सामग्री पर जाएँ

गोरक्षयोगशास्त्रम्

विकिस्रोतः तः
गोरक्षयोगशास्त्रम्
[[लेखकः :|]]

नमो आदिनाथाय ।।

ईश्वर उवाच ।।

चन्द्रसूर्यस्तथा वह्नि शरीरे दश नाडिकाः ।
पञ्चस्थावायव पञ्च मनोबिन्दुस्तथैव च ।।१।।

षट्चक्रं मेरुदण्डञ्च ओड्डियानं तथैव च ।
जालंधरं कामरूपं पूर्णगिरि श्रीहस्तकः ।।२।।

प्रकीर्तिः क्षेत्रपुरुषो ब्रह्माविष्णुशिवस्तथा ।
नदानद्यः समुद्राश्च भुवनानि चतुर्दशः ।।३।।

ब्रह्माण्डे यै गुणाः संति ते तिष्ठंति कलेवरे ।
तेषां संक्षेपतः साध्यं प्रवदन्ति शुविस्मृते ।।४।।

२अ)

मेरुशृङ्गे स्थिते चन्द्रो द्विरष्टा कलया युतः ।
अहर्निशं तुषाराभं शुधां वर्षत्यधो मुखं ।।५।।

शुधांशुर्द्धि विषश्रावी पीयूष बिंदुमेव च ।
तरलस्तु शुधाज्ञेया घनोबिंदुरुदाहृतः ।।६।।

एकबिंदु सदा ब्रह्मा उत्पत्तिस्थितितारकः ।
बिंदुवर्गस्य साध्येन देहसिद्धिः प्रजायते ।।७।।

जवाकुसुमसंकाशोवस्थिदेशे सुसोभने ।
मध्यमामूलसंव्याप्य सूर्यन् तिष्ठति देहिनां ।।८।।

२ब्)

कलाद्वादशभिः सूर्यो वह्निर्दशकला युतः ।
सर्वेषां देहिनां तिष्थेत् अन्नादिः पावकः सदा ।।९।।

तुषारं वर्षते चन्द्रो रविः सुध्यति सर्वदा ।
तत्संयोगे स्थितः प्राणः वियोगात्मरणं भवेत् ।।१०।।

ऊर्द्धं यातिरवे रस्मिरधचंद्रामृतं सदा ।
अभ्यासात् कामरूपेन योगं योग विदोविदुः ।।११।।

अयं योगसमुद्रं च वसन्तः परिकीर्तितः ।
अरोगी च भवे देवी प्राणापानैक योगतः ।।१२।।

प्राणश्चन्द्र मयोज्ञायोऽपानः सूर्यमयं तथा ।

३अ)

अनयोः संगमं सध्यं रजोबीजस्य साधनं ।।१३।।

ओड्डीयानं दृढं बन्धं कृत्वा रेचकपूरकौ ।
समानापानयोर्योगः प्राणापानेकयोगतः ।।१४।।

कामरूपे त्रिर्योगः प्राणापाने समानकौ ।
नाभिशक्तिः द्वयोर्मध्ये ओड्डियानं तदुच्यते ।।१५।।

वह्नौ जालंधरो ज्ञेयः कामरूपश्च गर्भके ।
पूर्णगिरिः हृदिर्मध्ये श्रीहद्वं तालुकोपरि ।।१६।।

आकुंच्य गुडमूलन्तु चिबुकं हृदयोपरि ।

३ब्)

नवद्वाराणि संयम्य कुक्षिमापूर्य वायुना ।।१८।।

चारणं सर्वे नाडीनां देहवह्निः प्रदीपनं ।
वंह्नेः प्रदीपनात्नित्यं अन्नादेः पाचनं भवेत् ।।१९।।

अन्नादेः पाचनात्नित्यं रसवृद्धिः प्रजायते ।
स्वभावाद्बीज एवासौ बिंदुविभर्तिनान्यधा ।।१९।।

अधिकं सर्वगात्रेषु भवन्ति चाष्टधावतः ।
वायुरेव परो देहे मूलसारः प्रकीर्तितः ।।२०।।

वायोः प्रसाधना देव आयुर्वृद्धि दिने दिने ।
हृदिः प्राणो गुडऽपानः समानो नाभिसंस्थितः ।।२१।।

४अ)

उदानः कण्ठदेशे च व्यानः सर्व शरीरगः ।
स्थानवायुञ्च संक्षिप्य वस्थिदेशे पुनः पुनः ।।२२।।

