गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः ४

विकिस्रोतः तः
Jump to navigation Jump to search

2.4.1
ओं <कया नश् चित्र आ भुवत् [१] <कया त्वं न ऊत्या [२]इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
<कस् तम् इन्द्र त्वावसुम् [३] इति बार्हतः प्रगाथस्
तस्योपरिष्टाद् ब्राह्मणम्
<सद्यो ह जातो वृषभः कनीनः [४]इत्य् उक्थमुखम्
<एवा त्वाम् इन्द्र वज्रिन्न् अत्र [५]इति पर्यासः
<उशन्नु षु णः सुमना उपाके [६]इति यजति
एताम् एव तद् देवतां यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते [एद्. सेएम्स् तो गिवे एवाभिमृशन्त]
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १ ॥
2.4.2
<तं वो दस्मम् ऋतीषहं [७] <तत् त्वा यामि सुवीर्यम् [८] इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
<उद् उ त्ये मधुमत्तमा गिरः [९]इति बार्हतः प्रगाथः
पशवो वै प्रगाथः
पशवः स्वरः
पशूनाम् आप्त्यै
अतो मध्यं वै सर्वेषां छन्दसां बृहती
मध्यं माध्यंदिनं सवनानाम्
तन् मध्येनैव मध्यं समर्धयति
<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [१०]इत्य् उक्थमुखम्
<उद् उ ब्रह्माण्य् ऐरत श्रवस्या [११]इति पर्यासः
<एवेद् इन्द्रं वृषणं वज्रबाहुम् [१२] इति परिदधाति
<वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः [१३]इति
अन्नं वा अर्कः
अन्नाद्यम् एवास्मै तत् परिदधाति
<स न स्तुतो वीरवद् धातु गोमत् [१४]इति
अन्नं वा अर्कःइति
प्रजां चैवास्मै तत् पशूंश् चाशास्ते
<यूयं पात स्वस्तिभिः सदा नः [१५]इति स्वस्तिमती रूपसमृद्धा
एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत् कर्म क्रियमाणम् ऋग्यजुर्वाभिवदति
स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति
<ऋजीषी वज्री वृषभस् तुराषाट् [१६]इति यजति [एद्. ऋजिषी, चोर्रेच्तेद् प्. ३०२]
एताम् एव तद् देवतां यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ २ ॥
2.4.3
<तरोभिर् वो विदद्वसुम् [१७]<तरणिर् इत् सिषासति [१८]इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ
<उद् इन् न्व् अस्य रिच्यते [१९]इति बार्हतः प्रगाथस्
तस्योक्तं ब्राह्मणम्
<भूय इद् वावृधे वीर्याय [२०]इत्य् उक्थमुखम्
<इमाम् ऊ षु प्रभृतिं सातये धाः [२१]इति पर्यासस्
तस्य दशमीम् उद्धरति
घोरस्य वा आङ्गिरसस्यैतद् आर्षं नेद् यज्ञं निर्दहेच् छस्यमानम्
<पिबा वर्धस्व तव घा सुतासः [२२]इति यजति
एताम् एव तद् देवतां यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ ३ ॥
2.4.4
अथाध्वर्यो शंसावोम् इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते
पञ्चपदा पङ्क्तिः
पाङ्क्तो यज्ञः
सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति
ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम्
सर्वे समवतीभिः परिदधति
तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्कः
अन्तेनैवान्तं परिदधति
सर्वे मद्वतीभिर् यजन्ति
तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
यद् यज्ञे ऽभिरूपं तत् समृद्धम्
सर्वे ऽनुवषट्कुर्वन्ति
स्विष्टकृत्वानुवषट्कारः
नेत् स्विकृत अन्तरयामेति
अन्तरिक्षलोको माध्यंदिनं सवनम्
तस्य पञ्च दिशः
