गोभिलगृह्यसूत्रम्/द्वितीयः प्रपाठकः

विकिस्रोतः तः
Jump to navigation Jump to search


पुण्ये नक्षत्रे दारान्कुर्वीत १ लक्षणप्रशस्तान्कुशलेन २ तदलाभे पिण्डान् ३ वेद्याः सीताया हृदाद्गोष्ठाच्चतुष्पथादादेवनादादहनादिरिणात् ४ सर्वेभ्यः सम्भार्यं नवमम् ५ समान्कृतलक्षणान् ६ पाणावाधाय कुमार्या उपनामयेदृतमेव प्रथममृतं नात्येति कश्चन र्त इयं पृथिवी श्रिता सर्वमिदमसौ भूयादिति तस्या नाम गृहीत्वैषामेकं गृहाणेति ब्रूयात् ७ पूर्वेषां चतुर्णां गृह्णन्तीमुपयच्छेत् ८ सम्भार्यमपि त्वेके ९ क्लीतकैर्यवैर्माषैर्वाप्लुतां सुहृत्सुरोत्तमेन सशरीरां त्रिर्मूर्धन्यभिषिञ्चेत्काम वेद ते नाम मदो नामासीति समानयामुमिति पतिनाम गृह्णीयात्स्वाहाकारान्ताभिरुपस्थमुत्तराभ्यां प्लावयेत् १० ज्ञातिकर्मैतत् ११ पाणिग्रहणे पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो भवति १२ अथ जन्यानामेको ध्रुवाणामपां कलशं पूरयित्वा सहोदकुम्भः प्रावृतो वाग्यतोऽग्रेणाग्निं परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते १३ प्राजनेनान्यः १४ शमीपलाशमिश्राँ श्च लाजाँ श्चतुरञ्जलिमात्राञ् छूर्पेणोऽपसादयन्ति पश्चादग्नेः १५ दृषत्पुत्रं च १६ अथ यस्याः पाणिं ग्रहीष्यन्भवति सशिरस्का साप्लुता भवति १७ अहतेन वसनेन पतिः परिदध्याद्या अकृन्तन्नित्येतयर्चा परिधत्त धत्त वाससेति च १८ प्रावृतां यज्ञोपवीतिनीमभ्युदानयन्जपेत्सोमोऽददद्गन्धर्वायेति १९ पश्चादग्नेः संवेष्टितं कटमेवंजातीयं वान्यत्पदा प्रवर्तयन्तीं वाचयेत्प्र मे पतियानः पन्थाः कल्पतामिति २० स्वयं जपेदजपन्त्यां प्रास्या इति २१ बर्हिषोऽन्तं कटान्तं प्रापयेत् २२ पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति २३ दक्षिणेन पाणिना दक्षिणमँ समन्वारब्धायाः षडाज्याहुतीर्जुहोत्यग्निरेतु प्रथम इत्येतत्प्रभृतिभिः २४ महाव्याहृतिभिश्च पृथक् २५ सम स्ताभिश्चतुर्थीम् २६ १


हुत्वोपोत्तिष्ठतः १ अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते वध्वञ्जलिं गृहीत्वा २ पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन ३ पाणिग्राहो जपतीममश्मानमारोहेति ४ सकृत्संगृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावावपति ५ तं सोऽपस्तीर्णाभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिमियं नार्युपब्रूत इति ६ अर्यमणं नु देवं पूषणमित्युत्तरयोः ७ हुते पतिर्यथेतं परिव्रज्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वा ब्राह्मणः कन्यला पितृभ्य इति ८ परिणीता तथैवावतिष्ठते तथाक्रामति तथा जपति तथावपति तथा जुहोति ९ एवं त्रिः १० शूर्पेण शेषमग्नावोप्य प्रागुदीचीमभ्युत्क्रामयन्त्येकमिष इति ११ दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् १२ मा सव्येन दक्षिणमतिक्रामेति ब्रूयात् १३ ईक्षकान्प्रतिमन्त्रयेत सुमङ्गलीरियं वधूरिति १४ अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्धदेशेऽवसिञ्चति तथेतरां समञ्जन्त्वित्येतयर्चा १५ अवसिक्तायाः सव्येन पाणिनाञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठमुत्तानं गृहीत्वैताः षट् पाणि ग्रहणीया जपति गृभ्णामि त इति १६ समाप्तासूद्वहन्ति १७ २