उद्घाते ये चक्र नालं सुषुम्णाया सुगोपितं ।
ब्रह्मग्रन्थिं ततोतित्वा वायुर्विशति मध्यमां ।।२३।।

स्वाधि चक्र लिंगमूले ततो वायुर्विशत्यपि ।
मणिपूरं नाभिदेशे ततो विध्यात्सदा गतिः ।।२४।।

हृदिमध्ये विष्णुग्रंथिं भित्वा कण्ठगुणाकरं ।

४ब्)

तालुमूलं सुधाचक्रे भित्वारुद्रालयं व्रजेत् ।।२५।।

चक्रं चक्र यदाभित्वा वायुर्याति पुरे पुरे ।
वायुना सहयोगेण बिन्दु तत्रैव गच्छति ।।२६।।

यावनस्थां व्रजे वायु बिन्दुस्थानेन गच्छति ।
शंखिनी नालसंप्राप्य चास्थि शून्यं विभर्तिसः ।।२७।।

ततः क्षीरमयो देहः पिण्डसिद्धो भवेद्ध्रुवं ।
एवं मभ्यासयोगेण नरो ब्रह्मनि यः स्थितः ।।२८।।

तस्य पापं क्षयं याति जन्मकोटि शतार्जितं ।
मासे मासेऽश्वमेधश्च यज्ञस्य च फलं भवेत् ।।२९।।

५अ)

वर्षणराज सूर्यस्य फलं तस्य न संशयः ।
दह्यते सर्वपापानि कोटिजन्मार्जितानि च ।।३०।।

ईहैवाभ्यास योगेण तृणानि वह्निना जपा ।
तपांसि योनि कथ्यंते यज्ञदानव्रतानि च ।।३१।।

कोटि कोटि गुणैस्तानि भवत्यभ्यास योगतः ।
नन्दन्ति पितरः सर्वे पुत्रो योगानुसारिणी ।।३२।।

भुञ्जस्ते च सुखं सर्वं सर्वदुःखविवर्जिताम् ।

देव्युवाच ।।

उपायं ध्यान योगस्य ब्रुहि मे शशि सेषर ।

५ब्)

यल्लब्ध्वा योगिनः सर्वे मुच्यते जन्म बंधनात् ।।३३।।

ईश्वरोवाच ।।

नाभिमध्ये स्थितो ब्रह्मा हृदि मध्ये तु माधवः ।
शिरसि शङ्करो ज्ञेया त्रिस्थानं मुक्तिदं स्मृतं ।।३४।।

नाभि मध्ये परं ज्योतिः प्रदीपं तद्दशाङ्गुलं ।
ज्योतिपुञ्ज च चक्रवत् हृदिमध्ये च तिष्ठति ।।३५।।

शुद्धस्फटिकसंकाशं चंद्रकोटि समप्रभं ।
ध्यायेत् मूद्ध्नि शिवज्योति घृतपिण्डसिवोद्धृतं ।।३६।।

६अ)

अचञ्चलं मनं कृत्वा त्रयाणां ज्योतिषां शनैः ।
मेलकं वायुबिंदूभ्यां कर्तव्यं मनसा बुधैः ।।३७।।

कामरूपे चक्रनाले मध्यमां मध्यगोचरे ।
तथाचक्रेषु सर्वेषु प्रत्यं ज्योतिः प्रदृश्यते ।।३८।।

यस्मिन्नभ्यासतो वायुर्मनो बिंदुस्तथैव च ।
ज्योतिषि त्रीणि तत्रैव तेषु चात्मा प्रतिष्ठति ।।३९।।

नाभिमध्येषु सर्वेषु ज्योतिषां दीप्यते यथा ।
तत्रैव चास्थि शून्ये तु कालचारः पलायते ।।४०।।

६ब्)

एवं ध्यानं सदा बुद्ध्या कुर्यात् ज्योतिर्मयं बुद्धः ।
ज्योटिषां वायु बिंदुर्नामेलकं मुक्तिदायकं ।।४१।।

एवं ध्यानस्थिरं यस्य न वाक्यं लभ्यते मनः ।
वायुर्बिन्दु मनश्चात्मा तस्य सर्वस्थिरं भवेत् ।।४२।।

चले बिन्दौ चले चित्ते चले वायौ च सर्वदा ।
चलते चलमानोसौ मृत्युमभ्येति शाश्वत ।।४३।।

७अ)

