गोविन्द दामोदर स्तोत्र

विकिस्रोतः तः

गोविन्ददामोदरस्तोत्रम्(गेयम्)

अग्रे कुरूणाम् अथ पाण्डवानां दुःशासनेनाहृत-वस्त्र-केशा । कृष्णा तदाक्रोशत् अनन्यनाथा गोविन्द दामोदर माधवेति ।। (१)

श्री कृष्ण विष्णो मधु-कैटभारे भक्तानुकम्पिन् भगवन् मुरारे। त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ।। (२)

विक्रेतु-कामा किल गोप-कन्या मुरारि-पादार्पित-चित्त-वृत्तिः। दध्यादिकं मोहवशात् अवोचत् गोविन्द दामोदर माधवेति ।। (३)

उलूखले सम्भृत-तण्डुलांश्च सङ्घट्टयन्त्यो मुसलैः प्रमुग्धाः । गायन्ति गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति || (४)

काचित् कराम्भोज-पुटे निषण्णं क्रीडा-शुकं किंशुक-रक्त-तुण्डम् । अध्यापयामास सरोरुहाक्षी गोविन्द दामोदर माधवेति || (५)

गृहे गृहे गोप-वधू-समूहः प्रति-क्षणं पिञ्जर-सारिकानाम् । स्खलद्-गिरं वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति ।। (६)

पर्य्यङ्किकाभाजम् अलम् कुमारं प्रस्वापयन्त्योऽखिल- गोप-कन्याः। जगुः प्रबन्धं स्वर-ताल-बन्धं गोविन्द दामोदर माधवेति ।। (७)

रामानुजं वीक्षण-केलि-लोलं गोपी गृहीत्वा नव-नीत-गोलम् । आबालकं बालकम् आजुहाव गोविन्द दामोदर माधवेति ।। (८)

विचित्र-वर्णाभरणाभिरामेऽभिधेहि वक्त्राम्बुज-राजहंसि । सदा मदीये रसनेऽग्र-रङ्गे गोविन्द दामोदर माधवेति ।। (९)

अङ्काधिरूढं शिशु-गोप-गूढं स्तनं धयन्तं कमलैककान्तम् । सम्बोधयामास मुदा यशोदा गोविन्द दामोदर माधवेति ।। (१०)

क्रीडन्तम् अन्तर्-व्रजम् आत्मनं स्वं समं वयस्यैः पशु-पाल-बालैः। प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति ।। (११)

यशोदया गाढम् उलूखलेन गो-कण्ठ-पाशेन निबध्यमानः । रुरोद मन्दं नवनीत-भोजी गोविन्द दामोदर माधवेति ।। (१२)

निजाङ्गणे कङ्कण-केलि-लोलं गोपी गृहीत्वा नवनीत-गोलम् । आमर्दयत् पाणि-तलेन नेत्रे गोविन्द दामोदर माधवेति ।। (१३)

गृहे गृहे गोप-वधू-कदम्बाः सर्वे मिलित्वा समवाय-योगे । पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति ।। (१४)

मन्दार-मूले वदनाभिरामं बिम्बाधरे पूरित-वेणु-नादम् । गो-गोप-गोपी जन-मध्य-संस्थं गोविन्द दामोदर माधवेति ।। (१५)

उत्थाय गोप्योऽपर-रात्र-भोगे स्मृत्वा यशोदा-सुत-बाल-केलिम् । गायन्ति प्रोच्चैः दधि-मन्थयन्त्यो गोविन्द दामोदर माधवेति ।। (१६)

जग्धोऽथ दत्तो नवनीत-पिण्डो गृहे यशोदा विचिकित्सयन्ती । उवाच सत्यं वद हे मुरारे गोविन्द दामोदर माधवेति ।। (१७)

अभ्यर्च्य गेहं युवतिः प्रवृद्ध- प्रेम-प्रवाहा दधि निर्ममन्थ । गायन्ति गोप्योऽथ सखी-समेता गोविन्द दामोदर माधवेति ।। (१८)

क्वचित् प्रभाते दधि-पूर्ण-पात्रे निक्षिप्य मन्थं युवती मुकुन्दम् । आलोक्य गानं विविधं करोति गोविन्द दामोदर माधवेति ।। (१९)

क्रीडापरं भोजन-मज्जनार्थं हितैषिणी स्त्री तनुजं यशोदा । आजूहवत् प्रेम-परि-प्लुताक्षी गोविन्द दामोदर माधवेति ।। (२०)

सुखं शयानं निलये च विष्णुं देवर्षि-मुख्या मुनयः प्रपन्नाः । तेनाच्युते तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ।। (२१)