प्रागुदीच्यां दिशि यद्ब्राह्मणकुलमभिरूपम् १ तत्राग्निरुपसमाहितो भवति २ अपरेणाग्निमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोमास्तीर्णं भवति ३ तस्मि न्नेनां वाग्यतामुपवेशयन्ति ४ सा खल्वास्त एवानक्षत्रदर्शनात् ५ प्रोक्ते नक्षत्रे षडाज्याहुतीर्जुहोति लेखासन्धिष्वित्येतत्प्रभृतिभिः ६ आहुतेराहुतेस्तु सम्पातं मूर्धनि वध्वा अवनयेत् ७ हुत्वोपोत्थायोपनिष्क्रम्य ध्रुवं दर्शयति ८ ध्रुवमसि ध्रुवाहं पतिकुले भूयासममुष्यासाविति पतिनाम गृह्णीयादात्मनश्च ९ अरुन्धतीं च १० रुद्धाहमस्मीत्येवमेव ११ अथैनामनुमन्त्रयते ध्रुवा द्यौरित्येतयर्चा १२ अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते १३ सोऽस्या वाग्विसर्गः १४ तावुभौ तत्प्रभृति त्रिरात्रमक्षारलवणाशिनौ ब्रह्मचारिणौ भूमौ सह शयीयाताम् १५ अत्रार्घ्यमित्याहुः १६ आगतेष्वित्येके १७ हविष्यमन्नं प्रथमं परिजपितं भुञ्जीत १८ श्वो भूते वा समशनीयं स्थालीपाकं कुर्वीत १९ तस्य देवता अग्निः प्रजापतिर्विश्वे देवा अनुमतिरिति २० उद्धृत्य स्थालीपाकं व्यूह्यैकदेशं पाणिनाभिमृशेदन्नपाशेन मणिनेति २१ भुक्त्वोच्छिष्टं वध्वै प्रदाय यथार्थम् २२ गौर्दक्षिणा २३ ३


यानमारोहन्त्यां सुकिंश्कुं शाल्मलिमित्येतामृचं जपेत् १ अध्वनि चतुष्पथान्प्रतिमन्त्रयेत नदीश्च विषमाणि च महावृक्षाञ्श्मशानं च मा विदन्परिपन्थिन इति २ अक्षभङ्गे नद्धविमोक्षे यानविपर्यासेऽन्यासु चापत्सु यमेवाग्निं हरन्ति तमेवोपसमाधाय व्याहृतिभिर्हुत्वान्यद्द्रव्यमाहृत्य य ऋते चिदभिश्रिष इत्याज्यशेषेणाभ्यञ्जेत् ३ वामदेव्यं गीत्वारोहेत् ४ प्राप्तेषु वामदेव्यम् ५ गृहगतां पतिपुत्रशीलसम्पन्ना ब्राह्मण्योऽवरोप्यानडुहे चर्मण्युपवेशयन्तीह गावः प्रजायध्वमिति ६ तस्याः कुमारमुपस्थ आदध्युः ७ तस्मै शकलोटानञ्जलावावपेयुः ८ फलानि वा ९ उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोत्यष्टाविह धृतिरिति १० समाप्तासु समिधमाधाय यथावयसं गुरून्गोत्रेणाभिवद्य यथार्थम् ११ ४