तस्मादेवञ्चला भूत्वा * * * * * * * *? ।

  • * * * * * * * *? यं ब्रह्म समो

भवेत् ।।४४।।

कथितं ध्यान योगस्य समुद्देशे च विस्मृते ।
ध्यानातीतं परं ब्रह्म सर्वशास्त्रेषु गोपितं ।।४५।।

ब्रह्माविष्णुशिवादीनां एकोसौ जनकाविभुः ।
आधारो भुवनानाञ्च देहस्था देहवर्जिताः ।।४६।।

७ब्)

एकोव्यापीशसं * *? निर्गुणः प्रकृते परः ।
जन्म वृद्ध्यादि रहित आत्मासर्वगतान्ययः ।।४७।।

निरालंवे मनः कृत्वा कुर्याच्छुन्ये मनस्थिरं ।
अनित्य खण्डयेत् सर्वं यत्किञ्चित् मनसार्जितं ।।४८।।

खण्डयेत् सततं देवि विनष्टं पञ्चभौतिकं ।
करणानि मनश्चैव यदा ब्रह्मणि नीयते ।।४९।।

तदा ब्रह्मपदं प्राप्य योगी मुक्ति पदं व्रजेत् ।
अनिमादि गुणास्तस्य * * * * * * * *? ।।५०।।

८अ)

देव्युवाच ।।

इन्द्रियाना * * * * * * * * * * *

  • ? ।
  • * * * * * *? स्य शिष्यैश्चक्षुद्रबुद्धिभिः

।।५१।।

ईश्वरोवाच ।।

ब्रह्माण्ड * * *? ब्रह्म परं ज्योतिर्मयं शुभं ।
तदूर्द्धञ्च परं विष्णोः हृदये च गुणान्वितं ।।५२।।

तदूर्द्धञ्चैव रुद्राणां दृश्यते नात्रसंशयः ।
तदूर्द्धञ्च महाशून्यं यत्र ब्रह्म यथाश्रमं ।।५३।।

तत्रैव च मनो नीत्वा महाशून्यमयोपरि ।
कालस्य रक्षयं ज्ञात्वा स्वयं ब्रह्म समो भवेत् ।।५४।।

८ब्)

अत एव शिवादीनां निद्राव्याजेन पार्वती ।
प्रत्यद्दे ज्ञानचिन्तायां न किञ्चिदन्यथा भवेत् ।।५५।।

एवं शक्रादयो देवाः सिद्धाश्च वरवर्णिन ।
सिद्धाः सिद्धं प्रकुर्वन्ति ते यान्ति परमा गतिः ।।५६।।

मानुषाश्चास्मि काये च गन्धर्वोरग किन्नरा ।
एवं योगसमासाध्य गच्छन्तिं परमां गति ।।५७।।

९अ)

हिंसार्थे च व्रजेत् कालं स्तेन नास्तिक वादिना ।
असत्यर्नोचता क्रूराः द्विजवेदविनिंदकाः ।।५८।।

असेवागुरुपादे च सर्वधर्म विवर्जिता ।
आलसौ पीडिता ये च कामक्रोधप्रपीडिता ।।५९।।

तथाभ्यास विहीनाश्च योगतः परिहीयते ।
तेन मुक्ति पदं याति धर्मे नानेन पार्वतै ।।६०।।

९ब्)

  • * * * * * * * * * * *
  • ? सोभने ।

केचित् ध्यानं युगंसंति विज्ञानञ्च परः परं ।।६१।।

धर्मकर्मादिके ये च विज्ञानमुपदेशतः ।
साध्यः चानु क्रमं कृत्वा ते यान्ति परमां गतिं ।।६२।।

यश्चेनं शृणुयान् नित्यं कथा सर्व यथा स्मृतां ।
सर्वपापक्षयं तस्य ब्रह्मणसदनं भजेत् ।।६३।।

स्वकृच्छ्रवणमात्रेण ब्रह्महत्यां व्यपोहतिः ।

१०अ)

दिनेकनाश्वमेधानां यज्ञानाञ्च फलं लभेत् ।।६४।।

यः पठेत् पाठ्ययेद् वापि सर्वयज्ञफलं लभेत् ।
अतः पुण्यतरं शास्त्रं नोचात्र विद्यते क्वचित् ।।६५।।

मूलसारेति इति गोरक्षजोगशास्त्रसमाप्तं ।। ।।

"https://sa.wikisource.org/w/index.php?title=गोरक्षयोगशास्त्रम्&oldid=409737" इत्यस्माद् प्रतिप्राप्तम्