पञ्चोक्थानि माध्यंदिनस्य सवनस्य
स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ ४ ॥
2.4.5
अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄन् एव तेन प्रीणाति
उपांशु पात्नीवतस्याग्नीध्रो यजति
रेतो वै पात्नीवतः
उपांश्व् इव वै रेतः सिच्यते
तन् नानुवषट्करोति नेद् रेतः सिक्तं संस्थापयानीति
असंस्थितम् इव वै रेतः सिक्तं समृद्धम्
संस्था वा एषा यद् अनुवषट्कारस्
तस्मान् नानुवषट्करोति
नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति
पत्नीभाजनं वै नेष्टा
अग्नीत् पत्नीषु रेतो धत्ते
रेतसः सिक्ताः प्रजाः प्रजायन्ते
प्रजानां प्रजननाय
प्रजावान् प्रजनयिष्णुर् भवति
प्रजात्यै
प्रजायते प्रजया पशुभिर् य एवं वेद ॥ ५ ॥
2.4.6
अथ शाकलाञ् जुह्वति
तद् यथाहिर् जीर्णायास् त्वचो निर्मुच्येतेषीका वा मुञ्जाद् एवं हैवैते सर्वस्मात् पाप्मनः संप्रमुच्यन्ते ये शाकलाञ् जुह्वति
द्रोणकलशे धाना भवन्ति
तासां हस्तैर् आदधति
पशवो वै धानास्
ता आहवनीयस्य भस्मान्ते निवपन्ति
योनिर् वै पशूनाम् आहवनीयः
स्व एवैनांस् तद् गोष्ठे निरपक्रमे निदधति
अथ सव्यावृतो ऽप्सु सोमान् आप्याययन्ति
तान् हान्तर्वेद्यां सादयन्ति
तद् धि सोमस्यायतनम्
चात्वालाद् अपरेणाध्वर्युश् चमसान् अद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति
यदा वा आपश् चौषधयश् च संगच्छन्ते ऽथ कृत्स्नः सोमः संपद्यते
ता वैष्णव्य् अर्चा निनयन्ति
यज्ञो वै विष्णुः
यज्ञ एवैनम् अन्ततः प्रतिष्ठापयति
अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद् भक्षेण दैवं भक्षम् अन्तर्दधति ॥ ६ ॥
2.4.7
पूतिर् वा एषो ऽमुष्मिंल् लोके ऽध्वर्युं च यजमानं चाभिवहति
तद् यद् एनं दध्नानभिहुत्यावभृथम् उपहरेयुर् यथा कुणपं वात्य् एवम् एवैनं तत् करोति
अथ यद् एनं दध्नाभिहुत्यावभृथम् उपहरन्ति सर्वम् एवैनं सयोनिं संतनुते
समृद्धिं संभरन्ति
<अभूद् देवः सविता वन्द्यो नु नः [२३]इति जुहोति
सर्वम् एवैनं सपर्वाणं संभरति [एद्. अवैनं]
तिसृभिस्
त्रिवृद् धि यज्ञः
द्रप्सवतीभिर् अभिजुहोति
सर्वम् एवैनं सर्वाङ्गं संभरति
सौमीभिर् अभिजुहोति
सर्वम् एवैनं सात्मानं संभरति
पञ्चभिर् अभिजुहोति
पाङ्क्तो यज्ञः
यज्ञम् एवावरुन्द्धे
पाङ्क्तः पुरुषः
पुरुषम् एवाप्नोति
पाङ्क्ताः पशवः
पशुष्व् एव प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ ७ ॥
2.4.8
अग्निर् वाव यम इयं यमी
कुसीदं वा एतद् यमस्य यजमान आदत्ते यद् ओषधीभिर् वेदिं स्तृणाति
तां यद् अनुपोष्य प्रयायाद् यातयेरन्न् एनम् अमुष्मिंल् लोके
यमे यत् कुसीदम् <अपमित्यम् अप्रतीत्तम् [२४] इति वेदिम् उपोषति
इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकम् एति
<विश्वलोप विश्वदावस्य त्वासञ् जुहोमि [२५]इत्य् आह होताद्वा
यजमानस्यापराभावाय
यद् उ मिश्रम् इव चरन्त्य् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात्
एष ह वा अग्निर् वैश्वानरो यत् प्रदाव्यः
स्वस्याम् एवैनं तद् योन्यां सादयति ॥ ८ ॥
2.4.9
अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षम् उपोषेत्
यदि दहति पुण्यसमं भवति
यति न दहति पापसमं भवति
एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रम् उपयन्ति