अथातश्चतुर्थीकर्म १ अग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोत्यग्ने प्रायश्चित्त इति चतुः २ अग्नेः स्थाने वायुचन्द्र सूर्याः ३ समस्य पञ्चमीं बहुवदूह्य ४ आहुतेराहुतेस्तु सम्पातमुदपात्रेऽवनयेत् ५ तेनैनां सकेशनखामभ्यज्य ह्रासयित्वाप्लावयन्ति ६ ऊर्ध्वं त्रिरात्रात्सम्भव इत्येके ७ यदर्तुमती भवत्युपरतशोणिता तदा सम्भवकालः ८ दक्षिणेन पाणिनोपस्थमभिमृशेद्विष्णुर्योनिं कल्पयत्वित्येतयर्चा गर्भं धेहि सिनीवालीति च ९ समाप्यर्चौ सम्भवतः १० ५


तृतीयस्य गर्भमासस्यादिसदेशे पुँ सवनस्य कालः १ प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु पश्चादग्नेरुदगग्रेषु दर्भेषु प्राच्युपविशति २ पश्चात्पतिरवस्थाय दक्षिणेन पाणिना दक्षिणमँ समन्ववमृश्यानन्तर्हितं नाभिदेशमभिमृशेत्पुमाँ सौ मित्रावरुणावित्येतयर्चा ३ अथ यथार्थम् ४ अथापरम् ५ प्रागुदीच्यां दिशि न्यग्रोधशुङ्गामुभयतःफलामस्रामामकृमिपरिसृप्तां त्रिःसप्तैर्यवैर्माषैर्वा परिक्रीयोत्थापयेत् ६ यद्यसि सौमी सोमाय त्वा राज्ञे परिक्रीणामि यद्यसि वारुणी वरुणाय त्वा राज्ञे परिक्रीणामि यद्यसि वसुभ्यो वसुभ्यस्त्वा परिक्रीणामि यद्यसि रुद्रे भ्यो रुद्रे भ्यस्त्वा परिक्रीणामि यद्यस्यादित्येभ्य आदित्येभ्यस्त्वा परिक्रीणामि यद्यसि मरुद्भ्यो मरुद्भ्यस्त्वा परिक्रीणामि यद्यसि विश्वेभ्यो देवेभ्यो विश्वेभ्यस्त्वा देवेभ्यः परिक्रीणामि ७ ओषधयः सुमनसो भूत्वास्यां वीर्यं समाधत्तेयं कर्म करिष्यतीत्युत्थाप्य तृणैः परिधायाहृत्य वैहायसीं निदध्यात् ८ दृषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धूः कुमारी वाप्रत्याहरन्ती पिनष्टि ९ प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु पश्चादग्नेरुदगग्रेषु दर्भेषु प्राक्शिराः संविशति १० पश्चात्पतिरवस्थाय दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याभिसंगृह्य दक्षिणे नासिकास्रोतस्यवनयेत्पुमानग्निः पुमानिन्द्र इत्येतयर्चा ११ अथ यथार्थम् १२ ६


अथ सीमन्तकरणं प्रथमगर्भे १ चतुर्थे मासि षष्ठेऽष्टमे वा २ प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु पश्चादग्नेरुदगग्रेषु दर्भेषु प्राच्युपविशति ३ पश्चात्पतिरवस्थाय युग्मन्तमौदुम्बरं शलाटुग्रथ्नमाबध्नात्ययमूर्जावतो वृक्ष इति ४ अथ सीमन्तमूर्ध्वमुन्नयति भूरिति दर्भपिञ्जूलीभिरेव प्रथमं भुवरिति द्वितीयं स्वरिति तृतीयम् ५ अथ वीरतरेण येनादितेरित्येतयर्चा ६ अथ पूर्णचात्रेण राकामहमित्येतयर्चा ७ त्रिःश्वेतया च शलल्या यास्ते राके सुमतय इति ८ कृसरः स्थालीपाक उत्तरघृतस्तमवेक्षयेत् ९ किं पश्यसीत्युक्त्वा प्रजामिति वाचयेत् १० तं सा स्वयं भुञ्जीत ११ वीरसूर्जीवसूर्जीवपत्नीति ब्राह्मण्यो मङ्गल्याभिर्वाग्भिरुपासीरन् १२ अथ सोष्यन्तीहोमः १३ प्रतिष्ठिते वस्तौ परिस्तीर्याग्निमाज्याहुती जुहोति या तिरश्चीत्येतयर्चा विपश्चित्पुच्छमभरदिति च १४ पुमानयं जनिष्यतेऽसौ नामेति नामधेयं गृह्णाति १५ यत्तद्गुह्यमेव भवति १६ यदास्मै कुमारं जातमाचक्षीरन्नथ ब्रूयात्काङ्क्षत नाभिकृन्तनेन स्तनप्रतिधानेन चेति १७ व्रीहियवौ पेषयेत्तयैवावृता यया शुङ्गाम् १८ दक्षिणस्य पाणेरङ्गुष्ठेनोपकनिष्ठिकया चाङ्गुल्याभिसंगृह्य कुमारस्य जिह्वायां निमार्ष्टीयमाज्ञेति १९ तथैव मेधाजननं सर्पिः प्राशयेत् २० जातरूपेण वादाय कुमारस्य मुखे जुहोति मेधां ते मित्रावरुणावित्येतयर्चा सदसस्पतिमद्भुतमिति च २१ कृन्तत नाभिमिति ब्रूयात्स्तनं च प्रतिधत्तेति अत ऊर्ध्वमसमालम्भनमा दशरात्रात् २२ ७