विहाय निद्राम् अरुणोदये च विधाय कृत्यानि च विप्रमुख्याः । वेदावसाने प्रपठन्ति नित्यं गोविन्द दामोदर माधवेति ।। (२२)

वृन्दावने गोप-गणाश्च गोप्यो विलोक्य गोविन्द-वियोग-खिन्नाम् । राधां जगुः साश्रु-विलोचनाभ्यां गोविन्द दामोदर माधवेति ।। (२३)

प्रभात-सञ्चार-गतानु गावस् तद्-रक्षणार्थं तनयं यशोदा । प्राबोधयत् पाणि-तलेन मन्दं गोविन्द दामोदर माधवेति ।। (२४)

प्रवाल-शोभा इव दीर्घ-केशा वाताम्बु-पर्णाशन-पूत-देहाः । मूले तरूणां मुनयः पठन्ति गोविन्द दामोदर माधवेति ।। (२५)

एवं ब्रुवाणा विरहातुरा भृशं व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ।। (२६)

गोपी कदाचिन् मणि-पिञ्जर-स्थं शुकं वचो वाचयितुं प्रवृत्ता । आनन्द-कन्द व्रज-चन्द्र कृष्ण गोविन्द दामोदर माधवेति ।। (२७)

गो-वत्स-बालैः शिशु-काक-पक्षं बध्नन्तम् अम्भोज-दलायताक्षम् । उवाच माता चिबुकं गृहीत्वा गोविन्द दामोदर माधवेति ।। (२८)

प्रभात-काले वर-वल्लवौघा गो-रक्षणार्थं धृत-वेत्र-दण्डाः । आकारयाम् आसुरनन्तमाद्यम् गोविन्द दामोदर माधवेति ।। (२९)

जलाशये कालिय-मर्दनाय यदा कदम्बात् पतन् मुरारिः । गोपाङ्गनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति ।। (३०)

अक्रूरम् आसाद्य यदा मुकुन्दः चापोत्सवार्थं मथुरां प्रविष्टः । तदा स पौरैः जयतीत्यभाषि गोविन्द दामोदर माधवेति ।। (३१)

कंसस्य दूतेन यदैव नीतौ वृन्दावनान्तात् वसुदेव-सूनौ । रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति ।। (३२)

सरोवरे कालिय-नाग-बद्धं शिशुं यशोदा-तनयं निशम्य । चक्रुर् लुठन्त्यः पथि गोप-बाला गोविन्द दामोदर माधवेति ।। (३३)

अक्रूर-याने यदु-वंश-नाथं सङ्गच्छमानं मथुरां निरीक्ष्य । ऊचुर्वियोगात् किल गोप-बाला गोविन्द दामोदर माधवेति ।। (३४)

चक्रन्द गोपी नलिनी-वनान्ते कृष्णेन हीना कुसुमे शयाना । प्रफुल्ल-नीलोत्पल-लोचनाभ्यां गोविन्द दामोदर माधवेति ।। (३५)

माता-पितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी । आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति ।। (३६)

वृन्दावनस्थं हरिम् आशु बुद्ध्वा गोपी गता कापि वनं निशायाम् । तत्राप्य् अदृष्ट्वाऽति भयादवोचद् गोविन्द दामोदर माधवेति ।। (३७)

सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदन्ति मर्त्याः । ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति ।। (३८)

सा नीरजाक्षीम् अवलोक्य राधां रुरोद गोविन्द-वियोग-खिन्नाम् । सखी प्रफुल्लोत्पल-लोचनाभ्यां गोविन्द दामोदर माधवेति ।। (३९)

जिह्वे रसज्ञे मधुर-प्रिया त्वं सत्यं हितं त्वां परमं वदामि । आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ।। (४०)

आत्यन्तिक-व्याधिहरं जनानां चिकित्सकं वेद-विदो वदन्ति । संसार-ताप-त्रय-नाश-बीजं गोविन्द दामोदर माधवेति ।। (४१)

ताताज्ञया गच्छति रामचन्द्रे स-लक्ष्मणेऽरण्यचये स-सीते । चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति ।। (४२)

एकाकिनी दण्डक-काननान्तात् सा नीयमाना दशकन्धरेण । सीता तदाक्रन्दत् अनन्य-नाथा गोविन्द दामोदर माधवेति ।। (४३)

रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती हृदि राम-रूपम् । रुरोद सीता रघुनाथ पाहि गोविन्द दामोदर माधवेति ।। (४४)

प्रसीद विष्णो रघु-वंश-नाथ सुरासुराणां सुख-दुःख-हेतो । रुरोद सीता तु समुद्र-मध्ये गोविन्द दामोदर माधवेति ।। (४५)

अन्तर्-जले ग्राह-गृहीत-पादो विसृष्ट-विक्लिष्ट-समस्त-बन्धुः । तदा गजेन्द्रो नितरां जगाद गोविन्द दामोदर माधवेति ।। (४६)