यो ह वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारम् एव विद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते
अग्निर् वा उपद्रष्टा
वायुर् वा उपश्रोता
आदित्यो वा अनुख्याता
तान् य एवंविद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते
<अयं नो नभसस् पतिः [२६]इत्य् आह
अग्निर् वै नभसस् पतिः
अग्निम् एव तद् आहैतं नो गोपायेति
<स त्वं नो नभसस् पतिः [२७]इत्य् आह
वायुर् वै नभसस् पतिः
वायुम् एव तद् आहैतं नो गोपायेति
<देव संस्फान [२८]इत्य् आह
आदित्यो वै देवः संस्फानः
आदित्यम् एव तद् आहैतं नो गोपायेति
<अयं ते योनिः [२९]इत्य् अरण्योर् अग्निं समारोपयेत्
तद् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत्
पुनराधेयः स्याद् इति
या ते अग्ने यज्ञिया तनूस् तया मे ह्य् आरोह तया मे ह्य् आविश
अयं ते योनिर् इत्य् आत्मन्न् अग्नीन् समारोपयेत्
एष ह वा अग्नेर् योनिः
स्वस्याम् एवैनं तद् योन्यां सादयति ॥ ९ ॥
2.4.10
यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकताम् अश्नुते य एवं वेद
यो ह वा एष तपत्य् एषो ऽग्निष्टोम एष साह्नस्
तं सहैवाह्ना संस्थापयेयुः
साह्नो वै नामैषः
तेनासंत्वरमाणाश् चरेयुः
यद् ध वा इदं पूर्वयोः सवनयोर् असंत्वरमाणाश् चरन्ति तस्माद् धेदं प्राच्यो ग्रामता बहुलाविष्टाः
अथ यद् धेदं तृतीयसवने संत्वरमाणाश् चरन्ति तस्माद् धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति
यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने
एवम् उ ह यजमानो ऽप्रमायुको भवति
तेनासंत्वरमाणाश् चरेयुः
यदा वा एष प्रातर् उदेत्य् अथ मन्द्रतमं तपति
तस्मान् मन्द्रतमया वाचा प्रातःसवने शंसेत्
अथ यदाभ्येत्य् अथ बलीयस् तपति
तस्माद् बलीयस्या वाचा माध्यंदिने सवने शंसेत्
अथो यदाभितराम् एत्य् अथो बलिष्ठतमं तपति
तस्माद् बलिष्ठतमया वाचा तृतीयसवने शंसेत्
एवं शंसेद् यदि वाच ईशीत
वाग् घि शस्त्रम्
यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत
एतत् सुशस्ततरम् इव भवति
स वा एष न कदा चनास्तम् अयति नोदयति
तद् यद् एनं पश्चाद् अस्तम् अयतीति मन्यन्ते ऽह्न एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते
अहर् एवाधस्तात् कृणुते रात्रीं परस्तात्
स वा एष न कदा चनास्तम् अयति नोदयति
तद् यद् एनं पुरस्ताद् उदयतीति मन्यते रात्रेर् एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते
रात्रिम् एवाधस्तात् कृणुते ऽहः परस्तात्
स वा एष न कदा चनास्तम् अयति नोदयति
न ह वै कदा चन निम्रुचति
एतस्य ह सायुज्यं सलोकताम् अश्नुते य एवं वेद ॥ १० ॥
2.4.11
अथात एकाहस्यैव तृतीयसवनम्
देवासुरा वा एषु लोकेषु समयतन्त
ते देवा असुरान् अभ्यजयम्
ते जिता अहोरात्रयोः संधिं समभ्यवागुः
स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः
कश् चाहं चेमान् असुरान् अभ्युत्थास्यामहा इति
अहं चेत्य् अग्निर् अब्रवीत्
अहं चेति वरुणः
अहं चेति बृहस्पतिः
अहं चेति विष्णुस्
तान् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुः
यद् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुस् तस्माद् उत्था
अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद
सो ऽग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय
यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय तस्माद् आग्नेयीभिर् उक्थानि प्रणयन्ति
यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय तस्मात् साकम् अश्वम्
यत् पञ्च देवता अभ्युत्तस्थुस् तस्मात् पञ्च देवता उक्थे शस्यन्ते
या वाक् सो ऽग्निः
यः प्राणः स वरुणः
यन् मनः स इन्द्रः
यच् चक्षुः स बृहस्पतिः
यच् छ्रोत्रं स विष्णुः
एते ह वा एतान् पञ्चभिः प्राणैः समीर्योदस्थापयन् [एद्. समीर्युदस्थापयन्, चोर्र्. ড়त्यल्]
तस्माद् उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ ११ ॥
2.4.12
प्रजापतिर् ह्य् एतेभ्यः पञ्चभ्यः प्राणेभ्यो ऽन्यान् देवान् ससृजे
यद् उ चेदं किं च पाङ्क्तम्
तत् सृष्ट्वा व्याज्वलयत्
ते होचुर् देवा म्लानो ऽयं पिता मयोभूः [एद्. पितामयो ऽभूः, चोर्र्. ড়त्यल्]
पुनर् इमं समीर्योत्थापयामेति
स ह सत्त्वम् आख्यायाभ्युपतिष्ठते
यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते
यो वै प्रजापतिः स यज्ञः
स एतैर् एव पञ्चभिः प्राणैः समीर्योत्थापितः
ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन्
ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ १२ ॥
2.4.13
तद् आहुर् यद् द्वयोर् देवतयो स्तुवत इन्द्राग्न्योर् इत्य् अथ कस्माद् भूयिष्ठा देवता उक्थे शस्यन्त इति [एद्. भूयिष्ठो, चोर्र्. ড়त्यल्]
अन्तो वा आग्निमारुतम् अन्तर् उक्थान्य् अन्त आश्विनम्
कनीयसीषु देवतासु स्तुवते तिष्ठेति
अथ कस्माद् भूयिष्ठो देवता उक्थे शस्यन्त इति
द्वे द्वे उक्थमुखे भवतस् तद् यद् द्वे द्वे ॥ १३ ॥
2.4.14
अथ यद् ऐन्द्रावारुणं मैत्रावरुस्योक्थं भवत्य् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्य् ऐन्द्रावैष्णावम् अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकम् ऐन्द्रावारुणं भवति
द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकम् ऐन्द्राबार्हस्पत्यं भवति
द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकम् ऐन्द्रावैष्णवं भवति
द्वे द्वे उक्थमुखे भवतस्
तद् यद् द्वे द्वे ॥ १४ ॥
2.4.15
अथ यद् ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति<इन्द्रावरुणा सुतपाव् इमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [शौ.सं. ७.५८.१, ऋ. ६.६८.१०</ref>इत्य् ऋचाभ्यनूक्तम्
मद्वद् धि तृतीयसवनम्
<एह्य् ऊ षु ब्रवाणि ते [३०]<आग्निर् अगामि भारतः [३१]इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
<चर्षणीधृतं मघवानम् उक्थ्यम् [३२] इत्य् उक्थमुखम्
तस्योपरिष्टाद् ब्राह्मणम्
<अस्तभ्नाद् द्याम् असुरो विश्ववेदाः [३३]इति वारुणं सांशंसिकम् [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद् प्. ३०२]
अहं चेति वरुणो ऽब्रवीत्
देवतयोः संशंसायान् अतिशंसाय
<इन्द्रावरुणा युवम् अध्वराय नः [३४]इति पर्यास ऐन्द्रावरुणे
ऐन्द्रावरुणम् अस्यैतन् नित्यम् उक्थम्
तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
विजित्या एव
अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
सैकपादिनी भवति
एकपादिन्या होता परिदधाति
यत्र होतुर् होत्रकाणां युञ्जन्ति तत् समृद्धम्