जननाद्यस्तृतीयो ज्यौत्स्नस्तस्य तृतीयायां प्रातः सशिरस्कं कुमारमाप्लाव्यास्तमिते वीते लोहितिम्न्यञ्जलिकृतः पितोपतिष्ठते १ अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदञ्चं पित्रे प्रयच्छत्युदक्शिरसम् २ अनुपृष्ठं परिक्रम्योत्तरतोऽवतिष्ठते ३ अथ जपति यत्ते सुसीम इति यथायं न प्रमीयेत पुत्रो जनित्र्या अधीति ४ उदञ्चं मात्रे प्रदाय यथार्थम् ५ अथ येऽत ऊर्ध्वं ज्यौत्स्नाः प्रथमोद्दिष्ट एव तेषु पितोपतिष्ठतेऽपामञ्जलिं पूरयित्वाभिमुखश्चन्द्र मसम् ६ यददश्चन्द्र मसीति सकृद्यजुषा द्विस्तूष्णीमुत्सृज्य यथार्थम् ७ जननाद्दशरात्रे व्युष्टे शतरात्रे संवत्सरे वा नामधेयकरणम् ८ अथ यस्तत्करिष्यन्भवति पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङुपविशति ९ अथ माता शुचिना वसनेन कुमारमाच्छाद्य दक्षिणत उदञ्चं कर्त्रे प्रयच्छत्युदक्शिरसम् १० अनुपृष्ठम्परिक्रम्योत्तरत उपविशत्युदगग्रेष्वेव दर्भेषु ११ अथ जुहोति प्रजापतये तिथये नक्षत्राय देवताया इति १२ तस्य मुख्यान्प्राणान्संमृशन्कोऽसि कतमोऽसीत्येतं मन्त्रं जपति १३ आहस्पत्यं मासं प्रविशासावित्यन्ते च मन्त्रस्य घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतं नाम दध्यात् १४ एतदतद्धितम् १५ अयुग्दान्तं स्त्रीणाम् १६ मात्रे चैव प्रथमं नामधेयमाख्याय यथार्थम् १७ गौर्दक्षिणा १८ कुमारस्य मासि मासि संवत्सरे सांवत्सरिकेषु वा पर्वस्वग्नीन्द्रौ द्यावापृथिवी विश्वान्देवाँ श्च यजेत १९ दैवतमिष्ट्वा तिथिं नक्षत्रं च यजेत २० विप्रोष्य ज्येष्ठस्य पुत्रस्योभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेद्यदा वा पिता म इति विद्यादुपेतस्य वाङ्गादङ्गात्सस्रवसीति २१ पशूनां त्वा हिङ्कारेणाभिजिघ्रामीत्यभिजिघ्र्य यथार्थम् २२ एवमेवावरेषाम् २३ यथाज्येष्ठं यथोपलम्भं वा २४ स्त्रियास्तूष्णीं मूर्धन्यभिजिघ्रणं मूर्धन्यभिजिघ्रणम् २५ ८


