमौ [********][****][********]-कुल्यवाप-प्रमाण-[**]ष-स्थ-मरिणी-पाटक-दह[*********************]र्षक-श्री-सोमपुर-महाविहारस्य ह[************]श[*][*************]-स्रोतः दश-कुल्यवाप-प्रमाणेऽस्य [*][**][**][**][*]ग्र[*][***]-प्रमाण-[**][*]गी[***][*][**][**]न्नतः श्री-सण्हका-कारित-विहारिका[*]र्ग्ये महदता-ग्राम-सम्बद्ध-[*]म्रले व इ[*]दः ग्र[*]विषयस्य क्रद[*]-समेत-महद्रास्थिका-ग्रामेषु । समुपगतान् अशेष-राजनक-राजपुत्र-कुमारामात्य-भुक्तिपति-विषयपति-भोगि-सेनापति-उपरिक-तदायुक्तक-विनियुक्तक-दाण्डिक-दाण्डपाशिक-चौरोद्धरणिक-दौःसाधसाधनिक-खोल-दूत-गमागमिकाभित्वरमाण-हस्त्यश्वोष्ट्रनौबलव्यापृतक-गोमहिष्वजाविकबड़वाध्यक्षादि-सर्व-राजपाद-प्रसादोपजीविनोऽन्यांश्च चाट-भट-जातीयान् यथा-कालाध्यासि-विषय-व्यवहारिणः स-करणान् ब्राह्मण-मानना-पूर्वकं प्रतिवासिनः क्षेत्रकरांश्च यथार्हं पूजयति बोधयति समाज्ञापयति च । मतमस्तु भवताम् ।

भिन्दुः सुभुग्न-रिपुवृन्द-महान्धकारम् आनन्दयेत् कुमुदिनीमिव यः स्वजातिम् ।
भिन्नोत्तमाहर्जनिशैर्गदि-भूषणेन्दुः श्री-सार्थवाह-बलनाग इति प्रतीतः ॥ (१४)
तुङ्गे भङ्गुर-मूर्ध्नि विक्रम-हृतासृज्ये सरः साहसाद् दुर्वारारि-करीन्द्र-दारण-नसावेशोष्ण-सत्-केशरी ।
पौत्रस्तस्य महामहीभुजि महासामन्तको सौगतः श्रीमान् उच्चगनाग इत्यभिहितः श्रीनाव्रनागादभूत् ॥ (१५)
आसीद् आसीदद् उरु-शक्ति-सुतं जनित्री गौरीव देह-निलया हरिणाङ्क-मौलेः ।
एकैव तस्य वनिता जननी स्व-कामे या शङ्खणेति गदिता महिता नरेन्द्रैः ॥ (१६)
लीला-विलोल-वहल-प्रबलारि-पुङ्ग-लक्ष्मी-कच-ग्रहण-लालस-दोर्विलासः ।
तस्याम् अभूद् अभयदः समरे भटानां तस्यात्मजः प्रकटितोरु-पटु-प्रतापः ॥ (१७)
पृथ्वी-भारम् अराति-यूथप-वधू-वैधव्य-दुःख-प्रदो वोढुं दुर्जय-नाग-वंश-तिलकः साक्षात् क्षमो हेलया ।
क्षोणी-भृत्-कटकेष्ववारित-गतिर्दाह-प्रवाहं सृजन् हस्तास्फालन-चूर्णिताहव-तरु श्री-भद्रणागाह्वयः ॥ (१८)
अस्य च ।
यस्य प्रज्ञावलीनां जित-सकल-मही-मण्डलालक्षितानां नावबोधं वेद-वाचस्पतिरपि भगवान् अद्य यावद् विचिन्वन् ।
यस्मिन्नारच्यमाणे सति धरणि-भुजाम् उच्छ्वसन्तीव दूताः सोऽत्र श्री-शक्रदासः समभवद् अनघो दूतकः पुण्य-कृत्ये ॥ (१९)

तद् अनेन महासामन्त-श्री-भद्रणागेनैतद्-दूतक-मुखेन वयं विज्ञापिताः ॥ एता उपरि-लिखित-भूमिः स्व-सम्बद्ध-भूमि-समेताः स-तलाः सोद्देशाः सोपरिकराः स-दशापचाराः स-चौरोद्धरणाः परिहृत-सर्व-पीड़ा अ-चाट-भट-प्रवेशा अकिञ्चित्-प्रग्राह्या राज-कुलाभाव्य-सर्व-प्रत्याय-समेता भूमिच्छिद्र-न्यायेना-चन्द्रार्क-क्षिति-समकालं भट्टारक-पादानां माता-पित्रोरात्मनश्च पुण्याभिवृद्धये सकलस्य च सत्त्वराशेरपवर्ग-मार्गावतारणाय । अन्तरावनिकायां मया कारित-विहार-नैवासिकार्य-भिक्षु-सङ्घाय श्री-सोमपुर-महाविहारे कारित-गन्ध-कुटी-नैवासिकाय चार्य-भिक्षु-सङ्घाय । तथाऽस्मद्-राज्ञिकया सण्हायिकया कारित-विहारिका-निवासिने आर्य-भिक्षु-सङ्घाय च चीवर-पिण्डपात-शयनासन-ग्लान-प्रत्यय-भैषज्याद्युपयोगार्थं बलि-चरु-सत्र-प्रवर्तनार्थं खण्ड-स्फुटित-घटनार्थं चाग्रहारी-कृत्य प्रतिपादयितुम् इच्छामि । यदि भट्टारक-पादाः प्रसादी-कुर्वन्तीति । तद्-भक्ति-भरावर्जित-मानसैरस्माभिरेता भूमयो दातुम् अनुमोदिताः । अतो भवद्भिः सर्वैरेव भूमेर्दान-फल-गौरवात् अपहरणे महानरकपात-भयाच्च दानमिदम् अनुमन्तव्यम् प्रतिवासिभिः क्षेत्रकरैश्चाज्ञा-श्रवण-विधेयैर्भूत्वा समुचित-मेयादि-सकल-प्रत्यायोपनयः कार्यः ॥ तथा च धर्मानुशंसा श्लोकाः ॥

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (२०)
स्वदत्ताम्परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायाङ्कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (२१)
सर्वान् एतान् भाविनः पार्थिवेन्द्रान् भूयो भूयः प्रार्थयत्येष रामः ।
सामान्योऽयं धर्मसेतुर्नृपाणां काले काले पालनीयः क्रमेण ॥ (२२)
इति कमल-दलाम्बु-बिन्दु-लोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलमिदमुदाहृतञ्च बुद्ध्वा न हि पुरुषैः पर-कीर्तयो विलोप्या: ॥ (२३)

[*****]ल्य-मुञ्जो महासामन्त-श्री-भद्रणाग[*]समाहृति[**]ती[*][*][*]गज-[*][***][**] नि[*]ऐ[*][*]गति संवत् २६ आषाढ़ दि २ [****]र्ने ग[*]ठ-श्री-गणेशेन [*] उत्कीर्णञ्च

छन्दांसि

१, १४, १६, १७ वसन्ततिलका
२ मालिनी
३, ९, २०, २१ अनुष्टुभ्
४-५, १०, १३, १५, १८  शार्दूलविक्रीड़ित
६-७, ११, १२, १९ स्रग्धरा
८ मन्दाक्रान्ता
२२ शालिनी
२३ पुष्पिताग्रा