तद् वै खल्व् <आ वां राजानाव् अध्वरे ववृत्याम् [३५] इति [एद्. आवां, चोर्रेच्तेद् प्. ३०३]
एवम् एव केवलपर्यासं कुर्यात् केवलसूक्तम्
केवलसूक्तम् एवोत्तरयोर् भवति
<इन्द्रावरुणा मधुमत्तमस्य [३६]इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति न ह्य् अनाराशंसाः सीदन्ति ॥ १५ ॥
2.4.16
अथ यद् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति<इन्द्रश् च सोमं पिबतं बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू [३७] इत्य् ऋचाभ्यनूक्तम्
मद्वद् धि तृतीयसवनम्
<वयम् उ त्वाम् अपूर्व्य [३८] <यो न इदमिदं पुरा [३९]इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
<प्र मंहिष्ठाय बृहते बृहद्रये [४०]इत्य् उक्थमुखम्
ऐन्द्राजागतम्
जागताः पशवः
पशूनाम् आप्त्यै
जागतम् उ वै तृतीयसवनम्
तृतीयसवनस्य रूपम्
<उदप्रुतो न वयो रक्षमाणाः [४१]इति बार्हस्पत्यं सांशंसिकम्
अहं चेति बृहस्पतिर् अब्रवीत्
देवतयोः संशंसायनतिशंसाय
<अच्छा म इन्द्रं मतयः स्वर्विदः [४२]इति पर्यास ऐन्द्राबार्हस्पत्यः
ऐन्द्राबार्हस्पत्यम् अस्यैतन् नित्यम् उक्थम्
तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
विजित्या एव
अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
<बृहस्पतिर् नः परि पातु पश्चात् [४३]इत्य् ऐन्द्राबार्हस्पत्या परिदधाति
इन्द्राबृहस्पत्योर् एव यज्ञं प्रतिष्ठापयति
<उतोत्तरस्माद् अधराद् अघायोर् इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [४४]इति
सर्वाभ्य एव दिग्भ्य आशिषम् आशास्ते नार्त्वी
यं कामं कामयते सो ऽस्मै कामः समृध्यते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति [एद्. एतस्या, चोर्र्. ড়त्यल्॑ एद्. ब्राह्मणाच्छंय्]
<बृहस्पते युवम् इन्द्रश् च वस्वः [४५]इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १६ ॥
2.4.17
अथ यद् ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति<इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना [४६]इत्य् ऋचाभ्यनूक्तम् [एद्. अच्छावाकस्योक्तं]
मद्वद् धि तृतीयसवनम्
<अधा हीन्द्र गिर्वणः [४७]<इयं त इन्द्र गिर्वणः [४८]इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ
<ऋतुर् जनित्री तस्या अपस् परि [४९]इत्य् उक्थमुखम्
तस्योक्तं ब्राह्मणम्
<नू मर्तो दयते सनिष्यन् [५०]इति वैष्णवं सांशंसिकम् [एद्. सांशंसिकंम्]
अहं चेति विष्णुर् अब्रवीत्
देवतयोः संशंसायानतिशंसाय
<सं वां कर्मणा सम् इषा हिनोमि [५१]इति पर्यास ऐन्द्रावैष्णवः
ऐन्द्रावैष्णवम् अस्यैतन् नित्यम् उक्थम् [एद्. उखं]
तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
विजित्या एव
अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
<उभा जिग्यथुर् न परा जयेथे [५२] इत्य् ऐन्द्रावैष्णव्यर्चा परिदधाति
इन्द्राविष्णोर् एव यज्ञं प्रतिष्ठापयति
<इन्द्राविष्णू पिबतं मध्वो अस्य [५३]इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १७ ॥
2.4.18
अथाध्वर्यो शंशंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते
चतस्रो वै दिशः
दिक्षु तत् प्रतितिष्ठन्ते
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास्
तस्माच् चतुः