अथातस्तृतीये वर्षे चूडाकरणम् १ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो भवति २ तत्रैतान्युपकॢप्तानि भवन्ति ३ एकविँ शतिर्दर्भपिञ्जूल्य उष्णोदककँ स औदुम्बरः क्षुर आदर्शो वा क्षुरपाणिर्नापित इति दक्षिणतः ४ आनडुहो गोमयः कृसरः स्थालीपाको वृथापक्व इत्युत्तरतः ५ व्रीहियवैस्तिलमाषैरिति पृथक् पात्राणि पूरयित्वा पुरस्तादुपनिदध्युः ६ कृसरो नापिताय सर्वबीजानि चेति ७ अथ माता शुचिना वसनेन कुमारमाच्छाद्य पश्चादग्नेरुदगग्रेषु दर्भेषु प्राच्युपविशति ८ अथ यस्तत्करिष्यन्भवति पश्चात्प्राङवतिष्ठते ९ अथ जपत्यायमगात्सविता क्षुरेणेति सवितारं मनसा ध्यायन्नापितं प्रेक्षमाणः १० उष्णेन वाय उदकेनैधीति वायुं मनसा ध्यायन्नुष्णोदककँ सं प्रेक्षमाणः ११ दक्षिणेन पाणिनाप आदाय दक्षिणां कपुष्णिकामुन्दत्याप उन्दन्तु जीवस इति १२ विष्णोर्दँ ष्ट्रोऽसीत्यौदुम्बरं क्षुरं प्रेक्षत आदर्शं वा १३ ओषधे त्रायस्वैनमिति सप्त दर्भपिञ्जूलीर्दक्षिणायां कपुष्णिकायामभिशिरोग्रा निदधाति १४ ता वामेन पाणिना निगृह्य दक्षिणेन पाणिनौदुम्बरं क्षुरं गृहीत्वादर्शं वाभिनिदधाति स्वधिते मैनं हिँ सीरिति १५ येन पूषा बृहस्पतेरिति त्रिः प्राञ्चं प्रोहत्यप्रच्छिन्दन्सकृद्यजुषा द्विस्तूष्णीम् १६ अथायसेन प्रच्छिद्यानडुहे गोमये निदधाति १७ एतयैवावृता कपुच्छलम् १८ एतयोत्तरां कपुष्णिकाम् १९ उन्दनप्रभृति त्वेवाभिनिवर्तयेत् २० उभाभ्यां पाणिभ्यां मूर्धानं परिगृह्य जपेत्त्र्यायुषं जमदग्नेरिति २१ एतयैवावृता स्त्रियाः २२ तूष्णीम् २३ मन्त्रेण तु होमः २४ उदङ्ङग्नेरुत्सृप्य कुशलीकारयन्ति यथागोत्रकुलकल्पम् २५ आनडुहे गोमये केशान्कृत्वारण्यं हृत्वा निखनन्ति २६ स्तम्बे हैके निदधति २७ यथार्थम् २८ गौर्दक्षिणा २९ ९