हंसध्वजः शङ्खयुतो ददर्श पुत्रं कटाहे प्रपतन्तम् एनम् । पुण्यानि नामानि हरेः जपन्तं गोविन्द दामोदर माधवेति ।। (४७)

दुर्वाससो वाक्यम् उपेत्य कृष्णा सा चाब्रवीत् कानन-वासिनीशम् । अन्तः प्रविष्टं मनसा जुहाव गोविन्द दामोदर माधवेति ।। (४८)

ध्येयः सदा योगिभिरप्रमेयः चिन्ता-हरश्चिन्तित-पारिजातः । कस्तूरिका-कल्पित-नील-वर्णो गोविन्द दामोदर माधवेति ।। (४९)

संसार-कूपे पतितोऽत्यगाधे मोहान्ध-पूर्णे विषयाभितप्ते । करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति ।। (५०)

त्वामेव याचे मम देहि जिह्वे समागते दण्ड-धरे कृतान्ते । वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति ।। (५१)

भजस्व मन्त्रं भव-बन्ध-मुक्त्यै जिह्वे रसज्ञे सुलभं मनोज्ञम् । द्वैपायनाद्यैः मुनिभिः प्रजप्तं गोविन्द दामोदर माधवेति ।। (५२)

गोपाल वंशीधर रूप-सिन्धो लोकेश नारायण दीन-बन्धो । उच्चस्वरैस्त्वं वद सर्वदैव गोविन्द दामोदर माधवेति ।। (५३)

जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि । समस्त-भक्तार्ति-विनाशनानि गोविन्द दामोदर माधवेति ।। (५४)

गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण । गोविन्द गोविन्द रथाङ्ग-पाणे गोविन्द दामोदर माधवेति ।। (५५)

सुखावसाने तु इदमेव सारं दुःखावसाने तु इदमेव गेयम् । देहावसाने तु इदमेव जाप्यं गोविन्द दामोदर माधवेति ।। (५६)

दुर्वार-वाक्यं परिगृह्य कृष्णा मृगीव भीता तु कथं कथञ्चित् । सभां प्रविष्टा मनसा जुहाव गोविन्द दामोदर माधवेति ।। (५७)

श्री कृष्ण राधावर गोकुलेश गोपाल गोवर्धन-नाथ विष्णो। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (५८)

श्रीनाथ विश्वेश्वर विश्व-मूर्ते श्री देवकी-नन्दन दैत्य-शत्रो। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (५९)

गोपीपते कंस-रिपो मुकुन्द लक्ष्मीपते केशव वासुदेव। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६०)

गोपी-जनाह्लाद-कर व्रजेश गो-चारणारण्य-कृत-प्रवेश । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६१)

प्राणेश विश्वम्भर कैटभारे वैकुण्ठ नारायण चक्र-पाणे। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६२)

हरे मुरारे मधुसूदनाद्य श्री राम सीतावर रावणारे । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६३)

श्री यादवेन्द्राद्रिधराम्बुजाक्ष गो-गोप-गोपी-सुख-दान-दक्ष। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६४)

धराभरोत्तारण-गोप-वेष विहार-लीला-कृत-बन्धु-शेष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६५)

बकी-बकाघासुर-धेनुकारे केशी-तृणावर्त-विघात-दक्ष । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६६)

श्री जानकी-जीवन रामचन्द्र निशाचरारे भरताग्रजेश । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६७)

नारायणानन्त हरे नृसिंह प्रह्लाद-बाधाहर हे कृपालो । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६८)

लीला-मनुष्याकृति-राम-रूप प्रताप-दासीकृत-सर्व-भूप । जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (६९)

श्री कृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (७०)

वक्तुं समर्थोऽपि न वक्ति कश्चिद् अहो जनानां व्यसनाभिमुख्यम्। जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ।। (७१)

इति श्री बिल्वमङ्गळाचार्य-विरचितं श्री गोविन्द-दामोदर-स्तोत्रं संपूर्णम् ।।

[सम्पाद्यताम्]

टिप्पणी

गोविंद गोविंद हरे मुरारे गोविंद गोविंद् मुकुंद कृष्ण । गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ।। स्कन्दपुराणम् २.४.२.४६ ।।


गोविन्दोपरि टिप्पणी

दामोदरोपरि टिप्पणी

माधवोपरि टिप्पणी

१. अग्रे कुरूणां इति

द्र. महाभारतम् सभापर्व २.६८.४०

हिन्दीभाषा अनुवादः

हिन्दी रूपान्तरणम्

४ उलूखले संभृत- तण्डुलांश्च इति

मुशलोपरि टिप्पणी