सर्वे त्रैष्टुभं जागतानि शंसन्ति
जागतं हि तृतीयसवनम्
अथ हैतत् त्रैष्टुभानि
अप्रतिभूतम् इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम्
धीतरसं वा एतत् सवनं यत् तृतीयसवनम्
अथ हैतद् अधीतरसं शुक्रियं छन्दो यत् त्रिष्टुब् अयातयाम
सवनस्यैव तत् सरसतायै
सर्वे समवतीभिः परिदधति
तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्को ऽन्तः सजाया उ ह वा अवैनाय
अन्तेनैवान्तं परिदधति
सर्वे मद्वतीभिर् यजन्ति
तद् यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
यद् यज्ञे ऽभिरूपं तत् समृद्धम्
सर्वे ऽनुवषट्कुर्वन्ति
स्विष्टकृत्वानुवषट्कारः
नेत् स्विष्टकृत अन्तरयामेति
असौ वै लोकस् तृतीयसवनम्
तस्य पञ्च दिशः
पञ्चोक्थानि तृतीयसवनस्य
स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोति
ब्तद् यद् एषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल् लोकान् ऋध्नोतीमांल् लोकान् ऋध्नोतीति ॥ १८ ॥
2.4.19
तद् आहुः किं षोडशिनः षोडशित्वम्
षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिर् अक्षरैर् आदत्ते
द्वे वा अक्षरे अतिरिच्येते षोडशिनो ऽनुष्टुभम् अभिसंपन्नस्य
वाचो वा एतौ स्तनौ
सत्यानृते वाव ते
अवत्य् एनं सत्यं नैनम् अनृतं हिनस्ति य एवं वेद य एवं वेद ॥ १९ ॥ [एद्. वेद य एवं वेइ]

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः ॥

  1. ऋ. ४.३१.१, शौ.सं. २०.१२४.१
  2. ऋ. ८.९३.१९
  3. ऋ. ७.३२.१४
  4. ऋ. ३.४८.१
  5. ऋ. ४.१९.१
  6. ऋ. ४.२०.४
  7. ऋ. ८.८८.१, शौ.सं. २०.९.१
  8. ऋ. ८.३.९, शौ.सं. २०.९.४
  9. ऋ. ८.३.१५, शौ.सं. २०.५९.१
  10. ऋ. ३.३४.१, शौ.सं. २०.११.१
  11. ऋ. ७.२३.१, शौ.सं. २०.१२.१
  12. ऋ. ७.२३.६अ, शौ.सं. २०.१२.६अ
  13. ऋ. ७.२६.६ब्, शौ.सं. २०.१२.६ब्
  14. ऋ. ७.२६.६च्, शौ.सं. २०.१२.६च्
  15. ऋ. ७.२६.६द्, शौ.सं. २०.१२.६द्
  16. ऋ. ५.४०.४, शौ.सं. २०.१२.७
  17. ऋ. ८.६६.१
  18. ऋ. ७.३२.२०
  19. ऋ. ७.३२.१२, शौ.सं. २०.५९.३
  20. ऋ. ६.३०.१
  21. ऋ. ३.३६.१
  22. ऋ. ३.३६.३
  23. ऋ. ४.५४.१
  24. पै.सं. १६.४९.१०, शौ.सं. ६.११७.१, Vऐत्ष् २४.१५
  25. तै.सं. ३.३.८.२, Vऐत्ष् २४.१६
  26. पै.सं. १९.१६.१७, शौ.सं. ६.७९.१, च्f. तै.सं. ३.३.८.५
  27. च्f. तै.सं. ३.३.८.६
  28. तै.सं. ३.३.८.६
  29. पै.सं. ३.३४.१, शौ.सं. ३.२०.१
  30. ऋ. ६.१६.१६
  31. ऋ. ६.१६.१९
  32. ऋ. ३.५१.१
  33. ऋ. ८.४२.१
  34. ऋ. ७.८२.१
  35. ऋ. ७.८४.१
  36. पै.सं. २०.७.६, शौ.सं. ७.५८.२, ऋ. ६.६८.११
  37. ऋ. ४.५०.१०
  38. ऋ. ८.२१.१, शौ.सं. २०.१४.१/२०.६२.१
  39. ऋ. ८.२१.९, शौ.सं. २०.१४.३/२०.६२.३, Vऐत्ष् २५.३
  40. ऋ. १.५७.१, शौ.सं. २०.१५.१
  41. ऋ. १०.६८.१, शौ.सं. २०.१६.१
  42. ऋ. १०.४३.१, शौ.सं. २०.१७.१
  43. ऋ. १०.४२/४३/४४.११अ, पै.सं. १५.११.१/१६.८.११अ, शौ.सं. ७.५१.१/२०.१७.११/२०.८९.११/२०.९४.११अ
  44. ऋ. १०.४२/४३/४४.११ब्च्द्, पै.सं. १५.११.१/१६.८.११ब्च्द्, शौ.सं. ७.५१.१/२०.१७.११/२०.८९.११/२०.९४.११ब्च्द्
  45. ऋ. ७.९७.१०
  46. ऋ. ६.६९.३
  47. ऋ. ८.९८.७
  48. ऋ. ८.१३.४
  49. ऋ. २.१३.१
  50. ऋ. ७.१००.१
  51. ऋ. ६.६९.१
  52. ऋ. ६.६९.८, पै.सं. २०.१६.३, शौ.सं. ७.४४.१
  53. ऋ. ६.६९.७