गर्भाष्टमेषु ब्राह्मणमुपनयेत् १ गर्भैकादशेषु क्षत्रियं २ गर्भद्वादशेषु वैश्यम् ३ आ षोडशाद्वर्षाद्ब्राह्मणस्यानतीतः कालो भवत्या द्वाविँ शात्क्षत्रियस्याचतुर्विँशाद्वैश्यस्य ४ अत ऊर्ध्वं पतितसावित्रीका भवन्ति ५ नैनानुपनयेयुर्नाध्यापयेयुर्न याजयेयुर्नैभिर्विवहेयुः ६ यदहरुपैष्यन्माणवको भवति प्रग एवैनं तदहर्भोजयन्ति कुशलीकारयन्त्याप्लावयन्त्यलङ्कुर्वन्त्यहतेन वाससाच्छादयन्ति ७ क्षौमशाणकार्पासौर्णान्येषां वसनानि ८ ऐणेयरौरवाजान्यजिनानि मुञ्जकाशताम्बल्यो रशनाः ९ पार्णबैल्वाश्वत्था दण्डाः ११ क्षौमं शाणं वा वसनं ब्राह्मणस्य कार्पासं क्षत्रियस्याविकं वैश्यस्य १२ एतेनैवेतराणि द्र व्याणि व्याख्यातानि १३ अलाभे वा सर्वाणि सर्वेषाम् १४ पुरस्ताच्छालाया उपलिप्तेऽग्निरुपसमाहितो भवति १५ अग्ने व्रतपत इति हुत्वा पश्चादग्नेरुदगग्रेषु दर्भेषु प्राङाचार्योऽवतिष्ठते १६ अन्तरेणाग्न्याचार्यौ माणवकोऽञ्जलिकृतोऽभिमुख आचार्यमुदगग्रेषु दर्भेषु १७ तस्य दक्षिणतोऽवस्थाय मन्त्रवान्ब्राह्मणोऽपामञ्जलिं पूरयति १८ उपरिष्टाच्चाचार्यस्य १९ प्रेक्षमाणो जपत्यागन्त्रा समगन्महीति २० ब्रह्मचर्यमागामिति वाचयति २१ को नामासीति नामधेयं पृच्छति तस्याचार्यः २२ अभिवादनीयं नामधेयं कल्पयित्वा २३ देवताश्रयं वा नक्षत्राश्रयं वा २४ गोत्राश्रयमप्येके २५ उत्सृज्यापामञ्जलिमाचार्यो दक्षिणेन पाणिना दक्षिणं पाणिं साङ्गुष्ठं गृह्णाति देवस्य ते सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति २६ अथैनं प्रदक्षिणमावर्तयति सूर्यस्यावृतमन्वावर्तस्वासाविति २७ दक्षिणेन पाणिना दक्षिणमँ समन्ववमृश्यानन्तर्हितां नाभिमभिमृशेत्प्राणानां ग्रन्थिरसीति २८ उत्सृप्य नाभिदेशमहुर इति २९ उत्सृप्य हृदयदेशं कृशन इति ३० दक्षिणेन पाणिना दक्षिणमँ समन्वालभ्य प्रजापतये त्वा परिददाम्यसाविति ३१ सव्येन सव्यं देवाय त्वा सवित्रे परिददाम्यसाविति ३२ अथैनं संप्रेष्यति ब्रह्मचार्यस्यासाविति ३३ समिधमाधेह्यपोशान कर्म कुरु मा दिवा स्वाप्सीरिति ३४ उदङ्ङग्नेरुत्सृप्य प्राङाचार्य उपविशत्युदगग्रेषु दर्भेषु ३५ प्रत्यङ्माणवको दक्षिणजान्वक्तोऽभिमुख आचार्यमुदगग्रेष्वेव दर्भेषु ३६ अथैनं त्रिः प्रदक्षिणं मुञ्जमेखलां परिहरन्वाचयतीयं दुरुक्तात्परिबाधमानेत्यृतस्य गोप्त्रीति च ३७ अथोपसीदत्यधीहि भोः सावित्रीं मे भवाननुब्रवीत्विति ३८ तस्मा अन्वाह पच्छोऽर्धर्चश ऋक्श इति ३९ महाव्याहृतीश्च विहृता ओँ कारान्ताः ४० वार्क्षं चास्मै दण्डं प्रयच्छन्वाचयति सुश्रवः सुश्रवसं मा कुर्विति ४१ अथ भैक्षं चरति ४२ मातरमेवाग्रे द्वे चान्ये सुहृदौ यावत्यो वा सन्निहिताः स्युः ४३ आचार्याय भैक्षं निवेदयते ४४ तिष्ठत्यहःशेषं वाग्यतः ४५ अस्तमिते समिधमादधात्यग्नये समिधमहार्षमिति ४६ त्रिरात्रमक्षारालवणाशी भवति ४७ तस्यान्ते सावित्रश्चरुः ४८ यथार्थम् ४९ गौर्दक्षिणा ५० १०
इति द्वितीयः प्रपाठकः